Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 47
________________ तिलकमञ्जरी। दिशतु विरतिलाभानन्तरं पार्श्वसर्पन्नमि-विनमिकृपाणोत्सङ्गदृश्यानलक्ष्मीः । त्रिजगदपगतापत् कर्तुमात्तान्यरूपद्वय इव भगवान् वः सम्पदं नाभिसूनुः ॥ ३॥ [मालिनी] टिप्पनकम्-तथापरस्य श्लोकद्वयस्य कियत्पदन्याख्या क्रियते । विरतिलाभः सर्वसावद्ययोगनिवृत्तिप्राप्तिः । पार्श्वसर्पनमि-विन मिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः पार्श्वयोरुभयपक्षयोः सर्पन्तौ चलन्तौ नमि-विनम्योराजपुत्रयोः कृपाणौ खड्गौ तयोरुत्सङ्गे दृश्ये दर्शनयोग्ये अङ्गालक्ष्म्यौ मूर्तिलक्षणे यस्य स तथोक्तः, अत्र च बहुव्रीही समासे नदीलक्षणः को न भवति, सत्रैकवचनान्तस्यैव लक्ष्मीशब्दस्य कविधानात् । एतेन भगवतो रूपनयं जातमिति दर्शितम् , एतदुस्प्रेक्षते कविः-आत्तान्यरूपद्वय इव गृहीतापरमूर्तिद्विवय इव । किं कर्तुम् ? त्रिजगत् निभुषनम्, भपगतापत् निवृत्तविपत्तिकं कर्तुम् । तच शरीरत्रयेण सुखेनैवाऽपायरहितं क्रियते रक्षणात् । [खपदं ] स्वं पदमात्मीयं स्थानम्, मुक्तिमित्यर्थः, सम्पदं स्वर्गापवर्गसमृद्धिम् ॥ ३॥ परागाभिधा विवृतिः-तीर्थप्रवर्तकेषु प्राथम्याद् अतिप्रीतिविषयत्वेन पुनरपि भगवन्तमादिनाथमेव पद्यद्वयेन नाथति-दिशस्विति । 'विरतिलाभानन्तर पार्श्वसर्पञ्चमि-विनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः, त्रिजगत् अपगतापत् कर्तुम् , आत्तान्यरूपद्वय इव भगवान् नाभिसूनुः, वः सम्पदं दिशतु' इत्यन्वयः । विरतिलाभानन्तरं विरतिः सम्यग्ज्ञानपूर्विका सर्वसावनिवृत्तिः, तस्या लाभः प्राप्तिः, तदनन्तरम् , प्रव्रज्याग्रहणात् पश्चादित्यर्थः । नमि-विनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः प्रवासात् प्रत्यावृत्य, पार्श्वयोः-भगवतः पक्षयोः, सर्पतोः-सेवार्थ भ्रमतोः, नमि-विनम्योः-निजपौत्रयोः, कृपाणौ खगौ, तयोरुत्सङ्गे मध्ये, दृश्ये प्रतिबिम्बात्मना दर्शनीये अङ्गलक्ष्म्यौ शरीरावयव-तत्समवेतश्रियो यस्य सः । अत एव आत्तान्यरूपद्वय इव आत्तं गृहीतम् , अन्यदपि रूपद्वयं येन स इवेत्युत्प्रेक्षा । किं कर्तुम् ? त्रिजगत् त्रयाणां जगतां समाहारम् , न त्वेकं द्विकं वा जगत् , अपगताऽऽपत् अपहारसम्भावनया खयमपसृतापत् , कर्तुं सम्पादयितुम् । एकदैकेन शरीरेणैकस्माज्जगतोऽपसारिताप्यापद् अन्यजगद् आश्रित्य स्थातुं शक्नोति, शरीरत्रयेण तु युगपदेव जगत्रयाद् अपसारयितुं शक्यतेसपसारणावश्यम्भावेन स्वयमेवापसृतेति 'अपगतापत्' इत्यनेन ध्वनितम् । अस्माकमनेकैरपि शरीरैरसाध्य एकैकजगदापदपगमः कथमेकैकेनापि तस्य शरीरेण साध्य इत्याह-भगवान् भगो माहात्म्यमैश्वर्य चास्त्यस्मिन्नसौ । नाभिसूनुः श्रीनाभिनृपनन्दनः । सम्पदं लौकिकालौकिकसमृद्धिम् , सम्यग् पदं वस्तु ज्ञानादिरूपम् , स्थानं मोक्षरूपं वा, 'खम्यदम्' इति पाठे खम् आत्मीयं पदं स्थानं मोक्षरूपम् । वः युष्मभ्यम् । दिशतु ददातु । अत्रेमे योगशास्त्रप्रथमप्रकाशवृत्तिगताः श्लोकाः-- "जलेऽथावधिना खामी स्वःसुखान्युत्तरोत्तरम् । अनुत्तरस्वर्गसुखं भुक्तपूर्व खयं च यत् ॥ १९ ॥ भूयोऽप्यचिन्तयदिदं विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो वेत्ति नात्महितं जनः ॥२०॥ अहो संसारकल्पेऽस्मिन् जीवाः कुर्वन्ति कर्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिरी क्रियाम् ॥२१॥ इत्यासीन्मनसा यावद् विभुर्भवपरामुखः । तावल्लोकान्तिका देवा एयुः सारखतादयः ॥ २२॥ बद्धैरजलिभिमूनिं कृत्तान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् खामिस्तीर्थ प्रवर्तय ॥ २३ ॥ गतेषु तेषु भगवानुद्यानानन्दनाभिधातू । व्यावृत्य गत्वा नगरीमाजुहावावनीपतीन् ॥ २४ ॥ राज्येऽभ्यषिश्चद् भरतं ज्येष्ठ पुत्रं ततो विभुः । बाहुबल्यादिपुत्राणां विभज्य विषयान् ददौ ॥ २५ ॥ सांवत्सरिकदानेन ततोऽतपीत् तथा भुवम् । देहीति दीनवाक्यश्च कश्चिदासीद् यथा नहि ॥ २६ ॥ अथासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोश्चक्रुर्गिरेरिव पयोमुचः ॥२७॥ माल्याङ्गरागैर्देवेशन्यस्तैर्वासितविष्टपैः । खयशोभिरिवाशोभि परितः परमेश्वरः ॥ २८ ॥ विचित्रैरर्चितो वस्त्रै रत्नलौश्व भूषणैः । विभुर्बभासे सन्ध्याम्रधिष्णैरिव मरुत्पथः ॥ २९ ॥ दिवि दुन्दुभिनादं च कारयामास वासवः । जगतो दददानन्दमसम्मान्तमिवात्मनि ॥ ३० ॥ सुरासुरनरोद्वात्यामारोहच्छिनिकां त्रिभुः । ऊर्ध्वलोकगतेर्माग जगतो दर्शयन्निव ॥३१॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196