Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
शेषे सेवाविशेषं ये न जानन्ति द्विजिह्वताम् ।
यान्तो हीनकुलाः किं ते न लज्जन्ते ? मनीषिणाम् ॥ १० ॥ [ पध्या ]
७
टिप्पनकम् - शे तालव्यशकारे, षे मूर्धन्यपकारे, से दन्त्यसकारे, वा समुच्चये, विशेषं भेदम्, ये नराः, न जानन्ति न बुध्यन्ते, ते किं न लज्जन्ते लज्जितव्यमेव तैर्भवति । केषाम् ? मनीषिणां विदुषाम् । किं कुर्वन्तः ? यान्तः गच्छन्तः । काम् ? द्विजिह्वतां दुर्जनतामग्रे पृष्ठतो गुणदोषग्राहित्यात् । कीदृशाः ? हीनकुलाः नीचगोत्राः, इत्येको ऽर्थः । अपरव - शेषे नागराजे, सेवाविशेषं विशिष्टाराधनम्, ये न जानन्ति, अहीनाम् इन:- स्वामी, नागराजः, तस्य कुलं गोत्रं येषां ते तथोक्ताः [अहीनकुलाः] नागराजकुलजाताः, ते किं न लजन्ते ? लज्जन्त एव मनीषिणाम्, किं कुर्वन्त ? यान्तः, काम् ? द्विजिह्नतां सर्पताम्, अवश्यमेव ये नागराजकुले जातास्ते नागराजसेवां जानन्ति । यद्वा ही विस्मये, ते नकुलाः किं न लजन्ते ? लजन्त एव, केषाम् ? मनीषिणां बुद्धिमताम्, किं कुर्वन्तः ? यान्तः, काम? द्विजितां सर्पताम्, वयं सर्पा इति भणन्तः ॥ १० ॥
कुर्वन् सर्पतामायाति सोऽनायो वार्यः इत्यन्वयः । यो निर्दोषे निरुक्तदोषशून्येऽपि, काव्याध्वनि काव्यरूपे परमपदप्रस्थान
मागे, सर्पतां गच्छताम् काव्यार्थरसमास्वादयतां सहृदयानामित्यर्थः, विघ्नं मृपादोषोद्भावनरूपं रसास्वादोपद्रवम्, कुर्वन् विदधानः, सर्पतां सर्पत्वम्, मार्गगमनविघातकतया सर्पसाम्यमित्यर्थः, आयाति प्राप्नोति सः, अनार्यः निरुक्तलक्षणेन दुर्जनः, वार्यः विभीषया दूरतः परिहर्तव्यः, उपेक्षणीयो या । यथा चौरभयादिरूपदोषरहितेऽपि पथि स्वपुरस्तादुपसृत्य विभीषा-ऽपशकुनाभ्यां गमनमवहन्धानमपि भुजङ्गममवधूय प्रगल्भः पथिकः प्रतिष्टते, तथैव निरुक्तदुर्जनं वर्जयित्वा काव्यार्थी रसनीय एव, न तु जातु निरसनीय इति भावः ।
अत्र 'वार्योsनार्यः' इत्यत्र छेकानुप्रासः, 'सर्पताम्' इत्यत्र लेकानुप्रास-रूपकसङ्करच बोध्यः । " अयनं सरणिर्मागोऽध्वा पन्था निगमः सृतिः" इत्यभिधानचिन्तामणिः ॥ ९ ॥
परागाभिधा विवृतिः - निरुतदौर्जन्यमतीव दुष्कुलीनताममुष्य पुण्यद् उद्वेललजोदधौ मज्जनाय मतिमज्जनाये प्रभवतीत्याह - शेषे सेवाविशेषमिति । 'ये शेषे सेवाविशेषं न जानन्ति ते द्विजिह्वतां यान्तो हीनकुला मनीषिणां किं न लजन्ते ?" इत्यन्वयः । ये शेषे निरुक्तदुर्जनादन्यस्मिन् सजने इत्यर्थः, सेवाविशेषं विशिष्ट सेवा विधिम्, न जानन्ति, प्रत्युत ते द्विजिह्वतां द्वे - समक्षे गुणोचारणात् परोक्षे दोषोचारणाञ्च तमेकमेव प्रति द्विविधे, जिन्हें यस्य तत्ताम् यान्तः प्राप्नुवन्तः, अत एव हीनकुलाः नीचकुलाः, मनीषिणां विवेकिनाम्, 'मध्ये' इति शेषः । किं न लज्जन्ते ? लजन्त एवेति काकाsssर्थः, इति प्रकृतानुसारिणी व्याख्या | अनुरणनात्मिका व्याख्या तु ये द्विजिहतां भुजङ्गलक्षणभूतां जिह्वाद्वयवत्साम्, यान्तः धारयन्तः, अहीन कुलाः अहीनां भुजङ्गानाम्, इनः श्रेष्ठः, भुजङ्गराजः, तत्कुलोत्पन्नाः, शेषे तदाख्यभुजङ्गराजे, सेवाविशेषं विशिष्ट सेवा प्रकारम्, न जानन्ति ते मनीषिणाम् उचितानुचितविवेकिनां मध्ये, किं न लज्जन्ते ? लज्जन्तं एवेत्यर्थः, 'पितरि शुश्रूषितव्यम्' इत्याद्यनुशासन सिद्धपि प्रादिभक्तेरनतिक्रमणीयतया तदनभिज्ञताया लज्जावहत्वात् । अथवा हीशब्दस्य विस्मयार्थकतया नकुलाः भुजङ्गघातिनो बिलेशया जन्तुभेदाः, द्विजिह्नतां भुजङ्गतारूपां स्वदुर्बलजीवाश्रितजातिम् यान्ति 'वयं सर्पाः' इति स्वस्मिन्नारोपयन्तीति विस्मयः, लोकानां स्वभावत उच्चाभिलाषित्वात् तस्मात् तथाऽऽचरन्तस्ते मनीषिणां लोकाभिलाषक्रमाभिज्ञानाम्, मध्ये किं न लज्जन्ते ? लजन्त एवेत्यर्थः । यद्वा शे तालव्यशकारे, वे मूर्धन्यषकारे, से दन्त्यसकारे, वा समुचये, विशेषं तालुस्थान- मूर्धस्थान- दन्तस्थानोच्चार्यमाणत्वादिरूपं ये न जानन्ति, यहा “शश्च सीनि निगद्यते” इत्येकाक्षरकोशात् शं-सीमानं मर्यादाम्, इष्यति - गच्छति प्राप्नोतीत्यर्थः, न त्वतिक्रामतीति शेषः, समर्याद इत्यर्थः, तस्मिन् से "सः कोपः " इलेकाक्षर कोशात् कोपे, वा एव, विशेषः, न तु निर्मर्यादे तस्यानर्थहेतुत्वात् तं ये न जानन्ति, यद्वा “शयने शः समाख्यातः" इत्येकाक्षरकोषात् शे शयने, शयनसमय इत्यर्थः, षे श्रेष्ठे पित्रादाँ “षः कीर्तितो बुधैः श्रेष्टे” इलेकाक्षरकोशात्, सेवाविशेषं ये न जानन्ति, यहा शे शकारे “मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः । सोऽयमनूढो भ्राता राज्ञः श्यालः शकार इत्युक्तः" इति साहित्यदर्पणोक्ते विनैवोद्वाहं राज्ञोपभोग्यायाः स्त्रिया आतार, वे श्रेष्ठे च, सेवाविशेष सेवाप्रकारभेदम्, ये न जानन्ति किन्तूभयत्रैकमेव सेवाप्रकारमित्यर्थः, सर्वमन्यत् समानम् । अत्र श्लेषालङ्कारः स्फुटः ॥ १० ॥
३ तिलक
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196