Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमलरी।
अमन्दं दीव्यन्ती सरससुमनोमानसमिता, जडोलासी भजया विलसितमरुत्पक्षकृतया। कलध्वाना सम्यग्गतिरुपचिता मौक्तिकफलैर्जिनोक्ता गीराली विलसति मरालीच जगति ॥ ८॥ [शिखरिणी ]
श्रीवृद्धिचन्द्रो मतिमच्चकोरमुद्धिचन्द्रो द्युतिपूर्णचन्द्रः ।
सिद्धान्तसारोदधिवृद्धिचन्द्रश्चकास्ति भव्यामृतद्धिचन्द्रः ॥ ९ ॥ [ उपजातिः ] मान्यो मेरुरिव क्षमाधरवरो मध्यस्थतामाश्रितः, श्रद्धावन्धुरवैबुधाञ्चितपदः श्लाध्यादिगन्तस्थितिः । जैनेन्द्रागमजातचारुविभवः सौवर्णरूपः सदा, भव्यानां वितनोतु मङ्गलतति श्रीनेमिसूरीश्वरः ॥१०॥ [ शार्दूलविक्रीडितम् ]
विद्याबिलासविवृद्धये जिनवाणीमुपवर्णयति-अमन्दमित्यादिना, जिनोक्ता गीराली बागावली मराली इंसी इव जगति बिलसति । कथं तस्यास्तत्सादृश्यमित्याह--सरससुमनोमानसमिता सरसं शान्तिरसाई सुमनसा देवानां बुधानां वा मानसं हृदयम् इता गता सती, अथवा सरससुमनसां मानसैमिता अर्थाशे परिच्छिन्ना प्रमिता वा सती, अमन्दम् अत्यन्तम् , दीव्यन्ती सोतमाना, उधरन्तीत्यर्थः, स्वमनोगतानामेव स्वप्रमितार्थानामेव च शब्दानां प्रेक्षावद्भिरुच्चारणात् । पक्षे सरसं सजलं सुमनसा देवानां मानसं तनाना ख्यातं सरोवरम्, इता गता सती, अमन्दं दीन्यन्ती क्रीडन्ती । विलसितमरुत्पक्षकृतया विलसिताः प्रमुदिता मरुतो देवा यैस्तैः पक्षनयवादैः, पक्षे विलसिता उल्लसिताः, उद्गता इत्यर्थः, मरुतो वायवो याभ्यां ताभ्यां यक्षाभ्यां पतत्राभ्यां कृतया जनितया सहकृतया वा, मङ्गया जिनागमविदितया सप्तभङ्गया, पक्षे तरङ्गेण, जातानेकवचनम् , ततस्तरबॅरित्यर्थः, सप्तभङ्गायाश्च नयवादजनितत्वं नयवादसहकृतत्वं वा स्यावाद वादिनां सुप्रसिद्धम् , अजडोल्लासी अजडान् बुधजनान् उल्लासयति प्रमोदयतीति तथा, पक्षे जडोल्लासी ड-लयोरेक्येन जलोल्लासी, जलमुल्लासयति संचालयतीति तथा । कलध्वाना कलो मधुरः, पक्षेऽव्यक्तमधुरो ध्वानो ध्वनिर्वस्यां सा तथा । सम्यगतिः समीची गतिरूवंगतिः सम्यग्शानं वा यया, पक्षे समीची गतिर्गमनं यस्या सा तथा । मौक्तिकफलैः सकलकर्मक्षयादिरूपा मुक्तिः, मुक्तिरेव मौक्तिकम् , विनयादिगणपाठादिकण, मुक्तौ भवं वा मौक्तिकम् , अनन्तसुखादि, अध्यात्मादित्वादिकण , तद्रूपैः फलै:,.पक्षे मुच्यन्ते शुक्तिभिरिति मुक्ताः, मुक्ता एव मौक्तिकानि, विनयादित्वादेवेकण, तद्पैः फलैः अलङ्कारभाव चारभाव व रित्यर्थः, उपचिता समृद्धा, एकत्र तद्दातृत्वेनाऽन्यत्रालङ्करणेनाऽशनविधिना वा। अत्र लेपानुप्राणितोपमालङ्कारः ।।
"सुमनाः पण्डिते पुष्पे मालती-देवयोरपि" इति, "मरुद वात-दिवौकसोः" इति च नानार्थसाहः, "मानसं स्वान्त-सरसो" इति, “भङ्गिः पुनः । भक्तिवीच्योः" इति, "गतिहगणे शाने यात्रोपाय-दशा-ऽध्वसु" इति, चानेकार्थसङ्ग्रहः, "केशे पक्षः समूहार्थः पक्षः साध्य-विरोधयोः। बले काले पतत्रे च रुचौ पायें विकल्पिते" ॥ इति, "अव्यक्तमधुरे कलः" इति च शाश्वतः॥८॥
शमनिधानं वृद्धिचन्द्रनामानं निजगुरुगुरुं स्तौति-श्रीवृद्धिचन्द्रेत्यादिना । स्पष्टार्थकमेतत् ।। ९ ॥ . अथाऽनस्पोपकारकारिणं गुणगणगुरुं निजगुरुं स्तौति--मान्य इत्यादिना । मेरुरिव मान्यः पूज्य: । क्षमाधरबरः क्षमाधरेषु. मुनिजनेषु, पक्षे भूधरेषु, वरः श्रेष्ठः । मध्यस्थतां मध्ये विक्दमानयोरन्तराले तत्त्वनिर्णायकतया तिष्ठतीति मध्यस्थः, तत्ताम् ; पक्ष मध्ये तिर्यग्दिगपेक्षया सङ्ख्यातीतद्वीप-समुद्राणां मानवक्षेत्रस्य जम्बूद्वीपस्य च मध्यभागे कमले कणिकावत् , ऊ -ऽधोदिगपेक्षया परस्पराइसलग्नप्रान्तयष्टिशकलद्वययोजकान्तरालस्थकिलिकावच तिष्ठतीति मध्यस्थः, तत्ताम् , माश्रितः प्राप्तः। श्रद्धाबन्धुरवैबुधाञ्चितपद: श्रद्धया बन्धुरं परिपूर्ण यद् वैबुधं बुधसमूहस्तेनाञ्चिते पूजिते पदे चरणौ यस्य, पक्षे वैबुधेन देवसमूहेन अञ्चितानि स्वावस्थानेन विशेषितानि पदानि स्थानानि यस्मिन् स तथा । श्लाध्यादिगन्तस्थितिः श्लाघ्या प्रशंसनीया आदिगन्तं दिगन्तपर्यन्ता स्थितिमर्यादा, पक्षे अवस्थितिर्यस्य स तथा। जैनेन्द्रागमजातचारुविभवः जिनेन्द्रेण प्रोक्तं जैनेन्द्रम् , आगमजातं सिद्धान्तसन्दोहः, तदेव चारुविभवः शोभनं धनं यस्य, जैनेन्द्रागमजातेन चारुविभवश्वारोबृहस्पतेविंभव इव विभवो बुद्धिविभवो यस्य वा, पक्षे जैनस्य जिनसमूहस्य इन्द्राणां च, य आगमो जन्माभिषेकोत्सबवेलायामागमनम् , तेन जातश्चारुविभवः प्रतिष्ठासम्पत्तिर्यस्य स तथा । सौवर्णरूपः सुवर्णस्य समूहः सौवर्णम् , तदेव रूपमाकृतिर्यस्य, पक्षे तद्वद् रूप भास्वररूपं यस्य स तथा । श्रीनेमिसूरीश्वरो भव्यानां मङ्गालतति कल्याणपरम्परां चितनोतु विस्तारयतु । अत्र श्लेषानुप्राणित उपमालङ्कारः ।।
"स्थितिः स्त्रियामवस्थाने मर्यादायां च सीमनि" । इति मेदिनी, “विबुधः पण्डिते सुरे” इति, “पदं स्थाने विभत्त्यन्ते शब्दे वाक्येक-वस्तुनोः । त्राणे पादे पादचिडे व्यवसाया-उपदेशयोः" । इति चानेकार्थसङ्ग्रहः, "जानीयादागर्म शास्त्रं स्यादागमनमागमः" इति शाश्वतः, "चारुर्वृहस्पतौ पुंसि शोभने त्वभिधेयवत्" । इति मेदिनी ॥१०॥
wwm
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196