Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-व्याख्याप्रज्ञप्तिस्वरूपवर्णनम्. ___छाया-अथ का सा व्याख्या ? व्याख्यायां खलु जोवा व्याख्यायन्ते, अजीवा व्याख्यायन्ते, जीवाजीवा व्याख्यायन्ते, स्वसमयो व्याख्यायते, परससमयो व्याख्यायते, स्वसमयपरसमयं व्याख्यायते, लोको व्याख्यायते, अलोको व्याख्यायते, लोकालोकं व्याख्यायते । व्याख्यायाः खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येया श्लोकाः, संख्येयाः नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः, सा खलु अङ्गार्थतया पश्चममङ्गम् , एकः श्रुतस्कन्धः, एकं सातिरेकमध्ययनशतं, दश उद्देशकसहस्राणि, दश समुद्देशकसहस्राणि, षट्त्रिंशत् व्याकरणसहस्राणि, द्वे लक्षे अष्टाशीतिः पदसहस्राणि पदाग्रेण, संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परोतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृतनिबद्धनिकाचिताः जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्यन्ते निदर्श्यन्ते, उपदयन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते । सैषा व्याख्या ।।मू०४९॥
टीका-' से किं त०' इत्यादि ।
अथ का सा व्याख्या इति प्रश्नः। वियाहे ' इति पुंलिङ्गनिर्देशः प्राकृतत्वात् । व्याख्या व्याख्याप्रज्ञप्तिः, नामैकदेशेन नामग्रहणात् । उत्तरयति-व्याख्यायांव्याख्यायन्तेऽर्था यस्यां सा व्याख्या तस्यां व्याख्याप्रज्ञप्त्यां भगवत्यामिति यावत् , खलु-निश्चयेन जीवा व्याख्यायन्ते सविस्तारं प्रतिपाद्यन्ते । अजीवा व्याख्यायन्ते। जीवाजीवा व्याख्यायन्ते । स्वसमयो व्याख्यायते । परसमयो व्याख्यायते । स्वसमयपरसमयं व्याख्यायते । लोको व्याख्यायते । अलोको व्याख्यायते।लोकालोकं
‘से किं तं वियाहे.' इत्यादि।
शिष्य प्रश्न-हे भदन्त ! व्याख्या प्रज्ञप्ति का क्या स्वरूप है ? उत्तरइस व्याख्याप्रज्ञप्ति में जीव का व्याख्यान किया गया है, अजीव का व्याख्यान किया गया है, एवं जीव और अजीव, इन दोनों का व्याख्यान किया गया है। तथा स्वसमय, परसमय और स्वपरसमय का, तथा लोक अलोक और लोकालोक का भी व्याख्यान किया गया है।
" से किं तं वियाहे. " त्याहशिष्यने प्रश्न-3 महन्त ! 'व्याण्या प्रज्ञप्ति' शु१३५ छ ?
ઉત્તર–આ વ્યાખ્યા પ્રાપ્તિમાં જીવનું વ્યાખ્યાન કરાયું છે, અજીવનું વ્યાખ્યાન કરાયું છે. અને જીવ તથા અજીવ બન્નેનું વ્યાખ્યાન કરાયું છે. તથા સ્વસમય, પરસમય અને સ્વપરસમયનું, તથા લેક, અલેક અને લોકાલોકનું પણ વ્યાખ્યાન કરાયું છે.
શ્રી નન્દી સૂત્ર