________________
भवमरुदेशे, जिनधर्म एव कल्पवृक्षस्तं 'स्मर' विचिन्तय, रक्षकत्वेनेति, किम्भूतं जिनधर्मकल्पवृक्षं ?-'शिवसुखानि' मोक्षसौख्यानि ददातीति
शिवसुखदस्तम् ।।१०३।। गाथा - किं बहुणा जिणधम्मे, जइयव्वं जह भवोदहिं धोरं ।
लहु तरिउमणंतसुहं, लहइ जिओ सासयं ठाणं ।।१०४।।
व्याख्या - किं ‘बहुना' बहूक्तेन ?, हे जीव ! तथा ‘जिनधर्मे' जिनप्रणीते धर्म,
'यतितव्यं' प्रयत्नः कार्यों, यथा 'जीवः' स्वात्मा 'लघु' शीघ्रं 'घोरं' रौद्रमनाद्यनन्तत्वाद् भव एव 'उदधिः' समुद्रस्तं ती| 'अनन्तसुखं' अनवसानसौख्यं शाश्वतस्थानं मोक्षलक्षणं लभते, तदवस्थायां च शरीरादिदुःखकारणाभावात् केवलं सुखभाग्भवत्यात्मा, यदुक्तं श्रीआचाराङ्गे लोकसारनानि पञ्चमाध्ययने [षष्ठोद्देशके] - "से न दीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले, न किण्हे न नीले न लोहिए न हालिद्दे न सुकिल्ले, न सुरभिगंधे न दुरभिगंधे, न तित्ते न कडुए न कसाए न अंबिले न महुरे, न कक्खडे न मउए न गुरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे, न काऊ न रुहे न संगे न इत्थी न पुरिसे न अनहा, परिण्णे सन्ने, उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नत्थि, से न सद्दे न रूवे न गंधे न रसे न फासे इति" [एतट्टीका]- (*"स-परमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्घो न ह्रस्वो न वृत्तो न यस्रो न चतुरस्रो न परिमण्डलो, वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो, गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो, रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुरः, स्पर्शमाश्रित्य न कर्कशो न मृदुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रूक्षो) “न काऊ' इत्यनेन लेश्या गृहीता, यदिवा न कायवान्, (*यथा वेदान्तवादिनां'एक एव मुक्तात्मा, तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति, आदित्यरश्मय इवांशुमन्तमिति' तथा न, “रुह' बीजजन्मनि प्रादुर्भावे च, रोहतीति रुहः, न रुहोऽरुहः कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यानां
दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च*शोधनार्थसंगृहीतेषुचतुर्खप्यादर्शषुत्रुटितोऽस्त्यत्रवृत्तिपाठः, अतोऽयंकॉउंसस्थःपाठस्ततउद्धृत इति।
६०
वैराग्यशतकम्