Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 313
________________ व्याख्या : 'जुज्जित्ति यो यो विषयैर्मनुजत्वं हारयति = विषयासक्ततया मानुषभवं विफलयति, स्वर्गमोक्षफलप्राप्तिलक्षणफलहारणात्, स एवंविधो ज्ञेयस्तदेव दर्शयति, गोशीर्ष-हरिचन्दनं श्रीखण्डं-मलयजस्तयोः खण्डं शकलं क्षारकृते भस्मनिमित्तं दहति भस्मीकरोति । भस्मनिमित्तं गोशीर्षश्रीखण्डे ज्वलने क्षिपतीत्यर्थः । तथा छगलश्छागस्तद्ग्रहणार्थं ऐरावणं शक्रद्विपं विक्रीणीते शक्रगजं विक्रीय छगलं क्रीणातीत्यर्थः, तथा कल्पतरूं कल्पवृक्षं, त्रोटयित्वा=उल्लूय, एरण्डं पञ्चागुलं वपति तत्स्थाने आरोपयतीत्यर्थः, आर्षत्वाद्विभक्तिलोपः ।।७७।। गाथा : अधुवं जीविअं नशा, सिद्धिमग्गं विआणिआ । विणिअट्टिज भोगेसु, आउं परिमियमप्पणो ।।७८।। व्याख्या : हे आत्मन् ! जीवितं प्राणान्, अध्रुवमशाश्वतम्, तथा च हारिलवाचकःचलं राज्यैश्वर्यं धनकनकसारः परिजनो, नृपाद् वाल्लभ्यं च चलममरसौख्यं च विपुलम् । चलं रूपारोग्यं चलमिह वरं जीवितमिदं, जनो दृष्टो योऽसौ जनयति सुखं सोऽपि चपलः ।।१॥[ ] णञ्चा=ज्ञात्वा 'ज्ञो णव्व णज्जौ' (सि० ८-४-२५२) इति जानातेः कर्मभावे 'णञ्च णज्ज' इत्यादेशौ भवतः । सिद्धिमार्ग मुक्तिपथं सम्यग्ज्ञानदर्शनचारित्ररूपं शाश्वतसुखकारिणं विज्ञाय, तथा आत्मनः स्वस्य परिमितं प्रमाणोपेतं वर्षशतादिरूपं अतिशयेनाऽल्पमित्यर्थः, आयुर्ज्ञात्वा तृतीयार्थे सप्तमी भोगेभ्यो विनिवर्तस्व विरम, 'वर्तमान भविष्यन्त्योश्च 'ज ज्जा' (सि०८-३-१७७) इति वर्तमानाया भविष्यन्त्याश्च विद्यादिषु च विहितस्य प्रत्ययस्य स्थाने इत्येतावादेशौ वा भवतः, 'हसेज हसेज्जा हसतु हसेद्वेतिवत् ।।७८।। १. चरं ड । २ हसेज हसेज ख । १५४ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338