Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
गाथा : गुणकारिआई धणिअं, धिइरज्जुनिअंतिआई तुह जीव ।
निअयाइं इंदिआई, वल्लिनियत्ता तुरंगुव्व ।।१५।।
व्याख्या : रे जीव ! तव निजकानीन्द्रियाणि धृतिरेव रज्जुस्तया नियन्त्रितानि संयतानि
घणियं त्ति अतिशयेन गुणकारीणी मूलोत्तरगुणपोषकाणीत्यर्थः । धृत्वा इन्द्रियदमे हि संयमः पुष्यतीतिभावः । के कीदृशा इव ? वल्लिलता, तया निवृत्ता अपथगमनाद् व्यावृत्तास्तुरङ्गमा इवाश्वा इव, यथा तुरङ्गमा वल्लिरज्जुभिर्नियन्त्रिता गुणकारिणो भवन्ति, आरूढपुरुषस्याऽऽह्लादगुणं जनयन्तीति भावः । अथवा वलयः केशाः, अर्थाद्गवादिरोमाणि तैर्निष्पन्ना रज्जुरपि वल्लिः । वल्लिः वल्लरी विल्लरिउ केसेसु (७-३२ देशीनाममाला) इति देश्याम् ।।९५।।
गाथा : मणवयणकायजोगा, सुनिअत्ता ते वि गुणकरा हुंति ।
अनिअत्ता पुण भंजंति, मत्तकरिणुव्व सीलवणं ।।१६।।
व्याख्या : मनोवचनकाययोगाः मनोवाक्कायव्यापाराः सुष्ठु अब्रह्मणो निवृत्ताः, ये न
मनसा न वचसा न कायेनाऽब्रह्मसेवां विदधतीत्यर्थः । तेऽपि मनोवाक्काययोगा अपि गुणकराः संयमनैर्मल्यगुणविधायिनो भवन्ति । अनिवृत्ता अब्रह्मण इति गम्यते, पुनस्त एव योगा मत्तकरिण इव श्रवन्मदजलाविलगजा इव शीलवनं भञ्जन्ति आमईन्ति । यथा मत्तकरिणो वनं भञ्जन्ति तथा अनिवृत्ता अमी योगा अपि ।।९६।।
गाथा : जह जह दोसा विरमइ, जह जह विसएहिं होइ वेरग्गं ।
तह तह विन्नायव्वं, आसन्नं से य परमपयं ।।९।।
१. ०आईं मुद्रिते । xkkkkkkkkkkkkkkkkkkkkkkkkkkkk १६२ दन्दियपराजयशतकम्

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338