Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 333
________________ व्याख्या : ते धन्याः श्रेष्ठाः चतुर्थ्यर्थे षष्ठी तेभ्यो नरेभ्यो नमः नमस्कारोऽस्तु । तेषां संयमधराणां चारित्रवतामहं दासोऽस्मि किंकरो वर्त्ते । येषां हृदये चित्ते अर्द्धाक्षिदर्शनशीला नयनार्द्धेन प्रेक्षणकारिण्यो मृगेक्षणा 'न खुडुक्कन्ति' = न खाट्कुर्व्वन्ति न हृदये स्फुरन्तीत्यर्थः । यतः आवर्त्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं, स्त्रीयन्त्र केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ।।१।। ।।९९ ।।। ] गाथा : किं बहुणा जइ वंछसि, जीव तुमं सासयं सुहं अरुअं । ता पिअसु विसयविमुहो, संवेग- रसायणं निचं । । १०० ।। व्याख्या : किं बहुना = किं बहूक्तेन ? रे ! जीव यदि त्वं शाश्वतमनन्तम्, अरुजं रोगरहितं सुखं मुक्तिस्थायिपरमानन्दरूपं सातं यदि वाञ्छसि=ईहसे, ततस्त्वं विषयेभ्यो विमुख; पराङ्मुखः सन् नित्यं संवेग एव चित्तविरक्ततैव रसायनं जरामरणापहमौषधं पिब । अन्योपि योऽरोगतामिच्छति, स किल रसायनं पिबत्येव, तथा शिवमरुजं सुखं यदि कामयसे तदा संवेगरसायनपानं विधेयमित्यर्थः । ।१०० ।। इतीन्द्रियपराजयशतकं व्याख्यानतः सिद्धिमलभत । ग्रन्थकारप्रशस्तिः श्रीमत्खरतरगच्छे सक्रियसंविज्जलैरति स्वच्छे । पाठक'वाचकयतितति खेलत्सविलासवरवत्से ।। ।।१।। विक्रमतोऽम्बुधिरस 'रस' शशि' (१६६७) वर्षे जगति जनितजनहर्षे । श्रीमद्युग्रपधान श्रीजिन- चन्द्रार्य्यसूरीन्द्रे ।। ।।२।। विजयिनि वरजिनसिंह- श्रीमत्सूरिः प्रतिष्ठितः पट्टे । स्वीये येन प्रभुतावृद्धिविधानाय धिषणधिया ।। ।। ३।। १. चत्ते अर्द्धा दर्शनशीला ड । २. वादक ड । ३. सुरेन्द्रे ड, । ४. ब्रह्मस्थानां ख । 失失失失失失失失 १६४ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338