Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 327
________________ लूकया व्यथिता हिताहितविभागमजानाना दुःखाविष्टास्तिष्ठन्ति तथाऽमी विषयात इति ।१९२।। गाथा : हा हा दुरंत-दुट्ठा, विसयतुरंगा' कुसिक्खिआ लोए । भीसणभवाडवीए, पाडंति जिआण मुद्धाणं ।।१३।। व्याख्या : हा इति 'विषादशोकजुगुप्सासु अतिविषादद्योतनार्थं हाहेति, दुरन्ता दुरवसानाश्च दुष्टाश्च दुरन्तदुष्टा, विषयतुरङ्गा विषयाश्वा लोके कुशिक्षिताः कुत्सितशिक्षा प्रापिताः प्रतिकूलगत्याऽविनीता भीषणभवाटव्यां द्वितीयार्थे षष्ठी मुग्धान् मूढान् जीवान् पातयन्ति = प्रवेशयन्ति । यथा कुशिक्षिता अश्वा अटवीं नयन्ति पुरुषान् तथा विषया भवाटवीं भ्रमयन्ति ।।९३।। गाथा : विसयपिवासातत्ता, रत्ता नारीसु पंकिलसरंमि । दुहिआ दीणा खीणा, रुलंति जीवा भववणंमि ।।९४।। व्याख्या : विषयपिपासया विषयतृषया तप्ताः सन्तापिताः नारीषु मृगेक्षणासु पङ्किलसरसि कर्दमवत्सरस्यां रक्ता दुःखिता दीनाः क्षीणा जीवा भववने रुलन्ति लुठन्ति । यथा तृषाऽभिभूता पुरुषाः सरःपङ्के निमग्ना दुःखिता दीना क्षीणाश्च भवन्ति तथा विषयोदन्या तप्ता इति । दुःखं शारीरीं व्यथां प्राप्ता दुखिताः, दीना मनसि वैमनस्यं प्राप्ताः, क्षीणा वपुषि क्रशिमानं प्राप्ताः ।।९४ ।। १. कुरंगा ख । क्रियतां तुलना - "हा विषादशोकार्तिषु" इति चादयोऽसत्त्वे (सि० १-१-३१) सूत्रस्य स्वोपज्ञबृहन्न्यासे । तथा “हा इति विस्मयविषादजुगुप्सार्तिषु, हा लब्धं पाटलिपुत्रम्, कन्यान्तः पुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः, हा प्रिये जानकि !, हा देवदत्त ! हा हतोऽस्मि मन्दभाग्यः" इति गणरत्नमहोदधौ चतुर्थश्लोकस्वोपज्ञवृत्तौ । १६१ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338