Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 321
________________ व्याख्या : हा इति विषादे, जीवानां हा विषमा हा विषमा अत्यन्तवैषम्यद्योतनार्थं द्विरुक्तिः विषयाः । सप्तम्यर्थे तृतीया", येषु विषयेषु प्रतिबद्धा आश्रिता भवसमुद्रे संसाराम्भोधौ हिण्डन्ते गच्छन्ति भ्रमन्तीत्यर्थः ‘हिडिङ् गतौ'' किं कुर्वन्तः ? अनन्तदुःखानि प्राप्नुवन्तः सन्तः ।।८५।। गाथा : माइंदजाल' चवला, विसया जीवाण विजुतेअसमा । खणदिवा खणनट्ठा, ता तेसिं को हु पडिबंधो ।।८६।। व्याख्या : जीवानां विषया ईदृशाः मायेन्द्रजालं मायया शाठ्येन परवञ्चनाय यदिन्द्रजालं कुहकं अवास्तवं तत्तद्वस्तूद्भुतोपदर्शनमित्यर्थः, तद्वञ्चपलाश्चञ्चलास्तथा विद्युत्तेजःसमा= अचिराप्रभोपमाः** क्षणदृष्टाः प्रथमक्षणे दृष्टाः द्वितीयक्षणे नष्टा इति अत एव विद्युत्तेजसोपमीयन्ते विषयाः 'ता' इति तस्मात्, सप्तम्यर्थे षष्ठी, तेषु विषयेषु, हुर्निश्चये, कः प्रतिबन्धः मनसोऽवष्टम्भः ? ।।८६।। गाथा : सत्तू विसं पिसाओ, वेआलो हुअवहो वि पजलिओ । तं न कुणइ जं कुविआ, कुणंति रागाइणो देहे ।।८७।। व्याख्या : शत्रुर्वैरी, विषं गरः, पिशाचो व्यन्तरविशेषः वेतालो'' रजनिचरविशेषः, प्रज्वलितो, घृतमधुसेकादुद्दीपितो हुतवहो वह्निरपि देहे तं विकारं न कुर्वन्ति यं विकारं कुपिता उद्रेकमाप्ता रागादयः कुर्वन्ति । विषादयो ह्येकश एव मृत्यु ददते रागादयश्चानन्तशो मरणानि ददतीति भावः ।।८७।। १. जा इंदजाल मुद्रिते । २. का मुद्रिते । ३. पडिबंधा ड । ४. वेआला हुअवहो व मुद्रिते । * सप्तम्या द्वितीया (सि०८-३-१३७) सूत्रस्य स्वोपज्ञवृत्तौ - "सप्तम्याः स्थाने - x - आर्षे तृतीयाऽपि दृश्यते, तेणं कालेणं, तेणं समएणं तस्मिन् काले, तस्मिन् समये, इत्यर्थः इत्युल्लेखेन ज्ञायते सप्तम्यर्थे तृतीया । + 'हिडि गत्यनादरयोः' इति पाणीनीयधातुपाठे भ्वादौ २६९ तमो धातुरयम् । * अचिरप्रभा एव अचिरा, भीमो भीमसेन इति न्यायाद्, 'तेलुग्वा' (सि०३-२-१०८) सूत्राद्वा ज्ञेया । ++ भूताधिष्ठितं शबम् वेतालः इत्यमरकोशे । १५८ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338