Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 319
________________ व्याख्या : प्रकर्षेण ज्वलितो दीप्तो विषयाग्निविषयानलः कृत्स्नमपि सकलमपि चारित्रमेव सारं द्रविणं चारित्रसारं दहेद्-भस्मीकुर्यात्, आस्तां चारित्रदहनं सम्यक्त्वमपि विराध्य तद्दोषोत्पादनेन मलिनीकृत्य मिथ्यात्वं प्राप्येत्यर्थः । अनन्तसंसारितां कुर्यात् अनन्तभवभ्रमणमपि लभेतेत्यर्थः ।।८३।। गाथा : भीसणभवकंतारे, विसमा जीवाण विसयतिण्हाओ । जाए नडिआ चउदस-पुव्वी वि रुलंति हु निग्गोए ।।८४।। व्याख्या : भीषणभवकान्तारे रौद्रसंसाराटव्यां जीवानां भवाभिनन्दिनां सत्त्वानां विषमा दुस्सहा विषयतृष्णा विषयवाञ्छा यतःखलोल्लापाः सोढाः कथमपि तदाराधनपरै, निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा । कृतश्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे ! मोघाशे किमपरमतो नर्त्तयसि माम् ।।१।। वैराग्यशतक) यया विषयतृष्णया नाटिता विगोपिताश्चतुर्दशपूर्विणोपि चतुर्दशपूर्वधरा अपि आसतामन्ये, निगोदे सूक्ष्मबादरभेदभिन्ने अनन्तजीवात्मके श्रीजिनागमप्रसिद्धे, हुनिश्चयेन रुलन्ति लुठन्ति जीवा विषयासक्ततया पठनपाठनादिव्यासङ्गाभावाच्चतुर्दशाऽपि पूर्वाणि विस्मारयन्ति ततो निगोदे भ्रमन्तीति । यत उक्तं जीवानुशासनवृत्तौ - चतुर्दशधराः श्रुतकेवलिनोपि चानन्तकाये प्रतीते निवसन्ति तिष्ठन्ति पूर्वगतसूत्राभावे मृत्वेति शेषः, पूर्वसूत्रे पुनर्नेति । ।।४।। गाथा : हा विसमा हा विसमा, विसया जीवाण जेहि पडिबद्धा । हिंडंति भवसमुद्दे, अणंतदुःक्खाइ पावंता ।।८५।। १. जीए मुद्रिते । २. स्तत्राभावे ड, । ३. जेहिं मुद्रिते ४. दुःक्खाई मुद्रिते । १५७ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338