Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
गाथा : सचं सुअं पि सीलं, विन्नाणं तह तवं पि वेरुग्गं । as aणेण सव्वं, विसयवसेणं जईणं वि' ।। ८१ । ।
व्याख्या : सत्यमवितथवाक्यं श्रुतं आगमोऽपि शीलं अष्टादशशीलाङ्गसहस्त्रभेदभिन्नं ब्रह्म तथा विज्ञानं क्रियाकौशलं विशिष्टज्ञानं वा तथा तपोऽपि चतुर्थषष्ठाष्टमादि तथा वैराग्यं भवविरक्तता एतत्सर्व्वं यतीनामपि आस्तामन्येषां विषयवशेन विषयायत्ततया क्षणेन व्रजति अपयाति । विषयासक्तानां सर्व्वमप्येतद्विलीनं भवतीत्यर्थः ।।८१।।
गाथा : रे जीव ! स मइकप्पिय, निमेस सुहलालसो कहं मूढ ! । सासयसुहमसमतमं, हारसि ससिसोयरं च जसं ।।८२ ।।
व्याख्या : रे जीव ! भोः स्वात्मन् ! मतिविकल्पितं निजबुद्धिव्यवस्थापितं यत् निमेषसुखं चक्षुस्पन्दप्रमाणवैषयिकसुखलेशस्तत्र लम्पटः सन् मूर्ख असमतमं शाश्वतसुखं' शीलशीलनलभ्यमनन्तं मोक्षसुखं शशिसोदरं च चन्द्रनिर्मलं यशो हारयसि निर्गमयति यदुक्तम् - दत्तस्तेन जगत्यकीर्त्तिपटहो गोत्रे मषीकूर्चक,
चारित्रस्य जलाञ्जलिर्गुणगणाऽऽरामस्य दावानलः । सङ्केतः सकलापदां शिवपुरद्वारे कपटो दृढः, कामार्त्तस्त्यजति प्रबोधयति वा स्वस्त्रीं परस्त्रीं न यः ।। [सिन्दुर प्रकर० श्लो० ३७] इति गाथार्थः ।।८२।।
गाथा : पज्जलिओ विसयग्गी, चरित्तसारं डहिज्ज कसिणंपि । सम्मत्तं "पिअ विराहि, अणंतसंसारिअं कुज्जा ।। ८३ ।।
१. वेरग्गं मुद्रिते । २. विसयविसेण जइणं पि मुद्रिते ३. जाइविगप्पिय मुद्रिते । ४. हारिसि मुद्रिते । ५. सुखं शीलनलभ्य. ड । ६. महिज्ज ख । ७. समत्तंमि मुद्रिते ।
**
१५६ इन्द्रियपराजयशतकम्

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338