Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 311
________________ गाथा : तुज्झ तव-नाण-वित्राण-गुणडम्बरो, जलणजालासु निवडन्तु जिअ निब्भरो ।। पयइ वामेसु कामेसु जं रजसे, जेहि पुण पुण वि नरयानले पञ्चसे ।।७६।। व्याख्या : हे जीव ! आत्मन् ! तव तपोज्ञानविज्ञानगुणानां = तपश्च चतुर्थषष्ठाष्टमादि, ज्ञानं च शास्त्रावबोधो, विज्ञानं च क्रियासु कौशलं, गुणाश्च धैयौदार्य्यदाक्षिण्यादयस्तेषां डम्बर आडम्बर आटोप इत्यर्थः । स 'नि:भरि' त्ति' तृतीयार्थे प्रथमा, निर्भरेणातिशयेन, ज्वलनज्वालासु अग्निशिखासु निपततु विशतु गुणगणस्तव सर्वोऽपि भस्मसाद् भवत्वित्यर्थः । 'निवडंतु' इत्यत्र बिन्दुलोपः* प्राकृतत्वात् । यत् त्वं प्रकृत्या स्वभावेन वामेषु मोक्षमार्ग प्रति प्रतिकूलेषु कामेषु शब्दादिविषयेषु रज्यसे “रञ्ज रागे" कर्मकर्त्तरि यक् - स्वयमेव रक्तो भवसि । विषयांस्त्यक्तुं न शक्नोषीत्यर्थः । यैः कामैस्त्वं पुनः पुनरपि भूयो भूयोऽपि नरकाऽनले नरकाग्नौ पच्यसे । कामैर्हि बहुशो नरकावाप्तौ, अग्निकुम्भीषु पचनं सुलभमेव ।।७६ ।। गाथा : दहइ गोसीस सिक्खंड-छारक्कए छगल-गहण?मेरावणं । विक्कए कप्पतरु तोडि एरण्ड सो वावए, जुजि विसएहि मणुअत्तणं हारए ।।७७।। १. तह मुद्रिते । *मातुको धत्तूरः, मातुलपुत्रकं-धत्तूरफलमि त्यर्थः । २. सिरिखंड मुदिते । ३ जू जि मुद्रिते । * 'ह्रस्वः संयोगे' (सि०८-१-८४) सूत्रेण संयुक्तव्यञ्जनात्पूर्वः स्वरो हस्वो भवति । + "निवडंतु" इत्येतत् प्राकृतरूपम्, अतः बिन्दुलोपः कर्तुं शक्यत इत्यर्थः । पाणिनीये धातुपाठे भ्वादिषु १०२४ तमोऽयं धातुः ।। 'कुषिरञ्जोः' (पाणिनि. १-३-९०) सूत्रेण, 'कुषिरओप्प्ये वा परस्मै च' (सि० ३-४-७४) सूत्रेण वा "रज्यति" सिध्यति । १५३ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338