Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 301
________________ आगच्छ स्वेच्छया भद्रे कुर्खहे सफलं तनुः । उभावपि वयःप्रान्ते चरिष्यावस्तपोविधिम् ।।१९।। श्रुत्वेत्यश्रव्यमव्याजचित्ता संवीय वाससी । सती स्पष्टमभाषिष्ट धारयित्वाऽथ धीरताम् ।।२०।। महानुभाव ! संरम्भः कोऽयं ते भवकारणम् ? संस्मर स्वप्रतिज्ञां तां प्रव्रज्यां मा स्म विस्मरः ।।२१।। संयतीप्रतिसेवादि यदुक्तं बोधिघातकम् । श्रीमता नेमिनाथेन तत्तवाऽद्यैव विस्मृतम् ।।२२।। यदुक्तम्- संयतीप्रतिसेवायां धम्मोड्डाहर्षिघातयोः । देवद्रव्यविनाशे च बोधिघातो निवेदितः ।।२३।। पूर्वं गृहस्थया यस्त्वं मया वाचाऽपि नेहितः । साहं व्रतप्रतिज्ञायां त्वामद्य कथमाद्रिये ।।२४ ।। अहं श्री भोजवंशीया त्वमन्धककुलोद्भवः । इदं चाऽनुचितं कर्म द्वयोर्तीडाविवर्धकम् ।।२५ ।। अगन्धनकुले जातास्तिर्यञ्चो ये भुजङ्गमाः । तेऽपि वान्तं न चाऽश्नन्ति तदिच्छुस्त्वं ततोऽधिकः ।।२६।। इदं हि सफलं जन्म निःकलङ्कस्य देहिनः । खण्डितब्रह्मचर्यस्य धिगिदं जीवितं पुनः ।।२७।। यदि स्त्रीसङ्कले लोके 'निरास्थं हृदयं तव । न क्वापि स्थितिमाप्नोति वातोन्मूलितवृक्षवत् ।।२८ ।। वराटिकाकृते तस्मान्मा स्म कोटिं विनाशय । तस्माद्धीरत्वमाधाय शुद्धं धर्मं समाचर ।।२९।। इत्यादिमदनोन्माददर्पसप्पैकजाङ्गुलीम् । तदुक्तियुक्तिमाकर्ण्य चिन्तयामा-सिवानिदम् ।।३०।। स्त्रीजातावपि धन्याऽसौ निधानं गुणसम्पदाम् । कुकर्मजलधौ मनो धिगहं पुरुषोऽपि हि ।।३१।। अहो धीरत्वमेतस्या गृहवासदशावधि** । कोऽथवा जात्यरत्नस्य वेत्ति मूल्यमियत्तया ।।३२।। १. निरास्तु ख । २. तस्माद्वीरत्वमाधाय डड । ३. गृहे ड। ** 'गृहस्थाऽवस्थातः आरब्धम्' इत्यर्थः । Kkkkkkkkkkkkkkkkkkkkkkkkkk १४८ इन्द्रियपराजयशतकम्

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338