________________
कालेणं विगयसोया जाया, तते णं जिणपालियं अन्नया कयाई सुहासणवरगयं अंम्मापियरो एवं वयासी कहणं पुत्ता जिणरक्खिए कालगए ? तते णं से जिणपालिए अम्मापिऊण लवणसमुद्दोत्तारं च कालियसंमुत्थणं च पोयवहणविवत्तिं फलहखंड आसायणं च रयदीवृत्तारं च रयणदीवदेवयागिम्हणं च भोगविभोइं च रयणदीवदेवयाआघतणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुद्दतरणं च चंपागमणं च सेलगजक्ख आपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेइ, तते णं जिणपालिए जाव अप्पासोगे जाव विपुलाइ भोगेभोगाई भुंजमाणे विहरइ (सू. ८७) तेणं काणं समणे भगवं महावीरे समोसढे धम्मं सोच्चा पव्वतिए एक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोपमे महाविदेहे सिज्जहि त्ति । एवं समणाउसो जाव माणुस्सए कामभोगे णो पुणरवि आसाइ सेणं जाव वीतीवयतिस्सति जहा वा से जिणपालिए इति * । । ३१ । ।
कालेन विगतशोका जाताः, ततो जिनपालितमन्यदा कदाचित् सुखासनवरगतमम्मापितरावेवमवदतं कथं पुत्र ! जिनरक्षितः कालगतः ? ततः स जिनपालितोऽम्मापितृभ्यां लवणसमुद्रोत्तारं च कालिकसमुत्थानं च पोतवहनविपत्तिं च फलकखण्डासादनं च रत्नद्वीपोत्तारं च रत्नद्वीपदेवताग्रहणं च भोगविभूतिं च रत्नद्वीपदेवताऽऽघातनं च शूलायितपुरुषदर्शनं च शैलकयक्षारोहणं च रत्नद्वीपदेवतोपसर्गं च जिनरक्षितविपत्तिं च लवणसमुद्रोत्तरणं च चम्पाऽऽगमनं च शैलकयक्षापृच्छनं च यथाभूतमवितथं चासंदिग्धं परिकथयति, ततो जिनपालितः यावदल्पशोकः ( आत्मशौचः ) यावत् विपुलान् भोगोपभोगान् भुञ्जन् विहरति (सूत्र ८७) तस्मिन् काले श्रमणः भगवान् महावीरः समवसृतः, धर्मं श्रुत्वा प्रव्रजितः, एकादशाङ्गवित् मासिकेन सौधर्मे कल्पे द्वौ सागरोपमौ महाविदेहे सेत्स्यतीति । एवं श्रमणायुषः यावत् मानुष्यकान् कामभोगान् नो पुनरपि आस्वादयति सः यावत् व्यतिव्रजिष्यति यथा वा सः जिनपालितः इति । ।। ३१ । ।
*
१. कालियवायसमुत्थणं ज्ञातायाम् । २. देवयागिहं ज्ञातायाम । नवमाध्ययनरूपा विद्यते ।
इयं कथा ज्ञाताधर्मकथाङ्गस्य
१०७ इन्द्रियपराजयशतकम्