Book Title: Vairagyashatak Indriyaparajayshatak
Author(s): Punyakirtivijay
Publisher: Sangmarg Prakashan
View full book text
________________
ततो लेखमिवावेष्ट्य, नृपहस्ते तदार्पयत् । देव्या प्रस्थापितः स्वर्गाद्देवाहं लेखवाहकः ।।४१।। श्रुत्वेत्युन्मोच्य 'रोमाञ्च-प्रपञ्चोदञ्चिरोमभृत् । धन्येयं देवसामग्रीत्यति नन्दन्नवाचयत् ।। ।।४२।। स्वस्तिश्रीपुरिमताले पाकशासनतेजसः । श्रीमद्विजयपालस्य राज्ञः पादपयोरुहान् ।। ।।४३।। श्री स्वर्गादाश्रवा राज्ञी लक्ष्मीर्नत्वानुरागतः । विज्ञापयति सोत्कण्ठं यथाऽत्र कुशलं मम ॥४४॥ कार्यं च - गुरुभारवतीवाहं त्वया हृदयवासिना । न शक्नोमि समागन्तुमुत्कण्ठोत्कण्ठया युता ।। ।।४५।। तस्मादाभरणं स्वीयं सर्वाङ्गीणं प्रसद्य मे । प्रहेयं येन देवीषु पतिमानभरं वहे ।। ।। ४६ ।। अन्यच्च पक्षमासान्तः सद्वस्त्राभरणादिकम् । प्रेष्यमस्यैव वृद्धस्य हस्ते स्वश्रेयसा सह ।। ।। ४७ ।। भणिता मन्त्रिणो राज्ञा सारमाभरणं मम । वस्त्राङ्गरागसंयुक्तमस्य हस्ते वितीर्यताम् ।।४८ ।। यतः- वाचिकं लभते लक्षं लेखः कोटिं विशेषयेत् । दृष्टेः कोटिशतं मौल्यं निर्मूल्यः स्वेष्टसङ्गमः ।। ।। ४९।। अविमृश्यतया राज्ञो, ज्ञात्वा राज्यं विनश्वरम् । मन्त्रिभिर्मन्त्रयित्वाथ, विज्ञप्तः सादरं नृपः ।। ।। ५० ।। एष स्वर्गं कथं गन्ता ? ' राज्ञोचेऽत्राऽऽगतो यथा । देवीप्रसादतः स्वामिन्नत्राऽऽगाद्याति तत्कथम् ? ।। ।। ५१ ।। श्रुत्वेति राजा पप्रच्छ 'प्राक्तनः स कथं गतः ?' । वह्निदग्ध इति प्रोक्ते तथैनमपि चाऽऽदिशत् ।। ५२ ।। ततो जाज्वल्यमानाग्निपातनाय प्रचालितम् ।
तं दृष्ट्वा श्रेष्ठिना पद्मनाम्नाऽवाचि नरेश्वरः ।। ५३ ।।
एष देवातिवर्षीयान् बहुवाचिकभारितः ।
ननु गन्तुमक्षमः कोपि तत्प्रेष्यस्तरुणो नरः ।। ।।५४।।
३ रोमाञ्चपरंदोदञ्चि. ड । २. राज्ञो वेत्री ड।
*
तुल्यार्थैस्तृतीयाद्याः (सि० २ - २ - ११६) सूत्रेण इयं तृतीया, समार्थशब्दाध्याहारश्च ततः " मुखदोषेण समः अपराधः कश्चन न विद्यते " इत्यर्थः ।
32
2732
१३९ इन्द्रियपराजयशतकम्
絲絲

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338