Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ द्वितीयः सर्गः श्रीअरनाथजिनचरितम् देवी-सुदर्शनानन्दवर्धनोऽरो जिनेश्वरः । सुदर्शनप्रदः पायादपायाद्वः सुदर्शनः ॥१॥ अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सीतानद्या उत्तरतटे वत्साख्ये विजये सुसीमानाम्न्यां महापुर्यां शूरो यशोधनो धनपतिर्नाम नृपोऽभवत् । स तथा मेदिनी शशास यथा तद्राज्ये कस्याऽपि बन्धन-ताडनादि नाऽभूत् । जिनोक्तधर्मप्रणयी स विरक्त: संवरमुनेरन्तिके प्राव्राजीत् । स च तीव्र व्रतं पालयन् तपांसि तप्यमानो विविधाभिग्रहपरो महीं विजहार । चातुर्मासिकोपवासान्तपारणे च तं महामुनि श्रेष्ठिपुत्रो जिनदासः श्रद्धया प्रत्यलाभयत् । तथा स धनपतिर्मुनिरहंदाराधनादिस्थानकैस्तीर्थकृन्नामकर्माऽऽर्जयत् । समाहितमनाश्च कालेन विपद्य नवमग्रैवेयके महद्धिकोऽमरोऽभवत् । ___ इतश्चाऽस्यैव जम्बूद्वीपस्य भारते क्षेत्रे सर्वसम्पत्समन्विते परिखादिशोभिते हेम-स्फटिकादिचैत्यैविराजिते हस्तिनापुरे पुरे धर्मिष्ठः प्रतापी सुदर्शन: सुदर्शनो नाम नृपप्रष्ठो बभूव । तस्य चाऽन्तःपुरशिरोरत्नं देवी नाम महादेव्यासीत् । पतिव्रतया शीलगुणसम्पन्नया तया सह भोगान् भुञ्जानः स नृपः कियन्तं कालं व्यतीयाय । तस्याश्च देवीदेव्याः कुक्षौ धनपतिजीवो निजमायु: पूरयित्वा ग्रैवेयकाच्व्युत्वा फाल्गुनशुक्लद्वितीयायां रेवतीस्थे चन्द्रेऽवातरत् । तदानीं सा षष्ठं पर्व - द्वितीयः सर्गः महादेवी सुखसुप्ता निशाशेषे तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । पूर्णे च समये सा मार्गशीर्षशुक्लदशम्यां रेवतीस्थे चन्द्रे कनकवर्णं नन्द्यावर्ताकं सम्पूर्णलक्षणं सुतमसूत । ततः षट्पञ्चाशद्दिक्कुमार्यः समेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथाकल्पं स्नात्रादि विधाय स्तुत्वा पुनर्देवीस्वामिन्याः पार्श्वतोऽमुचत् । सुदर्शनो नृपश्च समहोत्सवं तस्य देव्याः स्वप्नेऽरदर्शनादर इति नाम चक्रे । स चाउरः सुरस्त्रीभिर्धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो बाल्यमतीत्य यौवनं प्रपन्नस्त्रिंशद्धनुःसमुन्नतः पित्राज्ञया राजकन्या: परिणिनाय । तथा जन्मतोऽब्दसहस्राणां विंशतौ गतायां पित्राज्ञया राज्यधुरां दधार । ततः प्रभोर्माण्डलिकत्वेऽपि तावति काले गते शस्त्रागारे चक्ररत्नं समुत्पन्नम् । अन्यैश्चाऽपि त्रयोदशभिः सद्रत्नैः समन्वितः प्रभुश्चक्रानुगश्चतुर्वर्षशत्या भरतक्षेत्रं षट्खण्डमसाधयत् । चक्रिणश्च तस्य प्रभोस्तावत्येव काले गते च लोकान्तिकामरैः समेत्य तीर्थं प्रवर्तयेत्यूचे । ततः प्रभुर्वार्षिकदानं प्रदायाऽरविन्दाय सुताय राज्यं दत्त्वा वैजयन्त्या शिबिकया सहस्राम्रवणं प्राप्य मार्गशीकादशीदिने शुक्लपक्षे रेवतीस्थे चन्द्रेऽपराह्ने कृतषष्ठो राजसहस्रेण समं प्राव्राजीत्। द्वितीयेऽह्नि च राजपुरेऽपराजितनृपगृहे परमान्नेन पारणं चकार । तत्र च देवैर्वसुधारादिपञ्चकं नृपेण च प्रभुपादस्थाने रत्नपीठं विदधे । ततः प्रभुविविधाभिग्रहपरश्छद्मस्थस्त्रीणि वर्षाणि यावद्वसुन्धरां विजहार । अथाऽन्येद्युविहरन् सहस्राम्रवणमेत्य सहकारतरोर्मूले प्रतिमया प्रभुरस्थात् । कार्तिकशुक्लद्वादश्यां रेवतीस्थे चन्द्रे च घातिकर्म

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129