Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 116
________________ पुरुष-गद्यात्मकसारोद्धारः गुणवत्यपि तस्य श्रीभूतेः सरस्वतीकुक्षिभवा वेगवती नाम तनया जाता । सा प्राप्तयौवना प्रतिमास्थं जनैर्वन्द्यमानं सुदर्शनं मुनिं निरीक्ष्य सोपहासमवदत् - 'अहो ! अयं साधुः पुरा स्त्रिया सह क्रीडन् दृष्टः, साऽन्यत्राऽनेन प्रेषिता, तं कथं वन्दध्वम् ? ' तच्छ्रुत्वा च सर्वोऽपि लोकः कलङ्कोद्घोषपूर्वकं तं मुनिं विप्लावयितुमारेभे । स मुनिश्च यावदयं कलङ्को नोत्तरिष्यति तावत् प्रतिमां न पारयिष्यामीत्यभिजग्राह । ततश्च देवतारोषाद् वेगवत्या मुखमुच्छूनं (सशोथं) जातम् । साधुवृत्तान्तं ज्ञात्वा च पित्राऽपि भृशं निर्भत्सता । सा च पितू रोगाच्च भीता तस्य मुनेरग्रे सर्वलोकसमक्षमुच्चैरुवाच'त्वं सर्वथा निर्दोषोऽसि, दोषोऽयमलीको मयैवाऽऽरोपितः, तत् क्षमस्व' । तच्छ्रुत्वा च लोकस्तं मुनिं पुनरप्यानर्च । वेगवती च तत्प्रभृति श्राविका जाता | शम्भुनृपश्च तां रूपवतीं दृष्ट्वा ययाचे । श्रीभूतिश्च मिथ्यादृशे नैषा दातव्येति तं प्रत्युवाच । शम्भुश्च तं निहत्य तां बलाद् बुभुजे । सा च भवान्तरे ते वधाय भूयासमिति शापं दत्तवती । शम्भुना विमुक्ता च सा हरिकान्ताव्रतिनीपार्श्वे प्रव्रज्य विपद्य ब्रह्मलोकं ययौ । २०८ ततश्च्युत्वा च सा शम्भुजीवस्य रावणस्य वधाय पूर्वनिदानवशाज्जाता सीतेयं जनकनन्दिनी । तस्याः सुदर्शनमुनेरलीकदोषारोपाल्लोकेनऽलीकोऽयं कलङ्कोऽधिरोपितः । शम्भुजीवश्च भवं भ्रान्त्वा कुशध्वजद्विजस्य सावित्र्यां प्रभासो नाम नन्दनो भूत्वा विजयसेनमुनेरन्तिके प्राव्राजीत् । एकदा च सम्मेतयात्रां प्रस्थितं विद्याधरेन्द्रं परमर्द्धिकं कनकप्रभं दृष्ट्वाऽनेन तपसाऽहमीदृक् परमर्द्धिर्भूयासमिति निदानं व्यधात् । ततो विपद्य २०९ सप्तमं पर्व दशमः सर्गः तृतीयकल्पे समुत्पद्य ततश्च्युत्वा विद्याधरेन्द्रस्तवाऽग्रजोऽभूत् । याज्ञवल्क्यश्च भवं भ्रान्त्वा त्वं विभीषणोऽभूः । श्रीभूतिश्च नृपेण हतो दिवं गत्वा च्युत्वा सुप्रतिष्ठपुरे विद्याधरः पुनर्वसुर्जात: । स च कामार्त्तः पुण्डरीकविजये त्रिभुवनानन्दचक्रिणः कन्यामनङ्गसुन्दरीमपजहार । चक्रिप्रेषितैर्विद्याधरैर्युध्यमानस्य तस्य विमानादनङ्गसुन्दरी क्वाऽपि निकुञ्जे पपात । पुनर्वसुश्च प्रव्रज्य तत्प्राप्त्यै निदानं कृत्वा विपद्य दिवं गत्वा वा चाऽयं लक्ष्मणो जातः । अनङ्गसुन्दरी च वने स्थितोग्रं तपः कुर्वन्ती विहितानशनाऽजगरेण जग्रसे। समाधिना मृत्वा सा द्वितीये कल्पे देवीभावमाप्य ततश्च्युत्वा विशल्या लक्ष्मणस्य महिष्यभूत् । गुणवतीभ्राता गुणधरश्च भवं भ्रान्त्वा कुण्डलमण्डितो राजपुत्रो भूत्वा चिराय श्रावकत्वं पालयित्वा विपद्यैष भामण्डलो बभूव । इतश्च काकन्द्यां वामदेवद्विजस्य श्यामलाकुक्षिजातौ वसुनन्द सुनन्दनौ द्वौ पुत्रावभूताम् । एकदा तयोर्गेहे स्थितयो - र्मासोपवासी मुनिराययौ । स च ताभ्यां भक्तितः प्रतिलम्भितः । तद्दानधर्मेण स विपन्न उत्तरकुरुषु युग्मिनौ भूत्वा विपद्य सौधर्मे सुरौ जातौ । ततः च्युत्वा काकन्द्यामेव रतिवर्धननृपस्य सुदर्शनायां प्रियङ्कर - शुभङ्करौ तनयौ अभूतौ । चिरं राज्यं पालयित्वा विपद्य ग्रैवेयके सुरौ भूत्वा च्युत्वा चेमौ लवणा-ऽङ्कुशौ जातौ । तयोर्माता सुदर्शना च चिरं भवं भ्रान्त्वा सिद्धार्थ एष तयोरध्यापकः' । एवं मुनिवचः श्रुत्वा बहवः संवेगं ययुः । तदैव च रामचमूपतिः कृतान्तवदनः प्राव्राजीत् । *查*

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129