Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Catalog link: https://jainqq.org/explore/009894/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अहम् // श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः / / कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः षष्ठं सप्तमं च पर्व कर्ता - आ. श्रीविजयशुभङ्करसूरिः सम्पादक: - मुनिधर्मकीर्तिविजयः :: प्रकाशक : कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति-शिक्षणसंस्कारनिधिः अमदावाद Page #2 -------------------------------------------------------------------------- ________________ समर्पणम् कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः ४ (षष्ठं सप्तमं च पर्व) Trishashti-Shalakaa-Purusha-Charitam © सर्वेऽधिकाराः स्वायत्ताः कर्ता : आ. श्रीविजयशुभङ्करसूरिः सम्पादकः : मुनिधर्मकीर्तिविजयः प्रकाशकः : कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यनवमजन्मशताब्दी स्मृति-शिक्षणसंस्कारनिधिः - अमदावाद द्वितीयसंस्करणम् : वि.सं. २०६८ ई०सं० २०१२ प्रतयः : ५०० मूल्यम् : रु. १२५-०० पृष्ठानि :१८ + २३४ = २५२ प्राप्तिस्थानम् १ श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर १२, भगतबाग, आणन्दजी कल्याणजीनी पेढी समीपे, नवा शारदामन्दिर रोड, पालडी, अमदावाद - ३८०००७. फोन : २६६२२४६५ दूरभाष : ०९८०८६३७७१४ २ सरस्वती पुस्तक भण्डार ११२, हाथीखाना, रतनपोल, अमदावाद-३८०००१. फोन : २५३५६६९२ बालानामिव माता च सरितामिव सागरः । दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमत्र-तवज्ञ ! ज्योतिर्विज्ञानकोविद ! ।। मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! । लब्धनन्दनसूर्याशीः ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलब्रह्मपालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रह्यपि सत्ये हि सदा नियग्रहिन् ! मुदा । स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि- विज्ञान- कस्तूर- यशोभद्र- शुभङ्कराः । सूरीशा गुरवो यस्य प्रबलमहिमान्विताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् ! । औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव । सर्वं पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥ मुद्रणम् : किरीट ग्राफीक्स ४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१ - धर्मकीर्तिविजयः Page #3 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन किञ्चित् प्रास्ताविकम् कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी (वि.सं. ११४५-२०४५)ना मंगल अवसरे पूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी तथा पूज्य आचार्यश्रीविजयशीलचन्द्रसूरीश्वरजीनी शुभप्रेरणाथी अमारा आ ट्रस्टनी स्थापना थई हती. प्राचीन ग्रन्थोनुं संशोधन-सम्पादनपूर्वक प्रकाशन, अनेक विद्वज्जनोनुं सन्मान, 'अनुसंधान'नामनी शोधपत्रिकानुं प्रकाशन-इत्यादि साहित्यिक प्रवृत्तिओ आ ट्रस्टनो मुख्य उद्देश छे. ते अनुसार कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी सूरिपद शताब्दी (वि.सं. ११६६-२०६६)ना उपलक्ष्यमां तेओना द्वारा विरचित त्रिषष्टिशलाकापुरुषचरितनो पूज्य आ.श्रीविजयशुभंकरसूरिजी रचित गद्यात्मकसारोद्धार प्रगट करतां अमो आनन्द अनुभवीए छीए. आ गद्यात्मकसारोद्धारनी रचना पूज्य आ.श्रीविजयशुभंकरसूरिजीए पूर्वे वि.सं. २०१६ना वर्षे करी हती. आजे ५० वर्ष पछी पूज्य श्री विजयसूर्योदयसूरीश्वरजीना शिष्य मुनिश्रीधर्मकीर्तिविजयजी द्वारा पुनः सम्पादित-संशोधित करेल आ ग्रन्थना प्रकाशननो लाभ अमारा ट्रस्टने मल्यो, ते बदल अमो तेओना ऋणी छीए. सुविदितमेवेदं विदुषां यत् कलिकालसर्वज्ञेतिबिरुदधारिणा परमविदुषा जैनाचार्येण श्रीमता हेमचन्द्राचार्येण भगवता गूर्जरनरेशद्वयं सिद्धराजजयसिंहकुमारपालचौलुक्येति संज्ञं प्रतिबोधितं; गूर्जरराष्ट्रे सुविशालेऽमारिः प्रवर्तिता; अनेकशतसङ्ख्या जिनालया निर्मापिताः; सोमनाथमहादेवाभिधशिवतीर्थस्योद्धारकार्ये राजा प्रेरितस्तत्तीर्थपुनःस्थापनावसरे स्वयमुपस्थितं च । युगप्रभावकेनाऽनेन सूरिपादेन सर्वजनताया हितकराणि मुक-पशूनामभयदानि जैनधर्मस्योद्योतकारीणि च नैकानि महान्ति कार्याणि यथा कृतानि, तथैव तेन भगवता नानाविधशास्त्रनिर्माणकार्यमपि विद्वश्चेतश्चमत्कृतिकारकं विहितमेव । तद्विरचितेषु ग्रन्थेषु सिद्धहेमचन्द्राभिधं शब्दानुशासनं, काव्यानुशासनं, छन्दोनुशासनं, लिङ्गानुशासनं, वादानुशासनं, शब्दकोषद्वयं, संस्कृतव्याश्रयमहाकाव्यं प्राकृतव्याश्रयकाव्यं, स्तुतिकाव्यानि, योगशास्त्रम्-इत्यादयो ग्रन्थाः प्रमुखाः प्रसिद्धाश्च विद्याक्षेत्रे । तद्विरचित एको महान् ग्रन्थोऽयमप्यस्ति-त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । प्रायः ३६००० श्लोकमितो ग्रन्थोऽयं जैनपुराणप्रबन्धसन्निभो महाकाव्यलक्षणोपेतश्च । ग्रन्थेऽत्र जैनधर्मस्वीकृततीर्थङ्कर-चक्रवर्ति-वासुदेवबलदेव-नारदादीनां शलाकापुरुषाणां चरितवर्णनं विशदं विहितमस्ति । जैनसंघे एतदध्ययनाध्यापनप्रचारोऽविरतं बहुशतवर्षेभ्यः प्रचलति । संस्कृताध्ययनकर्तृणां विद्यार्थिनां बोधवेशद्यार्थमेतस्य काव्यग्रन्थस्याऽध्ययनं नितरामावश्यकम् । जैनसिद्धान्तानां सुखबोधार्थ जैनेतिहासस्य च ज्ञानार्थमप्येतदध्ययनमतीवोपयोगि । परन्तु महाकाव्यस्याऽस्याऽध्ययने सर्वे जना न समर्था भवेयुः । मन्दबोधानां सारल्योत्सुकानां चाऽभ्यासिनामेतस्याऽध्ययनं बहुधा दुरूहमपि स्यादेव । एतादृग्जनान् मनसि निधाय आचार्यपादश्रीविजयशुभरसूरिवर्येण ग्रन्थस्यैतस्य सरलीकरणाय तदर्थं चाऽस्य वि. सं. २०६७ लि. कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य नवमजन्मशताब्दीस्मृतिशिक्षणसंस्कारनिधिः अमदावाद. Page #4 -------------------------------------------------------------------------- ________________ पद्यात्मकं महाकाव्यप्रौढिसमलङ्कृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण । ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सञ्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अतः श्रीहेमचन्द्राचार्यपादानां सूरिपदनवमशताब्धा वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपाद श्रीगुरु भगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानीं फलान्यावहतीति महानानन्दविषयः । ग्रन्थोऽयं संस्कृताभ्यासिनां यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् । ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तॄणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्रार्थिनो वयमिति शम् । सं. २०६७ आश्विन शुदि - १, सुरेन्द्रनगरे - शीलचन्द्रविजयः 7 विषयानुक्रमः षष्ठं पर्व प्रथमः सर्गः (श्री कुन्थुजिनचरितम् ) विषयः सिंहावहनृपवृत्तान्त:. कुन्थुजिनजन्म........ कुन्थुजिनस्य चक्रित्वाभिषेकः कुन्थुजिनस्य दीक्षाग्रहणम्. कुन्थुप्रभोः केवलोत्पत्तिर्देशना च. शासनदेवतयोः कुन्थुजिनसन्निधानम् .. कुन्थुप्रभोः परिवारेयत्ताकथनम् . कुन्थुप्रभोर्निर्वाणम् द्वितीयः सर्गः (श्रीअरनाथचरितम् ) धनपतिमुनेस्तीर्थकृन्नामकर्मोपार्जनम् . अरजिनस्य जन्मारभ्य दीक्षान्तवृत्तान्तः अरनाथस्य केवलोत्पत्तिर्देशना च शासनदेवतयोः प्रभुसन्निधानम्.. कुम्भगणधरात् सागरदत्तस्य जामातृविषयः प्रश्नः वीरभद्रस्य गृहान्निष्क्रमणम्. वीरभद्रस्य शङ्खश्रेष्ठिगृहवास: अनङ्गसुन्दर्या वीरभद्रेऽनुरागः रत्नाकरनृपस्य पुत्रीविवाहचिन्ता. वीरभद्रस्याऽनङ्गसुन्दर्या परिणयः अनङ्गसुन्दर्या सुव्रतोपाश्रयप्राप्तिः वीरभद्रस्य रत्नप्रभया विवाहस्तस्याः सुव्रतोपाश्रयप्राप्तिश्च वामनवीरभद्रस्य प्राप्तिर्भार्याभिस्संगमश्च वीरभद्रस्य प्राग्भवः पृ. १ २ २ ३ ५. ९ ९ १० ११ १२ १३ १४ १५ १६ १८ १८ Page #5 -------------------------------------------------------------------------- ________________ विषयः ....................... विषयः अरजिनस्य परिवारः .... अरजिनस्य निर्वाणम् ..................... .................. तृतीयः सर्गः (श्रीआनन्दपुरुष-पुण्डरीक-बलिचरितम्) प्रियमित्रनृपस्य देवत्वम् आनन्दपुरुष-पुण्डरीकयोर्बलदेव-वासुदेवयोर्जन्म पुरुषपुण्डरीकेण बलिवधश्च. चतुर्थः सर्गः (श्रीसुभूमचक्रवर्तिचरितम्) भूपालनृपस्य देवभवाप्तिः ...... अग्निकस्य जमदग्निनाम्ना ख्यातिः ...... वैश्वानर-धन्वन्तरिदेवतयोविवादः ............... ............... वैश्वानर-धन्वन्तरिदेवाभ्यां पद्मरथ-जमदग्न्योः परीक्षणम् .. जमदग्निना जितशत्रुकन्या कुब्जीकरणम् .. जमदग्ने रेणुकया विवाहः. परशुराम-कृतवीर्ययोर्जन्म . परशुरामेण रेणुका-ऽनन्तवीर्ययोर्वधः कृतवीर्येण जमदग्निवधः परशुरामेण कृतवीर्यवधश्च . सुभूमचक्रिजन्म ....... परशुरामेण सत्रागारनिर्माणम् .......... ........ सुभूमेन परशुरामवधः .... पञ्चमः सर्गः (श्रीदत्त-नन्दन-प्रह्लादचरितम्) वसुन्धरनृपस्य देवलोकाप्तिः ............ प्रतिविष्णोः प्रह्लादस्य जन्म. नन्दन-दत्तयोर्बलदेव-वासुदेवयोर्जन्म...................................... दत्तेन प्रह्लादवधः षष्ठः सर्गः (श्रीमल्लिनाथचरितम्) बलनृपस्य मोक्षः महाबलस्य राज्याभिषेकस्तन्मित्राणि च ............. महाबलस्य समित्रस्य प्रव्रज्या देवत्वं च मल्लिप्रभोर्जन्म .................... प्रतिबुद्धिनृपस्य कुम्भनृपान्तिके दूतप्रेषणम् .. मल्लिप्रभोरहन्नयद्वारादिव्यकुण्डलद्वयप्राप्तिश्चन्द्रच्छायस्य कुम्भनृपं प्रति दूतप्रेषणं च . चन्द्रच्छायस्य कुम्भं प्रति दूतप्रेषणम् ............... रुक्मिनृपस्य कुम्भं प्रति दूतप्रेषणम् .. ............ मल्लेन चित्रकरकरकर्त्तनमदीनशत्रुनृपस्य कुम्भं प्रति दूतप्रेषणं च.......... चोक्षापरिव्राजिकाया मल्लया पराभवो, जितशत्रोः कुम्भं प्रति दूतप्रेषणं च ..३४ मल्ले: षण्णां राज्ञां प्रबोधनम् ... ................ मल्लेनूपप्रबोधाय स्वसुवर्णप्रतिमानिर्मापनम् ........... मल्लेर्दीक्षाग्रहणं कैवल्यं च..... मल्लेर्देशना. मल्ले: शासनदेवते मल्ले: परिवारः.. मल्लेनिर्वाणम्.... मल्लेरायुःकालादि... सप्तमः सर्गः (श्रीमुनिसुव्रतनाथचरितम्) सुरश्रेष्ठनृपचरितम् . सुमुखनृपस्य वनमालया सुखानुभव: ... ............. सुमुख-वनमालयोर्युगलिकभवः .......... वीरकुविन्दस्य देवत्वं प्राप्य युगलिकपराभवो हरिवंशवर्णनश्च मुनिसुव्रतस्य जन्मादि.. मुनिसुव्रतस्य दीक्षा .. ............. मुनिसुव्रतस्य केवलोत्पत्तिर्देशना च.. मुनिसुव्रतस्य शासनदेवते....... मुनिसुव्रतस्याऽश्वप्रबोधोऽश्वपूर्वभववर्णनं च.. कार्तिकश्रेष्ठि-भागवतव्रतयोश्चरितम् . मुनिसुव्रतस्य परिवारो निर्वाणं च. ................ मुनिसुव्रतस्याऽऽयुःकालादि. Page #6 -------------------------------------------------------------------------- ________________ विषयः अष्टमः सर्गः (श्रीमहापद्मचक्रिचरितम्) प्रजापालनृपचरितम् ......... श्रमणेन नमुचिसचिवपराजयः... नमुचिना सिंहलनृपसाधनम् ................ महापद्मस्य तापसाश्रमगमनम्.. महापद्यस्य मदनावल्यामनुरागो, गजसाधनं, कन्याभिः परिणयश्च ..........५१ पद्मस्य जयचन्द्रया परिणयः पद्मस्य चक्रित्वं, मदनावल्या परिणयश्च .................. पद्योत्तरस्य मुक्तिर्विष्णुकुमारस्य लब्धिप्राप्तिश्च .. नमुचेः क्रोधः... विष्णुकुमारस्य नमुचिप्रबोधनम् ....... विष्णुकुमारस्य मोक्षो नमुचिनिगृहश्च .................. पद्यस्य मोक्षः ...... ..................५७ सप्तमं पर्व (जैनरामायण) प्रथमः सर्गः कीर्तिधवल-देव्योः श्रीकण्ठ-पद्मयोश्च विवाह:, श्रीकण्ठेन वानराख्यराज्यस्थापनं च... .................. श्रीकण्ठस्य मोक्षः......... तडित्केशवृतान्तः.......... देव-तडित्केशयोः पूर्वभववृतान्तः तडित्केशघनोदध्योः परमपदप्राप्तिश्च . श्रीमाली-किष्किन्ध्योविवाहो विजयसिंहा-ऽन्धकयोर्वधं निर्धातस्य लङ्काराज्यं चाऽशनिवेगस्य प्रव्रज्या च... इन्द्रस्य जन्म राज्यं च ............... मालीन्द्रयोयुद्ध मालिवधो वैश्रमणस्य राज्यं च............ रत्नश्रवसो विद्यासाधनं कैकस्या परिणयश्च दशमुख-कुम्भकर्ण-विभीषणानां जन्म ......... विषयः द्वितीयः सर्गः मात्रा रावणस्य स्वपूर्वपुरीहरणकथनम् .... रावणादीनां विद्यासाधननिश्चयश्च . रावणादीनां विद्यासाधनम् ............................. रावणेन चन्द्रहासासिसाधनम् ..................... रावण-मन्दोदर्योविवाहः ................... रावणस्य पद्यावत्यादिषट्सहस्रकन्यकापरिणयनम् ......... कुम्भकर्ण-विभीषणयोविवाहः ................... मन्दोदर्या इन्द्रजिन्मेघवाहननामपुत्रद्वयम् ................ रावणेन लङ्काजयो वैश्रमणस्य प्रव्रज्या च.. रावणस्य भुवनालङ्कारगजप्राप्तिश्च ............... रावणेन यमनृपगृहगमनम् ... वालिनो राज्यं, सुग्रीवस्य यौवराज्यं च...... खर-चन्द्रणखयोविवाहो विराधजन्म च..... वालि-रावणयोर्युद्ध, रावणपराजयः, सुग्रीवस्य राज्यं, वालिन: प्रव्रज्या च...... रावण-श्रीप्रभयोविवाहः रावणस्य वालिकृतो मानभङ्गो, रावणस्य तत्क्षमापन रावणाय धरणेन्द्रकृतवरप्रदानं, रत्नावलीपरिणयश्च वालिन: कैवल्यं मोक्षश्च, साहसगतेविद्यासाधनार्थगमनं, तारा-सुग्रीवयोविवाहादिकं च ....... रावण-सहस्रांशुयुद्धं, सहस्रांशोरनरण्यनृपस्य च प्रव्रज्या ................... नारदप्रेरितरावणाज्ञया मरुत्तनृपस्य क्रतुत्याग: अभिचन्द्रस्य क्षीरकदम्बस्य च प्रव्रज्या, नारद-पर्वतकवसूनामध्ययनादिवृत्तान्तश्च... ........... वसोराकाशस्फटिकवेद्यादिवृत्तान्तः ............... नारद-पर्वतकयोरजपदार्थविवादः. वसुसाक्ष्येण नारदस्य वादे पराजयो, वसोर्नरकप्राप्तिश्व .......... Page #7 -------------------------------------------------------------------------- ________________ 12 विषयः वसुपुत्राणां केषाञ्चित् देवताभिर्वधोऽन्येषामन्यत्र गमनं च......... सगरेण कूटेन परिणयनम् ............... पर्वत-शाण्डिल्ययोर्लोकवञ्चनम् ... पर्वतस्याऽसुरसहायेनाऽसदुपदेशादिना लोके यज्ञप्रवर्त्तनम् ............. असुरेण सुलसा-सगरयोविनाशः .......... नारदजन्मादिवृत्तान्तो, रावणेन कनकप्रभापरिणयनं च ......... सुमित्र-प्रभव-मधु-चमरेन्द्राणां कथा ....... नलकुबरेण कुम्भकर्णादिपराजयः.... रावणेन नलकुबरनिग्रहः ................. रावणेनेन्द्रनृपनिग्रहः .............................. सहस्रारप्रार्थनयेन्द्रस्य रावणान्मुक्तिः............... इन्द्रस्य पराजयहेतुः पूर्वभववृत्तान्तो मोक्षश्च .. तृतीयः सर्गः पवनञ्जयाऽञ्जनासुन्दर्योर्जन्मादिवृत्तान्तः ..... पवनञ्जयाऽजनासुन्दोविवाहनिश्चयः. पवनञ्जयाऽजनासुन्दोविवाहः ................ रावणेनाऽऽहूतस्य प्रस्थितस्य पवनञ्जयस्य चिरात्त्यक्ताञ्जनासमागमः .... १०१ अञ्जनाया गर्भधारणं, निर्वासनं, वने मुनिप्राप्तिश्च ... अञ्जनापूर्वभववृत्तान्तः ... अञ्जनायाः सिंहात् त्राणम् . हनुमतो जन्मवृत्तान्तः ............... हनुमतः श्रीशैलनामकरणम् . पवनवेगस्याऽजनान्वेषणं, चिताप्रवेशाद्वारेणाऽज्जनासमागमो, हनुमतो यौवनं च...... रावणेन वरुणपराजयः ... चतुर्थः सर्गः वज्रब्राहोः प्रव्रज्या ................ कीर्तिधरस्य प्रव्रज्या...................... ................ ११० विषयः सुकोशलस्य प्रव्रज्या .......... कीर्तिधर-सुकोशलयोर्मुक्तिः सोदासजन्म, मांसभक्षणप्रवृत्तिः, श्रावकत्वं च..... सोदासवंशवर्णने दशरथवृत्तान्तः ............ दशरथ-कैकेयोर्विवाहः ............. दशरथस्य रावणप्रेरितविभीषणात् त्राणम् .. रामादीनां जन्म.............. भामण्डलजन्मादिवृत्तान्तः. रामस्याऽयोध्यागमनं, राम-सीतयोविवाहश्च .............. सीतापमानीतनारदप्रेरितेन चन्द्रगतिना जनकनिग्रहः ........... राम-सीतादीनां धनुर्भङ्गादिनां विवाहवृत्तान्तः .......... दशरथस्य वैराग्यम् ............................ सत्यभूतिमुनिना भामण्डलवृत्तान्तकथनम् .. दशरथपूर्वभववृत्तान्तः..... रामादीनां वनगमनवृत्तान्तः .......................... भरतेन प्रार्थितस्याऽपि रामस्य वनादपरावृत्तिः पञ्चमः सर्गः वज्रकर्णस्याऽभिग्रहग्रहणवृत्तान्तः ............ वज्रकणे सिंहोदरकोपः ...... सिंहोदरेण वज्रकर्णपुररोधः ............ लक्ष्मणेन सिंहोदरनिग्रहः, कन्याशतत्रयपरिणयनं च ................... पुंवेषकल्याणमालावृत्तान्तः लक्ष्मणेन काकम्लेच्छनिग्रहो, वालिखिल्यमोचनं च................... लक्ष्मणेन द्विजनिग्रहः. गोकर्णयक्षनिर्मितपुरे रामादीनां निवास: रामस्य कपिलानुग्रहः, कपिलस्य प्रव्रज्या च ......................... वर्षापगमे रामादीनां प्रस्थानम् . .......................... लक्ष्मणेन वनमालात्राणम् .................. ............. ................१०९ Page #8 -------------------------------------------------------------------------- ________________ 14 विषयः रामादीनां वनमालापितृगृहगमनं अतिवीर्येण रामादीनां युद्धे लक्ष्मणेनाऽतिवीर्यपराजयोऽतिवीर्यस्य प्रव्रज्या च.. वनमालया लक्ष्मणस्य शपथग्रहणम् ................ जितपद्मया सह लक्ष्मणस्य विवाहः ... वंशशैलपर्वते मुनिद्वयस्य कैवल्योत्पत्तिः ....... उपसर्गकारणे कुलभूषणमुनिकथितो निजवृत्तान्तः, जटायुवृत्तान्तस्तत्सम्बन्धे च स्कन्दकमुनिवृत्तान्तः . लक्ष्मणेन शम्बूकवधः.... चन्द्रणखाया राम-लक्ष्मणयोविवाहप्रार्थनं, ताभ्यां कृतो निषेधश्च ........ तया खरादिभ्यः पुत्रवधकथनं, तेषां च युद्धार्थमागमनम् ............... सिंहनादकरणेन रावणेन सीतापहरणम् ............. सीताविलापश्रवणेनाऽऽगतस्य रत्नजटिनो विद्यानाशनम् ... ................ रावणेन सीताप्रार्थनम् .. षष्ठः सर्गः रामस्य लक्ष्मणेन पुनः प्रेषणम् ......... लक्ष्मणकृतस्विशिरसो वधः .... रामस्य मूर्छनम् ............... विराधसेवकैः सीताशोधनं निष्फलता च............ साहसगतिना प्रतारणीविद्यासाधनं, सुग्रीवरूपं धृत्वा तदन्तःपुरप्रवेशनं च. सत्य-विटसुग्रीवयोर्युद्धम् . साहसगते: वधः ............... चन्द्रणखाविलापो, रावणदत्तमाश्वासनं च.... मन्दोदर्याः सीताकृतस्तिरस्कारः .......... रावणप्रतिबोधने विभीषणस्य नैष्फल्यम् ...... सग्रीवस्य रत्नजरिद्वारा सीताशुद्धिः... साभिज्ञानदानं हनूमतो लङ्काप्रेषणम्.... विषयः हनूमता महेन्द्रपुरि मातामह-मातुलाभ्यां युद्धं जयश्च ................... हनूमता लङ्काप्राकारभञ्जनम्..... सीतापार्श्वे गत्वा रामागुलीयकपातनम् ...... हनूमता सीतायै रामसन्देशकथनम्.... हनूमता कृतं देवरमणोद्यानभञ्जनम् ......... इन्द्रजिता हनूमतो बन्धनम् ....... हनूमता रावणमुकुटभजनं लङ्काभजनं च.. सप्तमः सर्गः रामादीनां लङ्काविजयाय प्रयाणम् ............ विभीषणेन सीतामोक्षाय रावणस्य बोधनं, क्रुद्धेन च रावणेन तस्य निर्वासनम् ... विभीषणस्य रामशरणगमनम् ..... राम-रावणसैन्ययोयुद्धम् ......... रावणस्य रणप्रवेशः .. सुग्रीव-भामण्डलयोर्बन्धनम् ............. राम-लक्ष्मणाभ्यां महालोचनदेवस्मरणम् सुग्रीव-भामण्डलयो गपाशतो मोचनम् रावण-विभीषणयोर्युद्धम् . इन्द्रजित्-कुम्भकर्णयोर्बन्धनम् ..... रावणेन सह रामस्य युद्ध रावणस्य च लङ्कागमनम् .. लक्ष्मणस्य प्रतिजागरणोपायस्य चिन्तनम् विद्याधरोक्तो विशल्यास्नपनोदकसेचनरूपो लक्ष्मणत्राणोपायः .... विशल्यास्पर्शेन लक्ष्मणदेहतः शक्तिनिर्गमनम् ... बन्धुवर्गविमोचनार्थ रावणेन दूतप्रेषणम् . रावणस्य बहुरूपाविद्यासाधनम् ..... अङ्गदकृतोपसर्गेऽपि रावणस्य निश्चलत्वम् ....... सीताया अनशनाभिग्रहणम् ........ .............. .......... Page #9 -------------------------------------------------------------------------- ________________ विषयः युद्धे रावणेन चक्रमोचनम् . लक्ष्मणकृतो रावणवध:. 16 अष्टमः सर्गः राक्षसानां रामशरणगमनम्. विभीषणाद्यैः रावणाङ्गसंस्करणम्. इन्द्रजिदादीनां पूर्वभवव्यतिकरकथनम् .. कुम्भकर्णादीनां दीक्षा.. सीतामेलनम् ...... विभीषणस्य राज्याभिषेकः राम-लक्ष्मणमातृभ्यां नारदाय स्वदुःखनिवेदनम् . रामस्याऽयोध्यागमनोत्साह: अयोध्यायां महोत्सवः . मुनिकथितो भरतस्य हस्तिनञ्च पूर्ववृत्तान्तः भरतस्य कैकेय्याश्च दीक्षा मोक्षश्च. राम-लक्ष्मणयोर्बलदेवत्व - वासुदेवत्वाभिषेकः शत्रुघ्नस्य मथुराराज्येच्छा युक्तिपूर्वं च मथुरेशस्य पराभवो वधश्च शत्रुघ्नस्य मथुराया आग्रहित्वे मुनिकथितः पूर्वभववृत्तान्तः महर्षीणां प्रभावतो देवकृतरोगादीनां शान्ति:. राम-लक्ष्मणयोः पट्टमहिष्यादिपरिवार: सीतायाः स्वप्नदर्शनं गर्भधारणं च सीतादूषितत्वम्. रामस्य निशाभ्रमणं जनवादश्रवणं च अरण्ये सीतात्यागः रामकृते सीताप्रदत्तः सन्देश:. नवमः सर्गः अरण्ये सीतया सैन्यदर्शनम्... वज्रजङ्घनृपेण तस्याः स्वगृहे नयनम् सीतासन्देशं श्रुत्वा रामस्य विलापः पृ. १७८ . १७८ १७९ १७९ १७९ १८० . १८० १८१ १८१ १८२ १८३ १८४ १८६ ------ १८६ १८६ १८८ १९० १९१ . १९१ . १९२ १९३ . १९३ १९४ . १९५ १९५ १९६ विषयः अनङ्गलवण-मदनाङ्कुशयोर्जन्म लवणस्य विविधकन्याभिः परिणयः. अङ्कुशविवाहनिमित्तं पृथुनृपेण युद्धम् . लवणा-ऽङ्कुशयोरयोध्यां प्रति प्रयाणमयोध्यापुरीरोधनं च. भामण्डलस्य सीतापार्श्वे गमनम् ... लवणा-ऽङ्कुशाभ्यां राम- - लक्ष्मणयोर्युद्धायाऽऽह्वानं च लक्ष्मणस्य मूर्च्छा...... लक्ष्मणेनाऽकुशल 17 नारदेन पुत्रद्वयवृत्तान्तकथनम् .. सपुत्रस्य रामस्याऽयोध्याप्रवेशः रामस्य सीताशुद्धयर्थं दिव्यकरणस्याऽऽग्रहः सुग्रीवाद्यैः सीतानयनम् ... सीतया दिव्यपञ्चस्वीकरणं, रामस्य चाऽग्निप्रवेशाज्ञा. सीतासान्निध्यार्थमिन्द्रस्य स्वसेनाधिपतये आज्ञा. सीताया अग्निप्रवेशः. सीताशीलप्रभावादग्निविध्यापनम् सीतायाः दीक्षा -------- दशमः सर्गः रामस्य विह्वलता देशानान्ते रामस्य निजभव्यत्वे प्रश्न उत्तरश्च. रावण - विभीषणादीनां पूर्वभववृत्तान्तः रामादीनां सीतायै वन्दनम् . सीताया अच्युतेन्द्रत्वम्.. लवणा-ऽङ्कुशाभ्यां लक्ष्मणपुत्राणां प्रतिबोधनं तेषां च दीक्षा. हनूमतो दीक्षा मोक्षच ... लक्ष्मणस्य परीक्षणं लक्ष्मणमृतिश्च लवणा- -ऽङ्कुशयोर्दीक्षा मोक्षश्च... रामस्याऽसमञ्जसचेष्टितं, देवद्वयेन च प्रतिबोधनम् . पृ. . १९६ . १९७ १९७ १९८ १९९ १९९ २०० . २०० २०० . २०१ . २०१ २०२ २०२ . २०३ . २०३ . २०३ २०४ २०५ २०५ . २०५ २१० २१० . २१० . २११ २११ . २१२ .२१२ Page #10 -------------------------------------------------------------------------- ________________ विषयः राम-शत्रुघ्नादीनां दीक्षा रामस्याऽवधिज्ञानोत्पत्तिः रामस्याऽभिग्रहः ... ................. सीतेन्द्रकृत उपसर्गः ................. रामस्य केवलज्ञानोत्पत्तिः. रामेण रावण-लक्ष्मणयोर्गतिविषयककथनम् ... सीतेन्द्रेण नरकभूमिं गत्वा प्रतिबोधनम् ...................... रामस्य मोक्षः ..................... एकादशः सर्गः नमिनाथभगवतः पूर्वजन्मसम्बन्धः .............. नमिनाथस्य जन्म............... प्रभोर्जन्मोत्सवो नामस्थापनं च ....... भगवतो राज्याभिषेकः भगवतो वार्षिकदानं दीक्षा च ................... प्रभोधर्मदेशना गणधरस्थापना च...................... शासनदेवतयोः प्रभोः परिवारस्य च वर्णनम् .. प्रभोनिर्वाणम् . द्वादशः सर्गः हरिषेणचक्रिण: पूर्वभवसम्बन्धः ........ चक्रिजन्म .............. चक्ररत्नोत्पत्तिः षटखण्डसाधना च.. चक्रिणो दीक्षा मोक्षश्च ..... त्रयोदशः सर्गः जयचक्रिण: पूर्वभवसम्बन्धः ..... जयचक्रिणो जन्म............. चक्ररत्नोत्पत्ति: षट्खण्डसाधना च.... जयचक्रिणो दीक्षा मोक्षश्च.. कठिनशब्दार्थः....... Page #11 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः श्रीकुन्थुनाथ-अरनाथादिचरितप्रतिबद्धं षष्ठं पर्व श्रीकुन्थुजिनचरितम् प्रथमः सर्गः चक्री च धर्मचक्री च श्री-शूरतनयो जिनः । मनःशुद्भया श्रियो वृद्धयै कुन्थुर्हदि निधीयते ॥१॥ अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु आवर्तनाम्नि विजये खड्गिनाम्न्यां महापूर्यां सकलगुणभाजनं धर्मधुरन्धरो नीतिपरायणः सिंहावहो नाम नृपो बभूव । सोऽनासक्त्या भोगान् भुञ्जान: कमपि कालं गमयित्वा सातिशयवैराग्य: संवराचार्यपादान्ते दीक्षामग्रहीत् । तीव्र व्रतं पालयश्चाऽर्हदाराधनादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपार्जयत् । कालयोगेन विपद्य च सर्वार्थसिद्धे विमाने महद्धिकः सुरोऽभवत् । इतश्चाऽस्यैव जम्बूद्वीपस्य भारतक्षेत्रे चैत्य-प्रासादादिसुशोभिते हस्तिनापुरे पुरे तेजसा शूर इव शूरो नाम नृपो बभूव । दयादाक्षिण्यादिगुणालङ्कतस्य तस्य रूप-लावण्यसमन्विता शीलवती Page #12 -------------------------------------------------------------------------- ________________ षष्ठं पर्व - प्रथम: सर्गः वैताढ्यमुपेत्य तच्छेणिद्वयवत्तिनां विद्याधरेन्द्राणामुपायनानि पूजाश्च स्वीकृत्य स्वयं गङ्गादेवी नाट्यमालं च सेनान्या म्लेच्छसङ्कुलं गङ्गानिष्कुटं चाऽसाधयत् । सेनान्योद्घाटितद्वारां खण्डप्रपातागुहां प्रविश्य ततो निर्गत्य च सपरिच्छदो वैताढ्याद् निर्गच्छन् गङ्गामुखनिवासिनः स्वयं सिद्धान् नैसर्पप्रमुखान् नवनिधीन् धारयत् । तत: सेनान्या द्वितीयं गङ्गानिष्कुटं साधयित्वा सम्पूर्णचक्रभृद् नरा-ऽमरनिषेवितो हस्तिनापुरमाययौ। तत्र च प्रभोर्देवैर्नरेन्द्रश्च चक्रवर्तित्वाभिषेकश्चक्रे । तदानीं च द्वादशाब्दी यावत् तस्मिन् पुरे महोत्सवः समजायत। तदेवं कुन्थुप्रभोश्चक्रित्वेऽपि वर्षाणां त्रयोविंशतिसहस्राणि सार्धाष्टमशतानि व्यतीयुः। त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः श्रीनाम्नी पल्यभूत् । तस्याश्च कुक्षौ सर्वार्थसिद्धतस्त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा सिंहावहजीवस्ततश्च्युत्वा श्रावणकृष्णनवम्यां कृत्तिकास्थे चन्द्रेऽवातरत् । तदानीं च निशाशेषे सुखसुप्ता श्रीदेवी गजादींश्चतुर्दश महास्वप्नानपश्यत् । तया च प्रमुदितया कथितस्य स्वप्नस्य 'तव पुत्रश्चक्री तीर्थकृच्च भावी'ति फलं नृपोऽकथयत् । तत: पूर्णे समये सा देवी शुभे लग्ने वैशाखकृष्णचतुर्दश्यां कृत्तिकास्थे चन्द्रे सर्वलक्षणसम्पूर्ण छागावं काञ्चनवर्णं सुतं सुषुवे। ततः षट्पञ्चाशद्दिक्कुमार्य्यस्तदानीं सूतिकागृहमेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च समेत्य प्रभुं मेरुं नीत्वा तत्र सर्वैरिन्द्रैर्देवादिभिश्च समं स्नात्रं विधाय भक्त्या स्तुत्वा च पुनः प्रभुमादाय हस्तिनापुरमेत्य श्रीदेव्या: पार्श्वतोऽमुञ्चत् । शूरनृपश्च प्रभाते पुत्रजन्मोत्सवं चकार । अस्मिन् गर्भस्थे जनन्या 'कुन्थ्वाख्यो रत्नसञ्चयो दृष्ट' इति स्वामिन: कुन्थुरित्याख्यां चकार । प्रभुश्च शक्रसंक्रमितामृताङ्गष्ठं पिबन् वर्धमानः पञ्चत्रिंशद्धनून्नतो यौवनं प्रपेदे। काले च पित्राज्ञया कर्मफलस्याऽवश्यभोक्तव्यतया राजकन्यका: परिणिन्ये । जन्मतश्चाऽब्दानां त्रयोविंशतिसहस्रेषु सार्धाष्टमशतेषु गतेषु पित्राज्ञया राज्यमग्रहीत् । __माण्डलिकस्थितौ तावत्सु सहस्रेषु गतेषु च भर्तुरस्त्रागारे चक्ररत्नं समुदपद्यत । ततः प्रभुश्चक्रपूजां विधिवद् विधाय चक्रानुगो मागधेशं वरदाम-प्रभासेशौ च क्रमेण साधयित्वा सिन्धुदेवीं वैताढ्याद्रिकुमारं कृतमालदेवं च स्वयं सेनान्या च सिन्धुनिष्कुटं च साधयित्वा सेनान्योद्घाटितद्वारां तमिस्त्रागुहां प्राविशत् । ततो निर्गत्य चाऽऽपाताख्यम्लेच्छान साधयित्वा सेनान्या च द्वितीयं सिन्धुनिष्कुटं साधयित्वा तत: स्थानाद् ववले चक्रानुगः । ततो ततो लोकान्तिकामरैस्तीर्थप्रवर्त्तनाय प्रार्थितो राज्यं पुत्राय दत्त्वा वार्षिकदानं प्रददौ । देवैर्नृपैश्च कृतनिष्क्रमणोत्सवो विभुविजयाख्यां शिबिकामारूढः सहस्राम्रवणमुपेत्य शिबिकायाः समुत्तीर्य त्यक्तालङ्कारादिवैशाखकृष्णपञ्चम्यां कृत्तिकास्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्रवव्राज । तदानीमेव च प्रभोश्चतुर्थज्ञानमुत्पेदे । द्वितीयेऽह्नि च चक्रपुरे व्याघ्रसिंहनृपगृहे परमान्नेन पारणं व्यधात् । तत्र च देवैर्वसुधारादिपञ्चकं व्याघ्रसिंहनृपेण च प्रभुपादस्थाने रत्नपीठं च विदधे। प्रभुश्च निःसङ्गश्छद्मस्थः षोडश वर्षाणि वसुन्धरां विजहार । ___अथैकदा प्रभुर्विहरन् सहस्राम्रवणमागत्य कृतषष्ठस्तिलकद्रौ प्रतिमाधरस्तस्थौ । ततः प्रभोश्चैत्रशुक्लतृतीयायां कृत्तिकास्थे चन्द्रे घातिकर्मक्षयात् केवलं सञ्जज्ञे । सेन्ट्रैश्च देवैस्तदानीमागत्य तत्क्षणं कृते प्राकारादिसमन्विते समवसरणे पूर्वद्वारेण प्रविश्य प्रभुविंशत्यग्र Page #13 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चतुर्धन्वशतोच्चं चैत्यपादपं प्रदक्षिणीकृत्य यथोपचारं रत्नसिंहासनं पूर्वाभिमुखोऽधितष्ठौ । सुरादयश्च सर्वे यथोपचारं यथाविधि यथास्थानं निविविशिरे । प्रभुं समवसृतं ज्ञात्वा कुरुनृपश्चाऽप्यागत्य प्रभुं नमस्कृत्याऽनुशक्रं कृताञ्जलिनिषसाद । ततः शक्र-कुरुराजयोः स्तुत्वा विरतयोः सतोः श्रीकुन्थुनाथो धर्मदेशनां विदधे "अयं भवाम्भोधिोनिलक्षचतुरशीत्यावर्तभीषणो महादुःखनिबन्धनम् । अस्य तरणे चेन्द्रियोर्मिजयोर्जिता मनःशुद्धिरेव यानपात्रम् । सा हि ज्वलन्ती दीपिकेव निर्वाणपथप्रदर्शिनी । तस्यां हि सत्यां सर्वे गुणाः सन्ति । तस्यामसत्यां च केऽपि गुणा न सन्त्येव । अतो बुधैः सैव कार्या । मनःशुद्धि विहाय मुक्तये तपश्चरणं नावं विहाय भुजाभ्यां समद्रतरणवद ज्ञेयम् । अन्धस्य दर्पण इव मनःशुद्धि विना ध्यानं मुधा। चञ्चलं चेतो हि मुक्तये तप्यमानान् देहिनो वात्येवाऽन्यत्र कुत्रचित् क्षिपति । मनोराक्षसो हि जगत्त्रयीं संसारावर्तगर्ते पातयति । मनोवृत्तिनिरोधे कर्माणि निरुध्यन्ते । तदनिरोधे च तानि प्रसरन्ति । तस्माद् मुक्तिमिच्छता मन:शुद्धिरवश्यं विधेया । अन्यथा तप:-श्रुतादयः कायक्लेशमात्रफला एव भवन्ति । राग-द्वेषजयश्च मनशद्ध्यैव कर्तव्यः । येनाऽऽत्मा कालुष्यं हित्वा स्वस्वरूपेऽवतिष्ठते"। एवं प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् । स्वयम्भूप्रमुखाः पञ्चत्रिंशच्च गणधरा अभूवन् । प्रथमपौरुष्यां व्यतीतायां प्रभौ देशनाविरते स्वयम्भूर्गणधरः स्वामिपादपीठस्थो देशनामकरोत् । सोऽपि द्वितीयपौरुष्यां व्यतीतायां देशनां पारितवान् । ततः सुरादयः प्रभुं नत्वा स्वं स्वं स्थानमगुः । षष्ठं पर्व - प्रथमः सर्गः तत्तीर्थे समुत्पन्ने च हंसरथः कृष्णवर्णो दक्षिणाभ्यां बाहुभ्यां वरद-पाशधरो वामाभ्यां च मातुलिङ्गा-ऽङ्कुशधरो गन्धर्वयक्षः, केकिवाहना गौराङ्गी दक्षिणाभ्यां बाहुभ्यां बीजपूर-शूलधरा वामाभ्यां च मुषण्ढी-पङ्कजधरा बलादेवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् । ततोऽन्यतो विहरत: प्रभोः परिवारे च साधूनां षष्टिसहस्री, साध्वीनां सषट्शती षष्टिसहस्त्री, चतुर्दशपूर्वभृतां सप्तत्यधिकषट्शती, अवधिज्ञानिनां च सार्धं सहस्रद्वितयं, मनःपर्ययिणां चत्वारिंशदधिका त्रयस्त्रिंशच्छती, केवलिनां त्रीणि सहस्राणि शतद्वयं च, वैक्रियलब्धिमतां शतान्येकपञ्चाशच्च, जातवादलब्धीनां सहस्रद्वितयं, श्रावकाणां न्यूनाशीतिसहस्रयुग् लक्षमेकं, श्राविकाणां त्रीणि लक्षाण्येकाशीतिसहस्री चाऽभवन् । केवलात् त्रयोविंशत्यब्दसहस्रेषु चतुस्त्रिंशत्सहितेषु सप्तसु शतेषु गतेषु निर्वाणसमयं ज्ञात्वा सम्मेताद्रिमुपेत्य प्रभुर्मुनिसहस्रेण सममनशनं प्रपन्नवान् । मासान्ते च वैशाखकृष्णप्रतिपत्तिथौ कृत्तिकास्थे चन्द्रे प्रभुस्तैर्मुनिभिः सममव्ययं पदं प्राप । तदेवं प्रभोः कौमार-राज्य चक्रवर्तित्व-व्रतेष समभागकं पञ्चनवत्यब्दसहस्रमायुरभवत् । श्रीशान्तिजिननिर्वाणादर्धपल्योपमे गते श्रीकुन्थुनाथजिननिर्वाणमभूत् । सदेवैर्देवेन्द्रैश्च प्रभोनिर्वाणमहिमा विदधे । प्रभोर्दष्ट्रादि च पूजयितुं यथावद् निजनिजगृहेषु निन्ये ॥१॥ इति श्रीकुन्थुनाथचरितवर्णनात्मकः प्रथमः सर्गः ॥१॥ Page #14 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः श्रीअरनाथजिनचरितम् देवी-सुदर्शनानन्दवर्धनोऽरो जिनेश्वरः । सुदर्शनप्रदः पायादपायाद्वः सुदर्शनः ॥१॥ अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सीतानद्या उत्तरतटे वत्साख्ये विजये सुसीमानाम्न्यां महापुर्यां शूरो यशोधनो धनपतिर्नाम नृपोऽभवत् । स तथा मेदिनी शशास यथा तद्राज्ये कस्याऽपि बन्धन-ताडनादि नाऽभूत् । जिनोक्तधर्मप्रणयी स विरक्त: संवरमुनेरन्तिके प्राव्राजीत् । स च तीव्र व्रतं पालयन् तपांसि तप्यमानो विविधाभिग्रहपरो महीं विजहार । चातुर्मासिकोपवासान्तपारणे च तं महामुनि श्रेष्ठिपुत्रो जिनदासः श्रद्धया प्रत्यलाभयत् । तथा स धनपतिर्मुनिरहंदाराधनादिस्थानकैस्तीर्थकृन्नामकर्माऽऽर्जयत् । समाहितमनाश्च कालेन विपद्य नवमग्रैवेयके महद्धिकोऽमरोऽभवत् । ___ इतश्चाऽस्यैव जम्बूद्वीपस्य भारते क्षेत्रे सर्वसम्पत्समन्विते परिखादिशोभिते हेम-स्फटिकादिचैत्यैविराजिते हस्तिनापुरे पुरे धर्मिष्ठः प्रतापी सुदर्शन: सुदर्शनो नाम नृपप्रष्ठो बभूव । तस्य चाऽन्तःपुरशिरोरत्नं देवी नाम महादेव्यासीत् । पतिव्रतया शीलगुणसम्पन्नया तया सह भोगान् भुञ्जानः स नृपः कियन्तं कालं व्यतीयाय । तस्याश्च देवीदेव्याः कुक्षौ धनपतिजीवो निजमायु: पूरयित्वा ग्रैवेयकाच्व्युत्वा फाल्गुनशुक्लद्वितीयायां रेवतीस्थे चन्द्रेऽवातरत् । तदानीं सा षष्ठं पर्व - द्वितीयः सर्गः महादेवी सुखसुप्ता निशाशेषे तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । पूर्णे च समये सा मार्गशीर्षशुक्लदशम्यां रेवतीस्थे चन्द्रे कनकवर्णं नन्द्यावर्ताकं सम्पूर्णलक्षणं सुतमसूत । ततः षट्पञ्चाशद्दिक्कुमार्यः समेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथाकल्पं स्नात्रादि विधाय स्तुत्वा पुनर्देवीस्वामिन्याः पार्श्वतोऽमुचत् । सुदर्शनो नृपश्च समहोत्सवं तस्य देव्याः स्वप्नेऽरदर्शनादर इति नाम चक्रे । स चाउरः सुरस्त्रीभिर्धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो बाल्यमतीत्य यौवनं प्रपन्नस्त्रिंशद्धनुःसमुन्नतः पित्राज्ञया राजकन्या: परिणिनाय । तथा जन्मतोऽब्दसहस्राणां विंशतौ गतायां पित्राज्ञया राज्यधुरां दधार । ततः प्रभोर्माण्डलिकत्वेऽपि तावति काले गते शस्त्रागारे चक्ररत्नं समुत्पन्नम् । अन्यैश्चाऽपि त्रयोदशभिः सद्रत्नैः समन्वितः प्रभुश्चक्रानुगश्चतुर्वर्षशत्या भरतक्षेत्रं षट्खण्डमसाधयत् । चक्रिणश्च तस्य प्रभोस्तावत्येव काले गते च लोकान्तिकामरैः समेत्य तीर्थं प्रवर्तयेत्यूचे । ततः प्रभुर्वार्षिकदानं प्रदायाऽरविन्दाय सुताय राज्यं दत्त्वा वैजयन्त्या शिबिकया सहस्राम्रवणं प्राप्य मार्गशीकादशीदिने शुक्लपक्षे रेवतीस्थे चन्द्रेऽपराह्ने कृतषष्ठो राजसहस्रेण समं प्राव्राजीत्। द्वितीयेऽह्नि च राजपुरेऽपराजितनृपगृहे परमान्नेन पारणं चकार । तत्र च देवैर्वसुधारादिपञ्चकं नृपेण च प्रभुपादस्थाने रत्नपीठं विदधे । ततः प्रभुविविधाभिग्रहपरश्छद्मस्थस्त्रीणि वर्षाणि यावद्वसुन्धरां विजहार । अथाऽन्येद्युविहरन् सहस्राम्रवणमेत्य सहकारतरोर्मूले प्रतिमया प्रभुरस्थात् । कार्तिकशुक्लद्वादश्यां रेवतीस्थे चन्द्रे च घातिकर्म Page #15 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षयात् प्रभोः केवलमुत्पन्नम् । सद्यश्च देवैर्विहिते समवसरणे यथाकल्पं प्रविश्य षष्ट्यग्रधनुस्त्रिशत्युन्नतं चैत्यवृक्षं प्रदक्षिणीकृत्य प्रभुः प्राङ्मुखो रत्नसिंहासने समुपाविशत् । ततो देवादिषु यथास्थानमुपविष्टेषु शक्रा-ऽरविन्दाभ्यां स्तुतः प्रभुर्धर्मदेशनां प्रारेभे ८ ‘चतुर्वर्गेष्वेकान्तसुखसागरो मोक्षः प्रधानम् । तत्र साधकतमं ध्यानं, तच्च मनसोऽधीनम् । मनश्चाऽऽत्माधीनमपि कुर्वतां योगिनां रागादिभिः समाक्रम्य परायत्तं विधीयते । रागाद्याः पिशाचा इव मनागपि मिषं प्राप्य रक्ष्यमाणमपि मानसं मुहुर्मुहुश्छलयन्ति । तथा रागादिविलुप्तज्ञानेन मनसा जनोऽन्धेनाऽन्ध इव नरकगर्ते पात्यते । रागश्च द्रव्यादिषु रति-प्रीती । तेष्वेवाऽरत्यप्रीती च द्वेषः । एतावुभौ दृढतरौ सर्वप्राणिनां बन्धने सर्वदुःखवृक्षाणां मूलकन्दौ च । यदि राग-द्वेषौ न स्यातां तर्हि सुखे को विस्मयेत दुःखे कः कृपणो भवेत् मोक्षं को वा नाऽऽप्नुयात् ? राग-द्वेषयोश्च परस्परमविनाभावित्वम् । तयोरेकतरत्यागे द्वयमपि त्यक्तं भवति । कामादयश्च रागस्य सेवकाः, मिथ्याभिमानप्रमुखाश्च द्वेषस्य । तयोश्च मोहः पिता । एवमेते त्रय एव दोषाः, तैश्च जन्तवो भववारिधौ भ्रम्यन्ते । जीवः स्वभावतः स्फटिकवद् निर्मलः एतैरुपाधिभूतैस्तादात्म्येनाऽवभासते । एतैर्हि दोषैर्जीवानां स्वरूपं ज्ञानमेव ह्रियते । निगोदादित आरभ्याऽसन्नमुक्तिजीवपर्यन्तमेतेषां प्रसरः । एतैश्च वैरादिव मुक्त्या मुमुक्षुयोगः प्रतिषिध्यते । मुनिर्व्याधादिभ्योऽपि तथा न बिभेति यथा रागादिभ्यः । योगिनां वर्त्म हि पार्श्वस्थाभ्यां रागद्वेषाभ्यामतिसंकटम् । अतो मुमुक्षुभिरनलसैः समतया राग-द्वेषजयो विधातव्यः' । प्रभोरेवं देशनया प्रबुद्धा बहवो जना: प्राव्रजन् । कुम्भादयस्त्रयस्त्रिंशद् गणभृतश्च जज्ञिरे। प्रथमपौरुष्यां पूर्णायां प्रभौ षष्ठं पर्व द्वितीयः सर्गः देशनाविरते द्वितीयपौरुष्यां पूर्णायां च कुम्भे गणधरे देशनावर शक्राद्याः प्रभुं नत्वा स्वं स्वं स्थानं ययुः । तत्तीर्थे समुत्पन्ने च श्यामवर्णस्त्र्यक्षः शङ्खरथो दक्षिणैः षड्भिर्भुजैर्मातुलिङ्ग-बाण- खड्ग मुद्गर- पाशा - ऽभयधरो वामैश्च नकुला-ऽसि-चर्म-शूला-ऽङ्कुशा - ऽक्षसूत्रधरो यक्षेन्द्रः, नीलाङ्गी कमलासना दक्षिणाभ्यां बाहुभ्यां मातुलिङ्गोत्पलधरा वामाभ्यां च पद्माऽक्षसूत्रधरा धारिणी नाम देवी च शासनदेवते अरनाथप्रभोः सदा सन्निहिते अभूताम् । *** अथाऽन्यदा प्रभुर्मेदिनीं विहरन् पद्मिनीखण्डपत्तने समवासार्षीत् । तत्राऽपि च देशनां कृत्वा विरते प्रभौ कुम्भे गणधरे च संशयच्छिदं देशनां कृत्वा विरते एको वामनोऽभ्येत्य धर्मं श्रोतुमुपाविशत् । ततः श्रेष्ठी सागरदत्तः कुम्भं गणधरं नत्वाऽब्रवीत् - 'भगवन् ! भविनः सर्वे भवप्रकृत्या दुःखिनः । तेष्वहं विशेषतो दुःखितोऽस्मि, यतो मम सुखलेशोऽपि नाऽस्ति । नित्य भार्यायां मे नामतः प्रियदर्शना रूपवती दुहितोत्पन्ना | कलाकुशला च सा यौवनं प्रपेदे । तस्या अनुरूपं वरमपश्यन् दुःखितो जिनमत्या किं चिन्तामाप्नोसीति पृष्टश्चिन्ताकारणमकथयम् । ततस्तयोक्तम् - 'श्रेष्ठिन् ! त्वया श्रेष्ठो वरो ग्राह्यः, येनाऽऽवयोरनुतापो न भवेत्' । मयोक्तं- 'भाग्याधीनमेतत् सर्वेऽपि हि स्वहितमिच्छन्ति' । तामेवमुक्त्वा विपणौ गच्छन् ताम्रलिप्त्याः पुर्याः समागतमृषभदत्तसार्थवाहमद्राक्षम् । तेन सह च साधर्मिकत्वात् सस्नेहाः पूर्वसुहृदेव वाणिज्यादिवार्ता: समभूवन् । एकदा च स मम गृहमागतः प्रियदर्शनां सुचिरमद्राक्षीत् । कस्य कन्येयमिति पृष्टोऽहं 'ममेयं, केन हेतुना त्वया सुचिरं वीक्ष्यते' Page #16 -------------------------------------------------------------------------- ________________ १० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इत्यब्रवम् । सोऽवोचत्-“श्रेष्ठिन् ! वीरभद्रनामा सम्प्राप्तयौवनो रूपवान् कविर्ज्ञानी सङ्गीतादिकलाकुशलो गुटिकादिप्रयोगतः कामरूपी चाऽस्ति । तस्याऽनुरूपेयं कन्यका दृश्यते' । मयाऽप्युक्तं'ममैषा कन्यका कलाकुशला, अस्या अनुरूपवरार्थं चिराच्चिन्ताग्रस्तोऽस्मि । दैवानुकूल्यात् तदयं सङ्गम आवयोः, तद्वयोस्तनयौ वधूवरत्वेन घटेताम्' । ततः सहृष्टो निजां पुरीं गत्वा महत्या जन्ययात्रया वीरभद्रं प्राहिणोत् । स च मम कन्यां परिणीय कतिचिदहानि स्थित्वा सदारः स्वपुरीं ययौ । अन्यदा चाऽ श्रौषं यद् वीरभद्रो निशाशेषे मम तनयां सुप्तां मुक्त्वैकाकी क्वचिदप्यगात् । सम्प्रति च कोऽपि वामनस्तत्प्रवृत्तिमानैषीत् , किन्तु स व्यक्तं नाऽऽख्याति । ततः प्रभो ! स्फुटमाख्याहि' । एवं सागरदत्तेन विज्ञप्तः कुम्भो गणधरः प्राह- 'तस्यां रात्रौ तव जामातैवमचिन्तयत्-यत् कलाकुशलो यन्त्रनिपुणः सिद्धमन्त्रो ज्ञातदिव्यगुटिकाप्रयोग: सर्वविज्ञानपटुश्चाऽस्मि । किन्त्वप्रकाशनात् सर्वमपि निरर्थकम् । इह च गुरुलज्जया नियन्त्रितोऽस्मि । इह कूपमण्डूकवत् तिष्ठन् कापुरुषोऽस्मि । तदन्यदेशेषु गत्वा निजान् गुणान् प्रकाशयामि' । एवं विचिन्त्य समुत्थाय भूयः सोऽचिन्तयत्यदि मम प्रिया कृतकसुप्ता, तर्हि सा गतिविघ्नाय भवेत्' । ततः स कामक्रीडाकृते तां समुदस्थापयत् । सोवाच-शिरोतिर्मा बाधते, ततः किं कदर्थयसि । कस्य दोषेण तव शिरोतिरिति तेन पृष्टा सा त्वद्दोषेणेति जगाद । ततः कीदृशेन दोषेणेति पुनस्तेन पृष्टा सा-अत्राऽपि समये यत्तव वैदग्ध्यवाक्, तेनैवेत्युदतरत् । तत: सोऽवोचत्-मा कुपः, पुनर्ने दृशं करिष्ये' । तां साभिप्रायमेवमुक्त्वाऽधिकं रमयामास । साऽपि षष्ठं पर्व - द्वितीयः सर्गः रतिश्रान्ता तां वक्रोक्तिमजानती सुखमस्वाप्सीत् । ततस्तां सत्यसुप्तेति मुक्त्वा वीरभद्रो निजाद् गृहाद् निर्जगाम । तथा स गुटिकाप्रयोगेण स्वं श्यामवर्णं चकार । तथा स्वकलापाटवं दर्शयन् ग्राम-पुरादिषु विद्याधर इव स्वैरमभ्राम्यत् । सा प्रियदर्शना च श्वसुरावापृच्छय पितृगृहमगात् । वीरभद्रश्चैकदाऽटन् सिंहलद्वीपे रत्नाकराख्यनृपाधिष्ठितं रत्नपुरं नाम पुरमगात् । तत्र शङ्खस्य श्रेष्ठिनो हट्टे निषण्णस्तेन कुत आगत इति पृष्टस्ताम्रलिप्त्याः स्ववेश्मतो रुषित्वा निःसृतो भ्रमन्निहाऽऽगममित्यवोचत् । ततः शङ्खोऽवोचत्-त्वया न साधुकृतं, तदेवं वक्रमपि कर्म दैवेन सरलीकृतं, यदक्षताङ्गो मम सन्निधावत्राऽऽगाः । एवमुक्त्वा तं स्वगृहं नीत्वा स्नान-भोजनादि कारयित्वा सस्नेहमुवाच-'ममाऽनुत्पन्नपुत्रस्य त्वमेव पुत्रः, तत्स्वामी भूत्वा मद्विभवमुपभुक्ष्व, दानधर्मादिकं कुरुष्व च । मदृशोः प्रीति कुरुष्व । धनं हि सुलभं, किन्तु तद्भोक्ता सुतो दुर्लभः' । ततो वीरभद्रोऽपि सविनयमुवाच-'पितुर्गेहाद् निष्क्रान्तोऽपि पितुर्गेह एवाऽहमागमम् । तवाऽऽज्ञावशंवदोऽस्मि, तथा सर्वदा तव शिष्योऽस्मि । अहं तव धर्मपुत्रोऽस्मि' । ततः शङ्खस्य श्रेष्ठिनो गृहे पौरान् कलाकौशलैर्विस्मापयन् सुखमस्थात् । तत्र च रत्नाकरनृपस्य विश्वसुन्दरी पुरुषद्वेषिण्यनङ्गसुन्दरी नाम सुताऽऽसीत् । शङ्खश्रेष्ठिसुता च विनयवती नाम तस्याः पार्श्वे प्रतिदिनं याति स्म । सैकदा क्व यासीति वीरभद्रेण पृष्टा यथातथमाख्यत् । सा ते सखी कैविनोदैः कालं गमयतीति तेन पृष्टा सा वीणाद्यैरित्यवोचत् । ततोऽहमपि यास्यामीति तेनोक्ता सा-तत्र पुंसो बालकस्याऽपि न प्रवेशः, तव कुत इत्युक्तो वधूरूपं विधाय यास्मामीत्यभिधाय स स्त्रीवेषमासाद्य तया सममगात् । अनङ्ग Page #17 -------------------------------------------------------------------------- ________________ १२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुन्दर्या च केयमिति पृष्टा सा विनयवती मत्स्वसेति जगाद । तदा च तयाऽनङ्गसुन्दर्या फलके विरहार्ता हंसी लेखितुमुपचक्रमे । ततस्तां वीरभद्र ऊचे- त्वया विरहपीडितेयं लेखितुमारेभे, किन्तु दृष्ट्यादि न तादृशम्' । ततस्त्वमालिखेत्युक्त्वा सा तस्मै फलकमर्पयत् । वीरभद्रोऽपि तादृशीं हंसी लिखित्वा तस्यै समर्पयामास। सा च तन्निरूप्याऽब्रवीत्-अहो ! अन्तर्भावप्रकाशकमालेख्यनैपुण्यम् । ईदृशी कलाविदियत्कालं किं नाऽऽनीता ? ततो वीरभद्रोऽवोचत्-गुरूणामभिशङ्कया नाऽहमिहाऽऽनीता, अन्यत् किमपि कारणं न । ततस्तया प्रत्यहमागन्तव्यमित्यूचे, नाम च पृष्टम् । वीरभद्रश्च झटिति वीरमतीति स्वं नामोक्तवान् । ततोऽन्या अपि कला वेत्सि किमिति तया भूयः पृष्टा विनयवत्युवाच-'स्वयमचिराज्ज्ञास्यसि' । तत एवमस्त्वित्युक्त्वाऽनङ्गसुन्दरी सत्कृत्य तदन्वितां विनयवतीं विससर्ज । ततो वीरभद्रो गृहे वधूवेषं मुक्त्वाऽऽपणे श्रेष्ठिनः पार्श्वे ययौ । श्रेष्ठिना चेयच्चिरं क्वाऽस्था इति पृष्टचोद्यानाय गतोऽस्मीत्युदतरत् । तथैव द्वितीयदिनेऽपि स तत्र गतोऽनङ्गसुन्दरी वीणां वादयन्तीं ददर्श । तदा स उवाच- 'एषा तन्त्री न सुस्वरा, यतोऽस्यां मनुष्यकेशोऽनुस्यूतोऽस्ति' । त्वया कथं ज्ञायत इति तया पृष्टश्च- 'त्वदुपक्रान्तरागनिर्वाह दृष्ट्वा ज्ञायत' इत्युक्तवान् । ततश्च स तयाऽपितां वल्लकी तत्क्षणमुत्कीलयामास । तन्मध्याच्च मनुष्यकेशमाकृष्य तस्या विस्मयमादधद् दर्शयामास । तथा तत्तन्त्रीं भूयः सज्जयित्वा वादयंश्च श्रवणामृतं रागं प्रपञ्चयामास । तत्कौशलेन च साऽनङ्गसुन्दरी सा पर्षच्चाऽतिविस्मिता जाता । तद्वीणागीतमाकर्ण्य च राजकन्या तस्मिन् नितरां सस्नेहा जाता । स च वीरभद्रस्तामवसरप्राप्तमन्यास्वपि कलासु प्रावीण्यं षष्ठं पर्व - द्वितीयः सर्गः दर्शयामास । ततः स्वानुरक्तां तां ज्ञात्वाऽन्यदा रहसि शङ्खमवोचत्'तात ! विनयवत्याः पृष्ठतो युवतिवेषं विधाय प्रत्यहमहमनङ्गसुन्दर्याः पार्श्वे गच्छामि । तद्युष्माभिर्न भेतव्यम् । अहं तथा करिष्यामि, यथा न कोऽप्यनर्थो भवेत् । प्रत्युत गौरवमेव भवेत् । यदि नृपो मह्यं निजां कन्यां दातुं व: प्रार्थयते, तदा भवताऽऽदौ नाऽनुमन्तव्यम् । ततः श्रेष्ठ्युवाच-'त्वं विज्ञोऽसि, तथाऽपि स्वकुशलं कार्यमिति ब्रवीमि' । वीरभद्र उवाच- 'मा विमना स्म भूः, स्वसूनोः शुभपरिमाणं कौशलमचिरादेव पश्य' । ततस्त्वं वेत्सीत्युक्त्वा श्रेष्ठी मौनं समाश्रयत् । तदानीं च रत्नाकरनृपसभायां वार्ता जाता-'ताम्रलिप्त्याः कश्चिद् युवा शङ्खश्रेष्ठिगृहे समागतोऽन्वहं पुरे चित्राभिः कलाभिरचित्रीयत । किन्तु वैदेशिकत्वात् तस्य ज्ञातिर्न ज्ञायते । आकृत्या तु महाकुलोत्पन्न इव प्रतिभाति' । ततो नृपतिश्चिन्तयामास-'अयं युवा चेद् मत्पुत्र्यै रोचते, तदा शोभनम्' । एकदा च वीरभद्रेण 'भोगसामग्यां सत्यामपि किं भोगविमुखाऽसीति पृष्टाऽनङ्गसुन्दर्यवोचत्-'भोगाः कस्य न वल्लभाः? किन्त्वनुरूपो वल्लभो दुर्लभः । अनूढा नारी वरं, किन्त्वकुलीनेन पत्या विडम्बिता न । इयत्कालमनुरूपं वरं नाऽद्राक्षम्, अल्पगुणं वरं कृत्वाऽलम्' । ततो वीरभद्रः पुनरवोचत्-'ममाऽनुरूपो वरो नाऽस्तीति मा वोचः, यत इयं वसुन्धरा बहुरत्ना । कोऽनुरूपो वरस्तव, तत् कथय, अद्यैवाऽहं तत् सम्पादयामि' । तच्छ्रुत्वाऽनङ्ग सुन्दर्यवदत्-'एवमाशाप्रदानतः किं मां कदर्थयसि । अदो मिथ्या वदसि । यदि सत्यं, तर्झनुरूपं वरं दर्शय, येन मम कला-रूपयौवनादि कृतार्थं भवेत्' । तयेत्थमुक्तो वीरभद्रः स्वं रूपमदर्शयत्। ततः सोचे-'अहं त्वदधीनाऽस्मि, त्वं मम पतिः' । Page #18 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः सोऽवोचत्- 'अस्त्वेवं किन्त्वपवादो मा भूदित्यतः परमिह नाऽऽगमिष्यामि, त्वया नृपो विज्ञाप्यः' । तया तत्स्वीकृते वीरभद्रो निजगृहं ययौ । साऽपि जननीमाहूयाऽवोचत् - 'मयाऽनुरूपो वरो निरूपितोऽस्ति, शङ्खश्रेष्ठिसूनुर्वीरभद्रः कला-रूपादिभिः पूर्णोऽस्ति । अद्यैव तस्मै मां देहि । तातो मदर्थे यथा श्रेष्ठिनं स्वयमर्थयते, तथा कुरु । तच्छ्रुत्वा मुदिता राज्ञी राज्ञे सर्वं वृत्तान्तमवोचत् । ततः प्रसन्नो राजा श्रेष्ठिनमाहूयाऽनङ्गसुन्दरीवीरभद्रयोर्विवाहं स्थिरीकृत्य शुभे दिने शुभे लग्ने समहोत्सव तौ पर्यणाययत् । तयोश्च दिने दिने प्रीतिरवर्धत । वीरभद्रश्च जैनं धर्ममुपदिशन् तां श्राविकां व्यधात् । पटेऽर्हत्प्रतिमां चतुर्विधं सङ्घ च स्वयं लिखित्वा तस्यै समार्पयत् । १४ अन्यदा च वीरभद्रो दध्यौ - 'मयि स्निग्धेयमीक्ष्यते, किन्तु प्रकृतिलोलानां स्त्रीणां स्थैर्ये न निश्चयः । अत एतस्या आशयं जानामि' । एवं विमृश्य सोऽनङ्गसुन्दरीमवोचत् - ' त्वत्तोऽन्यद् न मे किञ्चित् प्रियतमं, तथाऽप्यहं स्वदेशगमनाय त्वामापृच्छे, चिरं मद्वियोगकदर्थितौ मत्पितरौ गत्वाऽऽश्वासयामि, त्वमिहैव तिष्ठ, अहं द्रुतं भूयोऽप्यागमिष्यामि । त्वां विनाऽहमन्यत्र स्थातुं नेश्वरः ' । तच्छ्रुत्वा म्लानमुखी सोवाच- त्वया साधु जल्पितं, यच्छ्रवणमात्रेण मेसवो यियासन्तीव । त्वमीदृशः कठिनचित्तोऽसीत्येवमद्यैव ज्ञातम्' । ततो वीरभद्रोऽवोचत् प्रिये ! मा कुपः, त्वां सहैव नेष्यामि' । ततः सोऽनङ्गसुन्दर्या सहैव स्वदेशगमनाय नृपं सनिर्बन्धमपृच्छत् । नृपश्च कथञ्चित् प्रियान्वितं वीरभद्रं गमनायाऽनुज्ञातवान् । ततस्तौ पोतारूढौ जलवर्त्मना चेलतुः । पोते च कियन्तमध्वानं गते महावायुर्वातुमारब्धवान् । उत्तालतरङ्गवशादुच्छलितश्च पोतस्त्रिवासरीं षष्ठं पर्व द्वितीयः सर्गः भ्रामं भ्रामं ग्रावोपरि प्रस्फुटितवान् । स्फुटिते च पोते तदीयमेकं फलकं सम्प्राप्य पञ्चरात्रेण कथञ्चिदेकं वनाकुलं तटं प्राप । तत्र च मूच्छिता साऽनङ्गसुन्दरी केनचित् तापसकुमारेण दृष्ट्वोत्थाप्याऽऽश्रमपदं नीता । तत्र ‘पुत्रि ! विश्रब्धा तिष्ठे 'ति कुलपतिनोक्ता तापसीभिः पाल्यमाना कतिपयैर्दिवसैः स्वस्थाऽजायत । ततः कुलपतिस्तस्या रूपातिशयात् तापसानां समाधिच्छेदशङ्कया तामूचे'वत्से ! इतोऽदूरत एव पद्मिनीखण्डपत्तनमस्ति । तत्र ते भर्त्रा सह सङ्गमोऽवश्यम्भावी, तज्जरद्भिस्तापसैः सह त्वं तत्रैव गच्छ' । इत्थं कुलपत्याज्ञया सा तापसैः सह तत्पत्तनमगात् । तापसाश्च पुरप्रवेशो नाऽस्माकमर्ह इति प्रोच्य पुराद् बहिस्तां त्यक्त्वा व्यावृत्त्य जग्मुः । तत्र सेतस्तत ईक्षमाणा कायचिन्तार्थमायान्तीं सुव्रतानाम्नीं व्रतिनीं व्रतिनीभिः समन्वितामपश्यत् । ता दृष्ट्वा च- 'मम पत्या पटे लिखित्वैता दर्शिता' इति स्मृत्वा द्रुतमुपेत्य पूर्वाभ्यस्तेन विधिना सुव्रतां व्रतिनीश्च ववन्दे । तथा रचिताञ्जलिः सिंहलद्वीपचैत्यानि मगिरा वन्दस्वेति तामुवाच च । ततः सुव्रतया सिंहलात् कथमेकाकिनी निष्परिच्छदा समागताऽसीति पृष्टा सुस्था सर्वं कथयिष्यामीत्युक्त्वा तया सह तस्याः प्रतिश्रयं शीघ्रं जगाम । तत्र च भक्त्या साध्वीर्वन्दमाना सा तव सुतया प्रियदर्शनया दृष्ट्वा पृष्टा च सुव्रतादर्शनान्तं सर्वमात्मनो वृत्तान्तमचकथत् । ततः प्रियदर्शनया सोचे-'सुन्दरि ! मद्भर्तुर्वीरभद्रस्य त्वया वर्णितं सर्वं कलादि सम्वादि । किन्त्वेकः श्यामो वर्णो विसम्वदति' । ततो गणिन्या सुव्रतया 'इयं प्रियदर्शना ते धर्मस्वसेत्यनया सह धर्मानुष्ठानतत्परा तिष्ठेत्युक्ता तया सह साऽनङ्गसुन्दरी तत्र तस्थौ । इतश्च वीरभद्रोऽपि प्रवहणे भग्ने एकस्मिन् फलके लग्नः सप्तमे दिवसे रतिवल्लभनाम्ना विद्याधरेण दृष्टो वैताढ्यमूनि नीतश्च । Page #19 -------------------------------------------------------------------------- ________________ .....१७ १६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथा स्वपल्या मदनमञ्जकाख्यायास्तेनाऽपुत्रेण पुत्रत्वेन सोऽर्पितश्च । ताभ्यां पृष्टश्च स वीरभद्रः सर्वमात्मनः सकलत्रस्य वृत्तान्तमाख्यत् । ततः स विद्याधर आभोगिन्या विद्यया सर्वं ज्ञात्वा तव वल्लभे अनङ्गसुन्दरी-प्रियदर्शने पद्मिनीखण्डे पत्तने सुव्रतायाः प्रतिश्रये धर्मानुष्ठाननिरते भगिन्याविव तिष्ठत इत्युक्तवान् । तयोः पत्न्योश्च कल्याणवार्त्तया सुधया सिक्त इव स श्वसिति स्म । तथा सोऽब्धेरुत्तीर्णमात्र एव श्यामिकाकरी गुटिकामपनीय सहजं गौरं वर्णमाददे । रतिवल्लभश्च वज्रवेगवतीकुक्षिभवां निजां कन्यां रत्नप्रभाख्यां तेनोदवाहयत् । स वीरभद्रश्च तत्राऽऽत्मीयं बुद्धदासेति नाम कथयस्तया रत्नप्रभया सह वैषयिकं सुखमन्वभूत् । अन्यदा च सम्भूय गच्छतो विद्याधरान् दृष्ट्वा क्वैते वेगेन गच्छन्तीति पृष्टया रत्नप्रभयाऽत्राऽद्रौ शाश्वतार्हतां यात्रां कर्तुमेते प्रयान्तीत्युक्तस्सः । ततस्स तया सह वैताढ्यशिखरमारुह्य चैत्यानि भक्त्या वन्दित्वा तया सह विचित्रक्रीडाभिः क्रीडन् रतिसागरमग्न: कियन्तं कालं गमयामास । एकदा च निशाशेषेऽद्य दक्षिणे भरतार्धे क्रीडितुं गच्छाम इति प्रियामुक्त्वा तया सह विद्यया पद्मिनीखण्डे सुव्रतायाः प्रतिश्रयं जग्मतुः । तत्र द्वारि स्थित्वा यावदाचम्याऽऽयामि, तावदत्रैव तिष्ठे'ति रत्नप्रभामुक्त्वाऽल्पां भुवं गत्वा तद्रक्षणकृते तत्रैव निलीय तस्थौ । सा च रत्नप्रभा क्षणादूर्ध्वमेकाकिनी तारं रोदितुमारेभे । तत्छ्रुत्वा च गणिनी स्वयं द्वारमुद्घाटयामास, तां ददर्श च । तया च-वत्से ! का त्वं, कुत आगाः, कथमेकाकिन्यसि, कुतश्च हेतो रोदिषी'ति पृष्टा सा 'वैताढ्यात् पत्या सहेहाऽऽगम, स चाऽऽचमनाय गतश्चिरयत्येव । स च मुहूर्तमपि मां विना स्थातुं न सहते, तेन सुमहत्कारणमाशङ्के' इत्युवाच । षष्ठं पर्व - द्वितीयः सर्गः ततः सानुकम्पं सुव्रतोवाच-'मा स्म भैषीः, यावत् ते पतिरायाति, तावदत्रैव प्रतिश्रये स्वस्था तिष्ठ' । तया चेत्थं बोधिता सा प्रतिश्रयं प्रविवेश । वीरभद्रोऽपि च जायां स्थाने गतां दृष्ट्वा ततोऽपासरत् । ततः स्वेच्छावामनरूपः पुरे पर्यटन् विचित्राः कला दर्शयन् पौराणां मनो जहार । तत्रत्यं राजानमीशानचन्द्रमप्यत्यरजयत् । रत्नप्रभा चाऽनङ्गसुन्दर्या प्रियदर्शनया च पृष्टा सर्वं स्वपतिवृत्तान्तमकथयत् । ततः प्रियदर्शनयोचे- 'त्वदुक्तं सर्वं मत्पतिलक्षणं, केवलं सिंहलवासित्वं बुद्धिदासाभिधा च विसम्वदति' । अनङ्गसुन्दर्या चोचे- 'वर्णः सिंहलवासिता बुद्धिदासाभिधा च मत्पतेविसम्वदति' । ततस्तास्तिस्रोऽपि भगिन्य इव तप:स्वाध्यायतत्परास्तत्प्रतिश्रये तिष्ठन्ति स्म । स च मायावामनस्तिस्रोऽपि प्रेयसीस्तत्राऽन्वहं निरीक्षते मोदते च । अन्यदेशानचन्द्रस्य पर्षदि कथा जाता यत्, सुव्रतायाः प्रतिश्रये रूपवत्यस्तिस्रो युवतयः सन्ति । ताश्च कोऽपि पुमान् भाषितुं नाऽलम्भूष्णुः । ततः स मायावामन ऊचे- 'अहं क्रमाद् भाषयिष्यामि, मम सामर्थ्यं पश्यत ' । ततः स प्रधानैः कपितयै राजपुरुषैश्च पौरैश्चाऽन्वीयमानो गणिन्याः प्रतिश्रयं प्राप्य द्वारे स्थित्वा सहचरानशाद्-यद् युष्माभिः कामपि कथां कथयेति प्रष्टव्यम्' । ततः स एकाक्येव प्रतिश्रयं प्रविश्य गणिनीर्वन्दित्वा निर्गत्य द्वारमण्डप उपाविशत् । तत्र च तदर्शनकौतुकात् तास्तिस्रोऽपि सव्रतिन्यः समाययुः । ततः स वामन ऊचे-'यावद् राज्ञो नाऽवसरस्तावदत्रैव स्थास्यामि' । ततो राजपुरुषेण कामपि सकौतुकां कथां शंसेति पृष्टः स्वस्य प्रियदर्शनासङ्गमादि रत्नप्रभया सह तत्प्रतिश्रयप्राप्तिपर्यन्तं Page #20 -------------------------------------------------------------------------- ________________ Manormanner षष्ठं पर्व - द्वितीयः सर्गः भोगान् भुक्ते । जिनेश्वर एवमाख्याय बहून् जनान् प्रतिबोध्य विहरन्नन्यतो ययौ । वीरभद्रश्च भोगांश्चिरं भुक्त्वा प्रव्रज्य क्रमाद् विपद्य देवलोकं जगाम । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वं वृत्तान्तमकथयत् । ताश्च तिस्रोऽप्येकपतिसम्वादादुच्चैरुदश्वसन् । इत्येवमभिधाय गणधरः पुनः प्राह-'श्रेष्ठिन् ! स एष वामनस्तव जामाता, यः क्रीडया तासां तिसृणां विरहं ददौ । तच्छ्रुत्वा वामनो गणधरं वन्दित्वा जगाद-'भवद्भिर्ज्ञानदृशैवमेतद् दृष्टं, नाऽन्यथाऽत्र' । ततो द्वितीयपौरुष्यां पूर्णायां गणधरो देशनां विससर्ज । श्रेष्ठी च गणधरं वन्दित्वा मुदितो वामनेन सह प्रतिश्रयमगात्। ताश्च तिस्रो वामनमायान्तं प्रेक्ष्य शीघ्रं तत्रोपाजग्मुः । सागरदत्तश्च युष्माकं तिसृणामसौ पतिरित्युक्त्वा सर्वं वृत्तान्तमकथयत् । तेन च गणिन्या सममेव तास्तिस्रोऽपि विस्मयं प्रापुः । सोऽपि च वामनत्वं मुक्त्वा पुराऽनङ्गसुन्दर्या दृष्टवद् भूत्वा पश्चाद् गौरत्वं प्रत्यपद्यत । ततस्सः सर्वाभिश्च ताभिः सोत्कण्ठाभिः प्रत्यभिज्ञात: समादृतश्च । सुव्रतया किमेवं भवता कृतमिति पृष्टश्च क्रीडयेत्यवोचत् । तत: सुव्रता पुनरुवाच-'धर्मिणः क्वाऽपि दुःखपदेऽप्यतुलं सौख्यमेव लभन्ते, सत्पात्रदानानुभावात् तेषां सर्वत्र भोगा एव भवन्तीत्यार्हतं वचः, तदनेन कस्मै दत्तमित्यरजिनं पृच्छामः' । ततः सा गणिनी सागरदत्तो वीरभद्रः प्रियदर्शनादयश्चाऽरनाथमुपेत्य यथाविधि प्रणेमुः । ___ततो वीरभद्रः प्राग्भवे किं व्यधादिति सुव्रतया पृष्टो जिनेश्वरो जगाद-'इतस्तृतीये मे भवे राज्यं त्यक्त्वा व्रतं गृहीत्वा विहरतश्चातुर्मासोपवासान्ते रत्नपुरे पुरे श्रेष्ठिपुत्रोऽसौ वीरभद्रो जिनदासाख्यो भक्त्या भिक्षां ददौ । तेन पुण्येनाऽसौ ब्रह्मलोके देवोऽभूत् । ततश्च्युत्वा जम्बूद्वीपस्यैरवते वर्षे काम्पील्ये पुरे परमद्धिः श्रावकत्वं परिपाल्य मृत्वाऽच्युते कल्पे देवोऽभवत् । पुनस्ततश्च्युत्वा वीरभद्रोऽभूत् । तेन पुण्यानुबन्धिपुण्येनाऽसौ अरजिनस्य च केवलादारभ्य त्रिवर्षोनाब्दसहस्रकविंशति वसुन्धरां विहरत: परिवारे श्रमणानां पञ्चाशत्सहस्राणि, साध्वीनां षष्टिसहस्री, चतुर्दशपूर्वभृतां दशाग्राणि षट्शतानि, अवधिज्ञानिनां सषट्शते द्वे सहस्रे, मनःपर्ययिणां सार्धे सहस्र द्वे एकपञ्चाशच्च, केवलिनां साष्टशते द्वे सहस्र, जातवैक्रियलब्धीनां त्रिसप्ततिशती सञ्जातवादलब्धीनां सहस्रं षट् शतानि च, श्रावकाणामुभे लक्षे षोडशसहस्रोनेः, श्राविकाणां त्रीणि लक्षाणि द्वासप्ततिसहस्री चाऽभवन् । अथ निर्वाणकालं ज्ञात्वा प्रभुः सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते मार्गशीर्षशुक्लदशम्यां रेवतीस्थे चन्द्रे तैर्मुनिभिः सममव्ययं पदं जगाम ।। तदेवं प्रभोः कौमार-राज्य-चक्रवर्तित्व-व्रतेषु चतुरशीत्यब्दसहस्राण्यायुरभवत् । श्रीकुन्थुनाथनिर्वाणाच्च वर्षकोटिसहस्रोने पल्योपमचतुर्थांशे गते श्रीमतोऽरनाथस्य मोक्षोऽभूत् । इन्द्राश्च समेत्य भक्त्याऽरनाथस्य तैर्मुनिभिः समं शिवमुपेयुषः शरीरसंस्कारपूर्वक निर्वाणकल्याणकमकार्षुः ॥२॥ इति श्रीअरनाथचरितवर्णनात्मको द्वितीयः सर्गः ॥२॥ Page #21 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः आनन्द-पुरुषपुण्डरीक-बलिचरितम् अथ विजयपुरे पुरे चन्द्र इव सुदर्शन: सुदर्शनो नाम नृपो बभूव । स दमधराद् मुनेर्धर्मं श्रुत्वा विरक्तः प्रव्रज्य तपस्तप्त्वा सहस्रारे कल्पे सुरोऽभवत् । तथा पोतनपुरे प्रियमित्रो नाम नृपो बभूव । सुकेतुश्च तत्प्रियां जहार । तत्पराभवाद् विरक्तः प्रियमित्रो वसुभूतिमुनेः पार्श्वे प्रव्रज्यामुपादाय दुस्तपं तपस्तपन् पल्यपहारकवधं प्रति निदानं चकार । तन्निदानमनालोच्यैव चाऽनशनेन विपद्य माहेन्द्रे कल्पे महद्धिको देवोऽभवत् ।। ____ इतश्च वैतादयगिरावरिञ्जयपुरे सुभूमचक्रिणा प्राप्तश्रेणिद्वितयवैभवस्तस्यैव चक्रिणः पद्मश्रीनाम्न्याः पल्याः पिता मेघनादनामा विद्याधरनृपोऽभवत् । सुकेतोर्जीवश्च भवं भ्रान्त्वा मेघनादान्वये बलि: प्रतिविष्णुरभवत् । स च पञ्चाशद्वर्षसहस्रायुः कृष्णवर्णः षड्विशधनूत्तुङ्गत्रिखण्डपृथिवीशो जज्ञे। अथाऽस्य जम्बूद्वीपस्य दक्षिणभरतार्धे चक्रपुरे महाशिरा इति ख्यातोऽपरो लोकपाल इव भूपालोऽभवत् । तस्य च नृपस्य वैजयन्ती लक्ष्मीवती च द्वे पत्न्यावास्ताम् । तत्र वैजयन्त्या उदरे सहस्रारात् सुदर्शनजीवश्च्युत्वा समवातरत् । बलजन्मसूचकेन महास्वप्नचतुष्टयेन हष्टा सा देवी गर्भ दधौ । पूर्णे समये च पूर्णचन्द्रमिवाऽमलमेकोनत्रिंशद्धन्वोच्चमानन्दाख्यं सुतमसूत । षष्ठं पर्व - तृतीयः सर्गः प्रियमित्रस्य जीवश्च तुर्यकल्पात् परिच्युत्य लक्ष्मीवत्याः कुक्षौ समवतीर्णवान् । विष्णुजन्मसूचकैः सप्तभिर्महास्वप्नैर्हष्टा सा गर्भ धारयामास । काले चैकोनत्रिंशद्धनून्नतं कृष्णवर्णं पुरुषपुण्डरीकाख्यं सुतमसूत । तौ च भ्रातरौ पित्रोर्मनोरथैः सह वर्धमानौ तार्क्ष्य-तालध्वजौ नील-पीताम्बरधरौ समस्तकलाकुशलौ क्रमेण यौवनं प्रपेदाते। राजेन्द्रपुरनृप उपेन्द्रसेन: पुण्डरीकाय पद्मावती नाम निजकन्यकां ददौ । तां च रूपवतीं श्रुत्वा प्रतिविष्णुर्बलिस्तत्र समाययौ । आनन्द-पुण्डरीकौ च देवार्पितशाङ्ग-लाङ्गलप्रभृतिशस्त्री बलिना सह युयुधाते । ततश्च बलिनो बलेर्बलेन तयोर्बलमभज्यत । ततश्चाऽऽनन्दः पुण्डरीकश्च रथस्थौ रणाय डुढौकाते । पुण्डरीकध्मातेन पाञ्चजन्यशङ्खशब्देन च बलिसैन्यं नष्टम् । ततः कुपितो बलिः शरैर्वर्षन् योद्धमुपतस्थे । तयोः शस्त्राशस्त्रि युद्धे प्रवृत्ते च प्रतिविष्णुर्बलिश्चक्रं भ्रमयित्वा पुण्डरीकायाऽमुञ्चत् । तत्तुम्बप्रहाराच्च क्षणं मूच्छितो लब्धसंज्ञस्तमेव चक्रमादाय विष्णुर्धमयित्वा मुक्त्वा च बलेः शिरश्चिच्छेद । ततश्चाऽऽनन्दसहितोऽहितनृपान् मथ्नन् विष्णुदिग्यात्रां विधायाऽर्धचक्री बभूव । तथा मगधान्तरवस्थितां कोटिनरोत्पाट्यां महाशिला लीलयोत्पाटयामास । वर्षाणां पञ्चषष्टिसहस्राणि निजमायुरतिवाह्य च स स्वोग्रकर्मभिः षष्ठं नरकं ययौ । पुण्डरीकस्य च कौमारे सार्धं वर्षशतद्वयं, तावदेव मण्डलित्वे, दिग्विजये च षष्टिवत्सरी, राज्ये च वर्षाणां चतुष्षष्टिसहस्री चत्वारि शतानि चत्वारिंशच्चाऽगात् । आनन्दश्चाऽनुजं विना विषण्ण: सुमित्रमुनेर्दीक्षामुपादाय पञ्चाशीतिवर्षसहस्रायुः केवलमवाप्याऽव्ययं पदं प्राप ॥३॥ इति आनन्द-पुण्डरीक-बलिचरितवर्णनात्मकः तृतीयः सर्गः ॥३॥ Page #22 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः सुभूमचक्रवर्त्तिचरितम् अथेह भरतक्षेत्रे विशालनगरे भूपालो नाम भूपालो बभूव । स एकदा रणे बहुभि: प्रतिपक्षनृपैर्मिलित्वा पराजिग्ये । वैरिभिः पराभूतश्च स विरज्य सम्भूतमुनिपादान्ते परिव्रज्यामाददे । तथा स तपसः प्रभुत्वभोगविषयं निदानं कृत्वा विपद्य महाशुक्रे सुरो ऽभवत् । इतश्च ऋषभनाथस्य कुरुनामा सुतोऽभवत् । यस्य नाम्ना कुरुदेश: प्रसिद्धः । तत्सुतश्च हस्तिनामा, यस्य नाम्ना हस्तिनापुरं तीर्थकृच्चक्रिजन्मभूरस्ति । तस्य वंशे चाऽनन्तवीर्यो नाम नृपो बभूव । तथा वसन्तपुरे उच्छिन्नवंशोऽग्निको नाम बालको बभूव । स चाऽग्निकस्तस्मात् स्थानाद् देशान्तरं प्रति चलितः सार्थाद्धीनः परिभ्राम्यन् कञ्चित्तापसाश्रयमगात् । तं चाऽग्निकं जमः कुलपतिस्तनयत्वेनाऽग्रहीत् । तत्र च स जमदग्निनाम्ना ख्यातोऽभूत् । तीव्रं तपश्च तप्यमानोऽसौ दुःसहेन तेजसा भूमौ पप्रथे । तदा च श्राद्धः पूर्वजन्मनाम्ना वैश्वानरः सुरस्तापसभक्तो धन्वन्तरिश्च व्यवदाताम् । तयोरेक आर्हतं धर्ममितरश्च तापसानां धर्मं प्रमाणमाह । तदा च तयोर्निर्णयो जातो - यदार्हतेषु जघन्यस्तापसेषु च प्रकृष्टः, आवाभ्यां को गुणैरतिरिच्यत इति परीक्षणीयम् । षष्ठं पर्व चतुर्थः सर्गः तदानीं च मिथिलापुर्यां नवधर्मपरिष्कृतः पद्मरथो नाम नृपो वासुपूज्यजिनान्तिकं दीक्षां ग्रहीतुं गच्छन् भावतो यतिस्ताभ्यां देवाभ्यां पथि ददृशे । ताभ्यां च परीक्षाकाङ्क्षया पाना-ऽन्ने ढौकिते, नृपस्तृषितः क्षुधितोऽपि तद् नाऽग्रहीत् । ततस्तौ देवौ कर्करकण्टकैर्नृपस्य पदोः पीडां चक्राते । तथाऽपि सोऽनाकुल एव प्रस्रवद्रक्तधाराभ्यां पादाभ्यां तादृशे पथि सञ्चचार । तथा ताभ्यां भूपतेः क्षोभाय गीत-नृत्तादि निर्ममे । तदपि तस्मिन् मोघमभवत् । ततस्तौ सिद्धपुत्ररूपेण पुरोभूयोचतुः - 'महाभाग ! तवाऽद्याऽपि महदायुः, युवा चाऽसि, तद्भोगान् स्वच्छन्दं भुङ्क्ष्व । यौवने तपोधीः का ? क उद्यमी निशीथकृत्यं प्रातः कुर्यात् ? तद्यौवनेऽतिक्रान्ते तपो गृह्णीया:' । तदा नृप ऊचे - 'यदि बह्वायुस्तदा बहु पुण्यं भविष्यति, यतो जलमानेन कमलनालं वर्धते । चपलेन्द्रिये यौवने यत् तपस्तदेव तपः । रणे यः शूरः स एव शूरः ' । ततस्तस्मिन् सत्वादचलिते साधु साध्विति वादिनौ तौ तापसोत्कृष्टं जमदग्नि परीक्षितुं जग्मतुः । तं जमदग्नि विस्तारिजटासंस्पृष्टभूतलं वल्मीकाकीर्णपादान्तं दान्तं दृष्ट्वा तत्श्मश्रुलताजाले मायया नीडं निर्माय तौ देवौ चटकमिथुनीभूय तस्थतुः । ततश्चटकञ्चटकामूचे - 'हिमवद्गिरौ यास्यामि' । सोचे- 'अन्यासक्तस्त्वं न समेष्यसि, अतोऽहं नाऽनुमन्तुं शक्नोमि । ततश्चटकञ्चटकामब्रवीत्- 'यद्यहं न समेष्यामि तदा गोघातपातकेन गृह्ये' । ततश्चटकोवाच- 'यद्यस्य मुनेः पापेन गृह्ये इति शपथं करोषि तदैव त्वां विसृजामि' । तच्छ्रुत्वा च क्रुद्धो जमदग्निरुभाभ्यामपि हस्ताभ्यां गृहीत्वोवाच-‘मयि दुष्करं तपः कुर्वाणे कीदृशं पापम् ?' Page #23 -------------------------------------------------------------------------- ________________ २४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततश्चटकोवाच-'ऋषे ! मा कुपः, तव तपो वृथा, यतोऽपुत्रस्य गतिर्नास्तीति श्रुतिः किं त्वया न श्रुता ?' ततस्तथेति मन्यमानः स मुनिर्दध्यौ-'ममाऽकलत्रपुत्रस्य तपो व्यर्थम्' । तं क्षुभितं दृष्ट्वा तापसैरहं भ्रमित इति चिन्तयित्वा धन्वन्तरिः श्राद्धो जातः । ततस्तौ देवावदृश्यौ जातौ । जमदग्निश्च नेमिककोष्टकं पुरं प्राप्य भूयिष्ठकन्यकं जितशत्रु महीपालमेकां कन्यकां प्रेप्सुरुपागतः । स च नृपस्तं सत्कृत्य 'किमर्थमागताः, अहं किं करवाणि, तद् ब्रूतेत्यवोचत् । कन्यार्थमागतोऽस्मीति तेनोक्ते नृपः 'शतस्य कन्यानां मध्ये येच्छति त्वां, तां गृहाणेत्युक्तस्स कन्याया अन्तपुरं गत्वा 'भवतीभ्यः काचिद् मम धर्मपत्नी भवत्वि'त्यवोचत् । ताश्च 'जटिल: पलितः क्षामो भिक्षाजीवि चेत्थं वदन्न लज्जसे' इत्युचुः । ततश्च क्रुद्धो मुनिस्ताः कन्याः कुब्जीचकार। ___अथ प्राङ्गणे रेणुपुजे रममाणां रेणुकां नृपपुत्रीमिच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया च पाणिग्रहणसूचकः पाणि: प्रसारितः । मुनिश्च तां परिजग्राह । नृपश्च गवादिभिः सार्धं तस्मै तां ददौ । ततो मुनि: स्नेहसम्बन्धात् श्यालीस्तप:शक्त्या सज्जीचक्रे । तां च रेणुकामाश्रमपदं नीत्वा प्रेम्णाऽवर्धयत् । यौवनं प्राप्तां च तामग्नि साक्षीकृत्य मुनिस्तामुपयेमे । ऋतुकाले च स तामूचे-'अहं ते चरुं साधयामि, यथा ब्राह्मणमूर्धन्यो धन्यः सुत उत्पद्यते' । ततः सोचे- 'हस्तिनापुरेऽनन्तवीर्यस्य पत्नी मत्स्वसाऽस्ति, तस्यै क्षात्रोऽपि चरु: साध्यताम्' । ततः स मुनिः पन्यै ब्राह्म तत्स्वस्र क्षात्रं च चरुमसाधयत् । षष्ठं पर्व - चतुर्थः सर्ग: ततो रेणुकाऽचिन्तयत्-'यदहं तावदटवीमृगीव जाता, मत्सुतोऽपि माग् मा भूत्' । एवं विचिन्त्य सा क्षात्रं चरुमभक्षयत्। ब्राह्मं चरुं च स्वस्त्रे प्रादात् । काले च तयोस्तनयो जातौ । रेणकाया रामस्तत्स्वसुश्च कृतवीर्यः । अन्यदा च तत्र कोऽप्यतिसाररोगाक्रान्तो विद्याधरः समागात् । तद्रोगेण च तस्याऽऽकाशगामिनी विद्या विस्मृता । रामेण च भेषजाद्यैः स्वबन्धुवदुपचरितः स तस्मै पारशवीं विद्यां ददौ । स च रामो मध्येशरवणं गत्वा तां विद्यामसाधयत् । ततः प्रभृति स परशुराम इति विश्रुतोऽभूत् । एकदा च रेणुका पतिमापृच्छ्य हस्तिनापुरे स्वसारमुपजगाम । अनन्तवीर्यश्च तां श्यालीति लालयन्नरमयत् । ततश्चाऽनन्तवीर्याद् रेणुकायां तनयोऽजायत । मुनिश्च तेन पुत्रेणाऽपि सह रेणुकामानयत् । परशुरामश्च सजातकोपः पुत्रसहितां तां पशुनाऽच्छिदत् । तद्भगिन्या शंसितः क्रुद्धोऽनन्तवीर्यो जमदग्न्याश्रमं गत्वा तमभाङ्क्षीत् । तथा स तापसानां कृतत्रासो गवादि समादाय मन्दं मन्दं परिक्राम्यन्न्यवर्तत । परशुरामश्च त्रस्यत्तपस्वितुमुलं श्रुत्वा तां वार्ता च ज्ञात्वा क्रुद्धोऽन्तक इवाऽधावत् । तथाऽनन्तवीर्यं पशुना खण्डशश्चक्रे । ततोऽमात्यादिभिर्वयसा लघुरपि कृतवीर्यों राज्ये निवेशयाञ्चक्रे । तस्य च तारानाम्नी महिष्यभवत् । तस्याश्च कुक्षौ भूपालनृपजीवो महाशुक्राच्च्युत्वाऽवातरत् । अन्यदा कृतवीर्यो मातुर्मुखात् पितुः कथां श्रुत्वाऽगत्य जमदग्निममारयत् । पितृवधक्रुद्धो रामश्च द्राग् हस्तिनापुरं गत्वा कृतवीर्यममारयत् । तस्य राज्ये च स्वयं न्यविशत् ।। कृतवीर्यस्य गुर्विणी राज्ञी च भयात् पलाय्य तापसाश्रयमगात् । कृपालुभिश्च तापसैः सा भूगृहान्तः स्थापयित्वा क्रूरात् परशुरामादनिधानवद् गोप्यते स्म । ततस्तस्याश्चतुर्दशमहा Page #24 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः स्वप्नसूचितो भूमिग्रहणात् सुभूमो नाम सुतोऽभवत् । परशुरामस्य पर्शुश्च यत्र यत्र क्षत्रिय आसीत् तत्र तत्र मूर्त्तिमान् कोपाग्निरिवाऽदीप्यत । २६ अन्यदा च स परशुरामस्तत्राऽऽ श्रमे समागात् । तत्पर्शुश्चाऽज्वलत् । ततः किमत्र क्षत्रियोऽस्तीति पृष्टास्तपस्विनो वयं तापसीभूताः क्षत्रिया आस्महे इत्यूचुः । ततोऽमर्षाद् रामः सप्तकृत्वो वसुन्धरां नि:क्षत्रियां चकार । एकदा च रामो मे कुतो वध इति नैमित्तिकानपृच्छत् । ते च य इह सिंहासने स्थितेऽमूः पायसीभूता दंष्ट्रा भोक्ष्यते, तेन तव वधो भावी' त्यब्रुवन् । ततो रामोऽवारितं सत्रागारं कारयामास । तत्र सिंहासनं स्थालं चाऽग्रतोऽस्थापयत् । सुभूमश्च तत्राऽऽश्रमे स्वर्णवर्णोऽष्टाविंशतिधनून्नतोऽद्भुतां वृद्धिमगात् । मेघनादो विद्याधरश्च नैमित्तिकान् पृष्ट्वा तदुक्त्यनुसारेण सुभूमाय निजां कन्यां पद्मश्रियं प्रदाय तस्यैव सेवकोऽभूत्। अन्यदा च सुभूमो मातरमपृच्छत्- 'किमयं लोक इयानेवाऽधिकोऽपि वा ?' ततस्तन्मातोवाच- 'वत्स ! लोकोऽनन्तः, तन्मध्येऽयमाश्रमो मक्षिकापदमात्रम् । अस्मिन् लोके विख्यातं हस्तिनापुरं नगरमस्ति। तत्र कृतवीर्यो नाम तव पिता नृपोऽभूत् । रामश्च तं हत्वा राज्यं स्वयमशिश्रियत् । पृथिवीं च निःक्षत्रियां चक्रे । तद्भयादिह तिष्ठामि' । तच्छ्रुत्वा क्रुद्धः सुभूमस्तत्कालं हस्तिनापुरमगात् । तत्र सत्रे च गत्वा सिंहासन उपविश्य पायसीभूतास्ता दंष्ट्रा बुभुजे । तत्र रक्षका ब्राह्मणाश्च युद्धायोत्तिष्ठमाना मेघनादेन जघ्निरे । रामश्च क्रुधा समायातः सुभूमाय पर्शु मुक्तवान् । सुभूमश्च शस्त्राभावाद्दंष्ट्रास्थालमेवोदक्षिपत् । तत्स्थालं च पुण्यवशात् सद्यश्चक्रीबभूव । षष्ठं पर्व चतुर्थः सर्गः स चाऽष्टमश्चक्रवर्त्ती सुभूमस्तेन परशुरामस्य शिरोऽच्छिदत् । ततश्च समस्तां पृथिवीं त्रिःसप्तकृत्वो निर्ब्राह्मणां व्यधात् । तथा षट्खण्डां पृथिवीं क्रमेण साधयित्वा मेघनादाय वैताढ्यगिरिश्रेण्योर्द्वयोरपि विद्याधरेन्द्रपदवीं प्रदत्तवान् । एवं षष्टिवर्षसहस्रायुः स कालपरिणामवशेन विपद्य सप्तमीं नरकभूमिमगात् । तस्य च कुमारभावेऽब्दसहस्रपञ्चकं मण्डलित्वे च पञ्चशतानि जये चक्रित्वे चाऽब्दपञ्चशत्यूनमर्धलक्षमजनि ||४|| इति सुभूमचक्रिचरितवर्णनात्मकश्चतुर्थः सर्गः ॥४॥ Page #25 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः दत्त-नन्दन- प्रह्लादचरितम् अस्यैव जम्बूद्वीपस्य प्राग्विदेहभूषणे सुसीमानगर्यां वसुन्धरो नाम भूपालो बभूव । स च चिरं महीं पालयित्वा सुधर्ममुनिसन्निधौ व्रतमादाय कालेन विपद्य ब्रह्मलोकमुपययौ । इतश्च जम्बूद्वीपस्यैव भरतार्थे दक्षिणे शीलपुरे मन्दरधीरो नाम नृपो बभूव । तस्य च ललितमित्रो नाम पुत्रोऽभवत् । तं च दृप्त इति ज्ञापयित्वा प्रत्याख्याय खलो मन्त्री भूपतेर्भ्रातरं युवराजत्वे न्यवेशयत् । ततश्च विरक्तो ललितमित्रो घोषसेनमुनेः पार्श्वे परिव्रज्यामुपाददे । तप्यमानश्च स दुर्मना 'अनेन तपसा तस्य खलमन्त्रिणो वधाय स्यामि'ति निदानं कृत्वा तदनालोच्यैव विपन्नः सौधर्मे सुरोऽभवत् । स खलाख्यः सचिवश्च चिरं भवं भ्रान्त्वा जम्बूद्वीपस्य वैताढ्ये गिरावुत्तर श्रेण्यां सिंहपुरे विद्याधरेन्द्रः प्रह्लादः प्रतिविष्णुरजायत । इतश्चाऽस्मिन् जम्बूद्वीपे दक्षिणभरतार्थे वाराणस्यां गङ्गया सख्येव श्रितायामिक्ष्वाकुवंशेऽग्निसिंहनामा नृपो बभूव । तस्य च जयन्ती शेषवती चेति द्वे पत्न्यावभूताम् । तत्र जयन्त्या उदरे वसुन्धरजीवः पञ्चमकल्पतश्च्युत्वा समवातरत् । चतुर्महास्वप्नसूचितबलदेवावतारश्च तस्याः समये नन्दनाभिधः पुत्रोऽजनि । शेषवत्याश्च कुक्षौ ललितजीवश्च्युत्वाऽवतीर्णः सप्तमहास्वप्न षष्ठं पर्व पञ्चमः सर्गः सूचितवासुदेवावतारः समये दत्तसंज्ञया पुत्रोऽजनि । क्रमेण च तावुभौ षड्विशतिधन्वोच्चौ श्वेत-श्यामौ नील- पीताम्बरधरौ तालतार्क्ष्यध्वजौ यौवनं प्रपेदाते । एकदा च प्रतिविष्णुस्तावैरावणसङ्काशं गजेन्द्रमयाचत । ताभ्यां च तस्मिन् कुञ्जरोत्तमेऽदत्ते च कुपितः प्रह्लादो योद्धुमुपतस्थे । प्रह्लादसैन्येन भग्नं स्वसैन्यमवलोक्य तौ द्वौ बल - विष्णू रथारूढ चेतुः । विष्णुश्च पाञ्चजन्यशङ्खध्वनिना द्विषद्वलं नाशयामास । ततश्च विष्णु - प्रतिविष्णू मिथः शस्त्राशस्त्रि युद्धं व्यतिचक्राते । क्रुद्धश्च प्रह्लादश्चक्रं भ्रमयित्वा दत्तं प्रति मुमोच । दत्तश्च मोघीभूतं समीपस्थं तच्चक्रमेवाऽऽदाय मुक्त्वा प्रह्लादस्य शिरश्चिच्छेद । तथा दिग्यात्रां कृत्वा भरतार्धं साधयित्वा मगधे कोटिशिलामुद्धृत्य चाऽर्धचक्रयभवत् । तस्य च विष्णोः कौमारे द्वे वर्षशते, मण्डलित्वे दिशां जये च प्रत्येकमब्दपञ्चाशदभूत् । एवमब्दानां षट्पञ्चाशतं सहस्राण्यतिवाह्य स कर्मवशात् पञ्चमीं नरकावनिमगमत् । दत्तस्याऽवसाने जाते च नन्दनः कथञ्चित् पञ्चषष्ट्यब्दसहस्रायुरतिवाह्य भ्रातृमरणेन विषण्णो भूरिवैराग्यवान् भुवनशोभिमुनिपार्श्वे गृहीतदीक्षो निरतिचारं तीव्रं व्रतं पालयित्वा सिद्धिपदप्रतिष्ठामगात् ॥५॥ इति नन्दन-दत्त-प्रह्लादचरितवर्णनात्मकः पञ्चमः सर्गः ॥५॥ Page #26 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः श्रीमल्लिनाथचरितम् प्रभावतिकुक्षिजातं कुम्भाइँ कुम्भनन्दनम् । समतादशिनं महिलजिनं नाथं प्रपद्यताम् ॥१॥ अथ जम्बूद्वीपेऽपरविदेहेषु सलिलावत्यां विजये वीतशोकायां पुर्यां बलाख्यो नाम नृपोऽभवत् । तस्य नृपस्य धारिण्यां पन्यां सिंहस्वप्नसूचितो महाबलो नाम पुत्रोऽभवत् । स च यौवनं प्रपन्न एकदिने कमलश्रीप्रभृती: पञ्चशतानि राजकन्या: परिणिनाय । तथा तस्य महाबलस्याऽचल-धरण-पूरण-वसु-वैश्रवणा-ऽभिचन्द्राख्या बालसुहृदः आसन् । एकदा च बलो नृपस्तस्याः पुर्या बहिरैशान्यामिन्द्रकुब्जाख्य उद्याने समागतानां मुनीनामन्तिके धर्म श्रुत्वा जातवैराग्यो राज्ये महाबलं न्यस्य प्रव्रज्य च शिवं ययौ । इतश्च महाबलस्य कमलश्रियां पन्यां सिंहस्वप्नसूचितो बलभद्रो नाम पुत्रोऽभवत् । प्राप्तयौवनं च तं महाबलो यौवराज्ये निवेशयामास । तथा स षड्भिः बालसुहृद्भिः सहाऽऽर्हतं धर्म श्रुतवान् । तेन जातवैराग्यास्ते सर्वेऽपि स्वं स्वं सुतं राज्ये निवेश्य वरधर्ममुनिपादमूले प्रव्रज्यामग्रहीषुः । तथैको यत् तपः कर्ताऽपरैरपि तदेव कार्यमिति तेषां सप्तानामपि प्रतिज्ञाऽभूत् । एवं कृतप्रतिज्ञास्ते सर्वे सममेव चतुर्थादि तपश्चक्रुः । किन्तु महाबलः स्वस्याऽधिकफलेच्छया'ऽद्य मे शिरो दुष्यति, अद्योदरं दुष्यति, अद्य षष्ठ पर्व - षष्ठः सर्गः नास्ति क्षुदि'त्यादि व्यपदिश्य पारणाहेऽपि भोजनविरतस्तान् मायया वञ्चयित्वाऽधिकं तपो विदधे । एवं मायामिश्रेण तपसा स स्त्रीवेदकर्माऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्म चाऽबध्नात् । ते सर्वे च पूर्वलक्षचतुरशीत्यायुष्काश्चतुरशीत्यब्दसहस्रीं व्रतं पालयित्वाऽऽयुषः क्षये द्विधा संलेखनां कृत्वाऽनशनं प्रपद्य विपद्य वैजयन्त्याख्ये विमाने सुरा जज्ञिरे । इतच जम्बूद्वीपे दक्षिणभरतार्धे मिथिलानग-मिक्ष्वाकुवंशे कुम्भो नाम नृपो बभूव । तस्य च प्रभावतीनाम्नी महादेव्यासीत् । तस्याः कुक्षौ च महाबलजीव: पूर्णायुर्वैजयन्ततश्च्युत्वा फाल्गुनशुक्लचतुर्थ्यामश्विन्यां चतुर्दशमहास्वप्नसूचितार्हदवतारोऽवततार । अस्मिन् गर्भस्थिते च देव्या माल्यशयनदोहदो देवताभिः पूरितः । पूर्णे च समये मार्गशुक्लैकादश्यामश्विन्यां नक्षत्रे सा प्राग्जन्ममायाजनितस्त्रीकर्मप्रभावात् कुम्भलाञ्छनां नीलकान्ति सर्वशुभलक्षणामेकोनविंशमर्हन्तं कन्यका सुषुवे । तदानीं च दिक्कुमार्य उपेत्य सूतिकर्माणि चक्रिरे । शक्रश्च मेऊं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथाविधि स्नात्रादि विधाय स्तुत्वा पुनर्मातृसन्निधौ ताममुञ्चत् । तस्यां गर्भस्थायां मातुर्माल्यशयनदोहदोऽभूदिति नृपस्तस्याः समहोत्सवं 'मल्ली 'ति नामाऽकरोत् । शक्रनियुक्ताभिर्धात्रीभिाल्यमाना सा क्रमाद् वृद्धिमाप । इतश्चाऽचलजीवो वैजयन्ताच्च्युत्वा भरते साकेतपुरे प्रतिबुद्धिर्नाम नृपो बभूव । तस्य च पद्मावती नाम पत्न्यासीत् । तस्मिन्नेव नगरे चैशान्यां नागवेश्मनि मनोरथपूरिका नागप्रतिमाऽऽसीत् । एकदा च तस्या यात्रायै राज्ञाऽनुमता सा पुष्पादि सम्पाद्य Page #27 -------------------------------------------------------------------------- ________________ ३२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नृपेण सहैव यात्रादिवसे नागप्रतिमागृहं जगाम । तत्र च पुष्पमण्डपिकां पुष्पगुच्छं स्वां प्रियां च प्रेक्ष्य नृपः स्वबुद्धिं नाम सचिव पप्रच्छ- 'त्वं मया प्रेषितोऽनेकशो राज्ञां गृहेष्वगाः, किं क्वाऽपीदृक् स्त्रीरत्नं पुष्पगुच्छश्चाऽवलोकित: ?' ततः स्वबुद्धिरुवाच- 'त्वदादेशात् कुम्भभूपान्तिकमुपेयुषा मया मल्ली नाम तत्सुता दृष्टा । तस्या: स्त्रीरत्नमुख्याया आयुर्ग्रन्थौ य: पुष्पगुच्छ ः, स स्वर्गेऽप्यसम्भवी । तामेकवारमपि यः पश्येत् स तां कदाऽपि न विस्मरेत्' । तच्छ्रुत्वा प्रतिबुद्धिः पूर्वजन्मानुरागतस्तां वरीतुं कुम्भराजान्तिके सद्यो दूतं प्रैषीत् । इतश्च धरणजीवो वैजयन्तात् परिच्युत्य चम्पापुर्यां चन्द्रच्छायो नाम नृपो बभूव । तत्पुरीवास्तव्यश्च श्रावकोऽर्हन्नयाभिधः पोतारूढोऽम्भोधियात्रामकरोत् । तदानीं च मध्येसभं शक्रोऽन्नयसमः श्रावको नाऽस्तीति प्रशंसां विदधे । तच्छ्रुत्वा च मत्सरी कोऽपि देवः क्षणात् सागरमेत्यौत्पातिकमरुन्मेघाम्बरं विदधे । सांयात्रिकाश्च पोतभङ्गभयात् क्षुभ्यन्तोऽभीष्टदेवेभ्य उपयाचितकानि चक्रुः । अर्हन्नयश्च 'इतो विघ्नाद् में मृतिश्चेत् तदाऽनशनम' स्त्विति प्रत्याख्याय समाधिस्थस्तस्थौ । ततः स देवो रक्षोरूपं विकृत्य नभस्थ उवाच- 'अर्हन्नय! आर्हतं धर्मं जहीहि मद्वचः कुरु, नो चेदमुं स्फोटयित्वा त्वां सपरिच्छदं समुद्रसात् करिष्ये' । तथाऽपि धर्मादचलिते तस्मिन् विस्मितः स देवः क्षमणां चकार, तां शक्रप्रशंसां तं जगाद च । तथा तस्मै दिव्ये कुण्डलद्वन्द्वे दत्वा घोरं मेघ- वातादि संहृत्य च तिरोदधे । अर्हन्नयोऽपि क्रमादब्धेस्तीरोर्व्यामुत्ततार । अशेषं भाण्डं चाऽऽदाय मिथिलापुरीं ययौ । तत्र च विधिज्ञ: स कुम्भराजस्योपायने एकं कुण्डलद्वयमदात् । कुम्भराजश्च षष्ठं पर्व षष्ठः सर्गः तदुहित्रे मल्लये ददौ, तं सत्कृत्य विससर्ज च । ततः सोऽर्हन्नयो विक्रीतक्रीतभाण्डश्चम्पापुरीमगात् । तत्र च चन्द्रच्छायाय द्वितीयं कुण्डलद्वयमदात् । राज्ञा च कुतोऽदः कुण्डलद्वयमिति पृष्टश्च स यथायथं कुण्डलप्राप्तिवृत्तान्तं शशंस । तादृशापरकुण्डलद्वयदानप्रसङ्गाच्च मल्ल्या रूपोत्कर्षं विशेषतो वर्णयामास सः । चन्द्रच्छायनरेन्द्रोऽपि च प्राग्जन्मस्नेहतस्तां वरीतुं कुम्भाय दूतं प्राहिणोत् । इतश्च पूरणजीवो वैजयन्तात् परिच्युत्य श्रावस्त्यां पुर्यां रुक्मीनाम नृपो बभूव तस्य च धारण्याख्यां पत्न्यां रूपलावण्यवती सुबाहुर्नाम कन्यकाऽऽसीत् । नृपस्य चाऽतिप्रियत्वात् सा चातुर्मास्यां सादरं परिवारेण विशेषमज्जनविधिमकार्यत । कृतस्नाना धृतदिव्यालङ्कारा च सैकदा पितरं नन्तुं ययौ । नृपश्च तामुत्सङ्गमारोप्य सौविदल्लमीदृङ्मज्जनविधिः क्वाऽपीक्षित इत्यपृच्छत् । ततः सौविदल्ल उवाच- 'भवदादेशाद् मिथिलां गतेन मया कुम्भपुत्र्या आयुर्ग्रन्थौ विशेषोऽवलोकितः । तच्छ्रुत्वा जातानुरागेण रुक्मिणा मल्लिमार्गणाय कुम्भं प्रति दूतः प्रैषीत् । इतश्च वसुजीवोऽपि वैजयन्तात् परिच्युत्य वाराणसीपुर्यां शङ्खो नाम नृपो बभूव । एकदा च मल्लेस्तत्कुण्डलद्वये विघटिते तत्सङ्घट्टनायाऽऽदिष्टैः स्वर्णकारैः 'दिव्यमिदं वयं संघट्टयितुं न क्षमा' इत्युक्तेन नृपेण क्रुधा ते स्वर्णकाराः पुर्या निर्वासिता वाराणसीमेत्य शङ्खाय तद्वृत्तान्तमाचख्युः । कुण्डलप्रसङ्गाद् मल्ले रूपं च वर्णयामास। तच्छ्रुत्वा शङ्खोऽपि च कुम्भात् तामुपयाचितुं दूतं प्रैषीत् । इतश्च मल्लेरनुजो मल्लो नाम कुतूहलाच्चित्रकरैश्चित्रितां चित्रशालामकारयत् । तेषु चित्रकरेष्वेकाङ्गदर्शनात् तादृक्सर्वाङ्गालेख्य Page #28 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लब्धिमान् कश्चिच्चित्रकरोऽन्तर्जवनिकं मल्लेः पादाङ्गुष्ठं निरीक्ष्य सर्वाङ्गोपाङ्गसहितं यथावद्रूपमालिखत् । तत्र च क्रीडितुं गतो मल्लश्चित्रगतां मल्लिं प्रेक्ष्य साक्षाद् मन्यमानो लज्जया द्रुतमपासरत् । धात्र्या किमेतदिति पृष्टश्चाऽत्र 'मल्ली वर्तत इति कथमत्र क्रीड्यत' इत्यवोचत् । तया च सम्यङ् निरूप्य 'नेयं साक्षाद् मल्ली, किन्तु चित्रम्, अतो नाऽपसर्त्तव्य'मित्युक्तश्च मल्लः क्रुधा चित्रलेखक दक्षिणकरं निकर्त्य निरवासयत् । स चित्रकरश्च हस्तिनापुरे समेत्याऽदीनशत्रोर्नृपस्य स्ववृत्तान्तमाचख्यौ, मल्लिमवर्णयच्च । तथा चित्रफलकं निष्कास्य चित्रस्थां मल्लिमदर्शयत् । तां दृष्ट्वा विस्मित: पूर्वस्नेहाज्जातानुरागश्च स नृप उपकुम्भं मल्लियाचनाय दूतं प्रेषीत् । ___ इतश्चाऽभिचन्द्रजीवो वैजयन्तात् परिच्युत्य काम्पील्यनगरे जितशत्रुनामा नृपोऽभवत् । तस्य च धारिणीप्रमुखं राजीसहस्रमभवत् । तथा मिथिलापुर्यां चोक्षा नामैका परिव्राजिका राज्ञामाढयानां च गृहेषु दानमूलस्तीर्थाभिषेकजश्च धर्मः स्वर्गा-ऽपवर्गयोर्हेतुरिति नस्तत्त्वतो वच इत्युपदिशन्ती पौरान् जनपदांश्च धर्मे प्रवर्तयन्ती विहरमाणा मल्ल्यधिष्ठितं सदनं समभ्यागात् । तत्र च त्रिदण्डपाणिः काषायवसना सा सदभैः कुण्डिकाजलैर्भुवमभ्युक्ष्य स्ववृष्यां निषसाद् । तथाऽन्यजनवद् मल्लेरपि तं धर्मं जगौ । ततो मल्लिस्त्रिज्ञानधराऽवोचत्-'दानमात्रं धर्माय न, अन्यथा तु कुर्कुटादीनामपि पोषणं तत्कृते स्यात् । किं च प्राणातिपातमूलैस्तीर्थाभिषेकैः कोऽपि कथं शुचिर्भवेत् ? तस्माद् धर्मो विवेकमूलः । निर्विवेकस्य तपांस्यपि केवलं क्लेशाय । तया च युक्तियुक्तमित्थमुक्ता सा विलक्षाऽधोमुखी परिव्राजिका दास्यादिभिः 'पाखण्डिनि ! कुशासनेन त्वया कियच्चिरमिदं विश्वं वञ्चितमि'ति निरभसि । षष्ठं पर्व - षष्ठः सर्गः ततश्चोक्षाऽचिन्तयत्-'राज्यसम्पदुन्मत्तयाऽनया तदनुवर्त्तिना परिच्छदेनाऽपि च यत् स्वैरं तर्जिताऽस्मि, तदेनां स्वबुद्धितो बह्वीषु सपत्नीषु वैरानृण्यहेतवे क्षेप्यामि' । एवं विचिन्त्य निर्गत्य सामर्षा सा काम्पील्यपुरे जितशत्रुनृपान्तिके गत्वा तेन महत्या प्रतिपत्त्या दृष्टा साऽऽशीर्वाद प्रदाय स्ववृष्यामुपाविशत् । राजान्तःपुरेणाऽपि वन्द्यमाना दान-तीर्थाभिषेकजं धर्मं शशंस । ततो भूपतिस्तामुवाच'अखिलां महीं भ्राम्यन्त्या भवत्या ममाऽन्तःपुरस्त्रैणसदृशं वरमन्यत्राऽपि कुत्राऽपि दृष्टम् ?' ततश्चोक्षा स्मेरमुखी जगाद-'राजन् ! मिथिलापुरे कुम्भस्य राज्ञो मल्लीति नाम कन्यारत्नं विद्यते । सा हि मृगीदृशां चूडारलम्'। तच्छ्रुत्वा पूर्वस्नेहेन जातानुरागः स कुम्भसमीपं द्रुतं दूतं प्रेषीत् । मल्लिच प्राग्जन्मसुहृदां तेषां षण्णामपि महीभुजामवधिना बोधं पश्यन्त्यशोकवनिकान्तरे सौधर्मगृहे रत्नपीठे आत्मनो हैमी प्रतिमामातालुशुषिरोदरां तालुनि सच्छिद्रस्वर्णाम्भोजपिधानिकासहितां कारयित्वा न्यवेशयत् । प्रतिमापवरकस्य पुरतो भित्तौ च सजालककपाटानि षड् द्वाराणि च कारयामास । तेषां द्वाराणां पुरतश्च षट् हुस्वापवरकाणि प्रतिमापृष्ठभित्तावेकं द्वारं चाऽकारयत् । ततः सर्वाहारपिण्डी प्रतिमायास्तालुनि क्षिप्त्वा स्वर्णाम्बुजेन पिधाय च साऽन्वहं बुभुजे। इतश्च तेषां षण्णामपि नृपाणां दूता युगपत् कुम्भसन्निधावाययुः। ते सर्वे च स्वस्वामिगुणान् वर्णयन्तः स्वस्वामिप्रार्थनां निवेदयामासुः । ततः कुम्भराजो जगाद-'देवादीनामप्ययोग्या मम कन्या न तेभ्यः केभ्योऽपि नृपेभ्यः प्रदातव्या । तद्यूयमित: शीघ्रं यात, मम नगराद् निर्यात'। एवं राज्ञा निराकृतास्ते षडपि दूता द्रुतं गत्वा स्वस्वामिनं तत् सर्वं वृत्तान्तमवोचन् । ततः समानपराभवास्ते Page #29 -------------------------------------------------------------------------- ________________ ३६ षष्ठं पर्व - षष्ठः सर्गः ततः समये प्रव्रज्या ग्राह्येति । तानुदीर्य तान् षडपि मल्लिविससर्ज। ते च स्वं स्वं पुरं जग्मुः। त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षडपि राजानः परस्परं दूतान् प्रेष्य कुम्भनृपेण सह विग्रहं निश्चिक्युः । ससैन्यं प्रस्थिताश्च ते षडपि मिथिलापुरीं प्राप्य तां परितः पर्यवेष्टयन् । कुम्भोऽपि तेन रोधेन खिन्नः कतिपयैदिनैश्चिन्तापन्नस्तस्थौ । ततो मल्लिः समागत्योद्वेगकारणं पृष्टवती । कुम्भश्च सर्वं यथास्थितमवोचत् । ततो मल्लिरुवाच-'तात ! गूढपुरुषैः प्रत्येकं तुभ्यं प्रदास्यामीत्युक्त्वा षडपि नृपान् बोधय, तस्या मम प्रतिमायाः पुरोऽपवरकेषु सायं श्वेतवाससा प्रच्छन्नास्ते क्रमेण समानेयाः' । राजा च तथैव विदधे । तेऽपि तथैवाऽऽजग्मुः । कपाटजालकैस्तां मल्लिप्रतिमां ददृशुश्च । मल्ल्यपि च तत्र प्रतिमापृष्ठद्वारेण प्रविश्य प्रतिमान्तरिता तालुपिधानाब्जमपानयत् । ततश्च सद्यः प्रक्षिप्तकुथिताहारगन्धः शकद्गन्ध इवाऽसह्यो निर्ययो । ततस्ते तदनगन्धमसहमाना वाससा नासिकां पिधाय ततः पराङ्मुखा अजायन्त । ततो भोः ! कि यूयं पराङ्मुखा इति मल्ल्या पृष्टा अमुं दुर्गन्धं सोढुं न शक्नुम इत्यभ्यधुः । मल्लिस्तान् प्रत्युवाच-'इयं सौवर्णी प्रतिमा, अत्र चाऽन्वहमाहारप्रक्षेपादीदृशो गन्धः, तथैव विष्ठा-मूत्रादिभृते बहिरन्तश्च बीभत्से देहे विवेकिनः कथमनुरागं कुर्वन्तु ? इतस्तृतीये भवे भवद्भिर्मया सह तपश्चक्रे प्रव्रजितैः, तत् किं न स्मरत' । ततो मल्लीवचो विमशतां तेषां जातिस्मरणमुत्पेदे । ततो मल्लिर्जालकपाटान्युदघाटयत् । प्रबुद्धास्ते चाऽभ्युपेत्याऽब्रुवन्-‘स्मरामः, यद् भवे पूर्वे सप्ताऽपि वयं सम्भूय कृतसङ्केतास्तीवं तपोऽकाम॑ । त्वया साधु बोधिता: स्मः, नरकाच्च रक्षिताः, अतः परं कृत्यमादिश, त्वं नो गुरुरसि'। ततो लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थिता मल्लिार्षिक दानं प्रददौ । जन्मतोऽब्दशते पूर्णे पञ्चविंशतिधनून्नता कुम्भराजसुरेन्द्राद्यैः कृतनिष्क्रमणोत्सवा जरतीनामशिबिकारत्नमारूढा सहस्राम्रवणं प्राप । मार्गशुक्लैकादश्यामश्विनीस्थे चन्द्रे कृताष्टमा पूर्वाह्ने बहि:परिच्छदार्हाणां नृणां दशभिः शतैरन्तः परिच्छदार्हाणां स्त्रीणां त्रिभिः शतैश्च समं प्रवव्राज। तदैव च तस्या मनःपर्ययज्ञानमुत्पेदे । तस्मिन्नेव दिनेऽशोकमूले तस्याः केवलमप्युत्पन्नम् । ततः शक्रादिभिः कृते समवसरणे धनुःशतत्रयोत्तुङ्गचैत्यपादपशोभिते प्रारद्वारा प्रविश्य यथोपचारं प्रभुमल्लिः रत्नसिंहासनं प्राङ्मुख्यध्यतिष्ठत् । ततो यथा स्थानं सुरादिषु कुम्भादिनृपेषूपविष्टेषु च देवराज-कुम्भराजाभ्यां स्तुता धर्मदेशनां व्यधात् । तथाहि- 'संसार: स्वतोऽप्यपारः, स च पूर्णमासीदिनेनाऽब्धिरिव रागादिना विशेषतो वर्धते । न च विना समताजलं नृणां रागद्वेषमलक्षयः कर्तुं शक्यः, यज्जन्मकोटिभिरपि तीव्रतपसा कर्म न हन्यते, तत्साम्यावलम्बेन क्षणार्धेन हन्यते । आत्मज्ञानी साधुश्च सामायिकशलाकया संश्लिष्टं कर्मजीवं विभिन्नीकुरुते । योगिनश्च सामायिकांशुना रागादिध्वान्तविध्वंसे कृते स्वस्मिन् स्वरूपं पश्यन्ति । समताभाजश्च साधोः प्रभावतो नित्यवैरिणोऽपि जन्तवः परस्परं स्निह्यन्ति । समता चेष्टा-ऽनिष्टैश्चेतना-ऽचेतनैर्भावैर्मनसोऽमोहः । बाह्वोर्गोशीर्षचन्दनालेपे वासिच्छेदे वाऽभिन्ना चित्तवृत्तिश्चेत् तदाऽनुत्तमं साम्यं ज्ञेयम् । 'स्तोतरि शप्तरि च यस्य चेतस्तुल्यं स Page #30 -------------------------------------------------------------------------- ________________ ३८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समताधिष्ठितः। विना हवन-जप-दानादि साम्यमात्रेणाऽमूल्यक्रीती निर्वृतिर्जायते । तत: क्लिष्टान् रागादीन् विहायाऽयत्नलभ्यं हृद्यं सुखावहं च साम्यमेव धार्यम् । नास्तिकोऽपि साम्यजनितं सुखं स्वसम्वेद्यं नाऽपलपति । खाद्य-लेह्यादिभ्यो विरक्ता अपि यतयः स्वैरं साम्यामृतरसं मुहुः पिबन्ति । यस्य च कण्ठे सर्पो मुक्तादाम च नाऽप्रीत्यै न वा प्रीत्य, स एव समतापतिः । साम्यं हि बालानां सुधियां च निरुपाधिकं भवरुजौषधम् । योगिनश्चाऽतिक्रूरतरमपि कर्म साम्यशस्त्रेण सुखं घ्नन्ति । समताया अयं प्रभावोऽवश्यं प्रत्येतव्यो यत: पापिनोऽपि क्षणार्धेन शाश्वतं पदमिच्छन्ति । यस्मिन् सति रत्नत्रयं सफलं तस्मै समत्वाय स्वस्ति । उपसर्गे मृत्युकाले वा साम्याद् नाऽन्य उत्तम उपायः'। प्रभोरेवं देशनां श्रुत्वा ते षड् भूपा अन्येऽपि च प्रबुद्धाः प्रवव्रजुः। कुम्भादयश्च श्रावकत्वं प्रपेदिरे । भिषगादिष्वष्टाविंशतौ गणधरेषु भिषग्गणधरो देशनां व्यधात् । द्वितीयदिने च तत्रैव वने मल्लिप्रभोविश्वसेननृपात् परमान्नेन पारणं जज्ञे । देवराजादयः कुम्भादयो नृपाश्च मल्लिपादौ नमस्कृत्य स्वं स्वं स्थानं ययुः । *** तत्तीर्थे समुत्पन्ने इन्द्रायुधधुतिश्चतुर्मुखो गजरथो दक्षिणैर्भुजैर्वरदपशु-शूला-ऽभयधरो वामैश्च बीजपूर-शक्ति-मुद्गरा-ऽक्षसूत्रधरः कुबेरयक्षः, कृष्णाङ्गी कमलासना दक्षिणाभ्यां बाहुभ्यां वरदाऽक्षसूत्रधरा वामाभ्यां च मातुलिङ्ग-शक्तिधरा वैरोट्यादेवी च श्रीमल्लेरर्हतः शासनदेवते अभूताम् । ततः प्रभुस्ततः स्थानाद् भव्यलोकावबोधाय ग्राम-पुरादिषु विजहार । षष्ठं पर्व - प्रथमः सर्गः मल्लिप्रभोः परिवारे च श्रमणानां चत्वारिंशत्सहस्राणि, आर्यिकाणांश्च पञ्चपञ्चाशत्सहस्राः, मन:पर्ययिणां पञ्चाशदन्विता सप्तदशशती, चतुर्दशपूर्वभृतां साष्टषष्टिः षट्शती, अवधिज्ञानिनां द्वाविंशतिशती, केवलज्ञानिनां द्वाविंशतीशती, जातवैक्रियलब्धीनां शतोनां त्रिसहस्री, उत्पन्नवादलब्धीनां चतुर्दश शतानि, श्रावकाणां सत्र्यशीतिसहस्रकं लक्षमेकं, श्राविकाणां ससप्ततिसहस्रिका त्रिलक्षी चाऽभवन् । मल्लिप्रभुश्चैतैः परिवारैः परिवेष्टितः संवत्सरशतन्यूनां पञ्चपञ्चाशतं समासहस्त्रान् विजहार । अथ निर्वाणसमयं ज्ञात्वा सम्मेताद्रिमुपेत्याऽनशनं साध्वीनां साधूनां च पृथक् पृथक् पञ्चशत्या समं प्रपद्य मासान्ते फाल्गुनशुक्लद्वादश्यां याम्यभे तैः साधुभि: साध्वीभिश्च सार्धं निर्वाणमासदत् मल्लिप्रभुः । तदेवं मल्लिप्रभोः कौमारे व्रतपर्याये च वर्षाणां पञ्चपञ्चाशत्सहस्राण्यभवन् । अरनाथस्य निर्वाणाच्च वर्षाणां कोटिसहस्त्रे समतिक्रान्ते मल्लिजिननिर्वृतिरभूत् । इन्द्रादयश्च तत्कालमुपेत्य श्रीमल्लिप्रभोनिर्वाणमहोत्सवं यथाविधि चक्रुः ॥६॥ इति श्रीमल्लिजिनचरितवर्णनात्मकः षष्ठः सर्गः ॥६॥ Page #31 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः मुनिसुव्रतनाथचरितम् जिनः सूनुः सुमित्रस्य पद्मावत्याश्च कुक्षिजः । सद्धर्मदेशकः पायादपायान्मुनिसुव्रतः ॥ १ ॥ अथाऽत्रैव जम्बूद्वीपेऽपरविदेहेषु भारताख्ये विजये चम्पापुर्यां नगर्यां सुरश्रेष्ठो नाम महीपतिरासीत् । चतुर्धाऽपि वीरो विनयी जिनधर्मधुरन्धरः स एकदोद्याने समवसृतं नन्दनं नाम मुनिं भक्त्या ववन्दे । तद्देशनया प्रबुद्धश्च भवविरक्तस्तस्यैव मुनेः पार्श्वे प्रव्रज्यां प्रपद्य यथावद् व्रतं पालयित्वाऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य विपद्य प्राणते सुरोत्तमोऽभूत् । इतश्चाऽत्रैव जम्बूद्वीपे भरते वत्समण्डले कौशाम्ब्यां पुर्यां सुमुखो नाम भूपतिरासीत् । एकदा स वसन्तर्तौ क्रीडार्थमुद्यानं गच्छन् गजारूढो वीरकुविन्दस्य भार्यां रूप लावण्यवतीं दृष्ट्वा कामार्तोऽचिन्तयत्- 'किमियं शापेन दिवो भ्रष्टाऽप्सराः, वसन्तश्रीर्वा रतिर्वा, यद् वा ब्रह्मणा कौतुकात् किमपि स्त्रीरत्नं कृतम् ? ' एवं विचिन्तयंस्तत्रैव गजमगमयत्, न त्वन्यतो ययौ । 'स्वामिन् ! सर्वं बलं प्राप्तं, किमद्याऽपि विलम्ब्यते' ? इति सचिवेनोक्तश्च कथमपि चेतः संस्थाप्य यमुनोद्वर्त्तं महोद्यानं जगाम । तत्र च तया हृतमनाः क्वाऽपि रति न प्राप नृपः । षष्ठं पर्व सप्तमः सर्गः सुमतिर्नाम सचिवश्च भावज्ञोऽप्यज्ञ इव तमुद्विग्नमानसं महीपतिमुवाच- 'राज्ञां मानसो विकारो वा शत्रुसम्भवं भयं वा मोहाय, न तृतीयं किमपि । तत्र विक्रमाक्रान्तजगतस्ते शत्रुभयं नास्ति, यदि मनोविकारः कोऽपि तर्ह्यगोप्यश्चेद् वद । ततो राजोवाच-‘त्वया सत्यमुक्तं, न त्वत्तः किमपि गोप्यम् । आगच्छता मया पथि काचिदङ्गना निरीक्षिता, तया हृतं मम चेतः स्मरातुरमस्ति, तेन ताम्यामि' । ततः सचिव उवाच- 'सा मया ज्ञाताऽस्ति, सा वीरकुविन्दस्य भार्या वनमाला । एषोऽहं तवाऽभीष्टं सम्पादयिष्यामि, सपरिवारः स्वमालयं यातु भवान्' । सचिवेनेत्थमुक्तो नृपः शिबिकारूढो वनमालां तां चिन्तयन् स्वं स्थानमगात् । सचिवश्च विचित्रोपायपण्डितामात्रेयिकां नाम परिव्राजिकां वनमालायै प्राहिणोत् । सा च वनमालाया वेश्म गता, तया वन्दिता साशी:पूर्वमुवाच-‘त्वमद्य कुतो म्लानवदना दृश्यसे ?' ततो वनमालोवाच- 'मयाऽद्य पथि गजारूढो नृपो वीक्षितः । तं दृष्ट्वाऽपहतमानसा स्मरार्त्ताऽस्मि, किन्तु क्वाऽहं कुविन्दी ? क्व नृपः ? स्वप्नेऽप्यावयोः सङ्गमोऽसम्भवी' । तत आत्रेय्युवाच- 'मा विषीद, प्रातः राज्ञा सह तव योगं करिष्यामि' । एवमाश्वास्य सा गता नृपार्थं सिद्धप्रायं मन्त्रिणे समाख्यत् । प्रातश्च परिव्राजिका गत्वा वनमालामवोचत्- 'मया सुमुखो नृपस्तव प्रेमाभिमुखः कृतोऽस्ति उत्तिष्ठ, नृपसद्मनि गच्छावः, राजपत्नीव राज्ञा सह यथा सुखं रमष्व' । ततो वनमाला तया सार्धं नृपगृहं ययौ । राज्ञा च साऽवरोधे निदधे । तथा तया सहोद्यानादिषु भोगसुखमन्वभूत् । इतश्च वीरकुविन्दो वनमालया वियुक्त उन्मत्त इव भ्रमन् विवर्णवदनोऽसंस्कृताङ्गः पौरबालकैरुपद्रूयमाणो 'वनमाले ! क्वाऽसि, Page #32 -------------------------------------------------------------------------- ________________ ४२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दर्शनं देही' त्यादि विलपन् पुर्यां चत्वरादिषु कालमतिवाहयति स्म । एकदा च बालकैरावृतस्तथैव प्रलपन् राजगृहाङ्गणे समागतः कौतुकाद् राजलोकेन सोऽवेष्ट्यत । सुमुखो नृपश्च कोलाहलं श्रुत्वा किमेतदिति जिज्ञासुर्वनमालया सहैव तत्राऽऽगतस्तं विकृताकारं लोकेनाऽऽक्रुश्यमानं वनमाले ! क्वाऽऽसीत्यादि विलपन्तं दृष्ट्वा राजा वनमाला च दध्यतुः - 'अहो ! अस्माभिर्निर्घृणं कर्म विदधे । दुःशीलैरेष विश्वस्तो वञ्चितः । अतः परं नाऽन्यत् किञ्चित् पापं प्रकृष्यते । प्रकृष्टपापिनां मध्ये वयमेव धौरेयाः । इमं वराकं जीवन्तमेव मृतमिवाऽकार्ष्म । विषयलाम्पट्यं धिक् । अनेन पापेन नरकेऽपि खलु नः स्थानं न । ये जितेन्द्रियास्ते धन्याः । वैषयिकं हि सुखं विपाके दुःखकारणमेव । ये जिनधर्ममहोरात्रमपि श्रृण्वन्त्याचरन्ति च ये च विश्वोपकारिणः, ते धन्याः । एवं स्वं विनिन्दतोर्धर्मानुरक्तांश्चाऽभिनन्दतोस्तयोरुपरि तदैव विद्युत् पपात प्राणानपजहार च । ततस्तौ हरिवर्षे वर्षे मिथुनरूपिणौ जज्ञाते । पितृभ्यां हरिश्च हरिणी चेति कृतनामानौ प्राग्जन्मवद् दम्पती दिवानिशमवियुक्तौ कल्पद्रुमैः सम्पादितार्थौ विलसन्तौ सुखेन तस्थतुः । इतश्च वीरकुविन्दोऽपि सुदुस्तपं बालतपश्चक्रे । मृत्वा च सौधर्मकल्पे किल्बिषिक: सुरोऽभवत् । तत्र चाऽवधिना स्वं प्राग्जन्म हरिणी - हरी चाऽपश्यत् । ततः क्रुद्धः स हरिवर्षं गत 'इहाऽवध्याविमौ मृत्वा क्षेत्रप्रभावतोऽवश्यं स्वर्गं यास्यतः, तदुर्गतीनां निर्बन्धेन मृतिपदे स्थाने इमौ नयामि' इति निश्चित्य स सुरः कल्पतरुभिः सह तौ भरते चम्पापुर्यामनैषीत् । तत्र च तदानीमिक्ष्वाकुवंशजश्चन्द्रकीर्तिर्नाम नृपोऽभवत् । स चाऽपुत्र एव पञ्चत्वं प्राप। ततस्तस्य प्रकृतयो राज्यार्हमपरं नरमन्वेष्टुं प्रावर्त्तन्त । षष्ठं पर्व सप्तमः सर्गः स देवश्च तदा देवद्धर्ध्या सर्वान् जनान् विस्मापयन् नभःस्थ उवाच-'भोः ! सचिवाद्याः ! युष्माकं राजाऽपुत्रो मृत इति यूयं राजेच्छवः, अहमद्यैव हरिवर्षाद् हरिं युग्मरूपिणं राज्यार्हमनैषम् । अस्येयं हरिणी सहजा पत्नी च । अनयोराहारार्थममी कल्पद्रुमाश्चाssनीताः । तदयमद्य वो राजा भवतु । अनयोश्च कल्पद्रुमफलाविद्धं पशु-पक्षिणां मांसं मद्यं चाऽऽहारे देयम्' । ते चैवमस्त्विति प्रोच्य तं देवं प्रणम्य मिथुनं रथमारोप्य राजवेश्मनि नीत्वा हरिं राज्येऽभिषिषिचुः । स देवश्च स्वशक्त्या तयोर्हस्वमायुस्तुङ्गत्वे धनुशतं च विधाय कृतार्थो तिरोदधे । स च हरिनृपः शीतलस्वामितीर्थेऽभूत् । ततः प्रभृति तन्नाम्ना भुवि हरिवंशोऽभवत् । स च हरी राजा वसुधां साधयित्वाऽनेकशो राजकन्याः परिणीतवान् । तस्य च हरिण्यां कियत्यपि काले गते पृथुलोर:स्थलः पृथिवीपतिनामा पुत्रोऽभवत् । हरिणी-हरी च क्रमाद् - विपेदाते । तयोः सूनुः पृथिवीपतिश्च चिरं राज्यं पालयित्वा पुत्रं महागिरिं तत्राऽभिषिच्य तपस्तप्त्वा दिवं प्रत्यपद्यत । महागिरिश्चाऽपि सुतं हिमगिरिं राज्येऽभिषिच्य प्रव्रज्यां प्रपद्याऽपुनर्भवमव्राजीत् । हिमगिरिश्च ज्येष्ठं सुतं वसुगिरिं राज्ये न्यस्य प्रव्रज्याऽव्ययं पदं प्राप । वसुगिरिरपि गिरिं नाम सुतं गिरिश्च मित्रगिरिं नाम सुतं, क्रमशो राज्ये निधाय प्रव्रज्योत्तमं पदं प्राप । एवं हरिवंशे जाता नृपाः केचन तपसा निर्वाणं केचन स्वर्गं च प्राप्ताः । इतश्चाऽत्रैव भरते मगधेषु राजगृहे नगरे हरिवंशीयः सुमित्रो नाम भूपतिरभूत् । तस्य च पद्मावती नाम पल्यासीत् । तस्याश्च कुक्षौ प्राणतकल्पात् सुरश्रेष्ठजीवो निजमायुः पूरयित्वा च्युत्वा श्रावणपूर्णिमायां श्रवणास्थे चन्द्रेऽवततार । तदानीं निशाशेषे Page #33 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुखसुप्ता पद्मावती देवी च तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । पूर्णे च समये तमालवणं कूर्मचिह्न ज्येष्ठकृष्णाष्टम्यां श्रवणस्थे चन्द्रे सुखं सुतमसूत । ___ दिक्कुमारिकाभिश्चाऽऽगत्य भक्त्या सूतिकर्मणि विहिते प्रभुरिन्द्रेण मेरावुपनीय स्नात्रं विधाय स्तुत्वाऽऽदाय पुन: पद्मावतीपार्वेऽमुच्यत । प्रभाते सुमित्रनृपश्च समहोत्सव'मस्मिन् गर्भस्थे माता मुनिवत् सुव्रता जातेति प्रभोर्मुनिसुव्रतेत्याख्यां विदधे । ज्ञानत्रयपवित्रात्मा च प्रभुः क्रमेण वर्धमानो यौवनं प्रपद्य विंशतिधन्वसमुन्नतिः प्रभावतीप्रभृतिका राजपुत्री: पर्यणैषीत् । प्रभोश्च प्रभावत्यां सुव्रतो नाम पुत्रोऽभवत् । अथाऽर्धाष्टमेषु वर्षाणां सहस्रेषु गतेषु पित्राऽध्यारोपितं राज्यभारं गृहीत्वा पञ्चदशसहस्राब्दी मां पालयन् तीर्थं प्रवर्त्तयेति लोकान्तिकामरैः प्रार्थितो वार्षिकदानं प्रददौ । ततः पुत्र सुव्रतं राज्ये निवेश्य देवैः सुव्रतादिभिर्नृपैश्च कृतनिष्क्रमणोत्सवोऽपराजितां शिबिकामध्यारुह्य नीलगुहां नामोद्यानं प्राप प्रभुः । फाल्गुनशुक्लद्वादश्यां श्रवणस्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्रव्रज्य द्वितीयेऽह्नि राजगृहे ब्रह्मदत्तनृपगृहे पायसेन पारणं विधाय प्रभुर्मुनिसुव्रत एकादशमासान् छद्मस्थो विजहार । ततो विहरन्नीलगुहोद्यानं प्राप्य चम्पकतरोरधः प्रतिमाधरस्तस्थौ । फाल्गुनकृष्णद्वादश्यां श्रवणस्थे चन्द्रे च घातिकर्मक्षयात्प्रभोरमलं केवलमुत्पन्नम् । तदानीं च शक्रादिभिः कृते समवसरणे चत्वारिंशेष्वासशतद्वयोच्चाशोकपादपे यथोपचारं प्रविश्य सिंहासन उपाविशत् । देवेषु सङ्ग्रेषु च यथास्थानं स्थितेषु शक्र-सुव्रताभ्यां स्तुतो मुनिसुव्रतप्रभुर्विश्वविबोधाय देशनां ददौ । षष्ठं पर्व - सप्तमः सर्गः तथाहि-'क्षारसमुद्रात् सद्रत्नमिवाऽसारात् संसाराद् धर्म मतिमानाददीत । स च संयम-सुनृतादिर्दशविधः । निजदेहेऽपि निरीह, आत्मन्यपि निर्ममो, नमस्कुर्वत्यपकुर्वत्यपि समाशय, उपसर्गपरीषहान् सोढुं शक्तो, मैत्र्यादिभावनाभिर्भावितमानसः, क्षमावान्, विनयी, दान्तो, गुरुशासने श्रद्धालुर्जात्यादिगुणसम्पन्नो जनो यतिधर्माय कल्पते । गृहमेधिनां च सम्यक्त्वमूलानि पञ्चाऽणुव्रतानि त्रयो गुणाश्चत्वारि शिक्षापदानि च धर्मः । न्यायलब्धविभवः, शिष्टाचारानुरागवान्, कुल-शीलतुल्यैरन्यगोत्रजैः कृतोद्वाहः, पापभीरुः, प्रसिद्ध देशाचार समाचरन्, क्वाऽप्यवर्णवादवजितोऽनतिव्यक्तगुप्ते स्थाने सुप्रातिवेश्मिकेऽनेकनिर्गमद्वारवर्जितगृहः, सदाचारैः कृतसङ्गो, मातापित्रोः पूजक, उपप्लुतं स्थानं त्यजन्, गर्हितेऽप्रवृत्त, आयोचितं व्ययं कुर्वन्, वित्तानुसारिवेशवान्, धीगुणैरष्टभिर्युक्तोऽन्वहं धर्म श्रृण्वानोऽजीणे भोजनत्यागी काले च मितपथ्यभोक्ता, परस्पराबाधया त्रिवर्ग साधयन्, अतिथौ दीने साधौ च यथावत् प्रतिपत्तिकृद्, अनाग्रही, गुणेषु पक्षपाती, बलाबलं जानन्, अदेशकालोचितां चाँ त्यजन्, वृत्तस्थज्ञानवृद्धानां पूजकः, पोष्यपोषको, दीर्घदर्शी, विशेषज्ञः, कृतज्ञो, लोकप्रियः, सलज्जः, सदयः, सौम्यः, परोपकारपरायण, आन्तरविजयप्रवृत्तो, जितेन्द्रियो जनो गृहिधर्माय कल्पते । यतिधर्माक्षमेण तु मनुष्येण जन्मसाफल्यमिच्छता श्रावकधर्मोऽपि सेव्यः' । प्रभोरमूं देशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् । अनेके च श्रावका जाताः । स्वामिनश्च ये इन्द्रादयोऽष्टादश गणधरा आसन्, तेष्विन्द्रः प्रभौ देशनाविरते देशनां चकार । तत्राऽपि देशनाविरते शक्र-सुव्रतादयः प्रभुं प्रणम्य स्वं स्वं स्थानं ययुः । Page #34 -------------------------------------------------------------------------- ________________ ४७ षष्ठं पर्व - सप्तमः सर्गः सागरदत्तस्तच्छिक्षार्थं तदाचार्यमुखं प्रेक्षत । तस्मिंश्च तत्पापमुपेक्षमाणे सागरदत्तश्चिन्तयामास-'अहो ? निघृणा अमी, धिक् । इमे दारुणाशया गुरुबुद्ध्या कथं पूज्यन्ते ? इमे ह्यात्मानं यजमानं च दुर्गतौ पातयन्ति' । एवं विचिन्त्य स आग्रहात् तत्कर्म कृत्वाऽनासादित सम्यक्त्वोऽपि दान-शीलस्वभावत: कालेन विपद्य महारम्भाजितधनत्राणपरायणत्वादयं तव जात्योऽश्वोऽभूत् । तद्बोधायाऽहमिहाऽऽगमम् । प्राग्जन्मकारितजिनप्रतिमायाः प्रभावतोऽयं नो धर्मोपदेशं श्रुत्वा क्षणादपि सम्बुद्धः। भगवतैवमाख्याते नृपेण सोऽश्वः क्षमयित्वा स्वतन्त्रः कृतः । ततः प्रभृति लोके तद् भृगुकच्छपुरमश्वबोधाख्यं तीर्थं ख्यातमभूत् । ४६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्तीर्थे च समुत्पन्ने चतुर्मुखस्त्र्यक्ष: श्वेतवर्णो जटी वृषास्यो दक्षिणैर्बाहुभिर्मातुलिङ्ग-गदा-बाण-शक्तिभृद् वामैश्च नकुला-ऽक्षधनु:-पशुधारिभिः शोभितो वरुणयक्षः, भद्रासनस्थिता गौरवर्णा दक्षिणाभ्यां बाहुभ्यां वरदा-ऽक्षसूत्रधरा वामाभ्यां च मातुलिङ्गशूलधरा नरदत्ता देवी च प्रभोः मुनिसुव्रतस्य शासनदेवते अभूताम्। ताभ्यां सहितश्च प्रभुर्मेदिनी विहरन् भृगुकच्छे महापुरे समवासार्षीत् । तत्र च हयारूढो नृपो जितशत्रुरागत्य वन्दित्वा प्रभोर्देशनां शुश्राव । तस्य नृपस्य हयश्चाऽप्युत्कर्णः पुलकित: स्थिरः स्वामिदेशनामश्रौषीत् । समये च लब्धावसरो गणधरः स्वामिनं पप्रच्छ-'अत्र समवसरणे को धर्म प्रपेदे ?' स्वाम्यूचे-'जितशत्रुहयं विना नाऽन्यः कोऽपि' । ततः सविस्मयो जितशत्रुः स्वामिनमपृच्छत्-'कोऽयमश्वः, यो धर्म प्रत्यपद्यत ?' ततो भगवानाह-'पुरा पद्मिनीखण्डपत्तने जिनधर्मनामा श्रावकोऽभूत् । तस्य च मित्रं सागरदत्त आसीत् । स तेन सममन्वहं चैत्येषु ययौ । अन्यदा च स साधुभ्योऽश्रौषीत्-'योऽर्हद्विम्बानि कारयेत् सोऽन्यभवे धर्ममाप्नुयात्' । तच्छ्रुत्वा च सागरदत्तः सौवर्णमाहतं बिम्बं कारयित्वा समहोत्सवं साधुभिः प्रत्यतिष्ठिपत् । उत्तरायणे स च नगराद् बाहिः स्वयं कारितं समुत्तुङ्ग शिवायतनमगात् । तत्र च शिवार्चकैघृतभक्षणाय कृतत्वरैः प्राक्सञ्चितप्रतिशीनघृतकुम्भाः क्रष्टुमारेभिरे । तेषां घटानामधश्च पिण्डीभूय लग्ना उपदेहिका भूपस्य वर्त्मनि पेतुः । सागरदत्तः सञ्चरद्भिः पूजकैचूर्ण्यमाणास्ता: समीक्ष्य कृपया वस्त्रेणाऽपनेतुं प्रचक्रमे । कि श्वेतभिक्षुभिः शिक्षितोऽसीति सोपहासं जल्पता केनचित् पूजकेनाऽङ्मिघातेन ताश्चूर्णिताः । ततश्च तत्क्षणं विलक्षीभूय प्रभुश्च देशनां पारयित्वा भुवनस्योपचिकीर्षया विहरन् हस्तिनापुरे समवासार्षीत् । तस्मिन्नगरे च जितशत्रुनामा नृपो वणिक्सहस्त्रेशः श्रेष्ठी कार्तिकनामा श्रावकश्चाऽभूत् । तस्मिन पुरे कषायवसनो भागवतव्रतो मासं मासं चोपवासी पौरे शमपूज्यत। तथा सम्यक्त्ववता कार्तिकेन विना पारणे पारणे पौरेय॑मन्त्र्यत च । स च भागवतव्रतो भूतवच्छ्रेष्ठिछिद्रान्वेषणतत्पर एकदा पारणे जितशत्रुणा न्यमन्त्रि । ततः स परिव्राजको 'यदि कार्तिकः मे परिवेषणं करोति, तदा तव गृहे भुञ्जे' इत्यूचे । नरेन्द्रश्चाऽऽमित्युक्त्वा तद्गृहं गत्वा 'त्वया भागवतव्रतस्य परिवेषणीयमिति ययाचे । 'स्वामिन् ! अस्माकं पाखण्डधारिष्विदं न युज्यते, तथाऽपि तवाऽऽज्ञया कार्य'मेतदित्युक्त्वा स्वीकृतवान् । पुराऽपि चेत् प्राव्रजिष्यं तदा नाऽकरिष्यमिदमिति विचिन्तयन् खेदाच्छ्रेष्ठी राजकुलं ययौ । परिवेषयतश्च तस्य स परिव्राजकस्तर्जनी Page #35 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दर्शनैर्मुहुस्तिरस्कारं दर्शयामास । स च श्रेष्ठ्यनिच्छयाऽपि परिवेष्य निविण्णः स्वामिपादान्ते वणिक्सहस्रेण समं प्राव्राजीत् । तथा द्वादशाङ्गधरो द्वादशाब्दी परं व्रतं कृत्वा मृत्वा सौधर्मे तत्कल्पेन्द्रः समजायत । स परिव्राजकोऽपि मृत्वाऽऽभियोग्येन कर्मणा तस्यैव वाहनमैरावणो द्विपोऽभूत् । तं च शक्रं प्रेक्ष्य सामर्षः पलायितुं प्रवृत्तः प्रसह्य धृत्वाऽऽरुरोह शक्रः । ततः स द्वे शीर्षे चकार । इन्द्रोऽपि यावच्छीर्षों गजस्तावच्छीर्षो बभूव। भूयः पलायमानः स शक्रेण वज्रेणाऽऽहत्य प्राग्जन्मवैरी वशंवदश्चक्रे ।। सुव्रतस्वामिनश्चाऽऽकेवलाद् विहरत एकादशमासन्यूनाष्टिमाब्दसहस्यगात् । तदानीं प्रभोः परिवारे च श्रमणानां त्रिंशत्सहस्राणि, साध्वीनां पञ्चाशत्सहस्राणि, चतुर्दशपूर्विणां सहस्त्रार्धम्, अवधिज्ञानिनामष्टादशशतानि, मन:पर्ययिणां पञ्चदशशतानि. केवलिनामष्टादशशतानि, जातवैक्रियलब्धीनां सहस्रद्वितयम्, उत्पन्नवादलब्धीनां सहस्रं द्वे शते. श्रावकाणां लक्षमेकं द्वासप्ततिसहस्री च, श्राविकाणां सार्धा त्रिलक्षी चाऽभवन् । निर्वाणकाले च मुनिसुव्रतनाथः सम्मेतादि गत्वा मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते ज्येष्ठकृष्णनवम्यां श्रवणस्थे चन्द्रे तैमुनिभिः सममव्ययं पदं प्राप । तदेवं मुनिसुव्रतनाथस्य कौमार-व्रतयोः पृथक् सार्धाः सप्ताब्दसहस्राः, राज्ये पञ्चदश, एवं त्रिंशद्वर्षसहस्राण्यायुः । श्रीमल्लिस्वामिनिर्वाणाच्च चतुष्पञ्चाशदब्दलक्षेषु गतेषु मुनिसुव्रतनाथनिर्वृतिरभूत् । सुरेन्द्राश्च समुपेत्य तैर्मुनिभिः सममव्ययं पदं गतवतो मुनिसुव्रतनाथस्य मोक्षमहिमानं विदधुः ॥ ७ ॥ इति श्रीमुनिसुव्रतजिनचरितवर्णनात्मकः सप्तमः सर्गः ॥७॥ अष्टमः सर्गः श्रीमहापद्मचक्रिचरितम् अथ जिनेन्द्रे मुनिसुव्रते विहरत्येव महापद्मचक्री बभूव । तच्चरितं यथा-इह जम्बूद्वीपे प्राग्विदेहेषु सुकच्छविजये श्रीनगरे पुरे प्रजापालो नाम राजा बभूव । एकदा स आकस्मिकं विद्युत्पातं दृष्ट्वा विरक्तबुद्धिः समाधिगुप्तमुनेः समीपे व्रतमादाय चिरं पालयित्वा विपद्याऽच्युतेन्द्रोऽभूत् । इतश्च जम्बूद्वीपे भरते हस्तिनापुरे इक्ष्वाकुवंशे पद्मोत्तरो नाम नृपो बभूव । तस्य च ज्वालानाम्नी महिष्यासीत् । तस्यां च तस्य केसरिस्वप्नसूचितो विष्णुकुमारो नाम प्रथमः पुत्रो जज्ञे । तथा प्रजापालजीवोऽच्युताच्च्युत्वा ज्वालादेव्या उदरे समवतीर्णश्चतुर्दशमहास्वप्नसूचितो महापद्मो नाम सुतोऽभवत् । तावुभावपि कुमारौ क्रमेण वर्धमानौ सर्वाः कला आचार्याज्जगृहतुः । तयोश्च महापद्मकुमारो जिगीषुरिति ज्ञात्वा पद्मोत्तरनृपेण यौवराज्ये निदधे । इतश्चोज्जयिनीनगरे श्रीवर्मा नाम नृपस्तदमात्यो नमुचिश्चाऽभूताम् । एकदा च विहरन् मुनिसुव्रतदीक्षितः सुव्रतो नामाऽऽचार्यः तत्र पुरे समवासरत् । तद्वन्दनाय गच्छतो नागरान् जनान् दृष्ट्वा क्वेमे गच्छन्तीति नृपो नमुचिं पृष्टवान् । नमुचिना च श्रमणवन्दनाय गच्छन्तीत्युक्तश्च नृपो वयमपि याम इत्यवोचत् । ततो Page #36 -------------------------------------------------------------------------- ________________ ५० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नमुचिना यदि वो धर्मशुश्रूषा, तमुहमेव वक्ष्ये इत्युक्तोऽवश्यं गमिष्यामीत्युक्तवान् नृपः । 'स्वामिना मध्यस्थवृत्तिना स्थेयम्, अहं तान् वादे जेष्यामी'ति मन्त्र्यूचे' । ततो नृपः सपरिवारस्तत्र ययौ । तत्र च ते मुनिभ्यो धर्मं पप्रच्छुः । ते मुनयश्च तेषां विविधोक्तिभिौनेनैव तस्थुः । ततः क्रुद्धो नमुचिराहतं शासनं निन्दयामास। तत: कस्मिंश्चिन्मुनौ तत्प्रतिवादायोद्यते स नमुचि रशौचा: पाखण्डिनत्रयीबाह्याश्च यूयं स्वमण्डले संवासयितुं न युक्ता' इति स्वपक्षमस्थापयत् । ___ततो मुनिरुवाच-'सुरतमशौचं विदुः, तत्सेवकश्च पाखण्डी, स एव च त्रयीबाह्यः । यत 'उदकुम्भः कण्डनी पेषणी चुल्ली प्रमार्जनी चेति पञ्च सूना गेहिनां पापायेति त्रय्यामर्थः । अतो ये इमा: सूना: सेवन्ते त एव त्रयीबाह्याः । वयं सूनापञ्चकहीना न नाम त्रयीबाह्याः' । एवं तेन मुनिना सयुक्तिकं निरस्तः स मन्त्री राजा पौरजनश्च स्वं स्वं स्थानं ययुः । निशि च नमुचिरुत्थाय क्रुद्धो निशाचर इव तन्मुनिवधाय समायातः शासनदेव्या स्तम्भितः प्रभाते विस्मितैर्जनैर्ददृशे । नृपादयश्च धर्मं श्रुत्वोपाशाम्यन् । नमुचिश्च तदपमानात् तन्नगरं त्यक्त्वा हस्तिनापुरमगात् । महापद्मश्च तं स्वसाचिव्ये चकार । इतश्च प्रान्तवास्तव्यो दुर्गस्थोऽतिबली सिंहबलो नाम नृपो महापद्मस्य मण्डलमवस्कन्दमवस्कन्दं पुन: स्वं दुर्गं प्राविशत् । तं धर्तुं कोऽपि क्षमो न बभूव । ततः क्रुद्धो महापद्मो नमुचिमन्त्रिणमूचे-'सिंहबलग्रहे क्वचित् कञ्चिदुपायं वेत्सि ?' ततः स उवाच-'देव ! वेद्मीति वचः कथमहं वच्मि, गृहे वदतां हि गेहेनर्दीत्यपवादः सुलभः, अत उपायं कृत्वा फलेनैव तं दर्शयामि, षष्ठं पर्व - अष्टमः सर्गः वचसोपायं वक्तुं कातरा अपि पण्डिता भवन्ति' । ततो हृष्टचित्तेन महापद्मनाऽऽदिष्टः स वायुरिवाऽप्रतिहत: सिंहबलस्य दुर्गं गत्वा तीक्ष्णोपायस्तदुर्गं भङ्क्त्वा सिंहबलं च सिंहो मृगमिवाऽऽदाय महापद्ममुपाययौ । ततो वरं वृणीष्वेति महापद्मनाऽभिहित: स समये वरमादास्य इत्यवोचत् । एवं कृतार्थः स महापद्मो नमुचिना कृतसाचिव्यं यौवराज्यमपालयत् । अथ महापद्ममात्रा ज्वालयाऽर्हत्प्रतिमारथोऽकारि, मिथ्यादृष्ट्या सपत्नीमात्रा लक्ष्म्यभिधानया तद्विरुद्धविधित्सया ब्रह्मरथोऽकार्यत । तथा तयाऽयं ब्रह्मरथः पूर्वं पत्तने भ्रमतु, पश्चादर्हद्रथ इति भूपतिरयाच्यत । ततो ज्वालोचे-'यद्यर्हद्रथः प्राक् पत्तने यात्रां न करिष्यति, तदा ममाऽनशनं भावि' । ततश्च संशयापन्नो नृप उभयो रथयोर्यात्रामरुणत् । तथा मातृदुःखेनाऽतिपीडित: स नृपो निशि लोकेषु सुप्तेषु हस्तिनापुराद् निर्गत्य स्वैरमुन्मुखो गच्छन्नेकां महाटवीं प्राप्य तत्र पर्यटन्नेकं तापसाश्रममपश्यत् । तापसैः कृतसत्कारः स नृपः स्ववेश्मवत् तत्र तस्थौ । इतश्च चम्पापुर्यां नृपो जनमेजयः कालनरेन्द्रेण रुद्धो युयुधे मृतश्च । ततस्तस्मिन् पुरे भज्यमानेऽन्तःपुरस्त्रियो नेशुः । चम्पेशस्य प्रिया नागवती च स्वसुतया मदनावल्या सह प्रणष्ट्वा तत्तापसाश्रममगात् । तत्र च महापद्म-मदनावल्योरन्योन्यदर्शनमनुरागश्च जज्ञे । ततो जातानुरागां ज्ञात्वा जनन्यवोचत-'पुत्रि ! चापलं मा कार्षीः, नैमित्तिकवच: स्मर, त्वं चक्रिण: पत्नी भविष्यसीति पुरा नैमित्तिकेनाऽऽख्यातम् । ततो यत्र तत्राऽपि पुरुषेऽनुरागं मा कृथाः । संयता तिष्ठ, त्वां चक्री परिणेष्यति' । Page #37 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुलपतिश्च तद्विप्लवभयात् पद्ममूचे-'यत्राऽचालीस्तत्र गच्छ, तुभ्यं स्वस्ति' । ततः पद्मो दध्यौ-'युगपद् द्वौ चक्रिणौ च भवतः, अहमेवेह चक्री भावी, तदसौ ममैव पत्नी' । एवं निश्चित्य स तापसाश्रमाद् निर्गत्य पर्यटन् सिन्धुसदनं नाम पत्तनमगात् । तदा च पौरनार्यो मधूत्सवे कामवशंवदा उद्याने विविधं चिक्रीडुः । तत्केलितुमुलं श्रुत्वा च क्षुब्धः करी महासेनमहीपते: स्तम्भमुन्मूलयामास । तथाऽऽरोहको निपात्य प्रतीकारमवगणय्य झगिति पौरनारीनिकषा समाययौ । ताश्च नार्योऽतिसाध्वसात् पलायितुमशक्तास्तत्रैव तस्थुस्तारतारं चुक्रुशुश्च । ततः स पद्मस्ताः प्रेक्ष्य सानुक्रोशंस्तमभिधाव्य गजं ततर्ज । तेन क्रुद्धो गज: पद्माभिमुखं ववले । ततश्च ताः स्त्रियोऽस्मद्रक्षाकृते कोऽपि महात्माऽऽत्मानं करिणः पुरोऽक्षिपदिति चुक्रुशुः । पद्मश्च क्षणेन समीपमागतस्य मत्तगजस्य सम्मुखमूर्ध्ववस्त्रमुदक्षिपत् । गजश्च कुमारबुद्ध्या तद्वासो मुहुविदारयामास । तदानीमेव च नागरा: सामन्तादिपरिवृतो नृपश्च महासेनस्तत्र तुमुलेनाऽमिलन् । महासेनश्चा-'ऽकालमृत्युतुल्येनाऽनेन क्रोधितेन गजेनाऽलमि'ति त्वमपसरैति पद्ममुवाच । पद्मश्चोवाच-'त्वया युक्तमुक्तं, किन्त्वारब्धस्य त्यागो मे परं व्रीडाकरम् । त्वमिमं मत्तगजं मया बध्यमानं वशीकृतं पश्य, सौजन्यकातरो मा भू:' । एवमुक्त्वा कुमारेण मुष्टिना वस्त्रविदारणायाऽधोमुखो गजस्ताडितो यावत् कुमारग्रहणायोत्तस्थौ, तावद् विद्युद्गत्या स पद्मस्तमारुरोह । तथा मण्डूकासनादिभिरग्रतः पार्श्वतश्चाऽपि विचरंस्तमखेदयत् । तथा कुम्भदेशे चपेटाभिः कण्ठेऽङ्गष्ठतारणैः पृष्ठे पादन्यासेन च स गज: पद्मनाऽऽकुलीकृतः । स पद्मः साधु साध्विति वादिभिः पौरैः षष्ठं पर्व - अष्टमः सर्गः सविस्मयं वीक्ष्यमाणो नृपेण बन्धुबुद्ध्या वर्ण्यमानस्तं गजं स्वैरं क्रीडां कारयन् भ्रमयामास । तथाऽपरस्मा आरोहकाय समर्प्य कक्षा गृहीत्वा ततोऽवातरत् । ततो महासेनस्तं विक्रम-रूपाभ्यां कुलीन इति वितयं निजवेश्मनि निन्ये । तथा निजं कन्याशतं तेन परिणिन्ये । ताभिश्च समं भोगान् भुञ्जानस्याऽपि तस्य पद्मस्य मदनावल्याः स्मरणं नित्यमेवाऽभवत् । अन्यदा च निशि पर्यङ्के सुप्तः स पद्मो विद्याधर्या वेगवत्या वायुवेगयाऽपजहे । निद्राच्छेदे च 'क्षुद्रे ! किं मां हरसे' ? इति ब्रुवन् मुष्टिमुत्पाटयामास । ततः सोचे-'मा कुपः, श्रृणु, वैताढ्यपर्वते सूरोदयपुरे इन्द्रधनुर्नाम विद्याधरः, श्रीकान्ता नाम तत्पत्नी, जयचन्द्रा नाम तत्सुता च सन्ति । सा च जयचन्द्राऽनुरूपवराप्राप्त्या पुरुषद्वेषिणी जाता । तस्यै च नृपाणां रूपाणि पटेष्वालिख्य मया दर्शितानि, परन्तु तस्यै न किमप्यरुचत्। अन्यदा च पटे त्वद्रूपं मया लिखितं दृष्ट्वा सा कामवशंवदा जाता, सेदानीं त्वां प्राणप्रियं मन्यते । सा हि 'मे पद्मः पतिर्भवतु, अन्यथा मम मरणं शरणमि'ति प्रतिज्ञामकरोत् । पितृभ्यां च मया कृत्वा तस्यास्त्वय्यनुरागं ज्ञात्वा त्वदानयनहेतवेऽहमादिष्टाऽस्मि । वेगवती चाऽहमद्यैव तमानयिष्यामि, वह्निप्रवेशं मा कुर्विति तामाश्वास्य त्वां नयामि । ततो मा कुप:'। ततः पद्मनाऽनुज्ञाता सा तं सूरोदयपुरेऽनयत् । प्रभाते चेन्द्रधनुनृपेण पूजितश्चन्द्रो रोहिणीमिव स जयचन्द्रामुपायंस्त । ततो जयचन्द्रामातुलेयौ गङ्गाधर-महीधरौ विद्याधरौ तद्विवाहं समाकर्ण्य कुपितौ सर्वाभिसारेण सूरोदयपुरे पद्मन योद्धं समाययतुः । Page #38 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पद्मोऽपि रणदुर्मदो विद्याधरपरिवारैरन्वितो नगराद् निरगात् । तथा कांश्चित् त्रासयन्, कांश्चिद् निघ्नन्, कांश्चित् ताडयंश्च हरिर्द्विपानिव वैरिसैन्यानयोधयत् । ततः स्वसैन्यभङ्गमालोक्य तौ विद्याधरौ गङ्गाधर - महीधरौ जीवग्राहं प्रणेशतुः । ५४ ततश्चोत्पन्नचक्रादिरत्नः पद्मः षट्खण्डभरत क्षेत्रविजयं विधाय स्त्रीरत्नं मदनावलीं स्मरंस्तदाश्रमपदं ययौ । तापसैः कृतातिथ्यः पद्मो जनमेजयराजेन कन्यादानपूर्वकं मदनावलीं प्राप्य हस्तिनापुरमेत्य पितरौ ननाम । पितरौ च स्वसूनोश्चरितमाकर्ण्य सिक्तौ दुमाविव सोच्छ्वासावभूताम् । *** तदानीं च मुनिसुव्रतदीक्षितः सुव्रतो नाम मुनिर्विहरंस्तत्राss गत्य समवासरत् । पद्मोत्तरश्च सपरिवारो गत्वा नत्वा देशनां च शुश्राव । जातवैराग्यो गृहमागत्य विष्णुकुमारस्य परिव्रज्याजिघृक्षां ज्ञात्वा पद्मं राज्ये चक्रित्वाभिषेकेण सहाऽभिषिच्य निष्क्रमणोत्सवपूर्वकं सुव्रतमुनेर्विष्णुकुमारेण सह दीक्षामाददे । ततः पद्मोऽपि सर्वैर्जनैः पूज्यमानं मातृकमार्हतं रथं पुरेऽभमयत् । पदमोत्तरादिभिः सह सुव्रतसूरयोऽपि रथभ्रमणकालं यावत् तत्रैव तस्थुः । तथा पद्मचक्रिणा जिनशासनस्योन्नतिश्चक्रे । ग्राम- पुरादिषु कोटिश उच्चकैश्चैत्यानि कारयामास । पद्मोत्तरश्च गुरुभिः सार्धं विहृत्य व्रतं पालयित्वोत्पन्नकेवलः परमं पदं प्राप । विष्णुकुमारोऽपि चाऽद्भुतं तपस्तप्यमानोऽनेकलब्धिसम्पन्नो जात: । अन्यदा च सुव्रताचार्याः साधुभिः परिवारिता वर्षर्त्तुयापनाय हस्तिनापुरं समागत्य न्यवसन् । नमुचिमन्त्री चाऽऽचार्यागमनं श्रुत्वा प्राग्वैरप्रतियातनां चिकीर्षुर्महापद्मं व्यजिज्ञपत्- 'नृप ! प्राक्प्रतिपन्नो षष्ठं पर्व अष्टमः सर्गः मे वरो दीयताम्' । याचस्वेति तेनोक्तश्च 'यज्ञमहं करिष्यामि, तत्समाप्ति यावद् निजं राज्यं देही' त्युक्तवान् । नृपश्च सत्यप्रतिज्ञो नमुचिं राज्ये निवेश्याऽन्तःपुरं प्राविशत् । नमुचिश्च पुराद् निर्गत्य यज्ञमण्डपे दीक्षितोऽभवत् । तदा तस्याऽभिषेककल्याणं कर्तुं सर्वाः प्रजाः श्वेतभिक्षून् विना सर्वे साधवश्च समाययुः । सर्वे समागताः, किन्तु श्वेतभिक्षवो नाऽऽगता इति मात्सर्यात् स तच्छिद्रमग्रे चक्रे । तथा स गत्वा सुव्रताचार्यमब्रवीत् - 'यो यदा नृपस्तदा लिङ्गिनस्तं श्रयन्ति, राजरक्ष्याणि तपोवनानीति तपोधनै राजाभिगम्य: क्रियते तपः षष्ठांशभाक् च क्रियते, यूयं च मन्निन्दकाः पाखण्डिनो लोकराज्यविरुद्धाचाराः, तद्युष्माभिर्मे राज्ये न स्थातव्यम् । यः स्थास्यति स खलाशयो मे वध्यो भवेत्' । ततः सूरिरूचे- 'एष कल्पो नेति त्वय्यभिषिक्ते वयं न प्राप्ताः त्वां च किञ्चनाऽपि न निन्दामः' । ततः क्रुद्धः स पुनरुवाच- 'विस्तरैः कृतं, सप्ताहाधिकमत्र तिष्ठन्तो यूयं दस्युवद् मया निग्राह्याः' । एवमुक्त्वा स स्वं स्थानं जगाम । सूरिश्च मुनीनपृच्छत्- 'इह किं कर्त्तव्यमिति यथाशक्ति यथामति ब्रूत' । तत्रैकः साधुरूचे - 'विष्णुकुमारः षष्टिवर्षशतीं तपस्तप्तवान्, स सम्प्रति मन्दरेऽस्ति स च पद्मराजस्याऽग्रज इति तद्वचनादसौ शान्तिं यास्यति, यतः पद्मवत् सोऽपि नमुचेः स्वामी । ततो यो विद्यालब्धिमान् स साधुस्तमानेतुं प्रयातु । सङ्घकार्ये लब्ध्युपयोगो न दोषाय' । तत एकः साधुरुवाच- 'विहायसा तत्र गन्तुं शक्तोऽस्मि, न त्वागन्तुमिति यदत्र कृत्यं तद् ब्रूत' । ततस्त्वां विष्णुरेव समानेष्यतीति गुरुणोक्ते स तार्क्ष्यवदुत्पत्य विष्णुं प्राप्तवान् । Page #39 -------------------------------------------------------------------------- ________________ ५६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विष्णुश्च तं दृष्ट्वा दध्यौ-'किमपि सङ्घकार्य, तद्वेगादसावायाति, अन्यथा प्रावृट्काले साधूनां विहारो न भवेत् । ततोऽन्यथा ते लब्धीनामुपयोगं न कुर्युः' । ततः स तं मुनिमभिनन्द्य तदागमकारणं ज्ञात्वा तं मुनि गृहीत्वा विहायसा हस्तिनापरमेत्य गरुं वन्दित्वा ससाधुपरिवारो नमुचिमुपेत्य धर्मकथापूर्वमवोचत्-'इमे मुनयो यावत् प्रावृषमिहैव तिष्ठन्तु, स्वयमप्येते चिरमेकत्र न तिष्ठन्ति, किन्तु वर्षासु जन्तुबाहुल्याद् विहारो न कल्पते, अस्माभिर्भेक्षवृत्तिभिश्च महति पुरे वसद्भिर्न ते काऽपि हानि:' । ततो मन्त्री कुपित: प्राह-'तव वचनैरलम्, इह वो वस्तुं न ददामि' । ततो विष्णुः पुनरुवाच-'इमे नगराद् बहिः स्थिता उद्यान एव वसन्तु' । ततश्चाऽतिक्रुद्धः सचिवस्तमब्रवीत्-'अहं वो गन्धमपि न सहे, अलं प्रार्थनैः, पुरस्याऽन्तर्बहिर्वाऽपि दस्यूनामिव मर्यादाहीनानां श्वेतवाससां वासो न भविष्यति । यदि वः प्राणा: प्रियाः तदा द्रुतमपसरत, अन्यथा तायः सानिव वो हनिष्यामि'। एवं तदुक्त्योद्दीपितो विष्णुमिनो बलिमिव स्थातुं त्रिपदीमयाचत । ततो नमुचिना 'दत्ता वत्रिपदी, यस्ततो बहिः स्यात् तं हनिष्यामी'त्युक्तो विष्णुर्देहीत्युक्त्वा वर्धमानः किरीटादिभूषितो, वज्रावस्त्रभृत्, खेचरान् भ्रंशयन्, पदाघातैर्महीं कम्पयन्, जलनिधीनुत्तालयन्, आपगा: कुर्वाणो, ज्योतिश्चक्राणि पर्यस्यन्, पर्वतवरानपि दारयन्, महातेजा, महौजाः, सर्वभयङ्करो, नानारूपो मेरुसमोऽभवत् । ततस्त्रिजगत्क्षोभमालोक्य शक्रस्तं प्रसादयितमप्सरसः समादिशत् । ताश्च तस्य कर्णमूले जगुः-'कोपाज्जना इहाऽपि षष्ठं पर्व - प्रथमः सर्गः दह्यन्तेऽसकृद् मुह्यन्ति च, विपद्य चाऽनन्तदुखं नरकं यान्ति' । एवं कोपं शमयितुं किन्नरादिस्त्रियोऽपि जगुर्ननृतुश्च । ततश्च विष्णुर्नमुचिं धरण्यां क्षिप्त्वा मध्येपूर्वापराम्बुधि पादं ददौ । पद्मश्चाऽपि ज्ञातवृत्तान्तः ससम्भ्रमः समुपेत्य स्वप्रमादेन तेन मन्त्रिदोषेण च चकित: स्वमग्रजं तं मुनि नमस्कृत्य रचिताञ्जलिरवदत्-'स्वामिन् ! त्वयि विजयिनि सति चेतसा तात: पद्मोत्तरोऽद्याऽपि तिष्ठति, अमुना मन्त्रिणा क्रियमाणां श्रीसङ्घाशातनां न जानामि, तथाऽप्यपराध्यस्मि, स्वामिनो हि भृत्यदोषेण गृह्यन्ते, अहं भृत्यस्त्वं च मम स्वामीति कोपं संहर, त्रैलोक्यं प्राणशंसये समारूढं त्रायस्व' । एवमन्येऽपि सुरा-ऽसुरादयः श्रीसङ्घश्च तं मुनि सान्त्वयामासुः । किन्तु सोऽतिशब्दपथां वृद्धि प्राप्तो नाऽशृणोत्, अत: सर्वेऽपि भक्तितस्तस्य पादस्पर्श व्यधुः । पादस्पर्शेन च सोऽधस्तान् निजं भ्रातरं सङ्घ-सुरादींश्चाऽपि दृष्ट्वा दध्यौ-'अयं श्रीसङ्घोऽयं मे दीनो भ्राता, एते च सुरादय: कोपोपसंहारकृते मां युगपत् सान्त्वयन्ति ततः सङ्घो मान्य: पद्मादयश्चाऽनुकम्प्याः । एवं विमृश्य वपुर्वृद्धिं संहृत्य प्रकृत्यवस्थायां तस्थौ । सङ्घानुरोधाच्च नमुचिं मुक्तवान् पद्मश्च तं निरवासयत् । तया त्रिपद्या च स मुनिस्तत्प्रभृति जगत्त्रये त्रिविक्रम इति ख्यातिमाससाद । ततः स सङ्घकार्यं कृत्वा परं तपस्तप्त्वा विष्णुकुमार उत्पन्नकेवलः परमं पदं प्राप । पद्मोऽपि भवोद्विग्नो राज्यं त्यक्त्वा सद्गुरोरन्ते प्रव्रज्यामाददे। तस्य च कौमारेऽब्दपञ्चशती, मण्डलित्वे च तावती, दिग्जये त्र्यब्दशती, चक्रित्वे च सप्तशतीयुताऽष्टादशसहस्राब्दी, व्रते च दशसहस्रीत्येवं त्रिंशद्वर्षसहस्राण्यायुः । ततः स नानाविधा Page #40 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भिग्रहपूर्वकं तीव्र तपस्तप्यमान: पद्मः उत्पन्नकेवलोऽव्ययं पदं प्राप ॥ ८॥ इति षष्ठे पर्वणि श्रीपद्मचक्रिचरितवर्णनात्मकोऽष्टमः सर्गः ॥ ८ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-कदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यात-कविरत्न श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे षष्ठे पर्वणि समाप्तं श्रीकुन्थुनाथादिचतुर्दशशलाकापुरुषचरितप्रतिबद्धं षष्ठं पर्व ॥६॥ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः राम-लक्ष्मण-रावणचरितप्रतिबद्धं सप्तमं पर्व प्रथमः सर्गः अथाऽत्र भरते रक्षोद्वीपेऽर्हतोऽजितस्य काले लङ्कानगाँ रक्षोवंश्यो घनवाहनो नाम नृपो बभूव । स स्वपुत्राय महारक्षसे राज्यं दत्त्वाऽजितस्वामिपादान्ते परिव्रज्य शिवं ययौ । महारक्षा अपि चिरं राज्यं भुक्त्वा स्वपुत्राय देवरक्षसे राज्यं दत्वा प्रव्रज्य चाऽव्ययं पदं प्राप । एवमसङ्ख्यातेषु रक्षोद्वीपाधिपेषु गतेषु श्रेयांसजिनतीर्थे कीर्तिधवलो नाम राक्षसेश्वरो बभूव । तदानीं च वैताढ्यगिरौ मेघपुरे नगरेऽतीन्द्रो नाम विश्रुतो विद्याधरेन्द्रोऽभूत् । तस्य च श्रीमत्यां कान्तायां श्रीकण्ठो नाम पुत्रो देवीनाम्नी पुत्री चाऽभूत् । चारुनेत्रां तां च देवीं रलपुरेश्वरः पुष्पोत्तरो नाम विद्याधरः स्वपुत्रस्य पद्मोत्तरस्याऽर्थे ययाचे । अतीन्द्रश्च दैवनियोगात् गुणिने श्रीमते चाऽस्मा अदत्त्वा तां Page #41 -------------------------------------------------------------------------- ________________ ६० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कीर्तिधवलाय ददौ । तां कीर्तिधवलेनोढां श्रुत्वा पुष्पोत्तरनृपोऽतीन्द्रेण श्रीकण्ठेन च सह वैरायते स्म । ___ एकदा च मेरोनिवृत्तेन श्रीकण्ठेन पुष्योत्तरस्य दुहिता रूपतः पद्मव पद्मा ददृशे । अन्योन्यदर्शनाच्च तयोः सद्य एवाऽन्योन्यमनुरागोऽभूत् । सा पद्मा श्रीकण्ठायोन्मुखाम्बुजा स्निग्धया दृशा तिष्ठते स्म । श्रीकण्ठश्चाऽपि तदभिप्रायं विज्ञाय कामातुरस्तामादाय व्योममार्गेण द्रुतं गन्तुं प्रववृते । ततश्चेटिकाः 'कोऽपि पद्मां हरती'ति पूत्कुर्वन्ति स्म । पुष्योत्तरश्च तज्ज्ञात्वा सन्ना सबलोऽन्वधावत् । ततः श्रीकण्ठो द्रुतं कीर्तिधवलं शरणं गत्वा सर्वं पद्माहरणवृत्तान्तं कथयामास । पुष्पोत्तरश्च सैन्यैस्तत्र प्राप्त: कीर्तिधवलेन दूतेन 'वोऽयमविमृश्य युद्धप्रयासो वृथा, कन्या ह्यवश्यं कस्मैचन दातव्या, तत्र यदि तयाऽसौ श्रीकण्ठः स्वयं वृतस्तदाऽसौ नाऽपराध्यति । अत: स्वपुत्रीमनो बुध्वा भवतो वधू-वरयोविवाहकृत्यमेव कर्तुं साम्प्रतमिति निवेदितः । पद्माऽपि दूतीमुखेन 'मया स्वयमसौ वृतः, तदसौ नाऽपराध्यति, नाऽमुनाऽहं हते'ति व्यजिज्ञपत् । तच्छ्रुत्वा च क्षणाच्छान्तकोपः पुष्योत्तरस्तत्रैवोत्सवेन महीयसा तयोविवाह सम्पाद्य यथागतं निजपुरं ययौ । ततः कीर्तिधवलः श्रीकण्ठमवोचत्-'अत्रैव तिष्ठ, यद् वैताढ्ये युष्माकं भूयांसो विद्विषो वर्तन्ते । अस्यैव राक्षसद्वीपस्योत्तरदिशि योजनत्रिशतीमानोऽदूरेणैव वानरद्वीपोऽस्ति । अन्येऽपि बर्बरकूल-सिंहलप्रमुरवाः स्वर्गखण्डतुल्या मम द्वीपा: सन्ति । तेषामेकत्र कुत्राऽपि राजधानी निवेश्य मम समीपस्थः सुखमास्स्व । यद्यपि ते शत्रुभ्यो मनागपि भयं नाऽस्ति, तथाऽप्यस्मद्विरहभयाद् गन्तुं नाऽर्हसि' । सप्तमं पर्व - प्रथमः सर्गः तेन सस्नेहमेवमुक्तः श्रीकण्ठस्तद्वियोगकातरो वानरद्वीपं निवासं प्रतिपद्य तत्र किष्किन्धाद्रौ किष्किन्धां नाम महापुरी निवेश्य कीर्तिधवलेन तद्राज्ये निवेशितस्तत्र भ्राम्यतो महादेहान् फलाशिनो रम्यान् भूयसो वानरानपश्यत् । ततश्च स तेषाममारिमाधोष्याऽन्न-पानाद्यदापयत् । यथा राजा तथा प्रति तानन्येऽपि सच्चक्रुः । तत्प्रभृति च कौतुकाद् विद्याधराश्चित्रे लेप्ये ध्वज-च्छत्रादिचिन्हेषु च वानरानेव चक्रुः । वानरद्वीपराज्येन वानरचिन्हैश्च ते विद्याधरा अपि वानराः कीर्त्यन्ते । अथ श्रीकण्ठस्याऽप्रतिहतपराक्रमो वज्रकण्ठो नाम सुतो जज्ञे । एकदा च श्रीश्रीकण्ठः शाश्वतार्हतां यात्रायै नन्दीश्वरं गच्छतोऽमरानद्राक्षीत् । ततः सोऽपि च भक्त्या तेषामन्वचालीत् । तस्य च गच्छतो विमानं मानुषोत्तरे मार्गस्थपर्वते नदीवेग इव स्खलितम् । ततो 'मया पूर्वजन्मन्यल्पं तपस्तेपे, तेन नन्दीश्वरार्हद्यात्रायां मम मनोरथो नाऽपूर्यते'ति निविण्णः सद्य एव प्रव्रज्य तीव्र तपस्तप्त्वा सिद्धि प्राप। ____ अथ श्रीकण्ठतो वज्रकण्ठादिष्वनेकशोऽतीतेषु मुनिसुव्रततीर्थे घनोदधिर्नाम नृपोऽभवत् । लङ्कापुर्यामपि तदा तडित्केशो राक्षसेश्वरोऽभूत् । तयोर्द्वयोश्च स्नेहो जज्ञे । एकदा च तडित्केशः सान्त:पुरवधूजनः क्रीडितुं नन्दनोद्यानं ययौ । तस्मिन् क्रीडासक्ते च कोऽपि कपिर्दुमादुत्तीर्य तन्महिष्या: श्रीचन्द्रायाः कुचौ नखैविलिलेख । ततोऽतिक्रुद्धस्तडित्केश एकेन बाणेन तं कपि जघान । बाणप्रहारपीडितश्च स कपिः किञ्चिद् गत्वैकस्य प्रतिमास्थस्य साधोरग्रे पपात । स साधुश्च तस्मै नमस्कारमन्त्रमदात् । यत्प्रभावेण मृत्वा सोऽब्धिकुमारोऽभवत् । अवधेश्च प्राग्जन्मोपकारिणं ज्ञात्वा Page #42 -------------------------------------------------------------------------- ________________ ६२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोऽभ्येत्य तं मुनि ववन्दे । तथा तत्राऽन्यानपि कपीन् तडित्केशभटैर्हन्यमानान् दृष्ट्वा कोपज्वलितो महाकपिरूपाण्यनेकशो विकृत्य तरु-शिलादिकं वर्षन् राक्षसानुपदुद्राव । तडित्केशश्च तं दिव्यप्रयोगं ज्ञात्वा पूजयित्वा 'कोऽसि, किमुपद्रवं करोषी'त्यपृच्छत् । ततोऽर्चया शान्तकोपोऽब्धिकुमारः स्ववधं नमस्कारप्रभावं च शशंस । ततो लङ्केशस्तेन देवेन सहैवोपेत्य तं मुनिमपृच्छत्स्वामिन् ! मम कपिना सह को वैरहेतुः ?' ततो मुनिराचख्यौ-'त्वं पुरा श्रावस्त्यां दत्तो नाम मन्त्रिपुत्रोऽभूः । एष च काश्यां लुब्धकः । त्वं चोपात्तप्रव्रज्यो वाराणसी गतोऽनेन दृष्टश्चाऽपशकुनमित्याहत्य निपातितः । ततस्त्वं माहेन्द्रकल्पे देवो भूत्वा ततश्च्युत्वेहाऽभवः । एषोऽपि नरकं भ्रान्त्वा कपिरभवत्, तदेतद् वैरकारणम्' । ततः स देवस्तं मुनि वन्दित्वा लकेशमनुज्ञाप्य च तिरोदधे । तडित्केशश्च तनये सुकेशे राज्यं न्यस्य प्रव्रज्य परमं पदं प्राप। घनोदधिरपि च किष्किन्धिनाम्नि पुत्रे राज्यमाधाय प्रव्रज्य शिवमाप। सप्तमं पर्व - प्रथमः सर्गः पशूनिवैतान् निहन्मि' । एवमुक्त्वा महावीर्यः स उत्थाय किष्किन्धिवधायाऽऽयुधमुदक्षिपत् । तत: किष्किन्धित: सुकेशाद्या विजयसिंहतश्चाऽन्ये विद्याधरा युद्धायोदतिष्ठन्त । ततश्च दारुणे युद्धे प्रवृत्ते किष्किन्ध्यनुजोऽन्धको बाणेन तरोः फलवद् विजयसिंहस्य शिरोऽपातयत् । ततः किष्किन्धिः श्रीमाला जयश्रियमिवाऽऽदायोत्पत्य किष्किन्धां ययौ । अशनिवेगश्च पुत्रवधोदन्तं श्रुत्वा वेगेन किष्किन्धिपर्वतं गत्वा किष्किन्धां नगरी सैन्यैरवेष्टयत् । ततो गुहाया: सिंहौ इवाऽन्धकेन सहितौ सुकेश-किष्किन्धी अपि निरीयतुः । तयोश्च तुमुले युद्धे प्रवृत्तेऽशनिवेगो रोषान्धोऽन्धकस्य विजयसिंहस्येव शिरोऽच्छिदत् । ततो वानरसैन्यानि सदैत्यानि दिशोदिशे दुद्रुवुः । लङ्का-किष्किन्धिनायकौ च सान्त:पुरपरिवारौ पाताललङ्कामीयतुः । अशनिवेगश्च सुतहन्तारं निहत्य शान्तकोपो निर्घातं नाम खेचरं लङ्काराज्ये निवेश्य निवृत्त्य स्वपुरं रथनूपुरमगात् । अन्यदा च जातवैराग्योऽशनिवेगः पुत्रे सहस्रारे राज्यं निवेश्य दीक्षामुपाददे । पाताललङ्कायां पुर्यां च सुकेशस्येन्द्राण्यां माली सुमाली मालवांश्च पुत्रा अभवन् । किष्किन्धेश्च श्रीमालायामादित्यरजारुक्षरजाच पुत्रावभूताम् । अपरेधुश्च किष्किन्धिः सुमेरौ शाश्वतार्हतां यात्रां कृत्वा निवृत्तो मधुपर्वतमद्राक्षीत् । तत्र च मनोरमे उद्याने रन्तुमनसा स तस्योपरि किष्किन्धपुरं विधाय सपरिवारो न्यवात्सीत् । सुकेशस्य पुत्राश्च राज्यमरिभिर्हतं श्रुत्वा क्रुधाऽग्नय इव प्रज्वलितास्त्रयोऽपि समागत्य लङ्कायां निर्घातं इतश्च वैताढ्यगिरौ रथनूपुरे पुरे तदानीमशनिवेगो नाम विद्याधरेन्द्रोऽभवत् । तस्य च विजयसिंह-विद्युद्वेगौ पुत्रावभूताम्। तत्रैव गिरौ चाऽऽदित्यपुरे मन्दिरमाली विद्याधरनृप आसीत् । तस्य कन्या श्रीमालाऽभूत् । तस्याः स्वयंवरे समाहूता विद्याधरेन्द्रा मञ्चेषूपाविशन् । श्रीमाली चाऽन्यविद्याधरान् विहाय किष्किन्धिकण्ठे वरमालां निचिक्षेप । ततः क्रुद्धो विजयसिंहोऽवोचत्-'एते दुर्नयकारिणो दस्यव इव पुरा निर्वासिताः, तत्केनाऽद्येहाऽऽनीता:?' तदद्याऽपुनरावृत्त्यै Page #43 -------------------------------------------------------------------------- ________________ ६४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः खेचरं निगृहीतवन्तः । ततश्च लङ्कायां माली किष्किन्धायां च किष्किन्धिगिराऽऽदित्यरजा नृपो बभूव ।। ____ इतश्च वैताढ्ये रथनूपुरे पुरेऽशनिवेगपुत्रस्य सहस्रारस्य चित्रसुन्दर्या भार्याया गर्ने प्रच्युत्य कश्चित् सुरोत्तमोऽवातरत् । तया च सुस्वप्नमङ्गले दृष्टे । काले च तस्याः शक्रसम्भोगरूपो दुष्पूरो दुर्वचश्च देहदौर्बल्यकारणं दोहदो जज्ञे । आग्रहेण च पृष्टा सा लज्जानम्रमुखी पत्ये कथञ्चित् तं दोहदं कथयामास । सहस्त्रारश्च विद्यया सहस्राक्षरूपं निर्माय तया शक्र इति ज्ञातो दोहदं पूरयामास। पूणे स समये सा पराक्रमिणमिन्द्रसम्भोगदोहदादिन्द्रनामानं सुतं सुखमसूत । सहस्रारश्च सम्प्राप्तयौवनाय तस्मै राज्यं दत्वा स्वयं धर्मरतोऽभवत् । स चेन्द्र इन्द्रम्मन्यः सर्वान् विद्याधरनृपान् साधयामास । स चतुरो दिक्पालान्, सप्ताऽनीकानि, सप्तानीक पान्, तिस्रः परिषदो, वज्रमस्त्रमैरावणं द्विपं, रम्भादिका वारवधूवृहस्पति मन्त्रिणं नैगमेषिनामानां पत्त्यनीकनायकं च चक्रे । एवं विद्याधरैरिन्द्रपरिवारनामधेयैरिन्द्रोऽहमेवेति धिया सोऽखण्डं राज्यमन्वशात् । मकरध्वजस्य पुत्र आदित्यकीर्तिकुक्षिजन्मा ज्योतिःपुरेश्वरः सोमः प्राच्यां, वरुणा-मेघरथयो: पुत्रो मेघपुरेश्वरो विद्याधरो वारुणः पश्चिमदिशि, सूर-कनकावल्योस्तनयः काञ्चनपुरेश्वरः कुबेर उत्तरस्यां, कालाग्नि-श्रीप्रभापुत्रः किष्किन्धनगराधिपो यमनामा दक्षिणस्यां दिक्पालोऽभवत् । तमिन्द्राभिमानिनमिन्द्रं गन्धगजोऽन्यगजमिव मालिभूपतिर्न सेहे । ततः स भ्रातृभिर्मन्त्रिभिश्च मित्रैश्च सहेन्द्रयुद्धाय चचाल । सिंहादियानैरन्येऽपि सवानरा रक्षोवीराः सप्तमं पर्व - प्रथमः सर्गः प्रचेलुः । तदानीं च खरादयो दक्षिणस्था ववाशिरे । अन्यान्यपशकुनानि दुर्निमित्तानि चाऽभवन् । ततः सुमाली तं मालिनं प्रयाणादवारयत् । माली च तद्वचो दोर्बलगवितोऽवज्ञाय वैताढ्यमप्येन्द्रं युद्धायाऽऽह्वास्त । इन्द्रोऽपि चैरावणारूढो वगं पाणिनोल्लालयन्, नैगमेषिप्रभृतैश्चमपतिभिः परिवारितः, सोमाद्यैर्लोकपालैरन्यैश्च विद्याधरभटैः सहितो रणक्षेत्रमुपाययौ। तयोः सैन्यानां तुमुले दारुणे युद्धे प्रवृत्ते चेन्द्रसैन्येन मालिसैन्यमभज्यत । ततो माली सुमालिप्रमुखैर्वृतः ससंरम्भोऽभ्यधावत । इन्द्रोऽपि लोकपालादिसहित ऐरावणारूढो रणाय डुढौके । ततश्चिरं युद्धे प्रवृत्ते मालीन्द्रेण वज्रेण हतः । मालिनि हते च राक्षसा वानराश्च वित्रस्य सुमाल्यधिष्ठिता: पाताललङ्कामीयुः । इन्द्रश्च कौशिकाकुक्षिजन्मने विश्रवःपुत्राय वैश्रमणाय लङ्कां दत्वा निजं पुरं ययौ । पाताललङ्कायां पुर्यां तिष्ठतः सुमालिनश्च प्रीतिमत्यां पत्न्यां रत्नश्रवा नाम पुत्रो जज्ञे । सम्प्राप्तयौवनश्च रत्नश्रवा विद्यासाधनाय रम्यं कुसुमोद्यानं ययौ । तत्रैकत्र विजने स्थाने सोऽक्षमालाधरो नासाग्रन्यस्तदृग् जपन्नालेखित इव स्थिरस्तस्थौ । तत्समीपे च कुमारी रूपवती काऽपि विद्याधरी पित्राज्ञया तस्थौ । तदानीं च नाम्ना मानवसुन्दरी महाविद्या 'तव सिद्धाऽस्मी'ति रत्नश्रवसमुच्चैरभ्यधात् । रत्नश्रवाश्च सिद्धविद्यो जपमालां मुक्त्वा तां पुरःस्थां विद्याधरकुमारिकां दृष्ट्वा 'काऽसि, कस्य सुताऽसि, केन हेतुनेहाऽऽगा' इति पप्रच्छ । तत: साऽप्यूचे कौतुकमङ्गले पुरे व्योमबिन्दु म विश्रुतो विद्याधरपतिरस्ति, तस्य ज्यायसी पुत्री मम स्वसा कौशिका यक्षपुरेशेन विश्रवसोढा । तस्या वैश्रवणो Page #44 -------------------------------------------------------------------------- ________________ ६६ सप्तमं पर्व - प्रथमः सर्गः तातेन सुमालिना कोऽपि मुनिः पृष्ट उवाच-'त्वद्वंशे यो नवमाणिक्यहारं वोढा सोऽर्धचक्री भविष्यति' । एवं कैकसी भानुस्वप्नेन सूचितं कुम्भकर्णापराभिधं सुतमपि सुषुवे । कियत्यपि काले गते च पुनः सा कैकसी चन्द्रस्वप्नसूचितं विभीषणं नाम सुतमसूत । ते त्रयोऽपि सहोदरा: सार्धषोडशधनुःसमुन्नता निर्भयाः शिशवोऽनुरूपया क्रीडया यथासुखं रेमिरे ॥ १ ॥ इति रक्षसवंश-वानरवंशोत्पत्ति-रावणजन्मवर्णनात्मकः प्रथमः सर्गः ॥१॥ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नाम तनयोऽधुना लङ्कायां शक्राज्ञया राज्यं करोति। कौशिकायाः कनीयसी कैकसी चाऽहं नैमित्तिकगिरा तुभ्यं दत्तेहाऽऽगमम् । तत: सुमालिपुत्रो बन्धुमाहूय तत्रैव तां परिणीय पुष्पान्तकं पुरं स्थापयित्वा तया सह क्रीडन्नस्थात् । अन्यदा च कैकसी निशि स्वप्ने स्वमुखे विशन्तं गजकुम्भविदारणप्रसक्तं सिंहमैक्षत । प्रभाते तज्ज्ञात्वा च 'विश्वपराक्रमी ते पुत्रो भविष्यती'ति रत्नश्रवा उवाच । ततः सा स्वप्नादनन्तरं चैत्यपूजां च चकार । महासारं गर्भं च बभार । तद्गर्भसम्भवादारभ्य च कैकस्या वाणी नितान्तनिष्ठुराऽङ्गं च श्रमाश्रान्तं बभूव । दर्पणे विद्यमानेऽपि च सा खड्गे स्वमुखमपश्यत् । सुरराज्येऽप्याज्ञां दातुमैच्छत् । विनाऽपि हेतुं तस्या मुखं हुङ्कारमुखरमभूत् । गुरुष्वपि मूर्धानं न नमयति स्म । शत्रुमूर्धसु पादं दातुमियेष । एवं प्रभृति दारुणान् भावान् सा गर्भप्रभावतो दधे । पूणे च समये सा साधिकद्वादशवर्षसहस्रायुष्कं सुतमसूत । स जातकश्च सूतिकातल्पेऽनल्पौजा उद्दामपादकमलो भीमेन्द्रेण पुरा दत्तं नवभिर्माणिक्यैर्निर्मितहारं पार्श्वस्थकरण्डकात् पाणिना चकर्ष । सहजचापलाच्च तं हारं स्वकण्ठे चिक्षेप । तेन कैकसी सपरिच्छदा विस्मयं प्राप्ता । रत्नश्रवसे च साऽऽचख्यौ'पुरा राक्षसेन्द्रेण तव पूर्वजाय मेघवाहनराजाय यो दत्तः, योऽद्य यावद् देवतावदपूजि, योऽन्यैर्वोढुमशक्यः, यश्च नागसहस्रेण निधानमिवं रक्ष्यते, स हारस्तव शिशुनाऽऽकृष्य कण्ठेऽक्षेपि । रत्नश्रवाश्च नवमाणिक्यसङ्क्रान्तमुखत्वात् तस्य तत्क्षणं दशमुख इति नामाऽकरोत् । तथा जगाद च-'मेरौ चैत्यवन्दनार्थं गतेन Page #45 -------------------------------------------------------------------------- ________________ ११ द्वितीयः सर्गः अथैकदा दशमुखः सानुजो गगने विमानारूढमायान्तं वैश्रवणं नृपमपश्यत् । ततः कोऽयमिति तेन पृष्टा माताऽब्रवीत्'मम ज्येष्ठभगिन्यां कौशिकायां जातो विश्रवोनाम्नो विद्याधरेन्द्रस्य पुत्रः सर्वविद्याधरेन्द्रस्येन्द्रस्याऽग्रसुभटोऽयं वैश्रवणः । इन्द्रो भवत्पितामहज्येष्ठं मालिनं रणे हत्वा सराक्षसद्वीपां लङ्का पुरीमस्मै ददौ । ततः प्रभृति लङ्कायाः प्राप्तौ कृतमनोरथस्ते पितेहाऽस्ति । शक्ते द्विष्ये तदेव युक्तम् । राक्षसेन्द्रो भीमो विद्विषां प्रतीकाराय पूर्वजन्मपुत्राय रक्षोवंशस्थापकाय मेघवाहननृपाय पाताललया सह सराक्षसद्वीपां लङ्कां राक्षसी विद्यां च ददौ । तस्यां पुर्या शत्रुभिर्हतायां परम्परायातायामेतस्यां राजधान्यां ते पितामहः पिताऽपि च मृतवत् तिष्ठति । अरक्षके क्षेत्रे वृषभा इव तस्यां शत्रवः स्वच्छन्दाश्चरन्ति । वत्स ! मया मन्दभाग्यया सानुजस्तत्र गत्वा पैतामहासनं समासीनो द्रक्ष्यसे? लङ्कालुण्टाकांस्त्वत्कारागारे बद्धान् दृष्ट्वा कदा पुत्रवतीषु शिरोमणिर्भविष्यामि ? एतैर्मनोरथैर्मरौ मरालीवाऽहरहः क्षामीभवामि' । । तच्छ्रुत्वा विभीषणोऽवदत्-‘मातः! विषादेनाऽलं, सुतविक्रम न वेत्सि, आर्यस्य दशकण्ठस्य पुरत इन्द्रो वैश्रवणोऽन्ये विद्याधरा सप्तमं पर्व - द्वितीयः सर्गः वा के ? अज्ञानादद्य यावदिदं सोढम् । आस्तामार्यो दशमुखः, कुम्भकर्ण एव शत्रून् निःशेषीकर्तुमीश्वरः । रावणोऽप्यूचे-'मातः ! त्वं वज्रकठिनाऽसि, यद् दुःशल्यं चिरमधाः । एकबाहुबलेनैवेन्द्रादिकान् द्विषो हन्याम् । तथाऽप्यत्र क्रमागता विद्याशक्तिरेव प्रयोज्या । तत्ता विद्याः साधयिष्यामि, अनुजानीहि, सानुजस्तत्सिद्ध्यै यास्यामि' । एवमुक्त्वा पितरौ नमस्कृत्य सानुज: स भीमारण्यमुपाययौ । अथ भ्रातृभ्यां सहितश्च तदरण्यं प्रविश्य तपस्विवेषधरास्ते त्रयोऽपि यामद्वितयेन सर्वकामप्रदामष्टाक्षरी विद्यामसाधयन् । तथा यस्य दशकोटीसहस्राणि जपः फलप्रदस्तं षोडशाक्षरं मन्त्रं जपितुमारेभिरे । तदानीं चाऽनादूतो नाम जम्बूद्वीपपतिः सुरस्तत्र सान्त:पुरः क्रीडितुं समायातस्तान् ददर्श । स यक्षाधिपस्तेषां विघ्नायोपसर्गाय च स्वयोषितः प्रेषयामास । किन्तु तेषां क्षोभार्थमायातास्तास्तेषामतिसुन्दरै रूपैः स्वयमेव स्वामिशासनं विस्मृत्य क्षोभमायाताः । तान् निर्विकारानालोक्य स्मरातुरास्ता बभाषिरे-'भो भो ध्यानजडाः ! अग्रतः पश्यत, देव्योऽपि वो वशीभूताः, अत: परा का सिद्धिः? किं विद्यासिद्धये क्लेशः? अमुना यत्नेनाऽलं, विद्याभिः किं करिष्यथ ? यतो वयं देव्यो वः सिद्धाः । अस्माभिस्त्रयाणां जगतां रम्यप्रदेशेषु स्वैरं रमध्वम्' । सकाममेवं जल्पन्त्यस्तानविचलितधैर्यानालोक्य ता विलक्षा जज्ञिरे । ततो जम्बूद्वीपपतिस्तानब्रवीत्-'मुग्धैर्युष्माभिः किमेतत् कष्टचेष्टितमारब्धम् ? मन्ये केनाऽपि दुरात्मना पाखण्डिना मृत्युहेतवे यूयं शिक्षिताः । अधुनाऽप्येतं दुराग्रहं मुक्त्वा यात, ब्रूत, अहमपि कृपापरो वो वाञ्छितं यच्छामि' । एवमपि तांस्तूष्णीकान् दृष्ट्वा Page #46 -------------------------------------------------------------------------- ________________ ७० सप्तमं पर्व - द्वितीयः सर्गः प्रज्ञप्त्यादयो महाविद्याः पूर्वसुकृतकर्मणा दशमुखस्य स्वल्पैरेव दिनैः सिद्धा अभूवन् । संवृद्धयादयः पञ्चविद्याः कुम्भकर्णस्य सिद्धार्थादयश्चतस्त्रश्च विद्या विभीषणस्याऽसिधन् । अथ जम्बूद्वीपपतिः स देवो रावणं क्षमयामास । तथा तत्रैव रावणस्य कृते स देवः स्वयंप्रभं पुरं चकार । तेषां विद्यासिद्धिं श्रुत्वा च तेषां पितरौ स्वसा च तत्राऽऽयातास्तैः सत्कृताश्च । ते त्रयोऽपि च पित्रोर्दृक्प्रीणका: बन्धूनामुत्सवप्रदास्तत्रैव तस्थुः । ततो रावण: षड्भिरुपवासैदिशां जये उपयोगिनं चन्द्रहासमसिं साधयामास । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्रुद्धः सोऽब्रवीत्-'मां प्रत्यक्षदेवं मुक्त्वा किमन्यं ध्यायथ?' एवं प्रोक्त्वा स यक्षस्तत्परिक्षोभाय भ्रूसंज्ञया किङ्करान् व्यन्तरान् समादिशत् । ते च किलकिलारावकारिणो बहुरूपिणो गिरिशृङ्गाण्युत्पाट्य तेषां पुरतश्चिक्षिपुः । केऽपि सीभूय तानवेष्टयन्, केऽपि सिंहीभूय दारुणं पूच्चक्रुः । एवं नानारूपैस्ते तत्र बिभीषिकां चक्रुः। तथाऽपि ते मनागपि नाऽक्षुभ्यन् । ___ततस्ते कैकसी रत्नश्रवसं चन्द्रणखां च विकृत्य बद्धवा तेषां पुरश्चिक्षिपुः । विकृताश्च रत्नश्रवःप्रभृतयः उदश्रुनयनाः करुणस्वरमेवं चक्रन्दुः-'लुब्धकैस्तिर्यञ्च इव युष्माकं पश्यतामपि वयं गतघृणैरेभिर्बद्ध्वा हन्यामहे । वत्स ! दशमुख ! उत्तिष्ठोत्तिष्ठ, त्रायस्व । त्वमेकान्तभक्त: कथमस्मानुपेक्षसे ?' यस्त्वं जात एव महाहारं कण्ठे न्यधाः, तस्य बाहुबलमहङ्कारश्च क्व गतः ? कुम्भकर्ण ! किं त्वमपि मद्वचो नाऽऽकर्णयसि ? यदेवमस्मानुदासीनानिवोपेक्षसे ? विभीषण ! त्वं क्षणमपि भक्तिविमुखो नाऽभः, किमद्य परावर्तित इव लक्षसे? एवं विलपत्स्वपि तेषु ते समाधितो न चेलुः । ततस्ते यक्षकिङ्करास्तदने तेषां मौलींश्चिच्छिदुः। तद्दारुणं कर्माऽपश्यन्त इव ते समाधिस्था मनागपि न चुक्षुभुः । ततस्ते रावणाग्रे तदनुजयोस्तयोरग्रे च रावणस्य मूर्धानं मायया पातयामासुः । ततो गुरुभक्त्या कुम्भकर्ण-विभीषणौ किञ्चिच्चुक्षुभतुः । किन्तु परमार्थज्ञो रावणस्तमर्थमचिन्तयन् गिरिरिव निश्चलो विशेषेण ध्याननिष्ठोऽभूत् । ततोऽम्बरे देवानां साधु साध्विति वाणी समुद्भूता । यक्षकिङ्कराश्च चकिता द्रुतमपासर्पन् । सहस्रं विद्याश्च 'तव वशवर्त्तिन्यः स्म' इत्युच्चैर्भाषमाणा दशमुखमभ्येयुः । एवं इतश्च वैताढ्ये दक्षिणश्रेण्यां सुरसङ्गीते पुरे मयो नाम विद्याधरेश्वरोऽभूत् । तस्य च गुणनिधिभूतायां हैमवतीनाम्न्यां पत्न्यां मन्दोदरी नाम दुहिता बभूव । तां पुत्री प्राप्तयौवनां प्रेक्ष्य तद्वरार्थी तदनुरूपं वरमपश्यंश्चिन्तितो 'रावण अचिन्तो वर' इति मन्त्रिणा प्रोक्तः सृष्टश्च मयो मन्दोदरीमुपादाय बान्धवादिभिः सह स्वयंप्रभपुरं ययौ। सुमालिप्रमुखाश्च गोत्रवृद्धा दशमुखाय मन्दोदरीं ग्रहीतुं प्रपेदिरे । ततो मयाद्याः सुमाल्याद्याश्च शुभे दिने तयोविवाह कारयामासुः । मयाद्याश्च ततः स्वपुरं ययुः । रावणोऽपि तया रमणीश्रेष्ठया चिरं रेमे । अन्येधुश्च रावणः क्रीडया मेघरथगिरिं गतस्तत्र सरसि षट् सहस्राणि खेचरकन्यका मज्जन्तीरपश्यत् । ता अपि च तं पद्मिन्य इव विकसितलोचनपङ्कजा: सानुरागा: प्रेक्ष्य स्मरात लज्जां विहाय त्वं नो भर्ता भवेति स्वयं प्रार्थयाञ्चक्रिरे । ततो रावणेन सर्वश्रीसुरसुन्दरपुत्री पद्मावती मनोवेगा-बुधसुता-ऽशोकलता कनक Page #47 -------------------------------------------------------------------------- ________________ ....७३ ७२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सन्ध्ययोः सुता विद्युत्प्रभा प्रख्यातकुलप्रसूता अन्याश्च सरागास्ताः सर्वा गान्धर्वेण विवाहेन परिणिताः । ततस्तासां सौविदास्तासां पितृणामेत्य 'युष्माकं कन्या: परिणीयाऽद्य कोऽप्येष गच्छती'ति व्यजिज्ञपन् । ततः क्रुद्धोऽमरसुन्दरोऽन्यैरपि विद्याधरैः सह रावणं जिघांसुरन्वधावत् । ततो नवोढास्ता रावणः 'त्वरितं विमानं प्रेरय, मा विलम्बय, एकोऽपि सुरसुन्दरोऽजय्यः, किं पुनः कनक-बुधादिभिः परिवारित' इति प्रोचुः । ततो रावणः स्मित्वा ता व्याजहार- मा भैषीष्ट, गरुडस्य सपैरिव ममैभियुद्धं पश्यत' । एवं बुबाणमेव रावणं विद्याधराः शस्त्रैर्दुर्दिनं कुर्वाणा: संवेष्टयामासुः । ततो रावणोऽस्त्रैरस्त्राणि खण्डयित्वा प्रस्वापनास्त्रेण तानमोहयत् । नागपाशैः पशूनिव तान् बबन्ध च । प्रेयसीभिः पितृभिक्षां याचितस्तान् मुमोच च । ततस्ते स्वपुरं ययुः । रावणोऽपि च ताभिः सह स्वयंप्रभपुरं प्राप । मुदितैर्जनैः पूजितश्च । अथ कुम्भकर्णः कुम्भपुरेशस्य महोदरमहीपतेः सुरूपनयनादेवीकुक्षिजां नवयौवनां नाम्ना तडिन्मालां सुतामुपायत । विभीषणश्च वैताढ्ये दक्षिणश्रेण्यां ज्योतिष्पुरपुरेशितुर्वीरस्य नन्दवतीकुक्षिसमुद्भवां पङ्कजश्रियं नाम कन्यां पर्यणैषीत् । अथ मन्दोदरी देवी देवेन्द्रतेजसमद्भुतविक्रममिन्द्रजितं नाम सुतं सुषुवे । कियत्यपि काले गते च मेघवद् नयनानन्दं द्वितीयमपि मेघवाहनं नाम तनयं सुषुवे । कुम्भकर्ण-विभीषणौ च पितृवैरमाकर्ण्य वैश्रवणाश्रितां लङ्कां सदैवोपदुद्रुवतुः । ततो वैश्रवणो दूतेन सुमालिनमवोचत्'इमौ रावणावरजौ सुतौ शाधि, वीरमानिनौ दुर्मदौ पाताल सप्तमं पर्व - द्वितीयः सर्गः लङ्कास्थौ कूपमण्डूककल्पानविवेकिनावस्मत्पुर्यां छलकर्मणाऽवस्कन्दं ददाते, मया जेतुमिच्छया मत्ताविति चिरमुपेक्षितौ । त्वं चेदिमौ न शिक्षयसि, तर्हि त्वया सहैवेमावपि मालिवम॑ना नेष्यामि, त्वमस्मदलं न वेत्सि?' तज्ज्ञात्वा च क्रुद्धो रावणोऽभ्यधात्-'क एष परस्य करदो वैश्रवण: ? अन्यस्य शासनाल्लङ्कां शासन्न लज्जते वदन् ? दूतोऽसीति त्वां न हन्मि, याहि' । एवं रावणेनोक्तो निवृत्य स दूतो वैश्रवणं गत्वा यथातथमशंसत् । दूतस्याऽनुपदमेव च रावणः ससहोदरो ससैन्यो गरीयसाऽमर्षेण लङ्का ययौ । वैश्रवणश्च दूताख्यातवृत्तान्तः ससैन्यः पुर्या युद्धाय निर्ययौ । ततो रावणो महावातो वन्यामिव क्षणात् तदक्षौहिणीं सेनामभाङ्क्षीत् । बले भग्ने च भग्नम्मन्यो वैश्रवणः उपशान्तकोपो दध्यौ-'परैश्च भग्नमानस्य मानिनो नृपस्य गतचन्द्रिकस्य चन्द्रस्येवाऽवस्थितं धिक् । मुक्तये एव यतनीयम् । स्तोकं विहाय बह्विच्छोर्न किमपि लज्जास्पदम् । तन्मम राज्येनाऽलं, मुक्तिवेश्मनो द्वारं परिव्रज्यामुपादास्ये । अपकर्तारावप्येतौ कुम्भकर्ण-विभीषणौ ममोपकर्तारावेवेदृक्पथनिदर्शनाज्जातौ । रावणश्चाऽग्रेऽपि मम बन्धुः, सम्प्रति कर्मतोऽपि बन्धुः । यतोऽस्येममुपक्रमं विना ममेयं धीन स्यात्' । एवं विचिन्त्य शस्त्रादिकं त्यक्त्वा तत्त्वनिष्ठो वैश्रवण: स्वयमेव परिव्रज्यां समाददे । रावणोऽपि तं नत्वा रचिताअलिरुवाच-'त्वं मम ज्येष्ठो भ्राताऽसि, अनुजन्मनो मेऽपराधं सहस्व, निःशङ्कां लङ्कायां राज्यं कुरुष्व, वयमन्यत्र यास्यामः, मेदिनी न हीयते' । रावणे एवं ब्रुवाणेऽपि स प्रतिमास्थितो महात्मा तद्भव एव शिवंगमी न किञ्चिदूचे । ततो रावणस्तमनीहं ज्ञात्वा वैश्रवणं क्षमयित्वा प्रणम्य च लया सह तस्य पुष्पक विमानमग्रहीत् । Page #48 -------------------------------------------------------------------------- ________________ ७४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ स रावणो विमानं पुष्पकमधिरुह्य सम्मेताद्रावर्हत्प्रतिमा वन्दितुं गतवान् । प्रतिमा वन्दित्वा शैलादवरोहतश्च तस्यैको वनकुञ्जरो जगर्ज । ततो हस्तिरत्नमसौ देवस्य यातनामर्हतीति प्रतिहारेण प्रहस्तेनोक्तो दशमुखः पिङ्गोत्तुङ्गदन्तं मधुपिङ्गललोचनं मदस्राविणं सप्तहस्तसमुच्छ्रायं नवहस्तायतं तं गजं क्रीडया वशीकृत्याऽध्यारुरोह ! भुवनालङ्कार इति च तस्य नाम विदधे । ततो गजं मालान्वितं कृत्वा तां निशां तत्रैवोषित्वा प्रातः सपरिच्छदः आस्थानीमधिष्ठितो रावणः । अथ प्रतीहारविज्ञप्तेन प्रविष्टेन घातजर्जरेण पवनवेगेन विद्याधरेण नत्वा विज्ञप्त:-'देव ! किष्किन्धनृपनन्दनौ सूर्यरजा ऋक्षरजा अपि च पाताललङ्काया: किष्किन्धायां गतौ तत्र च तयोर्यमनृपेण युद्धमभूत् । चिरं युद्ध्वा यमेन बद्ध्वा तौ द्वावपि दस्युवत् कारागृहे क्षिप्तौ । तथा तेन वैतरणीयुतान् नरकावासान् विधाय तौ सपरिच्छदं छेद-भेदादिदुःखं प्राप्यते । तौ च क्रमायातौ तव सेवको, तत्तौ मोचय, भृत्यपराभवो हि स्वामिपराभव एव' । ततो रावणो जगाद-‘एवमेतत्, यदनेन दुधियाऽसदृशमाचरितम्, एष तत्फलं यच्छामि' । एवमुक्त्वा स ससैन्य: किष्किन्धां गत्वा सप्ताऽपि नरकांस्तत्र क्लिश्यमानान् निजान् पत्तींश्च दृष्ट्वा क्रुद्धः परमाधार्मिकां त्रासयित्वा निजपत्तीनपरांश्च तत्र स्थितानमोचयत् । नरकारक्षैतिवृत्तान्तश्चाऽपरो यमो यमनृपोऽतिक्रुद्धो योद्धु नगराद् निर्ययौ । तयोश्च ससैन्ययोश्चिरं युद्धे प्रवृत्ते रावणो बाणवषैर्यमं जर्जरयाञ्चक्रे। ततो यमः सङ्ग्रामात् प्रणश्य रथनूपुरनेतारमिन्द्रमुपगम्य प्रणम्य कृताञ्जलिरुवाच-'प्रभो ! मयाऽधुना यमत्वाय सप्तमं पर्व - द्वितीयः सर्गः जलाञ्जलिर्दत्तः, रुष्य वा तुष्य वा, अहं यमतां न करिष्ये । अधुना हि दशमुखो यमस्याऽपि यम उत्थितः । तेन हि नरकारक्षान् विद्राव्य नारका मोचिताः, आहवाच्च कथञ्चिज्जीवन्मुक्तोऽस्मि । तेन हि वैश्रवणं जित्वा लङ्कां पुष्पकं च गृहीते । सुरसुन्दरोऽपि च तेन जितः' । ततः क्रुद्धः शक्रो युद्धेच्छुर्यमाय सुरसङ्गीतपुरं प्रदाय स्वयं रथनूपुर एव तस्थौ । इतश्च दशमुख आदित्यरजसे किष्किन्धामृक्षरजसे च ऋक्षपुरं पुरं प्रदाय लङ्कां गत्वा बन्धुभिर्नागरैश्च स्तूयमानस्तत्राऽवस्थितः पैतामहं महद्राज्यं प्रशशास । यथेच्छं मन्दोदर्या सह विषयसुखमन्वभूच्च । अथाऽऽदित्यरजस: कपिराजस्येन्दुमालिन्यां महिष्यां वाली नाम बली सुतो जातः । स हि समुद्रान्तं जम्बूद्वीपं नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत । तथाऽऽदित्यरजसोऽपरः पुत्रः सुग्रीवः कन्या च सुप्रभा नाम्न्यभूताम् । तथाऽमृतरजसो हरिकान्तायां पत्न्यां भुवनविश्रुतौ नल-नीलाभिधौ द्वौ पुत्रौ जातौ । आदित्यरजाश्च वालिने राज्यं दत्त्वा प्रव्रज्य तपस्तप्त्वा च शिवं ययौ । वाली च दया-दाक्षिण्यादिगुणसमन्वितं स्वानुरूपं सुग्रीवं राज्ये न्यधात् । अथाऽन्यदा दशमुखश्चैत्यवन्दनार्थं गजारूढो मेरुपर्वतं गतः । तस्मिन्नेव समये च मेघप्रभात्मजः खरनामा खेचरश्चन्द्रणखां सानुरागां विलोक्य जातरागोऽपजहार । तामादाय पाताललङ्कां गत्वा च तत्रत्यमादित्यरजसः सूनुं चन्द्रोदरं नृपं निर्वास्य तां नगरी स्वयमादत्त । दशमुखश्च क्षणेन मेरोर्लङ्कामागतश्चन्द्रणखाहरणमाकर्ण्य कुपितः खरघाताय चलितो मन्दोदर्या निवेदित:कोऽयमस्थाने संरम्भः ? मनाग् विमृश, कन्या ह्यवश्यं कस्मैचिद् Page #49 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दातव्या, स चेत् स्वयं वरं वृणीते, तत् साधु । दूषणाग्रजः खरश्चन्द्रणखाया अनुरूपो वरः, स हि विक्रमी तव पत्तिभिरदूषणो भविष्यति। तत्प्रधानपुरुषान् प्रेष्य तया सह तमुद्वाह्य तस्मै पाताललङ्कां देहि, प्रसन्नतां धेहि' । एवमवरजाभ्यामप्युक्तो युक्तविचारकृत् स मय-मारीचौ प्रेषयित्वा तेन तां पर्यणाययत् । ततः स खरो रावणशासनं दधत् पाताललङ्कायां चन्द्रणखया समं निर्विघ्नं भोगान् बुभुजे । खरेण निर्वासिते चन्द्रोदरे कालाद् मृते चाऽनुराधा नाम तत्पत्नी नंष्ट्वा गर्भिणी वनमगात् । वने च सा सिंही सिंहमिव नयादिगुणयुतं विराधं नाम सुतमसूत । सर्वकलाकुशलः सम्प्राप्तयौवनः सोऽप्रतिहतगति: पृथिवीं विजहार । सप्तमं पर्व - द्वितीयः सर्गः तच्छृत्वा क्रूद्धोऽपि महामना वाली स्वस्थो गम्भीरगिरा व्याजहार-'अद्य यावद् रक्षो-वानरकुलयोरखण्डितं स्नेहसम्बन्धं जानामि । यच्च पूर्वे सम्पद्यापदि चाऽन्योन्यं साहायकं व्यधस्तत्र स्नेहो निमित्तं, न तु सेव्य-सेवकभावः । अहं च देवं सर्वज्ञम र्हन्तं सुगुरुं साधं च विना नाऽन्यं सेव्यं जानामि । ततः त्वत्स्वामिन एष मोह एव । अद्य हि तेन स्वंसेव्यमस्मांश्च सेवकान मन्यमानेन कुलक्रमागतः स्नेहसम्बन्धः खण्डितः । तस्य मित्रकुलोत्पन्नत्वाद् न किमपि करोमि । यदि स किमपि विप्रियं करिष्यति तदा तत्प्रतिक्रियां करिष्यामि । किन्तु पूर्वस्नेहद्रुमखण्डनेऽग्रेगूर्न भविष्यामि । यथाशक्ति तव स्वामी करोतु, व्रज' । ततो दूतः स गत्वा दशमुखाय सर्वमाख्यत् । ततश्चाऽतिक्रुद्धो दशमुखः ससैन्य: किष्किन्धां द्रुतमाययौ । वाल्यपि च सन्नह्य तमभ्यगात् । ततश्च द्वयोः सैन्ययोर्दारुणे युद्धे प्राणिसंहारं प्रेक्ष्य सदयो वाली सत्वरं दशमुखमभ्येत्य जगाद-'प्राणिमात्रस्यैव वधोऽनुचितः । पञ्चेन्द्रियाणां तु कथैव का । शत्रुजयाय यद्यप्येतद्युक्तम् । तथाऽपि स्वबाहुबलैविजिगीषो.तद् युक्तम् । ततः सैन्ययुद्धं विमुञ्च । यतस्तदनेकप्राणिसंहाराच्चिराय नरकाय भवेत् । ततो दशमुखोऽपि सर्वयुद्धविशारदस्तेन स्वत एव योद्धमारेभे । तदा च यद् यदस्त्रं दशमुखोऽक्षिपत् तत्तत् कपीश्वरो निजास्वैश्चिच्छेद । ततो विफलपराक्रमोऽतिक्रुद्धो रावणश्चन्द्रहासासिमाकृष्य वालिनेऽधाविष्ट । स वाली चन्द्रहासं रावणं च लीलयैव वामेन बाहुनाऽऽदाय कन्दुकमिव च कक्षायां निक्षिप्याऽव्याकुल: क्षणेनाऽपि चतु:समुद्री बभ्राम। इतश्च सभायां कथाप्रसङ्गेन वानरेश्वरं प्रौढप्रतापं वालिनं श्रुत्वाऽन्यप्रतापासहनो रावण एकं दूतमनुशिष्य तस्मै प्रेषयामास। दूतश्च गत्वा वालिनं नत्वाऽऽह-'अहं दशमुखस्य दूतोऽस्मि, तद्वाचिकं श्रृणु-अस्मत्पूर्व कीर्तिधवलं तव पूर्वज: श्रीकण्ठः शरणायाऽऽयात्, तं श्वशुर्यं शत्रुभ्यस्त्रात्वा कीर्तिधवल इह वानरद्वीपे न्यधात् । तत्प्रभृति चाऽऽवयोः स्वामि-भृत्यभावेनोभयोरपि पक्षयोर्बहवो नृपा गताः । तव पितामहः किष्किन्धो मम प्रपितामहः सुकेशश्च परस्परं तं सम्बन्धं तथैव नियूँढवान् । ततस्तव पिता सूर्यरजा अभवत्, तं च यमात् त्रात्वा यथाऽहं किष्किन्धाराज्ये न्यधां, तज्जनो वेत्ति । अधुना च तत्तनयो नयवांस्त्वं प्राग्वत् स्वस्वामिसम्बन्धादस्मत्सेवां कुरुष्व' । Page #50 -------------------------------------------------------------------------- ________________ ७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___तदानीमेव च तत्रैत्य लज्जावनतं रावणं मुक्त्वाऽब्रवीत्'वीतरागमर्हन्तं विना न मे कश्चिद् नमस्योऽस्ति, मानं धिक्, येन मोहित इमामवस्थां प्राप्तोऽसि । पूर्वोपकारान् स्मरता मया सम्प्रति मुक्तोऽसि, पृथिवीराज्यं च ते दत्तम् । अखण्डाजस्तच्छाधि । मयि विजिगीषौ सति तवेयं पृथिवी नैव । तन्मुक्तये परिव्रज्यामादास्ये । किष्किन्धायां तवाऽऽज्ञाधरः सुग्रीवो राजाऽस्तु' । एवमुक्त्वा निजे राज्ये सुग्रीवं न्यस्य स वाली गगनचन्द्रमुनिपावें दीक्षामग्रहीत् । विविधाभिग्रहधरस्तपस्तत्परः प्रतिमास्थो निर्ममश्च वाली मुनिरवनि विजहार । विहरतश्च तस्य क्रमाल्लब्धय उत्पेदिरे । तथा सोऽष्टापदादौ गत्वा कायोत्सर्ग गृहीत्वा मासान्ते तदुत्सृज्य पारणं विधायैवमेव भूयो भूयश्चकार । इतश्च दशमुखाय सुग्रीवः स्नेहदाढ्याय श्रीप्रभां ददौ । तथा यौवराज्ये वालिपुत्रं महौजसं चन्द्ररश्मि न्यवीविशत् । दशमुखश्च सुग्रीवगृहीताज्ञस्तत्सहोदरां श्रीप्रभां परिणीय तां गृहीत्वा च लङ्कां ययौ । तथा स रावणोऽन्येषामपि विद्याधरेन्द्राणां रूपवती: कन्यका बलादपि परिणिनाय । अन्यदा च स नित्यालोकपुरे तदीशितुः कन्यां रत्नावलीमुद्वोढुं चचाल । गच्छतश्च तस्य विमानमष्टापदानेरुपरि स्खलितम् । रुद्धगतिकं विमानं प्रेक्ष्य कुपितश्च रावणः को मम विमानप्रतिरोधाद् यममुखं विविक्षतीति वदन् समुत्तीर्य विमानस्याऽधः प्रतिमाधरं वालिनं प्रेक्ष्योवाच-'अद्याऽपि मयि विरुद्धोऽसि, दम्भेन व्रतं वहसि, कयाऽपि मायया मां विजित्य मत्प्रतीकारं विशङ्कमान: प्रावाजी: खलु । अद्याऽप्यहं स एवाऽस्मि । तत्ते प्राप्तकालं कृतप्रतिकृतं करोमि। यथा त्वं सचन्द्रहासं गृहीत्वाऽब्धिष्वभ्राम्यस्तथा त्वां सप्तमं पर्व - द्वितीयः सर्गः साद्रिमुत्पाट्य लवणार्णवे क्षिपामि' । एवमुक्त्वा पृथिवीं विदार्य तद्रेिस्तले प्रविश्य विद्यासहस्रं स्मृत्वा दुर्धरं तं पर्वतमुद्दधे । स महामुनिर्वाली चाऽवधिना तं पर्वतं तेनोद्धृतं ज्ञात्वा दध्यौ-'आ: अद्याऽप्ययं दुर्मतिर्मयि मात्सर्यादकाण्डेऽनेकप्राणिसंहारं तनुतेतराम् ? सम्प्रत्येष भरतेश्वरचैत्यं भ्रंशयित्वा तीर्थमुच्छेत्तुं यतते । राग-द्वेषरहितोऽप्यहं चैत्यरक्षणाय प्राणित्राणाय चैनं राग-द्वेषौ विनैव शिक्षयामि' । एवं विमृश्य स मुनिर्लीलया पादाङ्गुष्ठेन तत्पर्वतशिखरं किञ्चिदपीडयत् । ततश्च तत्क्षणादेव रावणः सङ्कचद्गात्रो भङ्गुरदोर्दण्डो मुखेन रुधिरं वमन् तारमरावीत् । तेन रावणेति नाम्ना प्रसिद्धोऽभूत् । तस्य च दीनमारटनं श्रुत्वा दयापरो वाली तमाशु मुमोच । ततो रावणो निःसृत्योपेत्य नत्वा वालिनं कृताञ्जलिरुवाच'निस्त्रपोऽहं भूयो भूयस्तवाऽपराध्यामि, त्वं शक्तिमांश्च कृपया सोढाऽसि । मन्ये, मयि कृपां कृत्वा प्रागूर्वीमत्यजो न त्वसामर्थ्यात्, तदहं न प्रागज्ञासिषम् । नाथ! तेनाऽज्ञानादद्रिक्षेपे यत्नं कुर्वता मया स्वशक्तिस्तोलिता । अद्य भवत आत्मनश्चाऽन्तरं ज्ञातम् । मृत्युकोटि यातस्य मे त्वया प्राणा दत्ताः । यस्याऽपकारिण्यपीयं मतिस्तस्मै ते नमोऽस्तु' । एवं दृढभक्त्या भाषित्वा वालिनं क्षमयित्वा त्रिःप्रदक्षिणीकृत्य नमोऽकरोत् । तादृङ्माहात्म्यमुदिता देवाश्च साधु साध्विति वादिनो वालिमुनेरुपरिष्टात् पुष्पवृष्टि व्यधुः ।। रावणश्च भरतेश्वरनिर्मिते चैत्ये जगाम । तत्र च शस्त्रादीनि मुक्त्वा सान्तःपुरः स्वयमृषभादीनामर्हतामष्टविधां पूजां व्यधात् । तथा महासाहसिकः स भक्त्या स्नायुमाकृष्य प्रमृज्य च Page #51 -------------------------------------------------------------------------- ________________ ८० सप्तमं पर्व - द्वितीयः सर्गः नाऽऽप । तारायां रममाणस्य सुग्रीवस्य चाऽङ्गद-जयानन्दौ द्वौ पुत्रौ बभूवतुः । तारायामनुरागवान् साहसगतिश्च कामार्त्तश्चिन्तयामास-'बलेनाऽपि च्छलेनाऽपि च तां हर्ताऽस्मि' । एवं विचिन्त्य रूपपरिवर्तिनी शेमुषी विद्यां साधयितुं क्षुद्रहिमवगिरिगुहान्तरं गत्वा तां साधयितुमारेभे । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भुजवीणामवादयत् । तस्मिन् ग्रामरागरम्यमुपवीणयति सप्तस्वरमनोरममन्तःपुरे गायति च चैत्यवन्दनयात्रायै समागतो धरणेन्द्रोऽर्हतां पूजां विधायाऽवन्दत । तं च रावणं वीणया श्रुतिमधुरं गायन्तं वीक्ष्याऽवदत्-'नन्वर्हद्गुणस्तुतिमयमिदं गीतं साधु निजभावानुरूपं च, तेन ते तुष्टोऽस्मि, यद्यप्य«द्गुणस्तुतेर्मुख्यं फलं मोक्षस्तथाऽप्यहमजीर्णवासनस्तुभ्यं किं यच्छामि ? वृणीष्व । ततो रावण उवाच-'यदि जिनस्तवैस्तुष्टोऽसि, सा तवस्वामिभक्तिः । यथा च ददानस्य तव सा प्रकृष्यते तथा ममाऽऽददानस्य साऽपकृष्यते' । ततो नागेन्द्रः पुनरुवाच-'तवाऽनया निराकाङ्क्षतया विशेषतस्तुष्टोऽस्मि' । एवमुक्त्वा रावणाय सोऽमोघविजयां रूपविकारिणीं विद्याशक्ति दत्त्वा निजाश्रयमगात् । रावणोऽपि तीर्थनाथान् नमस्कृत्य नित्यालोकपुरं गत्वा रत्नावली परिणीय लङ्कामाययौ । अथ तदानीमेव वालिनोऽपि केवलज्ञानमुत्पेदे । सुराऽसुरैश्च केवलज्ञानमहिमा विदधे । क्रमेण च भवोपग्राहिणां कर्मणां क्षयात् सिद्धानन्तचतुष्टयः सोऽपुनर्भवमगात् । इतश्च वैताढ्ये ज्योतिष्पुरपुरे ज्वलनशिखो नाम विद्याधरेश्वरो बभूव । तस्य श्रीमत्यां देव्यां तारा नाम दुहिता जज्ञे । तां चैकदा चक्राङ्कविद्याधरनृपात्मजः साहसगतिर्दृष्ट्वा कामातॊ दूतैर्व्वलनं तां याचयाञ्चके । वानरेन्द्रः सुग्रीवश्चाऽपि तां तं याचयाञ्चक्रे । स ज्वलनशिखश्च कस्मै कन्या दीयते इति संशयापन्नः पृष्टेन नैमित्तिकेन-'अल्पायुः साहसगतिर्दीर्घायुश्च सुग्रीव' इति ज्ञात्वा सुग्रीवाय तां ददौ । ततः साहसो मनोरथच्छेदात् क्वाऽपि निवृत्ति __ इतश्च लङ्कायाः पुर्या दिग्यात्रायै निर्गतो दशमुखो विद्याधरेन्द्रान् नरेन्द्रांश्च वशीकृत्य पाताललङ्कां प्राप्य चन्द्रणखाभर्ना खरेणोपायनादिभिः पूजितस्तेनैव सह चेन्द्रजिगीषया चतुर्दशभिविद्याधरसहस्रैः परिवारितश्चचाल । सुग्रीवोऽपि च ससैन्यो वायोरग्निरिव रावणस्याऽनुचचाल । अस्खलद्गतिः प्रयाणं कुर्वश्च रेवां नाम नदीं दृष्ट्वा तस्यास्तटे ससैन्य उवास । तथा तस्यां नद्यां स्नात्वा वस्त्रादि परिधायाऽर्हबिम्बं मणिमये पट्टे न्यस्य रेवाजलैः स्नपयित्वा कमलैः पूजयितुमारेभे । पूजातत्परस्य स्थितवतस्तस्याऽकस्मादब्धिवेलेव महापूरः समाययौ । वेगादागतं सपर्क फेनिलं च तत्पूरवारि रावणस्याऽर्हत्पूजामपानैषीत् । तेन जातकोपः 'केन पूजान्तरायकारीदं वार्यमुच्यते'ति जगाद । ततः कश्चिद् विद्याधरः समाचख्यौ-'इतः पुरस्ताद् माहिष्मती पूर्यस्ति । तस्यां सहस्रांशुनामा नृपोऽस्ति । स रेवायां सेतुबन्धेन जलक्रीडोत्सवकृते वारिबन्धं व्यधात् । स करेणुभिः करीव राज्ञीसहस्रेण समं वारिभिः क्रीडति । तस्याऽऽत्मरक्षाश्च लक्षसङ्ख्या द्वयोस्तीरयोः सवमिता उदस्त्राश्च तिष्ठन्ति । तस्योजितैर्जलक्रीडाकराघातैर्जलदेवीभिर्जलजन्तुभिश्च क्षुभितं पलायितम् । इदं च Page #52 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पयस्तेन स्त्रीसहस्रयुतेन मुच्यमानत्वादुल्लुठितं वेगात् तटद्वयं प्लावयित्वा ते देवपूजामिह प्लावयामास । तत्स्त्रीणामेतानि निर्माल्यानि रेवातीरे तरन्ति, पश्य' । ___ एवं तद्गिरमाकाऽधिकमुद्दीप्तो दशाननोऽवोचत्-'अरे ! तेन मुमूर्षणा स्वाङ्गदूषितैर्वारिभिरञ्जनैर्देवदूष्यमिवेयं देवपूजा दूषिता । राक्षसभटाः ! तद्यात, भटमानिनं तं पापं मत्स्यं धीवरा इव बद्ध्वा समानयत' । एवमुच्चस्तेनाऽऽदिष्टा अनुचरा लक्षशो राक्षसभटा दधाविरे । तीरस्थितैः सहस्रांशुसैनिकैश्च ते युद्ध चक्रुः । तैर्नभ:स्थितैः स्वान् सैनिकानुपद्रुतान् ज्ञात्वा क्रोधातुरः स्वाः प्रेयसीराश्वास्याऽधिज्यधन्वा सहस्रांशुर्जलाद् निर्गत्य बाणैस्तृणपूलाननल इव तान् विद्रावयामास । तांश्च निशाचरान् रणाद् व्यावृत्तान् निरीक्ष्याऽतिक्रुद्धो रावणः स्वयमुपस्थाय सहस्रांशुमभि बाणानवर्षत् । चिरं च विविधैरायुधैर्द्वयोयुद्धे प्रवृत्ते रावणोऽजय्यं तं ज्ञात्वा विद्यया मोहयित्वा जग्राह । जित्वाऽपि च तं महावीर्यं प्रशंसन् स्वस्कन्धावारे समानयत्। यावच्च हृष्टः सभायां तस्थौ तावच्चारणश्रमणः शतबाहुः समाययौ । रावणश्च सिंहासनादुत्थाय तमभ्युत्थाय नत्वा स्वसमर्पिते आसने आसयित्वा पुनः प्रणम्य स्वयमूर्त्यामुपाविशत् । मुनिश्च तस्मै धर्मलाभाशिषं प्रदाय रावणेन समागमनकारणं पृष्टोऽवोचत्-'अहं शतबाहुः पुरा माहिष्मत्यां नृपोऽभवं, पावकाद् व्याघ्र इव भववासाद् भीतः सहस्रांशुं राज्ये निवेश्य व्रतमाशिश्रियम्' । एवमर्धोक्त एव रावणो नम्रमुखोऽब्रवीत्-'किमसौ महाभुजः पूज्यपादानामङ्गजः' । मुनीन्द्रेण 'ओम्' इत्युक्ते च स पुनराह-'अहं दिग्जयाय क्रमेणाऽत्राऽऽगतो रेवातटे दत्तवासः सहस्रांशुमुक्त सप्तमं पर्व - द्वितीयः सर्गः निजाङ्ग कलुषाविलजलैर्जातजिनपूजाभङ्गः 'क्रुधाऽज्ञानादेवमकार्ष, त्वत्सूनुरप्यज्ञानादेतत् कृतवानिति मन्ये' । एवमुक्त्वा सहस्त्रांशु नत्वाऽनैषीत् । सोऽपि लज्जानम्रमुखो निजं पितरं ननाम। ततो रावणस्तमुवाच-'त्वमतः परं मम भ्राताऽसि, तवेवाऽयं शतबाहुमुनिर्ममाऽपि पिता। गच्छ, निजं राज्यं शाधि, अन्यामपि भुवं गृहाण, अस्माकं त्रयाणां त्वं चतुर्थः श्रियोंऽशभागसि' । तेनैवमुक्तो मुक्तश्च सहस्त्रांशुरवदत्-'अतः परं मम राज्येन वपुषा वा न प्रयोजनं, संसारनाशनं व्रतमेव श्रयिष्यामि' । एवमुक्त्वा रावणाय निजं तनयं समर्प्य चरमदेहः स स्वपितुरन्तिके दीक्षामग्रहीत् । तथा स तदैव वाचिकेनाऽनरण्यनृपाय स्वयमात्तां परिव्रज्यां कथयामास । तज्ज्ञात्वा च सोऽयोध्याधिपो दध्यौ-'मम तेन प्रियमित्रेणैवं सङ्केतोऽभवद् यद् युगपद् व्रतं ग्राह्यम्' । तां स्वप्रतिज्ञा स्मृत्वा च स स्वपुत्राय दशरथाय राज्यं दत्वा व्रतमुपाददे । रावणश्च शतबाहु-सहस्रांशुमुनी वन्दित्वा सहस्रांशोः सुतं राज्ये निवेश्याऽम्बरेणाऽचालीत् । अथ तदानीं यष्टिघातादिजर्जरो नारदमुनिरन्याय इत्येवं पूत्कुर्वन् रावणमभाषिष्ट-'राजन् राजपुरे मिथ्यादृग् मरुत्तो नाम नृपः क्रतुं कुर्वन्नास्ते । तत्र यज्ञे वधायाऽऽनीतान् पशून् पाशबद्धाननागस आरटतो दृष्ट्वा व्योम्नोऽवतीर्य कृपापरो ब्राह्मणाऽऽवृत्तं मरुत्त'महो किमिदमारब्धमि'त्यपृच्छम् । ततो मरुत्त उवाच-'अयं ब्राह्मणोदितो यज्ञः, अमी पशवो देवतृप्तयेऽत्र होतव्याः, अयं च महाधर्म: स्वर्गहेतुः'। ततोऽहमाख्यं-'वपुरेव वेदिः, आत्मा यष्टा, तपो वह्निः, ज्ञानं सर्पिः, कर्माणि समिधः, क्रोधादयः पशवः, सत्यं यूपः, Page #53 -------------------------------------------------------------------------- ________________ ८४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वप्राणिरक्षणं दक्षिणा, त्रिरत्नी त्रिवेदिरि'ति वेदोदितः क्रतुः कृतो योगविशेषेण मुक्तिसाधनं भवति । ये क्रव्यादतुल्याश्छागवधादिना यज्ञं कुर्युस्ते घोरे नरके तिष्ठेयु: । त्वमुत्तमे वंशे समुत्पन्नोऽसि, बुद्धिमानुद्धिमांश्चाऽसि । तस्माद् व्याधोचितादस्मात् पापाद निवर्तस्व। यदि प्राणिवधैः स्वर्गो लभ्यते, तहल्पैरेव दिनैरयं लोकः शून्यो भवेत्' । एवं मम वचः श्रुत्वा क्रुद्धा द्विजा दण्डपाणय उत्तस्थुः । तैस्ताड्यमानेन मया नश्यता प्राप्तोऽसि, त्वदवलोकनादहं त्रात एव, तान् निरागस: पश्यन् वध्यमानांस्रायस्व' । तच्छ्रुत्वा विमानादवतीर्णो रावणस्तेन नृपेण पूजितः क्रुद्धो मरुत्तनृपमुवाच-'अरे ! नरकाभिमुखैः किमेष क्रतुः क्रियते ? अहिंसातो धर्मः प्रोक्तः । तस्माल्लोकद्वयारिं यज्ञं मा कार्षीः, यदि करिष्यसि, तीह ते वासो मम कारागारे परत्र च नरके' । ततो मरुत्तः सद्यो मखं विससर्ज। ततोऽमी ह्यध्वर्यवः कुतो जज्ञिरे इति रावणेन पृष्टश्च नारदोऽब्रवीत्-'शुक्तिमत्याख्यया नद्या शोभिता दिक्षु प्रसिद्धा शुक्तिमती पूरस्ति । मुनिसुव्रतादनेकेषु भूपेषु गतेषु तस्यामभिचन्द्रो नाम नृपोऽभवत् । तस्य चाऽभिचन्द्रस्य पुत्रो वसुनामा सत्यवादी क्षीरकदम्बकस्य गुरोः पार्वे तत्सुतः पर्वतकोऽहं च त्रयोऽपठाम । पाठश्रमाद् निश्यस्मासु सुप्तेषु चारणश्रमणौ व्योम्नि यान्तावूचतुः-'एषामेकतमः स्वर्गमपरौ च नरकं यास्यन्ति' । क्षीरकदम्बकस्तच्छ्रुत्वा दध्यौ-'मय्यप्यध्यापके सति शिष्यौ नरकं यास्यतः ? महाखेदकरमेतत् । एभ्यश्च को दिवं कौ च नरकं यास्यन्ति ?' सप्तमं पर्व - द्वितीयः सर्गः एवं जिज्ञासुः सोऽस्मांस्त्रीन् युगपदाह्वयत् । तथाऽस्माकमेकैकं पिष्टकुक्कुटं समोवाच-'यत्र कोऽपि न पश्यति तत्राऽमी वध्या:" । ततो वसु-पर्वतको शून्यप्रदेशयोर्गत्वा स्वहितां गतिमिव पिष्टकुक्कुटो जघ्नतुः । अहं तु नगराद् बहिर्दूरतरं प्रदेश गत्वा विजने देशे स्थित्वा दिशः प्रेक्ष्याऽतर्कयम्-'यथा कोऽपि न पश्यति तथा वध्य इति गुरुणोपदिष्टः, किन्त्वहं पश्यामि, तथाऽमी खेचरा पश्यन्ति, लोकपाला ज्ञानिनश्च पश्यन्ति । नास्त्येव तादृशं स्थानं यत्र कोऽपि न पश्यति । तद्गुरुगिरामेतत्तात्पर्य यत् कुक्कुटो न वध्य इति । यतो गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाश्च । तदस्मत्प्रज्ञा प्रज्ञातुमेवेत्थमुपादिशन' । एवं विमश्य कुक्कुटमादायाऽहमागमम् । कुक्कुटाहनने हेतुं च गुरोर्व्यज्ञपयम् । ततोऽयं स्वर्ग यास्यतीति निश्चित्य गौरवाद् गुरुभिरहमालिङ्गितः । वसु-पर्वतकौ च पश्चादागत्योचतुः-'यत्र कोऽपि न पश्यति, तत्र कुक्कुटौ निहतौ । ततो गुरू 'रे पापौ ! युवामपश्यतं खेचरादयोऽपश्यन्, तत्कथं कुक्कुटौ निहतावित्यशपत् । ततश्च खेदादुपाध्यायो दध्यौ-'वसु-पर्वतयोर्मेऽध्यापनक्लेशो मुधाऽभूत् । गुरूपदेशो हि यथापात्रं परिणमेत् । प्रिय: पर्वतकः पुत्रस्ततोऽप्यधिको वसुश्च नरकं यास्यतः । ततो मम गृहवासेनाऽलम्' । एवं निर्वेदादुपाध्यायः प्रव्रज्यामग्रहीत् । व्याख्याविचक्षणः पर्वतकश्च तत्पदमध्यास्त । अहं च गुरुप्रसादेन सर्वशास्त्रविशारदो भूत्वा निजं स्थानमगमम् । अभिचन्द्रो नृपश्च समये व्रतमग्रहीत् । तत्पुत्रो वसुश्च राजाऽभवत् । स च पृथिव्यां सत्यवादीति प्रसिद्धि प्राप । स तां प्रसिद्धि रक्षितुं सत्यमेव जगाद। Page #54 -------------------------------------------------------------------------- ________________ ८६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा च व्याधेन मृगाय क्षिप्तो बाणोऽन्तरैव विन्ध्यनितम्बेऽसवलत् । बाणस्वलनहेतुं ज्ञातुं च तत्र गतः पाणिना स्पृशन् स आकाशस्फटिकशिलामज्ञासीत् । ततः स दध्यौ-'मन्ये, अस्यां भूमिच्छायेवाऽन्यतश्चरन् हरिणः सङ्क्रान्तो मया ददृशे । पाणिस्पर्श विना नेयं कथमप्युपलक्ष्यते । तदियं शिलाऽवश्यं वसोपस्य योग्या' । ततः स व्याधो रहसि तां शिलां राज्ञे व्यज्ञपयत् । राजाऽपि च हृष्टस्तज्जग्राह । तस्मै व्याधाय महद्धनं च ददौ । तथा स गुप्तरीत्या तया शिलया स्वासनवेदिकां घटयामास । तथा तच्छिल्पिनोऽघातयत् । तस्य सिंहासनं च तस्यां वेदौ निवेशितं जनः सत्यप्रभावादाकाशस्थितमबुधत् । तथाऽस्य नृपस्य सत्येन तुष्टा देवताः सान्निध्यं कुर्वन्तीति तस्य प्रसिद्धिदिगन्तरं व्याप्ता । तया प्रसिद्ध्या भीताश्च राजानस्तस्य वशं ययुः । अन्यदा चाऽहं तत्र गत: पर्वतं शिष्याणामृग्वेदं व्याख्यानयन्तमपश्यम् । अजैर्यष्टव्यमित्यत्र मेषैरित्युपदिशन्तं तमहमवोचम्'भ्रातः ! भ्रान्त्या किमिदमुच्यते ? त्रिवार्षिकाणि धान्यानि न जायन्ते इति तान्यजपदेन व्याख्यातानीति गुरुणोपदिष्टं केन हेतुना व्यस्मार्षीः' । ततः पर्वतकोऽवादीत्-'तातेन तथा नोदितं, किन्त्वजा मेषा इत्येवोदितं, निघण्टुषु च तथैवोक्तम्' । ततोऽहमवोचम्- 'शब्दानां मुख्या गौणी चाऽर्थकल्पना, तत्रेह गुरुर्गौणीमचकथत् । ततो गुरुर्धर्मोपदेष्टा त्वमन्यथा कुर्वन् पापं नाऽर्जय' । तत: पर्वत: साक्षेपमुवाच-'गुरुर्मेषानजान् जगाद, त्वं गुरूपदिष्टशब्दार्थोल्लङ्घनात् साधु धर्ममर्जयसि? नृणां दण्डभयाद् मिथ्याभिमानवचो न स्युरिति स्वपक्षस्थापने नो जिह्वाच्छेदपणोऽस्तु । अत्र चोभयोः सहाध्यायी वसुर्नृपः प्रमाणम्' । अहमपि च तत् प्रत्यश्रौषम्। सप्तमं पर्व - द्वितीयः सर्गः ८७ अथ जननी रहसि पर्वतकमूचे-'अहं गृहकर्मरताऽपि त्वत्पितुरजास्त्रिवार्षिकं धान्यमित्य श्रौषम् । तत्पणे जिह्वाच्छेदं यदकार्षीस्तदसाम्प्रतम् । अविवेकः परमापदां पदं भवति' । ततः पर्वतोऽवदत्-'मया तावदिदं कृतं, कृतस्य च पुनःकरणं भवितुं नाऽर्हति' । तत: सा पर्वतकापायशङ्कयोद्विग्ना वसुमुपेयाय 'वसुना च-'अम्ब ! यत् त्वमीक्षिताऽसि तत् क्षीरकदम्बोऽद्य दृष्टः । कि करोमि ? किं वा प्रयच्छामी'त्यभिदधे । साऽवोचत-'महीपते ! पुत्रभिक्षां मह्यं दीयता, पुत्रेण विनाऽन्यैर्धन-धान्यैः किम्' । ततो वसुरुवाच-'मम पर्वतः पाल्य: पूज्यश्च, यतो गुरुवद् गुरुपुत्रे वत्तितव्यमिति श्रुतिरिति । कस्मै यमोऽद्य कुपितः, को मे भ्रातरं जिघांसुः, त्वं किमातुराऽसि, ब्रूहि' । ततः साऽजव्याख्यानवृत्तान्तं स्वपुत्रस्य तं पणं च तत् प्रामाण्यं चाऽऽख्यायाऽर्थयते स्म । त्वं भ्रातू रक्षणं कुर्वाणोऽजान् मेषान् कथय, महान्तो हि प्राणैरप्युपकुर्वन्ति किं पुनर्गिरा ?' ततो वसुरवोचत्-'मातर्मिथ्या कथं वच्मि ? सत्यभाषिणो हि प्राणसंशयेऽप्यसत्यं न भाषन्ते । पापभीरुणा चाऽन्यदप्यसत्यं न वाच्यम् । गुरुवाचोऽन्यथाकरणे कूटसाक्ष्ये च कथैव का ?' ततस्तया सरोष गुरुपुत्रं रक्ष सत्यव्रताग्रहं वेत्युक्त: स तद्वचोऽमस्त । ततो मुदिता सा पर्वतमाता गृहं ययौ । पर्वतोऽपि वसुराजस्य पर्षद्याजगाम । ततो वसुराजे सभासदेषु च यथास्थानमुपविष्टेषु सत्स्वहं पर्वतश्च निजं निजं पक्षमवोचाव । ततो विप्रवृद्धैरूचे-'राजन् ! त्वयि विवादस्तिष्ठते, त्वमनयोः प्रमाणम् । सत्यत एव घटप्रभृतिदिव्यानि वर्तन्ते । सत्यादेव पर्जन्यो वर्षति सत्यादेव च देवता: सिद्धयन्ति, त्वयैव चाऽयं लोकः सत्ये स्थाप्यते । अतः सत्यव्रतोचितं ब्रूहीति त्वां ब्रूमहे' । तद्वचः श्रुत्वा Page #55 -------------------------------------------------------------------------- ________________ E ८८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वां सत्यप्रसिद्धिमुपेक्ष्य स वसुरजान् मेषान् गुरुराख्यदिति साक्ष्य व्यधात् । तस्याऽसत्यवचसा क्रुद्धाश्च देवतास्तदैव तस्याऽऽकाशस्फटिकवेदिकां चूर्णयामासुः । वसुश्च ततः सद्यः पृथिव्यां पपात । घोरं नरकं च जगाम । वसोः सुताश्च पृथुवसुश्चित्रवसुर्वासवः शक्रो विभावसुविश्वावसुः सूरो महाशूरश्चाऽष्टौ पैतृके पदे निषण्णाः देवताभिः कोपतस्तत्कालमहन्यन्त । ततो नवमः सुवसुनंष्ट्वा नागपुरं ययौ । दशमश्च वसुपुत्रो बृहद्ध्वजो मथुरां ययौ । पौरैश्च बहुधा हसित्वा निर्वासितः स महाकालासुरेण सजगृहे । ततः कोऽयं महाकाल इति रावणेन पृष्टो नारदोऽब्रवीत्'अत्र चारणयुगलं पुरमस्ति । तत्राऽयोधनो नृपस्तत्पत्नी दितिस्तयोश्च सुता सुलसा बभूवुः । पित्रा च तस्याः स्वयंवरे समाहूताः सर्वे पार्थिवाः समाययुः । तेषु सगरोऽधिको बभूव । सगरस्याऽऽज्ञया च द्वारपालिका मन्दोदरी प्रतिदिनमयोधननृपावासं जगाम। एकदा च सुलसया समं दितिगृहोद्याने कदलीगृहमविशत् । तदैव तत्र मन्दोदरी चाऽपि समाययौ । तयोश्च वचः श्रोतुकामा सा लतान्तरिता तस्थौ । तदानीं च दितिः सुलसां जगौ-'वत्से ! अस्मिन् स्वयंवरे मम मनःशल्यमस्ति, तदुद्धारश्च त्वदधीनः, तन्मूलतः श्रृणु-ऋषभस्वामिनो भरत-बाहुबली पुत्रावभूताम् । तयोश्च सूर्य-सोमौ पुत्रौ । तत्र सोमवंशे मम भ्राता तृणबिन्दुरजायत । सूर्यवंशे च तव पिताऽयोधनो नृपः । अयोधनस्वसा च सत्ययशा तृणबिन्दो र्याऽभूत् । तयोः सुतश्च मधुपिङ्गः । तस्मै प्रदीयमानां त्वामिच्छामि, तव पिता च त्वां स्वयंवरवराय प्रदित्सते, न जाने त्वं कं वृणोषि ? तदेतद् मम मनःशल्यम् । सप्तमं पर्व - द्वितीयः सर्गः त्वया राजमध्ये मद्भातृज एव वरणीयः' । सुलसाऽपि च तत् प्रत्यपद्यत । मन्दोदरी च तच्छ्रुत्वा सगरभूपतेराख्यत् । सगरेण समादिष्टस्तत्पुरोधा विश्वभूतिः सद्य: कविपलक्षणसंहितां चक्रे । तत्र च स तथोचे-येन समस्तै राजलक्षणैर्युक्त: सगरो हीनस्तु मधुपिङ्गलो जायते । तत्पुस्तकं च पुराणवत् पेटायां प्रक्षिप्य राजपर्षदि नीतम् । तत्राऽऽदौ सगरस्तत्पुस्तके वाच्यमानेऽवोचत्-'यो लक्षणहीनो भवेत् सोऽखिलैर्जनैस्त्याज्यो वध्यश्च' । ततो यथा यथा पुरोहितस्तत्पुस्तकमवाचयत तथा तथाऽपलक्षणः स मधुपिङ्गलोऽलज्जत । लज्जामसहिष्णुश्च स ततो निर्ययौ । सुलसा च सगरमवृणोत् । तयोश्च सद्यो विवाहे जाते सर्वे स्वं स्वं स्थानं ययुः । ___अथ मधुपिङ्गोऽपमानाद् बालतपो विधाय मृतो महाकालनामा षष्टिसहस्रशोऽसुरोऽभवत् । अवधेश्च सगरस्य सुलसायाः स्वयंवरे निजापमानकारणं छलं ज्ञात्वा 'सगरमन्यांश्च नृपान् हन्मी'ति सङ्कल्प्य छिद्रान्वेषी स शुक्तिमतीनद्यां पर्वतकमैक्षत । ततो विप्रवेषो गत्वा स तमुवाच-'महामते ! अहं शाण्डिल्यो नाम त्वत्पितुर्मित्रमस्मि, अहं क्षीरकदम्बश्च पुरा गौतमोपाध्यात् सहैवाऽपठाव । जनश्रुत्या नारदेन त्वां तिरस्कृतं श्रुत्वाऽऽगतोऽस्मि। मन्त्रैः सर्वं विमोहयन् त्वत्पक्षं समर्थयिष्यामि' । एवमुक्त्वा स पर्वतकेन सह कुधर्मेणाऽखिलं जनं दुर्गतौ पातनाय मोहयामास । स सर्वत्र लोके व्याध्यादिदोषानजनयत् । पर्वतमतानुयायिनं च निर्दोष चकार । तस्य शाण्डिल्यस्याऽऽज्ञया स पर्वतश्चाऽपि लोकानां व्याधिशान्ति व्यधात् । एवमुपकृत्योपकृत्य स जनं स्वमतेऽस्थापयत् । तथा सोऽसुरः सगरस्याऽप्यन्तःपुरे सपरिच्छदे Page #56 -------------------------------------------------------------------------- ________________ ९० सप्तमं पर्व - द्वितीयः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दारुणान् बहून् रोगान् विचक्रे । सगरोऽपि च लोकविश्वासात् पर्वतमाश्रयत् । सोऽपि चाऽसुरेण सह सर्वेषां व्याधिशान्ति व्यधात् । ___अथ सोऽसुरः-'सोत्रामण्यां यज्ञे विधिपूर्वकं मदिरापानं न दुष्यति, गोसवाख्ये यज्ञेऽगम्यागमनं कार्यम् । मातृमेधे मातुः, पितृमेधे च पितुर्वधो विधातव्यः, तत्र दोषो न विद्यते । अग्नि स्थापयित्वा कूर्मस्य पृष्ठे जुह्वकहविषा स्वाहेत्युक्त्वा प्रयत्नतः तर्पयेत् । यदा कूर्म न प्राप्नुयात् तदा शुद्धविप्रस्य खल्वाटस्य पिङ्गवर्णस्य क्रियारहितस्य मुखं यावच्छुद्धजलेऽवतीर्णस्य कूर्माभे मस्तकेऽग्नि प्रदीप्य जुहुयात् । भूतं भविष्यच्च सर्वं पुरुष एवेदम्। स मोक्षस्येश्वरः । एवं च पुरुष एक एवेति न कोऽपि केनाऽपि हन्यते । तस्माद् यज्ञे यथाऽभीष्टं प्राणिवधः कुर्यात् । तथा यज्ञे मांसस्य भक्षणं कर्त्तव्यम् । एवमादि समुपदिश्य च सगरं स्वमते स्थापयित्वा कुरुक्षेत्रादिषु स यज्ञानकारयत् । तथा स राजसूयादीनपि यज्ञानकार्षीत् । असुरश्च स यज्ञहतान् विमानस्थानदर्शयत् । ततो जातिविश्वासो लोकः पर्वतस्य मते स्थितो निःशर्षं प्राणिवधात्मकान् यज्ञानकरोत् । ___अथ तत् सम्प्रेक्ष्याऽहं दिवाकर विद्याधरमवोचम्-'त्वया यज्ञे सर्वे पशवोऽपहर्त्तव्याः' । स च मद्वाचं स्वीकृत्य तथा चक्रे । परमाधार्मिकश्च सोऽसुरस्तज्ज्ञात्वा दिवाकरविद्याविफलीकरणार्थमृषभप्रतिमां तत्राऽस्थापयत् । तेन च स विद्याधरस्तत उपरतवान् । ततोऽहमपि निरुपायस्तूष्णीमन्यत्राऽगाम् । सोऽसुरश्च मायया सगरं यज्ञेषु भावयित्वा सुलसायुक्तं तं यज्ञानले हुत्वा कृतकृत्यः स्वं स्थानं जगाम । एवं पर्वताद द्विजैहिंसात्मका यज्ञा अक्रियन्त. ते च त्वयैव निषेध्याः' । अथ रावणस्तद्वाचं स्वीकृत्य नारदं प्रणम्य मरुत्तात् क्षमयित्वा तं विससर्ज । मरुत्तश्च नत्वा रावणमवोचत्-'कोऽयं कृपालुर्योऽमुष्मात् पापात् त्वया कृत्वाऽस्मानवारयत्' । ततो रावणो जगाद-'ब्रह्मरुचिर्द्विज आसीत् । तस्य च तापसस्य भार्या कूर्मी गर्भवती जाता । तत्रैकदा समागतेषु साधुष्वेकोऽब्रवीत्-'भवभीत्या यद्गृहवासस्त्यक्तस्तत् साधु साधु । पुनश्च स्वदारसहितस्य विषयाधीनस्य तव वने वासो गृहवासात् कथं विशिष्यते ?' तच्छ्रुत्वा ब्रह्मरुचिर्जिनशासनं प्रपद्य तदैव प्राव्रजत् । सा च कूर्मी श्राविका जाता । आश्रमे वसन्ती च सा रोदनादिरहितं नारदं सुतं सुषुवे । एकदा तस्यामन्यत्र गतायां जृम्भकामरास्तं जगृहुः । ततः सा पुत्रशोकादिन्दुमालापार्वे प्राव्रजत् । ते देवाश्च तं पालयामासुः । शास्त्राण्यध्यापयन् । क्रमेण च तस्मा आकाशगामिनी विद्यां ददुः । स नारदश्चाऽखण्डव्रतधरो, मनोहरं यौवनं प्राप्तः, शिखाधारणात् संयतगृहस्थोभयलक्षणहीनः, कलहप्रेक्षणोत्सुको, गीत-नृत्यकुतूहली, कामचेष्टादिषु वत्सलो, वीराणां कामुकानां च सन्धिविग्रहयोनिपुणच्छत्राक्षमालासनपाणिः, पादुकारूढो, देवपालितत्वाद् देवर्षिरिति प्रथितः, प्रायेण ब्रह्मचारी, स्वेच्छाचारी नारद एषः' । एवमुक्तवन्तं रावणं स मरुत्तो यज्ञसम्भवमज्ञानात् कृतं निजमपराध क्षमयामास । तथा कनकप्रभा नाम निजां कन्यां रावणाय ददौ । ____ अथ रावणस्तामुद्वाह्य मथुरां नगरी जगाम । तत्र हरिवादनो नृपो मधुना पुत्रेण सह तमुपतस्थे । ततश्च प्रीतो रावणस्तमपृच्छत्'भवत्पुत्रस्येदं शूलमायुधं कुतः' । तत: पित्रा भूसंज्ञयाऽऽदिष्टो मधुरुवाच-'इदं मे प्राग्जन्मसुहृदा चमरेन्द्रेणाऽर्पितम्' । चमरेन्द्रश्च समर्पयद् मामवोचत्-'धातकीखण्डे ऐरावतक्षेत्रे शतद्वाराख्ये Page #57 -------------------------------------------------------------------------- ________________ सप्तमं पर्व - द्वितीयः सर्गः भवं भ्रान्त्वा विश्वावसोज्योतिष्मत्यां श्रीकुमारनामा पुत्रोऽभवत् । सनिदानं च तप: कृत्वा विपद्य तव पूर्वजन्मसुहृदहं चमरेन्द्रोऽभवम्' । इत्याख्याय स मह्यं शूलं ददौ । यदेतदायोजनद्विसहस्याः कार्यं कृत्वा निवर्त्तते । रावणश्च तच्छ्रुत्वा तस्मै मधुकुमाराय मनोरमां नाम कन्यां ददौ । ९२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः महापुरे राजपुत्रः सुमित्रः कुलपुत्रकः प्रभवश्च वसन्तकामदेवाविव मित्रे अभूताम् । तौ च बाल्ये एकस्य गुरोः पार्वे कला जगृहतुः। अश्विनाविव सह चिक्रीडतुश्च । यौवनं प्रपन्नः सुमित्रश्च तन्नगरे नृपोऽभवत् । तेन च स्वमित्रं प्रभवो महर्द्धिको विदधे । एकदा च स नृपस्तुरङ्गेण हृतो महाटवीं प्राप्तः पल्लीपतिसुतां वनमालां परिणीय तामादाय स्वपुरं समायातवान् । रूपयौवनशालिनीं तां प्रेक्ष्य च प्रभवः कामार्त्तः कृष्णपक्षे चन्द्र इव दिने दिने कृशो जज्ञे । नृपेण साग्रहं तत्कारणं पृष्टश्च वनमालानुरागो मे दौर्बल्यकारणमित्यवोचत् । ततो राजोचे-'त्वदर्थे राज्यमपि सन्त्यजामि, किं पुनर्वनमालाम् ? इयमद्यैव गृह्यताम्' । इत्युक्त्वा तं विसृज्य तस्याऽनुपदमेव तां वनमालां रात्रौ तद्गृहे प्रेषीत् । सा तत्र गत्वा चोचे-'राज्ञा तुभ्यं दत्ताऽस्मि, मम भर्त्ता त्वदर्थे प्राणानपि विमुञ्चति'। ततः प्रभव उवाच-'धिङ् मां निर्लज्जं, स खलु महासत्त्वः । यस्य मयीदृशं प्रेम । परस्मै प्राणा अपि दीयन्ते न पुन: प्रिया । तेनाऽद्य मत्कृते दुष्करं कृतं, त्वं मम माताऽसि, गच्छ, नाऽतः परं पापराशि मां पत्याज्ञयाऽपि भाषस्व' । राजा च गुप्तं तत्राऽऽगत्य तद्वचोऽशृणोत्। तथा सुहृदो भावमालोक्य जहर्ष च । प्रभवश्च वनमालां नमस्कृत्य विसृज्य च खड्गमाकृष्य स्वशिरश्छेत्तुमारेभे । ततः सुमित्रः प्रकटीभूय साहसं मा कृथा इति वदन् तस्य करात् कृपाणमपाहार्षीत् । लज्जानम्रमुखः प्रभवश्च कथञ्चन स्वस्थतामानीतः । ततस्तौ प्राग्वद् मैत्रीपरायणौ चिरं राज्यं चक्रतुः । सुमित्रश्च मृत्वेशानसुरोऽभवत् । ततश्च स च्युत्वा मथुरेशस्य हरिवाहणस्य मधुर्नाम माधवीकुक्षिजः पुत्रोऽभूत् । प्रभवोऽपि च अथ लङ्काप्रयाणदिवसादष्टादशसु वर्षेषु स रावणो मेरौ पाण्डके चैत्यान्यचितुमगात् । तत्र च समहोत्सवं चैत्यान्यभ्यवन्दत। तदाज्ञया च कुम्भकर्णाद्या दुर्लङ्घनगरे इन्द्रदिक्पालं नलकुबरं ग्रहीतुं ययुः । स नलकुबरश्चाऽऽशालीविद्यया स्वपुरे योजनशतप्रमाणं वह्निमयं प्राकारं व्यधात् । तथा तत्राऽग्निमयान्येव यन्त्राणि चक्रे । तं च प्राकारमाश्रित्य वह्निकुमारवत् कोपाद् दीप्तो भटैः परिवृतो नलकुबरस्तस्थौ । कुम्भकर्णाद्याश्च तत्रैत्य ग्रीष्ममध्याह्नसूर्यमिव तं द्रष्टुमपि नाऽशकन् । ततो दुर्लङ्घयमेतद् दुर्लङ्घपुरमिति निवृत्य भग्नोत्साहा रावणाय व्यजिज्ञपन् । ततस्तत्र स्वयमागत्य रावणस्तं प्राकारं प्रेक्ष्य सबान्धवस्तद्ग्रहणोपायं चिरं चिन्तयामास । अथ नलकुबरपत्नी तं दृष्ट्वाऽनुरक्तोपरम्भा दूतीं प्रेषीत् । सा चैत्य रावणमब्रवीत्-'मूर्ती जयश्रीरिवोपरम्भा त्वय्यनुरक्ताऽस्ति, सा त्वद्गुणैर्हतचित्ता त्वामेव चिन्तयति । सा वप्रस्य रक्षिकामाशालीविद्यामात्मानमिव त्वदधीनां करिष्यति । तथा तया कृत्वा नलकुबरसहितमिदं पुरं ग्रहीष्यसि । सुदर्शनं नाम दैवं चक्रमपि तेऽत्र सेत्स्यति' । ततः सहासं रावणेनाऽवलोकितो विभीषण एवमस्त्वित्युक्त्वा तां विससर्ज । Page #58 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तेन च क्रुद्धो रावणो विभीषणमुवाच-'त्वया कुलविरुद्धमिदं कि स्वीकृतम् ? अस्मत्कुलभवैः परस्त्रीणां द्विषां पृष्ठमिव कदाऽपि हृदयं नाऽर्पितम् । त्वयाऽयं नवीन: कुलकलङ्कः कृतः । केयं तव मतिर्जाता येनेत्थमब्रवीः' । ततो विभीषण उवाच'आर्य ! प्रसीद, विशुद्धचित्तानां वाङ्मात्रं दोषाय न भवति, सा समायातु, तुभ्यं विद्यां प्रयच्छतु, शत्रुश्योऽस्तु तां न भजेथाः, वाचोयुक्त्या तां परित्यजे:' । तदानीमेव चोपरम्भा रावणं तत्सङ्गमोत्कण्ठिता समागात् । तथा तस्मै आशालिकां विद्याममोघानि व्यन्तराधिष्ठितानि शस्त्राणि च ददौ । रावणश्च तया विद्ययाऽग्निप्राकारं तं संहृत्य सबलवाहनो दुर्लङ्घपुरं प्रविश्य रणायोत्थितं नलकुबरं विभीषणेन कृत्वा वशगं विदधे । तथा सुदर्शनं नाम चक्रं तत्र प्राप्य पुनर्नलकुबराय तत्पुरं दत्त्वोपरम्भामुवाच-'भद्रे ! निजं पति मयि विनयिनं भज । त्वं विद्यादानाद् मम गुरुरिवाऽसि । अहं चाऽन्या अपि परस्त्रियः स्वस्य मातृवत् पश्यामि । त्वं च पुनः कामध्वजस्य सुन्दरीसम्भवा पुत्र्यसि, कुलद्वयकालुष्यकरस्तव कलङ्को माऽस्तु' । एवमुक्त्वा तां नलकबराय समर्पयामास । नलकुबरेण च पूजितः स रावणः सेनाभी रथनूपुरं नगरं प्रति प्रतस्थे । ____ अथ तमायान्तं श्रुत्वा सहस्रारः सुतमिन्द्रं सस्नेहमवोचत्'त्वया महौजसाऽन्यवंशोत्कर्षमपहत्याऽस्माकं वंशः परोत्कर्ष प्रापितः । त्वया चैकेनैव विक्रमेणैवमनुष्ठितम् । सम्प्रति च नीत्या त्वया वर्त्तितव्यम् । विक्रमो हि क्वाऽपि विपदे क्वाऽपि च नाशायाऽपि जायते । वसुन्धरा हि बहुरत्ना । तस्मादहमेवौजस्वीत्यहङ्कारं मा कृथाः । सम्प्रति जगति स्वगुणैः ख्यातो रावणः सपरिवारः सप्तमं पर्व - द्वितीयः सर्गः ससैन्यश्च समुपस्थितोऽस्ति । स च नम्रतयाऽनुकूलनीयः । तस्मै इमां रूपवतीं सुतां प्रयच्छ । तत्सम्बन्धाच्च तेनोत्तमः सन्धिर्भविष्यति' । ___ एवं पितृवचः श्रुत्वा कुप्यन्निव सोऽवोचत्-निजा कन्या कथमस्मै दीयते ? अनेन नाऽऽधुनिकं वैरं किन्तु कुलक्रमागतम् । तत्पक्ष्यहि तातो विजयसिंहो हतः, तत् स्मर । एतत्पितामहस्य मालिनो यद् मया कृतं तदस्याऽपि करिष्यामि, एष समायातु । स्नेहात् कातरो मा भूः, धैर्यमाश्रय, किं स्वसूनोर्मम पराक्रमं न वेत्सि'। तस्यैवं कथयत एव रावणः समेत्य सेनाभी रथनूपुरं परिवेष्टयामास । तथा रावणेन प्रेषितो दूत: समेत्योवाच-'पराक्रमशीलै: सर्वैरेव नृपै रावणः पूजितः । साम्प्रतं तव भक्तिकालः । तद्भक्ति स्वशक्ति वा दर्शय, अन्यथैवमेव विनक्ष्यसि । तत इन्द्र उवाच-'दुर्बलै राजभिः पूजितो मत्तो रावणो मत्सकाशादपि पूजां वाञ्छति ? याहि, स्वस्वामिनो भक्ति शक्ति वा मयि दर्शय, अन्यथैवमेव विनक्ष्यसि' । दूतेन तज्ज्ञात्वा क्रुद्धो रावणः सन्नह्य समाययौ । इन्द्रोऽपि च सन्नह्य पुराद् निर्ययौ । द्वयोः सैन्ययोश्च दारुणे युद्धे प्रवृत्ते रावण इन्द्रेणैरावणस्थेन योद्धं प्रावृतत् । द्वयोश्च तुमुले युद्धे प्रवृत्ते छलविद् रावणो निजगजादुत्प्लुत्यैरावणं प्राप्य तन्महामात्रं हत्वेन्द्रं बबन्ध । शक्रे च गृहीते तत्सैन्यं सर्वतो विदुद्राव । रावणश्चेन्द्रं सैरावणं स्वशिबिरे निनाय। स्वयं च द्वयोः श्रेण्यो यको जातः । अथ रावणस्ततो निवृत्त्य लङ्कामगात् । इन्द्रं च शुकं पञ्जर इव कारायामक्षिपत् । तत: सदिक्पालः सहस्रारो लङ्कायामेत्य नमस्कृत्य बद्धाञ्जलिर्दशमुखमभाषिष्ट-'य: कैलासमप्युद्दधार, ततो Page #59 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विजितस्तं याचमानश्च न लज्जे । तच्छकं मुञ्च, मे पुत्रभिक्षा प्रयच्छ' । ततो रावण उवाच -'शक्रं मुञ्चामि, यद्यसौ लङ्कां परितः क्षणे क्षणे वासगृहमिव तृणादिरहितां करोति । स प्रातः प्रात: पुरीमिमां दिव्यगन्धैर्जलैरभितोऽभिषिञ्चतु । मालाकार इव च सदा स्वयमवचित्य पुष्पाणि ग्रथित्वा च देवपूजादिषु समानयतु । एवंविधानि कर्माणि कुर्वन्नेष तव सुतः पुना राज्यं गृह्णातु, मत्प्रासादाद् नन्दतु च' । तत एवं करिष्यतीति सहस्रारेण स्वीकृते निजबन्धुवत् सत्कृत्य काराया इन्द्रं मुमोच । इन्द्रश्च रथनूपुरमेत्योद्विग्न इव तस्थौ । अथाऽन्यदा तत्र निर्वाणसङ्गमो नाम ज्ञानी मुनि: समवासरत् । इन्द्रश्च तत्र गत्वा वन्दित्वा-'केन कर्मणा मम रावणकृतस्तिरस्कार' इति पृष्टवान् । ततो मुनिरब्रवीत्-'पुराऽरिञ्जयपुरे ज्वलनसिंहो नाम विद्याधरेन्द्रोऽभवत् । तस्य वेगवत्यां पत्न्यां जाताया अहल्यायाः स्वयंवरे सर्वे विद्याधरेन्द्राः समेयुः । तत्र च चन्द्रावतपुरेश्वर आनन्दमाली सूर्यावर्तपुरेश्वरस्तडित्प्रभश्च त्वं समागाः । अहल्या च त्वां त्यक्त्वाऽऽनन्दमालिनं ववे । तेन पराभवेन च त्वमानन्दमालिनीालुर्जातः । आनन्दमाली च कालक्रमेण निर्वेदाद् व्रतं गृहीत्वा तीव्र तपस्तप्यमानो मुनिभिः समं विजहार । एकदा च स रथावर्त्त गिरिं गतस्त्वया ददृशे । अहल्यायाः स्वयंवरश्च त्वया स्मृतः । ततस्त्वया स ध्यानस्थो बद्धोऽनेकशस्ताडितश्च । तथाऽपि स ध्यानाद् न चचाल । किन्तु कल्याणगुणधरस्तभ्राता मुनिस्तत् प्रेक्ष्य त्वयि वृक्षे वज्रमिव तेजोलेश्याममुचत् । ततस्त्वत्पन्या सत्यश्रिया भक्तिवचनैः प्रसादितः स सप्तमं पर्व - द्वितीयः सर्गः मुनिस्तेजोलेश्यां संजहार । तेन च त्वं तदैव न दग्धः । मुनितिरस्कारपापाच्च बहून् भवान् भ्रान्त्वा शुभं कर्म विधाय सहस्रारसुतस्त्वमिन्द्रोऽभुवः। तन्मुनितिरस्कारप्रहारजन्यकर्मण: फलं च तव रावणात् पराजयः । कीटादिन्द्रं यावच्चिरादपि सर्वस्य कर्माण्यवश्यमेव फलन्ति' । तच्छ्रुत्वा सुतं दत्तवीर्यं राज्येऽभिषिच्य प्रव्रज्य तीव्र तपस्तप्त्वेन्द्रः शिवं ययौ । अथैकदा रावणो मेरुशिखरेऽनन्तवीर्यं नामर्षि जातकेवलं वन्दितुं गतः । तं वन्दित्वा यथास्थानमुपविश्य धर्मदेशनां श्रुत्वाऽन्ते 'कुतो मम मरणमि'ति महर्षि पृष्टवान् । ततः स मुनीश्वरो जगाद'प्रतिविष्णोस्तव पारदारिकदोषेण वासुदेवाद् मरणं भविता' । तत: सोऽनिच्छन्तीं परस्त्रियं न रमयिष्यामीत्यभिग्रहं तस्यैव मुनेः पुरो जगृहे । ततस्तं मुनि नत्वा पुष्पकविमानस्थ: स्वां पुरीं रावणः समेयाय ॥ २ ॥ इति रावणदिग्विजयवर्णनात्मको द्वितीयः सर्गः ॥२॥ Page #60 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः अथ वैताढ्यपर्वते आदित्यपुरनगरे प्रह्लादनामनृपस्य केतुमत्यां भार्यायां पवन इव बलवान् गगनगामी च पञ्ज नाम पुत्रो बभूव । इतश्चाऽत्रैव भरते उपसमुद्रं दन्तिपर्वते महेन्द्रनगरे महेन्द्रो नाम नृपो बभूव । तस्य च हृदयसुन्दर्यां भार्यायामरिन्दमादयः शतं पुत्रा अञ्जनसुन्दरी पुत्री च बभूवुः । प्राप्तयौवनायास्तस्या वरार्थं चिन्तितं नृपं मन्त्रिणो विद्याधरयूनां रूपाणि पृथक् पृथक् पटेष्वालिख्याऽऽनाय्य च दर्शयामासुः । तेषु विद्याधरेन्द्रस्य हिरण्याभस्य सुमनः कुक्षिजन्मानं पुत्रं विद्युत्प्रभं प्रह्लादपुत्रं पवनञ्जयं च दृष्ट्वा 'रूपवतोरनयोः कुलीनयोः क उत्तमो वर' इति राज्ञा पृष्टोऽमात्य उवाच- 'एष विद्युत्प्रभोऽष्टादशवर्षायुर्मोक्षं गमी ति नैमित्तिकाः कथयन्ति स्म, तथा पवनञ्जयश्च दीर्घायुः । तस्मादेष एव वरो योग्य:' । अत्रैवाऽवसरे सर्वे विद्याधरेन्द्रा यात्रायै नन्दीश्वरं द्वीपं ययुः । तत्र च प्रह्लादोऽञ्जनसुन्दरीं प्रेक्ष्य 'मत्सुताय पवनञ्जयायैषा प्रदीयतामि'ति महेन्द्रमुवाच । महेन्द्रोऽपि पुरैव चिन्तितं तत् स्वीकृतवान् । ततश्चेतस्तृतीये दिवसे मानसाख्ये सरोवरे विवाहोत्सवः सम्पाद्य इति निश्चित्य तौ स्वस्वस्थानं जग्मतुः । सप्तमं पर्व तृतीयः सर्गः ततस्तौ महेन्द्र - प्रह्लादौ सपरिच्छदौ सानन्दौ मानसं प्राप्याऽऽवासं चक्रतुः । तत्र च पवनञ्जयो मित्रं प्रहसितं पप्रच्छ'किं त्वयाऽञ्जनासुन्दरी दृष्टा ? सा कीदृशी ? तद् ब्रूहि' । सोऽपि चेषद् विहस्योवाच- 'सा मया दृष्टा सा रम्भादिभ्योऽप्यतिशेते । तस्या निरूपमं रूपं वक्तुं न शक्यते । ततः पवनञ्जयस्तमुवाच'विवाहकालो दूरे, तर्हि कथं मयाऽद्य स द्रष्टव्या ? तां द्रष्टुमहं न कालक्षेपं सोढुं समर्थोऽस्मि । ततः प्रहसित उवाच - 'शान्तो भव । तत्र रात्रावेत्याऽनुपलक्षितस्तां द्रक्ष्यसि । ततः प्रहसितेन सह पवनञ्जय उत्पत्याऽञ्जनासुन्दर्या अधिष्ठिते सप्तभूमिके प्रासादे चर इव गुप्तोऽञ्जनसुन्दरीं द्रष्टुमारेभे । तदानीमेव च वसन्ततिलका नाम सखी तामुवाच- 'त्वं धन्याऽसि, यत् पवनञ्जयं पतिं प्राप'। ततो मिश्रका नाम सख्युवाच'हले ! चरमशरीरं विद्युत्प्रभं विहाय कोऽन्यो वरः श्लाघ्यः ?' ततः स्वल्पायुर्वरो न श्लाघ्य' इति तया प्रत्युक्ता सा पुनरुवाच'त्वं मन्दबुद्धिरसि, स्वल्पमप्यमृतमेव श्रेयः । न तु विषस्य भारोऽपि ' । तयोरेवमालापं श्रुत्वा पवनञ्जयो दध्यौ - 'नूनमस्या इदं प्रियं कथमन्यथा न निषेधति ?' ततश्च क्रुद्धः सोऽसिमाकृष्य प्रकटीभूय ‘ययोर्द्वयोर्विद्युत्प्रभः प्रियस्तयोः शिरश्छिद्मीति मनसिकृत्य चलितं तं बाहौ गृहीत्वा प्रहसितोऽवदत्- 'साऽपराधाऽपि स्त्री गौरिवाऽवध्या । इयं चाऽनपराधा । यतो ह्रिया नैते निषेधति । एवं तेन निषिद्धः स निजावासमुपेत्य दुःखितस्तस्थौ । प्रातश्च प्रहसितमुवाच-‘मित्र ! अनयोढयाऽलम् । यतो भृत्योऽपि विरक्तो न श्रेयसे, प्रियाया: किं वक्तव्यम् ? तदेहि, स्वपुरीं गच्छावः' । एवमुक्त्वा यावत् स प्रतस्थे तावत् प्रहसितस्तं धृत्वाऽबोधयत् Page #61 -------------------------------------------------------------------------- ________________ १०० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः - 'अङ्गीकृतस्याऽतिक्रमो महतां न युज्यते । किं चाऽञ्जनासुन्दरी निरपराधा, ततो विरम' । ततः पवनञ्जयो विमृश्य कथमपि तत्रैवाऽस्थात् । ततस्तयोनिश्चिते शुभे लग्ने विवाहमहोत्सवोऽभवत् । प्रह्लादश्च प्रमुदितो महेन्द्रेण सत्कृतस्तद्वधू-वरमादाय स्वां पुरीं प्रति प्रस्थितः । पुरीं प्राप्य च प्रह्लादोऽञ्जनासुन्दर्याः सप्तभूमिकं प्रासादं वासायाऽऽर्पयत् । इतश्च पवनञ्जयस्तां वाचाऽपि न सत्कृतवान् । तेन च सा चन्द्रं विना रात्रिरिव पवनञ्जयं विना बाष्पान्धकारावलिप्तमुखी दुःखिता तस्थौ । एवं कियत्यपि काले गते राक्षसेन्द्रस्य दूतः समुपेत्य प्रह्लादमब्रवीत्-'वरुणो रावणेन सह वैरायते । तेन च क्रुद्धो रावणः सेनया तत्पुरमरौत्सीत् । वरुणश्च पुराद् निर्गत्य राजीव-पुण्डरीकाद्यैः पुत्रैः समन्वितोऽयुध्यत । तस्मिश्च रणे वीरैर्वरुणपुत्रैः खर-दूषणौ बद्ध्वाऽनीयेताम् । ततश्च राक्षससैन्ये भग्ने वरुणो निजां नगरीमविशत् । तेन रावणो विद्याधरेन्द्रान् प्रत्येकमाकारयितुं दूतान् प्रेषितवान् । भवते चाऽहं प्रेषितोऽस्मि' । ___ तच्छ्रुत्वा तत्साहाय्यार्थं प्रह्लादो यावच्चचाल तावत् पवनञ्जयः समुपेत्य तमुवाच-'तात ! त्वमिहैव तिष्ठ, अहमपि रावणमनोरथं पूरयिष्यामि' एवमुक्त्वा साग्रहं पितरं निषिध्य स प्रतस्थे । अञ्जनासुन्दरी च पत्युर्यात्रां श्रुत्वोत्सुका प्रासादादवरुह्य तमीक्षितुं स्तम्भमवष्टभ्य तस्थौ । पवनञ्जयश्च व्रजन् तां साश्रुनेत्रां दृष्ट्वा दध्यौ-'इयं मन्दमतिर्निीका निर्भीका च । यद् वाऽस्या विरक्तत्वं मया पुराऽपि ज्ञातमेव' । अञ्जनासुन्दरी च तस्य पादयोः पतित्वा रचिताञ्जलिरूचे-'त्वया सर्वोऽपि सम्भाषितः, किन्त्वहं मनागपि न । तथाऽपि प्रार्थ्यसे मया-यत् त्वया नाऽहं विस्मर्त्तव्या, ते सप्तमं पर्व - तृतीयः सर्गः पन्थानः शिवाः सन्तु' । एवं कथयन्तीं तामनिन्दितामवगणय्यैव स जयाय ययौ । पत्युरवज्ञया वियोगेन च दुःखिता सा गृहान्तर्गत्वा भूतले निपपात । पवनञ्जयश्चोत्पत्य गच्छन् रात्रौ मानसे सरसि तस्थौ । तत्र च विकृते प्रासादे पर्यङ्कमास्थितः सरस्तीरे पतिवियोगातचक्रवाकीं क्रन्दन्ती प्रेक्ष्य दध्यौ-'या विवाहात् प्रभृत्येव न कदाऽपि भाषिता, आगमनकालेऽपि या मयाऽवज्ञाता, अदृष्टमत्सङ्गसुखा सेदानीमञ्जना कथं भविष्यति ? धिङ्मामविवेकिनम्' । एवं स्वचिन्तितं च सर्व स प्रहसितायाऽऽख्यत् । ततः प्रहसित उवाच-'चिरादप्यद्य साधु त्वया ज्ञातम् । नूनं सा त्वद्वियोगाद विपद्येत । तामद्याऽप्याश्वासयितुमर्हसि, गच्छ, अद्याऽपि तां समाश्वास्य पुनरागच्छ' । एवं तेन प्रबोधितः स उत्पत्याऽञ्जनागृहं प्रापत् । तत्र च स द्वार एव तिरोहितस्तस्थौ । प्रहसितश्चाऽग्रे भूत्वा तद्गृहे प्राविशत् । अञ्जना च विरहार्ताऽपि तं दृष्ट्वा 'कस्माद् व्यन्तर इव कः समाययों । वसन्ततिलके ! बहिः कुर्वेतं पुरुषं, पवनञ्जयं विहाय न कस्याऽपि मद्गृहे प्रवेशाधिकारोऽस्ति । नाऽहमेनं द्रष्टुमपि क्षमे'त्यब्रवीत् । तत्छ्रुत्वा नत्वा प्रहसित उवाच-'स्वामिनि ! दिष्ट्या वर्धसे । पवनः सोत्कण्ठित: समायातोऽस्ति । तस्य मित्रं प्रहसितोऽहमायातोऽस्मि' । ततोऽञ्जना जगाद-'विधिना कर्थितां मां मा कदर्थय । मत्पुराकृतानामेष दोषः । कथमन्यथा तादृशः कुलीनो भर्ता मां त्यजेत् ? विवाहात् प्रभृति भ; त्यक्ताया मम द्वाविंशतिर्वर्षाणि व्यतीयुः । अद्याऽपि पापिन्यहं जीवामि' । ततो दुःखितः पवनञ्जयोऽन्तः प्रविश्य सगद्गदस्वरमुवाच-'विवाहात् प्रभृति निर्दोषाऽपि दोषमारोप्य मयाऽवज्ञाताऽसि, त्वं मद्राग्यादेवाऽद्याऽपि जीवसि' । Page #62 -------------------------------------------------------------------------- ________________ पुरुष-गद्यात्मकसारोद्धारः इत्युक्तवन्तं तमुपलक्ष्य त्रपावती नम्रमुखी सोत्तस्थौ । पवनञ्जयश्च तां बाहुना गृहीत्वा पर्यङ्के न्यषदत् । ततः प्रहसितो वसन्ततिलका च गृहाद् निर्जग्मतुः । १०२ ततश्च स्वैरं रममाणयोस्तयोरेकयामेव रात्रिः समाप्ता । प्रभातकल्पां रात्रिं ज्ञात्वा च पवनञ्जयस्तामूचे- 'कान्ते ! जयाय यास्यामि । अतः परं खेदं मा कार्षीः । सखीभिः समं सुखं तिष्ठ, यावद् रावणकार्यं सम्पाद्याऽऽगच्छामि' । साऽप्युवाच- 'तत्कार्यं सम्पाद्य शीघ्रमागच्छेः, यदि मां जीवन्तीं द्रष्टुमिच्छसि । किं चाऽद्यैवाऽहमृतुस्नाताऽस्मि । यदि मे गर्भो भवेत् तदा त्वत्परोक्षे लोका मामपवदेयुः' । पवनञ्जय उवाच - 'सुन्दरि ! शीघ्रमागमिष्यामि । तदा च त्वयि न दोषावसरः स्यात् । तथा मदागमनसूचकमिदं मन्नामाङ्कितमङ्गुलीयं गृहाण । अवसरे सति तत् प्रकाशयेः' । एवमुक्त्वाऽङ्गुलीयं दत्वोत्पत्त्य स मानससरस्तीरस्थं निजं शिबिरं जगाम । ततोऽपि च सैन्येन सह सुर इवाऽऽकाशमार्गेण लङ्कानगरी गत्वा रावणं प्रणाम । रावणोऽपि च सेनासहितः पातालं प्रविश्य वरुणमभिययौ । alsalts als इतश्चाऽञ्जना तद्दिन एव गर्भं बभार । तस्याः शरीरे च गर्भलक्षणानि क्रमशः प्रकटितानि । तद् दृष्ट्वा श्वश्रूः केतुमती साधिक्षेपमवदत् - 'त्वया किमिदं कुलद्वयकलङ्ककरमाचरितम् ? यद् विदेशस्थे पत्यौ गर्भवत्यभूः'। श्वश्र्वा निर्भत्सता साऽञ्जना साश्रुमुखी पत्युरागमनचिन्हं तदङ्गुलीयकमदर्शयत् । तथाऽपि सोवाच'किमङ्गुलीयकेन मां प्रतारयसि ? यस्तेन नामाऽपि नाऽग्रहीत्, तेन तव सङ्गमः कथम् ? अद्यैव मद्गृहाद् निर्गच्छ पितुर्गृहं गच्छ' । सप्तमं पर्व तृतीयः सर्गः १०३ एवमञ्जनां निर्भर्त्स्य तां पितृगृहं नेतुमारक्षानादिक्षत् । तेऽपि च तां यानमारोप्य महेन्द्रनगरोपान्तेऽमुञ्चन् । तां नमस्कृत्य क्षमयित्वा च स्वस्थानं ययुः । तदानीमेव च रविरस्तमगात् । सा चाऽञ्जना भीता जाग्रत्येव तां निशामनयत् । प्रातश्चोत्थाय सा शनैः पितृगृहद्वारं ययौ । तां दृष्ट्वा ससम्भ्रमो द्वारपालः दृष्ट्वा सख्या निवेदितां तादृशीमवस्थां राज्ञे व्यजिज्ञपत् । राजा च लज्जानम्रमुखोऽचिन्तयत्'स्त्रीणां चरितमचिन्त्यम् । इयं कुलटा कुलकलङ्काय गृहमागता' । तमेवं चिन्ताचान्तस्वान्तं नयज्ञः प्रसन्नकीर्तिनामा पुत्रोऽवोचत् - 'एषा द्रुतं निर्वास्यताम् । अनया हि कुलं दूषितम् । ततो महोत्साहो नाम मन्त्री राजानमवोचत् - 'पुत्रीणां श्वश्रदुःखे पितैव शरणम् । किं च केतुमती क्रूरा निर्दोषामप्येनां दोषमुत्पाद्य निर्वासयेत् । तद्यावद् दोषाऽदोषयोर्निर्णयो न भवेत् तावदेषा स्वपुत्रीति कृपया गुप्तं पाल्यताम्' । ततो नृपः पुनरुवाच- 'श्वश्रूस्तथा भवति, किन्तु वधूरीदृशी न भवति । किं च पुरा श्रृणोमि यदेषा पवनस्य द्वेष्या । तत् कथमस्यास्ततो गर्भः सम्भाव्यते ? तदेषा सर्वथा दोषवती तया साधु निर्वासिता । इतोऽपि शीघ्रं निर्वास्यतां, तन्मुखं न पश्यामः' । इत्थं नृपाज्ञया द्वारपालोऽञ्जनां निरवासयत् । सा च क्षुधा तृष्णया चाऽऽर्त्ता श्रान्ताऽश्रूणि वर्षन्ती पदोर्दर्भेण विद्धा शोणितैर्महीतलं रञ्जयन्ती पदे पदे प्रस्खलन्ती रुदन्ती सख्या सहाऽचालीत् । यत्र यत्र चाऽगच्छत् तत्र तत्र पूर्वमेवाऽऽयातै राजपुरुषैः प्रतिषिद्धा कुत्रापि स्थिति न लेभे । इत्थं पर्यटन्ती सा कामप्येकां महाटवीं प्राप्य तरुमूले उपविश्य चिरं विललाप । सख्या च सम्बोध्याऽग्रतो नीता सा गुहान्तर्ध्यानस्थममितगतिं मुनिं ददर्श । ततस्ते द्वे अपि चारणश्रमणं तं प्रणम्य पुरो भूमौ समुपविष्टवत्यौ । मुनिरपि ध्यानमपारयत् । Page #63 -------------------------------------------------------------------------- ________________ १०४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथा दक्षिणकरमुन्नम्य धर्मलाभाशिषं ददौ । ततस्तत्सखी वसन्ततिलका पुनर्भक्त्या तं मुनिं प्रणम्य मूलतः सर्वमप्यञ्जनादुःखमाचख्यौ । तथाऽस्या गर्भ कोऽभवत् ? केन कर्मणैषेदृशीं दशामाप्तेति पप्रच्छ । ____ ततो मुनिरुवाच-'अस्यैव जम्बूद्वीपस्य भरते क्षेत्रे मन्दरनाम्नि नगरे प्रियनन्दी वणिगभूत् । तस्य जया नाम्न्यां जायायां कलानिधिर्दमयन्तो नाम पुत्रो बभूव । स एकदोद्याने क्रीडन् साधून् दृष्ट्वा तेभ्यो धर्मं श्रुत्वा सम्यक्त्वं प्रतिपद्य तप:संयमनिष्ठो विपद्य द्वितीये कल्पे देवोऽभूत् । ततश्च्युत्वा जम्बूद्वीपे मृगाङ्कनगरे प्रियङ्गलक्ष्म्यां पन्यां हरिचन्द्रनृपस्य सिंहचन्द्रनामा पुत्रो भूत्वा जैन धर्म प्रपद्य कालयोगतो विपद्य देवत्वं प्राप्तवान् । ततश्च्युत्वा च वैताढ्ये वारणे नगरे सुकण्ठनृपस्य कनकोदाँ पत्न्यां सिंहवाहनो नाम पुत्रो बभूव । तत्र च सुचिरं राज्यं भुक्त्वा श्रीविमलप्रभोस्तीर्थे लक्ष्मीधरमुनेव्रतमादाय दुस्तपं तपस्तप्त्वा लान्तके सुरोऽभवत् । ततश्च्युत्वा च त्वत्सख्या उदरे समवातरत् । अस्याश्च पुत्रो गुणवान् पराक्रमी विद्याधरेश्वरश्चरमदेहो भविष्यति । कनकपुरे नगरे कनकरथनृपस्य कनकोदरी लक्ष्मीवती च द्वे पत्न्यावभूताम् । तयोर्लक्ष्मीवती श्राविकाऽऽसीत् । सा च गृहचैत्ये रत्नमयं जिनबिम्बं विधाय प्रत्यहमपूजयत् । कनकोदर्या च मात्सर्यात् साऽर्हत्प्रतिमा हृत्वाऽवकरस्याऽन्तश्चिक्षेप । तदा च जयश्री नाम्नी गणिनी विहरन्ती समागता तद् दृष्ट्वा 'किमिदमकार्षीः? अत्र भगवत्प्रतिमां प्रक्षिपन्त्या त्वयाऽनेकभवदुःखमुपार्जितम्' । तयैवमुक्ता सा सदु:खा प्रतिमां गृहीत्वा प्रमृज्य क्षमयित्वा च यथास्थानं न्यवेशयत् । तत्प्रभृति च सम्यक्त्ववती जैन धर्म प्रपाल्य काले सप्तमं पर्व - तृतीयः सर्गः विपद्य सौधर्मे देवी जाता । ततश्च्युत्वा च महेन्द्रनृपसुता तवेयं सखी जाता । तदर्हत्प्रतिमाया दुःस्थानक्षेपजमस्या ईदृशं फलम् । तस्मिन् भवे चाऽस्यास्त्वं जामिस्तत्कर्माऽनुमन्त्री चाऽऽसीरित्यनया सह दुःखमनुभवसि । किन्त्वस्यास्तद् दुष्कर्मफलं भुक्तप्रायमस्ति । भवे भवे शुभो जिनो धर्मो गृह्यताम् । अकस्मादागतोऽस्या मातुल एनां स्ववेश्मनि नेष्यति । अचिरादेव च पत्याऽपि सङ्गमो भविष्यति' । एवमुक्त्वा स मुनिस्ते द्वे आर्हते धर्मे स्थापयित्वा नभसोत्पपात । अथ ते द्वे अपि किञ्चित्क्रूरं बूत्कारदारुणं सिंहं समायान्तं दृष्टवत्यौ भयार्ते कम्पमानगात्रे यावदतिष्ठतां, तावद् मणिचूलनामा तद्गुहाधिपो गन्धर्वोऽष्टापदरूपं विकृत्य तं सिंहमवधीत् । पुनः स्वं रूपं प्रतिपद्य तयोर्मोदाय सभार्योऽर्हद्गुणस्तवनं चकार । तथा ते द्वे तद्गन्धर्वसमीपे तद्गुहायामवस्थिते मुनिसुव्रतं पूजयामासतुः । अथाऽन्येधुरञ्जना वज्रा-ऽङ्कश-चक्राङ्कितपादं सुतं सुषुवे। वसन्ततिलका च तस्याः सूतिकर्म सहर्षं चकार । अञ्जना च तं सुतमङ्कमारोप्य साश्रुमुखी नितरां रुरोद । तां च रुदती प्रेक्ष्य विद्याधर उपेत्य मधुरगिरा दुःखकारणमपृच्छत् । ततस्तत्सखी विवाहादारभ्य सुतजन्मान्तं सर्वं वृत्तान्तं कथितवती । स विद्याधरोऽपि रुदनवादीत्-'अहं हनुपुराधिपश्चित्रभानुसुतः सुन्दरीमालाकुक्षिजातस्त्वज्जनन्या भ्राता मानसवेगोऽस्मि । दिष्ट्या त्वां जीवन्ती दृष्टवानस्मि, समाश्वसिहि' । ततस्तं मातुलं ज्ञात्वा साऽञ्जना बाढं रुरोद । स प्रतिसूर्यो विद्याधरस्तां रुदतीं वारयित्वा सार्धमागतं दैवज्ञं तद्बालस्य जन्मादिकमपृच्छत् । दैवज्ञो जगाद-'अयं बालः शुभे लग्ने जातोऽस्ति । तेनाऽयं महाराजो भविष्यति, तथाऽस्मिन्नेव भवे सिद्धिमेष्यति' । Page #64 -------------------------------------------------------------------------- ________________ १०७ १०६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ प्रतिसूर्यो भगिनीपुत्री ससखीं ससुतां च तामञ्जनां विमानमारोप्य स्वपुरं प्रति प्रस्थितवान् । स बालकश्च विमाने लम्बमाना रत्नकिङ्किणीर्ग्रहीतुमिच्छुर्मातुरुत्सङ्गादुत्पपात । गिरिशिखरे च वज्रमिव पतितः सः । तेन च स गिरिस्तत्पातघातवशात् कणशो जातः । अञ्जना च विह्वला हृदयं ताडयन्ती करुणं रुरोद । प्रतिसूर्यश्च सद्य एव नीचैरागत्य तं बालमक्षताङ्गमेवोपादायाऽपितवान् । तथा तां मुदा स्वगृहे निवासयामास । तदन्तःपुरं च तां चारु सच्चकार । 'अयं बालो जातमात्रो हनुपुरे समाययावित्यतो मातुलस्तस्य हनुमानित्यभिधेयमकरोत् । तथा स पतितः शैलं चूर्णीकृतवानित्यत: श्रीशैल इति द्वितीयाख्यामप्यकरोत् । हनुमांश्च यथा सुखं क्रीडन् वृद्धिमाप । अञ्जना च श्वश्वाऽऽरोपितो दोषः कथमपगच्छेदिति चिन्तयन्ती हृद्यताम्यत् । इतश्च पवनवेगः सन्धि विधाय वरुणात् खर-दूषणौ मोचयित्वा रावणं तोषयामास । रावणश्च सपरिवारो लङ्कां जगाम । पवनोऽपि तमापृच्छ्य स्वपुरमाययौ । तत्र च पितरौ प्रणम्याऽञ्जनावासगृहं गतस्तत्राञ्जनामपश्यन् तत्रस्थामेकां स्त्रियं क्वाऽञ्जनेत्यपृच्छत् । साऽपि च पवनवेगयात्रात आरभ्याऽञ्जनाया अरण्यमोचनपर्यन्तं सर्वं वृत्तान्तं यथातथमाख्यत् । तच्छ्रुत्वा च पवनवेगः श्वशुरपुरं शीघ्रं गत्वा प्रियामनवलोकमानः कुतश्चित्स्त्रियास्ततोऽप्यञ्जनानिर्वासनं श्रुत्वा शैलवनादिषु तामन्वेषयन् बभ्राम । किन्तु प्रियायाः प्रवृत्तिमप्राप्य विषण्णो मित्रं प्रहसितं जगाद-'मित्र ! गत्वा पित्रोः कथय-'मयाऽद्य यावत् क्वाऽप्यञ्जना न दृष्टा । पुनस्तामन्वेषयामि । तां द्रक्ष्यामि वा पावकं प्रवेक्ष्यामि । सप्तमं पर्व - तृतीयः सर्गः तत: प्रहसितो द्रुतमादित्यपुरं गत्वा प्रह्लाद-केतुमत्योस्तवृत्तान्तं कथयामास । तच्छ्रुत्वा च मूर्च्छिता केतुमती कथञ्चिल्लब्धसंज्ञोवाच-प्रहसित ! मरणे कृतनिश्चयः पवन: कि वने एकाकी मुक्तः ? मया वाऽविमृश्यकारिण्या निर्दोषा सा कि निरवास्यत?' एवं रुदतीं तां निवार्य प्रहलादः ससैन्यः पुत्रमन्वेष्टं चचाल । तथाऽञ्जना-पवनयोरन्वेषणाय सर्वत्र दूतं प्रेषयामास । पुत्रं पुत्रवधू चाऽनवलोकयन् स सत्वरं भ्राम्यन् भूतवनं नाम वनमगात् । अत्राऽवसरं च पवनश्चितां विरचय्य तत्राऽग्नि ज्वालयामास । प्रहलादश्च तं ददर्श । पवनश्च चितासमीपे स्थित्वा वनदेवताः समुद्दिश्य स्वं वृत्तान्तं निवेद्य त्वद्वियोगात् तव पतिश्चितां प्रविष्ट इति वाचिकं दत्त्वा च चितायां झम्पां दातुमुत्पपात । प्रह्लादश्चाऽपि तच्छ्रुत्वा ससम्भ्रमं तं स्वबाहुभ्यामधारयत् । तथाऽञ्जनान्वेषणाय सहस्रशो विद्याधराः प्रेषिताः सन्ति मया, तानागमयस्वेत्युवाच च । ___ अत्रैव चाऽन्तरे तेन प्रेषिताः केचिद् विद्याधरा हनुपुरं ययुः। तत्र प्रतिसूर्या-ऽञ्जनयोः पवनस्याऽग्निप्रवेशप्रतिज्ञामाचख्युः । अञ्जना च तच्छ्रुत्वा हा हताऽस्मीति जल्पन्ती मूर्च्छिता भुवि पपात । शीतोपचारैर्लब्धसंज्ञां मुहुर्मुहू रुदतीं तां बोधयित्वा प्रतिसूर्यः सपुत्री विमानमारोप्य पवनमन्वेष्टुं ययौ । भ्राम्यंश्च तत्रैव भूतवने प्रहसितेन दूरादपि ददृशे । तथा प्रह्लाद-पवनयो: साञ्जनं समायातं तं जयपूर्वकमाख्यत्। ततः प्रतिसूर्योऽञ्जनाऽपि च विमानादवतीर्य प्रह्लादं नेमतुः । __ प्रह्लादश्च प्रतिसूर्यमालिङ्ग्य पौत्रमङ्के स्थापयित्वा जातहर्षो जगाद-'त्वमेव बन्धुर्यद् व्यसनाब्धौ मज्जन्तं सकुटुम्बं मामद्य समुद्धर' । पवनोऽपि च शान्तशोको नितरां मुमुदे । विद्याधरेन्द्राश्च तत्र विद्यामाहात्म्याद् महोत्सवं चक्रुः । तथा सर्वे ते विमानैर्हनुपुरं Page #65 -------------------------------------------------------------------------- ________________ १०८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ययुः । तत्र मानसवेगया सार्द्ध महेन्द्रः केतुमत्यन्ये बान्धवाश्च समाययुः । ततः पुनरेव तत्र सर्वे महोत्सवं चक्रुः । स्वं स्वं परं चाऽन्योन्यमापृच्छ्य ययुः । अञ्जनया हनुमता च सह पवनस्तत्रैव तस्थौ । हनुमांश्च वर्धमानः सर्वाः कला जगृहे । विद्याश्चाऽसाधयत् । क्रमशो यौवनं प्रपेदे। इतश्चाऽसहनो रावणः सन्धिदोषमुद्भाव्य वरुणं जेतुं प्रतस्थे। दूतैराहूताश्च सर्वे विद्याधरास्तस्य सैन्यं वर्धयामासुः । पवन-प्रतिसूर्यो च प्रस्थितौ दृष्ट्वा हनुमानूचे-'भवन्ताविहैव तिष्ठतम्, अहं शत्रून् जेष्यामि । नाऽहं बाल इत्यनुकम्प्यः । एवमाभाष्य स कृतप्रस्थानमङ्गल: सामन्तादिपरिवृतो रावणस्कन्धावारं ययौ । रावणश्च तं समागतं प्रणमन्तं मुदा स्वाङ्के चक्रे । तथा युद्धाय वरुणपुर्याः समीपे प्रतस्थौ। वरुणश्चाऽपि ससैन्य: पुराद् निर्ययौ । वरुणश्च युद्धे रावणं खेदयामास । ततः क्रुद्धो हनुमान् विद्यासामर्थ्याद वरुणात्मजान युद्ध्वा बबन्ध । तद् दृष्ट्वा च क्रुद्धो वरुणो हनुमन्तमधाविष्ट । रावणोऽपि तमापतन्तं दृष्ट्वा बाणवृष्टिं कुर्वन् मध्य एवाऽवरुरोध । छलेन च वरुणमाकुलं कृत्वा बबन्ध । ततश्च सर्वतो जयजयारावपूर्वकं रावणो निजस्कन्धावार प्राप । वरुणं च वशगं विधाय सपुत्रं मुमोच । वरुणश्च हनुमते सत्यवती नाम स्वपुत्रीं ददौ । रावणश्च हृष्टश्चन्द्रणखापुत्रीमनङ्गकुसुमां हनुमते दत्त्वा लङ्कां ययौ । तथा सुग्रीवः पद्मरागां नलो हरिमालिनीमन्ये चाऽपि स्वाः सुता हनुमते प्रददुः । हनुमांश्च रावणेन सादरं विसृष्टो हनुपुरं जगाम । अन्ये चाऽपि वानरेन्द्रा विद्याधरेन्द्राश्च स्वं स्वं पुरं ययुः ॥ ३ ॥ इति हनुमदुत्पत्ति-वरुणसाधनो वर्णनात्मकः तृतीयः सर्गः ॥३॥ चतुर्थः सर्गः अथ मिथिलानगर्यां हरिवंशे वासवकेतुनृपो बभूव । तस्य विपुलाकुक्षिजो भुवि ख्यातो जनको नाम पुत्र आसीत् । अयोध्यापुर्यां चेक्ष्वाकुसन्ताने सूर्यवंशीयो विंशतितमाहतस्तीर्थे विजयाख्यस्य नृपस्य हिमचूलाकुक्षिजौ वज्रबाहु-पुरन्दरौ द्वौ पुत्रावभूताम् । नागपुरे नगरे चेभवाहननृपस्य चूडामणिकुक्षिजा मनोरमा पुत्र्यासीत् । वज्रबाहुश्च तां परिणीयोदयसुन्दराख्येन श्यालेनाऽनुस्रियमाणो मनोरमामादाय स्वपुराय प्रस्थितवान् । स गच्छंश्च मार्गे वसन्ताद्रौ ज्ञानिनं तपस्यन्तं महामुनि गुणसागरं दृष्ट्वा जातहर्षो वाहनं धृत्वाऽऽह-'पुण्येन दृष्टोऽयं महामुनिर्मया ऽवश्यवन्द्यः' । तच्छ्रुत्वोदयसुन्दरेण परिव्रज्यामिच्छसीति पृष्टस्तथेति समर्थितवान् । 'यदि तथा, तदा विलम्बो न कार्यः, अहमपि ते सहायः' इत्युदयसुन्दरेण पुनरुक्तः प्रतिज्ञाय प्रतिज्ञाप्य च वाहनादुत्तीर्य वसन्ताद्रिमुदयसुन्दरादिभिः परिवृत आरुरोह । तत्र उदयसुन्दरो वज्रबाहुमुवाच-'स्वामिन् ! मा प्रव्राजी:, मम परिहासवाचं धिक् । नर्मोक्तिव्यतिक्रमे न कोऽपि दोषः' । ततो वज्रबाहुरुवाच-'चारित्रं मर्त्यजन्मफलं, तत्ते नर्मोक्तिरपि परमार्थफला जाता । प्रतिज्ञामनुपालयस्व, क्षत्रियाणामेष कुलधर्मः' । एवमुदयसुन्दरं प्रतिबोध्य वज्रबाहुर्गुणसागरमुनिमुपेत्य तत्पादान्ते Page #66 -------------------------------------------------------------------------- ________________ १११ ११० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः उदयसुन्दरेण मनोरमया पञ्चविंशतिकुमारैश्च सह परिव्रज्यामुपाददे। वज्रबाहुं प्रव्रजितं श्रुत्वा च विजयो नृपोऽपि वैराग्यमापन्नः पुरन्दरं राज्ये न्यस्य निर्वाणमोहमुनेः पार्श्वे व्रतं जग्राह । पुरन्दरोऽपि पृथ्वीकुक्षिजं कीर्तिधरं पुत्रं राज्येऽभिषिच्य क्षेमङ्करमुनिपार्श्वे प्रावाजीत् । ___ कीर्तिधरश्चाऽपि सहदेव्या समं विषयान् भुञ्जानो व्रतं जिघृक्षुर्मन्त्रिभिनिवेदित:-'अपुत्रस्य तव व्रतादानं नाऽर्हति, तद्यावत् पुत्रो नोत्पद्यते तावत् प्रतीक्षस्व' । ततो गृहवासिनस्तस्य यथाकालं सहदेवीकुक्षिजः सुकोशलो नाम पुत्रो बभूव । 'जातं बालं श्रुत्वा मे पतिः प्रव्रजिष्यती'ति सहदेवी तं पुत्रमगोपयत् । किन्तु नृपः सुगुप्तमपि तं बालं जानाति स्म । ततो राजा सुकोशलं राज्ये न्यस्य विजयसेनसूरिपादान्ते व्रतं गृहीतवान् । तीव्र तपस्तप्यमानश्चाऽन्यदा स गुर्वनुज्ञयाऽन्यतो विजहार । अथैकदा मासोपवासी भिक्षार्थं साकेतं प्राप्तो मध्याह्ने तत्र भ्रमति स्म । प्रासादोपरिस्था सहदेवी च तं दृष्ट्वाऽचिन्तयत्'पितरं दृष्ट्वा सुकोशलोऽपि यदि प्रव्रजेत्, तदा निर्वीरा स्यामिति पुत्रराज्यस्थिरतार्थं निर्दोषोऽपि पतिर्नगराद् निर्वास्यः' । ततो राज्ञी तमन्यव्रतिभिः सह नगराद् निरवासयत् । किन्तु सुकोशलस्य धात्री व्रतिनं स्वामिनं निर्वासितं ज्ञात्वा भृशं रोदिति स्म । सुकोशलेन कि रोदिषीति पृष्टा च यथातथं वृत्तान्तं निवेदयामास । । तच्छ्रुत्वा च स पितुरन्तिकं गत्वा विरक्तो बद्धाञ्जलितग्रहणेच्छां निवेदयामास। सगर्भा च तत्पत्नी चित्रमाला मन्त्रिभिः सहेत्याऽस्वामिकं राज्यं त्यक्तुं नाऽर्हसीति निवारयामास। ततो नृपो सप्तमं पर्व - चतुर्थः सर्गः जगाद-'गर्भस्थस्तव सूनुरेव मया राज्येऽभिषिक्तः' । तदनन्तरं च व्रतं गृहीत्वा दुस्तपं तपस्तेपे । निर्ममौ च तौ पिता-पुत्रौ सहैव विहारं चक्रतुः । सहदेवी च तनयवियोगखिन्नाऽऽर्तध्यानपरा मृत्वा गिरिगुहायां व्याघ्री बभूव। ___अथ तौ कीर्तिधर-सुकोशलमुनी वर्षर्तुचतुर्मासी गमयितुमेकस्यां गिरिगुहायां तस्थतुः । कार्तिके मासि समायाते पारणार्थमटन्तौ तौ तया व्याघ्रया मार्गे दृष्टौ । सा च तौ दृष्ट्वा विस्फारितमुखा दधाव । तौ च मुनी धर्मध्यानापन्नौ तथैव कायोत्सर्गेणाऽविकम्पिती तस्थतुः । सा चाऽऽदौ प्रहारेण सुकोशलं भूमौ निपात्य नखैस्तच्चर्म विदार्याऽसृजमपिबत् । किन्तु कर्मक्षयसहायेयमित्यखिन्नो मुनि: शुक्लध्यानस्थस्तत्कालोत्पन्नकेवलो मोक्षमाप । कीर्तिधरोऽपि केवलं प्राप्य मोक्षं ययौ । इतश्च सुकोशलनृपप्रिया चित्रमाला हिरण्यगर्भ पुत्र सुषुवे। हिरण्यगर्भस्य च मृगावतीकुक्षिजो नघुषो नाम पुत्रो बभूव । हिरण्यगर्भश्च तृतीये वयसि नघुषं राज्ये निवेश्य विमलमुनिपादान्ते व्रतमग्रहीत् । नघुषश्च सिंहिकया विषयान् भुञ्जान उत्तरापथनृपान् जेतुमभिययौ । सिंहिकां च स्वे राज्य एव मुक्तवान् । तदा दक्षिणापथराज इह नघुषो नाऽस्तीति च्छलेनाऽयोध्यां रुरुधिरे । ततश्च क्रुद्धा सिंहिका तान् सिंही द्विपानिव बलेन पराभूयाऽनाशयत्। नघुषश्चोत्तरापथं जित्वा समागत: पत्न्या जयवृत्तान्तं श्रुत्वा दध्यौ'दुष्करमिदं कर्म स्त्रीणामयोग्यं तदवश्यमियं कुलटे'ति मनसि निश्चित्य तां सिंहिकां प्रियामपि तत्याज । एकदा चाऽन्यथाऽशान्तं नघुषस्य दाहज्वरं ज्ञात्वा सा स्वसतीत्वज्ञापनाय पत्युस्तापच्छेदाय च जलमादाय नघुष Page #67 -------------------------------------------------------------------------- ________________ ११२ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः समीपमागता । 'नाथ त्वां विना परः पुमान् यदि मया नाऽवलोकितस्तदा तव ज्वरोऽपयात्विति सत्यश्रावणं कृत्वा जलेन पतिमभिषिषेच । नृपश्च तदैव रोगमुक्तस्तां पूर्ववदेव बहु मेने । सुराश्च पुष्पवृष्टिं चक्रुः । कियत्यपि काले गते च नघुषस्य सिंहिकाकुक्षिजः सोदासो नाम पुत्रो बभूव । नघुषश्च सोदासं राज्ये न्यस्य परिव्रज्यामुपाददे । सोदासनृपे शासति चाऽष्टाह्निकोत्सवे मन्त्रिणोऽमारिं घोषयामासुः । तथा सोदासं त्वत्पूर्वैर्मांसं नाऽखादीति त्वमपि तन्मा खादीरित्युपादिशन् । सोदासस्तु मांसप्रियः 'त्वयाऽवश्यं गुप्तं मांसं देयमिति पाचकानादिशत् । अमारिघोषणायाश्च सूदः क्वाऽपि मांसं न प्राप । ततो राजाज्ञाभङ्गभिया मांसाप्राप्तेश्च मृतबालमांसमेव पक्त्वा सोदासाय ददौ । स च स्वादु तन्मांसं वर्णयित्वा कस्येदमिति सूदानपृच्छत् । नरमांसमिति तेनोक्तश्चाऽद्येवैतद् मह्यं देयमिति तान् समादिशत् । ततस्ते प्रत्यहं पुरे बालानहार्षुः । मन्त्रिणस्तथोग्रकर्माणं नृपं ज्ञात्वा धृत्वा वने तत्यजुः । तत्पुत्रं सिंहरथं राज्येऽभिषिषिचुश्च । सोदासस्तु मांसं खादन् पृथिव्यां बभ्राम । एकदा च दक्षिणापथे कमपि मुनिं दृष्ट्वा धर्ममपृच्छत् । मुनिश्च तस्मा आर्हतमहिंसाप्रधानं धर्मं समुपदिदेश । सोदासस्तं धर्मं श्रुत्वा चकितः प्रमुदितः परमश्रावकोऽभवत् । इतश्च महापुरे नगरेऽपुत्रे राज्ञि मृते पञ्चभिर्दिव्यैः सोदासो नृपो बभूव । ततः स ममाऽऽज्ञां कुर्विति सिंहरथं प्रति दूतं प्रेषयत् । तेन तिरस्कृतश्च दूतः समागत्य सोदासाय यथातथं वृत्तमाख्यत् । सोदासश्च युद्धवा सिंहरथं विजित्य राज्यद्वयं तस्मै दत्त्वा स्वयं प्राव्राजीत् । सिंहरथस्य च ब्रह्मरथस्तस्य चतुर्मुखस्ततो हेमरथ सप्तमं पर्व चतुर्थः सर्गः ११३ स्तस्य शतरथः पुत्रो बभूव । ततः क्रमादुदयपृथुर्वारिरथ इन्दुरथ आदित्यरथो मान्धाता वीरसेनः प्रतिमन्युः प्रतिबन्धू रविमन्युर्वसन्ततिलकः कुबेरदत्तः कुन्थुः शरभो द्विरदः सिंहदशनो हिरण्यकशिपुः पुञ्जस्थलः ककुत्स्थो रघुश्चेत्येतेषु केषुचिद् मुक्तेषु केषुचित् स्वर्गेषु च साकेतपुरेऽनरण्यो नाम नृपो बभूव । तस्य पृथ्वीकुक्षिजौ द्वावनन्तरथ दशरथाख्यौ पुत्रावभूताम् । इतश्चाऽनरण्यस्य मित्रं सहस्त्रकिरणो नृपो युद्धे रावणेन पराजितो वैराग्यमापन्नो व्रतमाददे । तत्सौहार्दादनरण्योऽपि मासजाते लघुपुत्रे राज्यं न्यस्याऽनन्तरथेन सह व्रतं गृहीतवान् । अनरण्ये मोक्षमाप्तेऽनन्तरथस्तपस्तप्यमानो महीं विजहार । दशरथश्च बालोऽपि क्रमाद् वर्धमान आर्हद्धर्मपरायणो दभ्रस्थलपुरेशितुः सुकोशलस्याऽमृतप्रभाकुक्षिजां रूप लावण्यसम्पन्नामपराजितां नाम कन्यामुदुवाह। तथा कमलसङ्कुले पुरे सुबन्धुतिलकनृपस्य मित्रादेवीकुक्षिजां सुमित्रेत्यपराभिधां कैकेयीं नाम कन्यामन्यांच सुप्रभाख्यां राजपुत्रीं परिणिनाय । ताभिर्वैषयिकं सुखं भुञ्जानश्च स धर्माऽर्थानसाधयत् । इतश्च भरतार्धेश्वरो रावणः सभामास्थाय नैमित्तिकमपृच्छत्'मम स्वतः परतो वा मृत्युर्भावी ?' ततो नैमित्तिको ऽवोचत्'भाविन्या जानकीनामनार्या हेतोर्दशरथपुत्रात् ते मृत्युर्भविष्यती'ति । तच्छ्रुत्वा विभीषण उवाच- 'नैमित्तिकस्याऽस्य वचो वितथी - करिष्यामि, अनर्थमूलं जनकं दशरथं च तत्कन्यातनयजनकं सद्य एव हनिष्यामि, तदेवं च्छित्रे मूले नैमित्तिकवचोऽवश्यमेव मिथ्या Page #68 -------------------------------------------------------------------------- ________________ ११४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्यात्' । ततो रावणेन तथाऽस्त्वित्युक्तः स स्वगृहं जगाम । तत्सभास्थो नारदश्च तच्छ्रुत्वा दशरथस्याऽन्तिकं जगाम । तत्र च तेनाऽभ्युत्थानादिना सत्कृत: कुत आयासीति पृष्टश्च सर्वं यथातथं निवेदयामास । राजा दशरथो जनकश्च मन्त्रिणे सर्वं वृतं समाख्याय राज्यं समर्प्य च कालयापनेच्छया निर्ययौ । मन्त्रिणश्च शत्रुमोहायाऽन्धकारे दशरथस्य जनकस्य च मृन्मयी प्रतिमां नृपालये स्थापयामासुः । दशरथ-जनको चाऽलक्ष्यौ महीमटतः । विभीषणश्चैत्याऽन्धकार एव दशरथमूर्तेर्मस्तकं चकर्त्त । तदानीं च नगरे महान् कोलाहलो जज्ञे । अन्तःपुरे च महानाक्रन्दध्वनिरुत्तस्थौ । अङ्गरक्षकाश्च सन्नह्याऽधावन् । मन्त्रिणश्च मृतकार्याणि विदधुः । ततो विभीषणो दशरथं मृतं ज्ञात्वा मिथिलेश्वरं जनकमेकमकिञ्चित्करमहत्वैव लङ्कां ययौ । । भ्राम्यन्तौ मिथो मिलितौ जनक-दशरथौ मित्रे उत्तरापथं प्रापतुः । तत्र शुभमतिनृपस्य पुरे तदुहितुर्दोणमेघसोदरायाः कैकेय्याः स्वयंवरं श्रुत्वा तन्मण्डपमुपेयतुः । हरिवाहणमुख्यानां नृपाणां मध्ये च तौ मञ्चे निषेदतुः । कैकेयी चाऽलङ्कृता साक्षाल्लक्ष्मीरिव स्वयंवरमण्डपमुपागता प्रतीहार्या दत्तहस्ता भूयसो नृपानतीत्य गङ्गा सागरमिव दशरथं प्राप्य तत्रैव तस्थौ । सातिशयं प्रमोदमाप्ता च दशरथकण्ठे वरमालां चिक्षेप । हरिवाहणादयश्च नृपास्तिरस्कृतंमन्या बहु विरुद्धं जल्पन्तः स्वशिबिरमागत्य सैन्यानि संवर्मयामासुः । दशरथस्य पक्षे शुभमतिश्चाऽपि महोत्साहेन चतुरङ्गिणी संवर्मयामास । सप्तमं पर्व - चतुर्थः सर्गः दशरथश्च 'प्रिये ! त्वं सारथिकर्म कुरु, यथा शत्रून् मनामी'ति कैकेयीमुवाच । सकलकलाकौशलशालिनी कैकेयी चाऽपि रश्मि गृहीत्वा महारथमारुरोह । दशरथश्चाऽपि सन्नद्ध एकाक्येव रथमारुरोह । ततः कैकेयी शत्रुरथैः प्रत्येकं युगपदिव निजरथमयोजयत् । लघुहस्तो दशरथोऽपि हरिवाहणादीनां रथान् प्रत्येकं चूर्णयामास । इत्थं सर्वानपि भूपान् विद्राव्य स कैकेयीं परिणिनाय । 'त्वत्सारथ्येन प्रसन्नोऽस्मि, वरं वृण्वि'ति च कैकेयीमुवाच । तत: 'समये वरं याचिष्ये, तन्न्यासीभूतोऽस्तु मे वर' इति कैकेय्योक्तश्च नृपस्तदनुमेने । ततो बलाद् हृतैः परसैन्यैः सह दशरथो लक्ष्म्येव कैकेय्या समं राजगृहनगरी ययौ । जनकश्चाऽपि स्वां नगरौं जगाम । अथ दशरथस्तत्रैवाऽपराजितामुख्यमन्तःपुरमानाययामास । तत्र राजगृहे राशीभी रममाणश्चिरमस्थात् । काले गच्छति चाऽपराजिता बलभद्रजन्मसूचकान् गज-सिंह-चन्द्र-सूर्यान् निशाशेषे स्वप्नेऽपश्यत् । तदा महद्धिको देवो ब्रह्मलोकाच्च्युत्वा तत्कुक्षाववातरत् । पूर्णे समये च सम्पूर्णलक्षणं शुक्लवर्णं सुतं सुषुवे । नृपश्च समहोत्सवं तस्य पद्म इत्यभिधामकरोत् । स बालो राम इत्यपि प्रथितो बभूव । सुमित्राऽपि च विष्णुजन्मसूचकान् गज-सिंहचन्द्रा-ऽर्क-वह्नि-श्री-समुद्रान् निशाशेषे स्वप्नेऽपश्यत् । तदानीं च देवलोकाद् महद्धिको देवश्च्युत्वा तत्कुक्षाववातरत् । समये च घनश्यामं सर्वलक्षणलक्षितं जगन्मित्रं पुत्ररत्नं सुषुवे । नृपश्च समहोत्सवं तस्य 'नारायण' इति नामाऽकरोत् । स लक्ष्मण इत्यपरनाम्ना भुवि ख्यातो बभूव । नील-पीताम्बरौ धात्रीभिाल्यमानौ क्रमेण वर्धमानौ तौ क्रमेण सकला: कला जगृहतुः । Page #69 -------------------------------------------------------------------------- ________________ ११६ mona त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा च नृपस्तयोः कुमारयोविक्रमेण विश्वस्तः स्वामयोध्यापुरीं ययौ । तत्र च सूर्य इव प्रतापेन भासमानः स महीमन्वशात् । तत्र च कैकेयी शुभस्वप्नसूचितं भरतं नाम पुत्रमसूत । सुप्रभा च शत्रुघ्नं नाम कुलनन्दनं नन्दनमजीजनत् । स्नेहाच्च भरत-शत्रुघ्नौ बलदेव-वासुदेवाविवाऽवियुक्तावेवाऽनिशं तस्थतुः । ___ इतश्चाऽस्मिन्नेव जम्बूद्वीपे भरते क्षेत्रे दारुग्रामे वसुभूतिर्नाम द्विजो बभूव । तस्य चाऽनुकोशाकुक्षिजोऽतिभूति म पुत्रो बभूव। अतिभूतेश्च सरसाख्या पत्न्यासीत् । सा च जातरागेण कयाननाम्ना विप्रेण च्छलाज्जते । अतिभूतिश्च तामन्वेष्टुं भूतवद् भृशं महीं बभ्राम। अनुकोशा वसुभूतिश्चाऽपि सुतस्नुषार्थे महीं चेरतुः । तौ च सुतस्नुषे अपश्यन्तौ पर्यटन्तावेकं साधं दृष्ट्वा भक्तितो वन्दित्वा धर्म श्रुत्वा तन्मुनिपार्श्वे व्रतं जगृहतुः । अनुकोशा च गुरोराज्ञया कमलश्रियं नामाऽऽर्यिकां ययौ । काले तौ विपद्य सौधर्मे देवत्वमापतुः । वसुभूतिश्च ततश्च्युत्वा वैताढ्ये चन्द्रगतिनामा रथनूपुरपुरेशोऽभूत् । अनुकोशा चाऽपि ततश्च्युत्वा तस्य पुष्पवती नाम भार्या जाता । सरसा च कामप्यायिकां दृष्ट्वा प्रव्रज्य मृत्वैशाने देवी जाता । सरसाविरहार्तोऽतिभूतिश्च विपद्य संसार चिरं भ्रान्त्वा हंसपोतोऽभवत् । एकदा च श्येनेन भक्ष्यमाण: स साधुसमीपं पपात । कण्ठगतप्राणस्य तस्य स साधुनमस्कारमन्त्रं ददौ । अनन्तरं च मृतो नमस्कारप्रभावेण स दशवर्षसहस्रायुः किन्नरेषु देवोऽभवत्। ततश्च्युत्वा च विदग्धे पुरे प्रकाशसिंहभूपतेः प्रवरावल्लयां पत्न्यां कुण्डलमण्डितः पुत्रो बभूव । कयानोऽपि भोगासक्तश्चिरं भवं भ्रान्त्वा चक्रपुरे चक्रध्वजनृपपुरोहितस्य धूमकेशस्य स्वाहाकुक्षिज: सप्तमं पर्व - चतुर्थः सर्गः पिङ्गलो नाम सुतो बभूव । स च चक्रध्वजस्य पुत्र्याऽतिसुन्दर्या सहैकगुरोः समीपे पपाठ । काले गच्छति च परस्परमनुरागे जाते पिङ्गलः छलात् तां हत्वा विदग्धनगरं ययौ । तत्र चाऽज्ञान: स तृण-काष्ठादि विक्रयात् कथञ्चित्कालं यापयामास । कुण्डलमण्डितश्च तत्राऽतिसुन्दरीं दृष्ट्वाऽन्योन्यमनुरागे जाते तामपहृत्य पितुर्भिया दुर्गदेशे पल्लीं कृत्वाऽवास्थित । पिङ्गलश्च तया विरहित उन्मत्त इव महीमटन् कदाचिदार्यगुप्तमुनि दृष्ट्वा धर्म श्रुत्वा तत्पाद्ये व्रतं गृहीतवान् । किन्तु सोऽतिसुन्दर्याः प्रेम न मुमोच । पल्लीस्थितः कुण्डलमण्डितश्च च्छलात् सर्वदा दशरथप्रजां लुण्टयामास । ततो दशरथाज्ञया बालचन्द्राख्यः सामन्त: सौप्तिकं प्रदाय बद्ध्वा तं दशरथस्याऽन्तिकमनैषीत् । ततो दशरथः काले गच्छति शान्तकोप: कुण्डलमण्डितममुचत् । ततः कुण्डलमण्डितः पितृराज्यार्थं महीमटन् मुनिचन्द्रमुनेर्धर्मं श्रुत्वा श्रावकोऽभवत । राज्यकाम एव च विपद्य स मिथिलानगरे जनकभार्याया विदेहाया: उदरे कुण्डलमण्डितजीवयुग्मरूपेण सुता जाता । पूर्णे काले च विदेहा युगपत् पुत्र-कन्यके असूत । पिङ्गलश्च विपद्य सौधर्मे देवो जातोऽवधिना प्राग्जन्म पश्यन् शत्रु कुण्डलमण्डितं जनकपुत्रं दृष्ट्वा पूर्ववैराज्जातक्रोधस्तं जातमात्रं हत्वा दध्यौ-'किमेनं शिलातले आस्फाल्य निहन्मि, अथवा पूर्वभवदुष्कर्मण: फलं भूयस्सु भवेष्वन्वभवं, तदेनं हत्वा पुनरनन्तभवः कथं स्यामि'ति विचार्य भूषणादिभिभूषयित्वा तं बालं पतत्पतङ्गप्रतिम वैताढ्यदक्षिणश्रेण्यां रथनपरपत्तने नन्दनोद्याने तूलिकायामिव शनैरमुचत् । चन्द्रगतिश्च तं दृष्ट्वा किमेतदिति जातसम्भ्रमस्तन्निपातानुसारेण नन्दनोपवनं गतस्तं दृष्ट्वाऽपुत्रत्वात् Page #70 -------------------------------------------------------------------------- ________________ १११ ११८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्रत्वेन स्वयमाददे । तथा पुष्पवत्त्याः समर्प्य 'देव्यद्य पुत्रं सुषुवे' इति पुर्यघोषयत् । समहोत्सवं च तस्य भामण्डलयोगाद् भामण्डल इति नाम चकार । ततः स बालो विद्याधरीभिर्लालितः क्रमाद् ववृधे । इतश्च विदेहा पुत्रेऽपहते करुणस्वरं रुरोद । जनकश्च प्रतिदिशं दूतान् प्रेष्य तमन्वेषयामास । किन्तु चिरादपि क्वाऽपि तत्प्रवृत्ति नाऽऽप । अनेकगुणसस्यानामत्र प्रादुर्भाव इति मिथिलेशो युग्मजाताया: पुत्र्या: सीतेति नाम चकार । काले गच्छति च तयोः शोकोऽस्तमियाय । सीता च क्रमाद् वर्धमाना चन्द्रलेखेव कलापूर्णा जाता । तां च वयस्थां दृष्ट्वा कोऽस्या अनुरूपो वरो भवितेति जनको दिवानिशं चिन्तयामास । चरैश्च राज्ञां कुमारान् ज्ञात्वाऽमात्यैर्विचारयन् न क्वाऽपि तुतोष । तदानीमेव चाऽर्धबर्बरैरातरङ्गतमादिनृपैर्बहुभिस्तस्य भूमिरुपदुद्रुवे । तान् वशीकर्तुमक्षमश्च जनको दशरथाह्वानाय दूतं प्राहिणोत् । नृपेण सत्कृत्य समागमकारणं पृष्टश्च दूत उवाच-'त्वं जनकस्य मित्रमस्ति, तेनाऽद्य विधुरे समुपस्थिते कुलदेवतेव तेन स्मृतोऽसि । वैताढ्यस्य दक्षिणतः कैलासस्योत्तरतश्च भूयांसोऽनार्या जनपदाः सन्ति । तेष्वर्धबर्बरे नाम देशे मयूरमालनगरे आतरङ्ग तमो नाम म्लेच्छराजोऽस्ति । तस्य तनयाश्च शुक-मङ्कनकाम्बोजप्रभृतीन् विषयान् भुञ्जते । अधुना चाऽऽतरङ्गो जनक भूमिमुपाद्रवत् । प्रतिस्थानं च चैत्यानि बभः । तस्माद् मित्रस्य धर्मस्य च परित्राणं कुरुष्व' । तच्छ्रुत्वा च दशरथो यात्राभेरीम सप्तमं पर्व - चतुर्थः सर्गः वादयत् । ततो राम उवाच-'म्लेच्छोच्छेदाय स्वयं चेत् तातो यास्यति तदा रामः सानुजः किं करिष्यति ? ततः प्रसीद, विरम, मां समादिश, अचिरादेव जयवान् श्रोष्यसि । इत्थं राजानमनुज्ञाप्य सेनापरिवृतः सानुजो रामो मिथिलापुरीं जगाम । तत्र च पुरीपरिसरे म्लेच्छभटान् दृष्टवान् । म्लेच्छाश्च सत्वरमेव राममुपद्रोतुं प्रावर्त्तन्त । तैर्युगपदेवाऽस्त्रै रामसैन्यमन्धीकृतम् । ततः क्रुद्धो रामो धनुरधिज्यं विधाय मृगान् व्याध इव तानस्त्रैविव्याध । आतरङ्गादयश्च म्लेच्छाः कुपित-विस्मिता युगपदस्त्राणि ततोऽभिरामं दधावुः । रामश्च शरभः कुञ्जरानिव तान् म्लेच्छानभाङ्क्षीत् । ततस्ते म्लेच्छा: काकनाशं नष्टा: कान्दिशीकाः पलायामासुः । जनकश्च स्वस्थो बभूव । ततः प्रसन्नो जनको रामाय स्वसुतां सीतां ददौ । तदानीं च नारदो जानकीरूपमाकर्ण्य कौतुकात् तां द्रष्टुं कन्यागृहं निवेश । तं च भीषणं दृष्ट्वा सीता भीता कम्पमानगात्रा हा मातरित्याक्रोशन्ती गर्भगृहान्तरविशत् । ततो नारदो दासीद्वारपालाद्यैः कण्ठे शिखादिषु च धृतः क्षुभितः कथञ्चन स्वं विमोच्योत्पत्त्य वैताढ्यं गतोऽचिन्तयत्-'दिष्ट्या वैताढ्यं प्राप्तोऽस्मि' इह दक्षिणश्रेण्यां चन्द्रगतिपुत्रस्तरुणः पराक्रमी भामण्डलोऽस्ति, तत्सीतां पटे लिखित्वाऽस्य तद्रूपं दर्शयामि । येनाऽयं हठात् तामपहरति । एवमेष कृते प्रतिकरोमि' । ततस्सद्यस्तथा कृत्वा भामण्डलस्य सीतारूपमदर्शयत् । भामण्डलश्चाऽदृष्टपूर्वं तद्रूपं दृष्ट्वा भूतेनेव कामेनाऽऽक्रान्तो जातुचिद् निद्रां न लेभे । विषण्णं तं दृष्ट्वा चन्द्रगतिना कारणं Page #71 -------------------------------------------------------------------------- ________________ १२० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृष्टश्च हिया सोऽधोमुखो जातः । ततो वयस्यैः कारणं ज्ञात्वा स नृपो नारदं भक्त्या स्वगृहमानीतवान् । ततः सर्वं सीतावृत्तान्तं ज्ञात्वा 'तवैवैषा पत्नी भविष्यति, मा खिद्यस्वे'ति पुत्रमाश्वास्य नारदं व्यसृजत् । ततो जनकमपहत्याऽऽनयेति चपलगतिं नाम विद्याधरमादिदेश। सोऽपि रात्रावनुपलक्षितो जनकं हृत्वा राज्ञः समर्पयामास । ततश्चन्द्रगतिबन्धुवत् स्नेहाद् जनकं समाश्लिष्य समाश्वास्य च सस्नेहमवदत्-'तव पुत्री सीता सर्वगुणसम्पन्नाऽस्ति, भामण्डलो मम पुत्रश्चाऽपि तथाऽस्ति, तद्वयोर्वधू-वरत्वेन संयोगोऽस्तु, आवयोश्चाऽपि मिथो मैत्री सम्पद्यताम्' । ततो जनक उवाच-'मया स्वसुता रामाय दत्ता कथमन्यस्य दीयताम् ? कन्या हि सकृत् प्रदीयते' । ततश्चन्द्रगतिः प्राह-'मम स्नेहवृद्ध्यर्थमेवाऽऽनीय याचितोऽसि, तामहं हर्तुमपि समर्थः । यद्यपि त्वया सीता रामाय दत्ता, तथाऽपि रामो न: पराजित्यैव तां परिणेष्यति मद्गृहे देवताज्ञया यक्षसहस्राधिष्ठिते दुःसहतेजसी वज्रावर्ता-ऽर्णवावर्ते द्वे धनुषी कुलदेवतावत् पूज्ये कृते बलभद्र-वासुदेवयोर्भविष्यतः, ते गृहाण । यदि दाशरथिराभ्यामेकमप्यधिज्यं करोति, तदा वयं जिताः, रामः सीतामुद्वहतु' । जनकमेवमुक्त्वा बलात् प्रतिज्ञाप्य सपुत्रस्ते धनुषी जनकं च मिथिलामानैषीत् । तत्र च चन्द्रगतिर्जनकं राजसद्मनि मुमोच, स्वयं च पुर्या बहिर्भुवि सपरिवारोऽवात्सीत् । अथ जनको निशि तद्वृत्तं सर्वं देवीं विदेहां शशंस । तच्छ्रुत्वा विदेहां शोकसन्तप्तां 'रामः ख्यातपराक्रम' इति समाश्वास्य प्रभाते मञ्चोपशोभिते मण्डपे ते चापे अर्चित्वा स्थापयामास जनकः। सप्तमं पर्व - चतुर्थः सर्गः स्वयंवरायाऽऽकारिता विद्याधरेन्द्राश्च मञ्चेषूपाविशन् । सीता च सखीभिस्तत्रैत्य धनुःपूजां विधाय रामं मनसि कृत्वा तत्राऽतिष्ठत् । भामण्डलकुमारस्तु तां यथा नारदोदितं दृष्ट्वा कामविह्वलो जातः । समये च जनकद्वारपालः सर्वान् विद्याधरेन्द्रान् सम्बोध्योवाच-'भवतो जनको निवेदयति, यः कश्चिदनयोश्चापयोरेकतरमपि गुणमारोपयति, सोऽद्यैव मे सुतामुद्वहतु' । ततो राजानः प्रत्येकं चापसमीपं तदारोपणेच्छया समाजग्मुः । किन्तु पन्नगै रक्षिते ते उग्रतेजसी चापे स्प्रष्टुमपि न शेकुः । ततो रामस्तेषु लज्जयाऽधोमुखं निवृत्तेषु तत्रोपेत्य वज्रावर्त तच्चाप पाणिनाऽऽदायाऽधिज्यं विधाय कर्णान्तमाकृष्य स्फालयामास । सीता च तत्क्षणं रामे स्वयंवरमालां चिक्षेप । रामश्च धनुषो गुणमुत्तारयामास । लक्ष्मणोऽपि रामाज्ञयाऽर्णवावर्त्त द्वितीयं कार्मुकं सज्यं विधायाऽऽस्फाल्य गुणमुत्तार्य यथास्थानं मुमोच । ततो विद्याधरा अतिविस्मिताः सरकन्या प्रतिमा निजा अष्टादशकन्या लक्ष्मणाय ददुः । भामण्डलसहिताश्चान्द्रगत्याद्या विद्याधरेन्द्राश्च म्लानमुखा निजनिजं नगरं ययुः । अथ दशरथो जनकसन्देशमाप्य समागतः । राम-सीतयोविवाहश्च समहोत्सव सम्पन्नः । तदा जनकभ्राता कनकः सुप्रभाकुक्षिजां निजां भद्रां नाम कन्यकां भरताय ददौ । ततो दशरथः सुतैर्वधूभिश्च समन्वितोऽयोध्यां ययौ । अथाऽन्यदा दशरथो महत्या समृद्ध्या चैत्यमहोत्सवं शान्तिस्नात्रं च चकार । तथा स्नानजलं कञ्चुकिना प्रथममहिष्यै पश्चाच्च दासीभिरपरपत्नीभ्यः प्रेषयामास । किन्तु तरुणत्वाद् दास्यः Page #72 -------------------------------------------------------------------------- ________________ १२२ पुरुषतम्-गद्यात्मकसारोद्धारः प्रथममेव गत्वा राज्ञीनामार्पयत्, ताश्च तत् स्नानजलं ववन्दिरे । सौविदल्लश्च वृद्धत्वाद् मन्दगतिरित्यप्राप्तस्नानसलिला महिषी दध्यौ'राज्ञा सर्वाभ्य एव राज्ञीभ्यः स्नानजलं प्रेषितं किन्तु महिष्यै अपि मह्यं नेति मानभङ्गे मम जीवनेनाऽलम्' । त्वया एवं विमृश्य वस्त्रेणाऽऽत्मानं मरणेच्छयोद्बन्धुमारेभे । तदैव तदगारे समुपस्थितो नृपस्तां तदवस्थां दृष्ट्वा तन्मृत्युभीतस्तां स्वोत्सङ्गे निवेश्योवाच- 'कुतोऽपराधादिदं दुःसाहसं ऽऽचरितम् ?' साऽपि गद्गदकण्ठोवाच- 'मह्यं कुतो न स्नानपयः प्रेषितम् ?' तावदेव तत्र कञ्चुकी समुपेत्य राज्ञाऽर्हत्स्नात्रजलं प्रेषितमिति वदन् तेन जलेन राज्ञीं मूर्ध्नि सिषेच । राज्ञा विलम्बेनाऽऽगमनकारणं पृष्टश्च वार्धक्यादित्युदतरत् । ततस्तं वार्धक्यजर्जरतनुं दृष्ट्वा राजाऽचिन्तयत्- 'यावद् वयमपि नेदृशा जातास्तावदात्मश्रेयसे प्रयतामहे । एवं विचिन्त्य विषयविरक्तो नृपः कियन्तं कालं व्यतीयाय । अथाऽन्येद्युस्तस्यामेव नगर्यां ज्ञानचतुष्टयविराजितः सत्यभूतिर्महामुनिः सङ्घसमन्वितः समवासरत् । तच्छ्रुत्वा च दशरथोऽपि सपरिवारस्तत्रोपेत्य वन्दित्वा देशनां शुश्रूषुर्निषसाद । तदानीमेव च सीताप्राप्तिसंतप्तश्चन्द्रगतिर्नृपो भामण्डलसमन्वितो रथावर्त्ताचलेऽर्हतो वन्दित्वा निवृत्तस्तत्रोपेतो नभसि स्थितस्तं मुनिं समवसृतं दृष्ट्वाऽवतीर्य वन्दित्वा धर्मं शुश्रूषुरुपविवेश । सत्यभूतिश्च देशनां प्रक्रम्य भामण्डलस्य सीताभिलाषजं तापं ज्ञात्वा चन्द्रगति-पुष्पवत्योर्भामण्डल - सीतयोश्च तेषां पापाद् निवृत्तये पूर्वभववृत्तान्तं शशंस । सप्तमं पर्व चतुर्थः सर्गः ततो भामण्डलकुमारो जातिस्मरणमाप्य मूच्छितो पपात । लब्धसंज्ञश्च स्वयमपि स्वपूर्वभवं यथायथं शशंस । तेन चन्द्रगत्यादयः परमं वैराग्यं प्रापुः । भामण्डलश्च रामं स्वसेति वदन् सीतां च प्रणनाम । चन्द्रगतिश्च दूतं प्रेष्य विदेहया समं जनकं समाहूय जातमात्र भामण्डलापहारवृत्तान्तं समाख्याय तवाऽसौ पुत्र इति जगाद । तच्छ्रुत्वा जनको विदेहा चाऽत्यन्तं हर्षमाप्तौ । भामण्डलश्च पितरौ नमश्चक्रे । ततश्चन्द्रगतिर्भामण्डलं राज्ये निधाय विरक्तः प्रवव्राज । भामण्डलोऽपि सत्यभूतिं चन्द्रगति पितरावनरण्यजं सीता रामौ च प्रणम्य निजं नगरमगात् । *als at १२३ अथ दशरथः सत्यभूतिं प्रणम्याऽऽत्मनः पूर्वभवानपृच्छत् । ततो महामुनिरुवाच- 'त्वं सेनापुरे भावनस्य वणिजो दीपिकाकुक्षिजोपास्तिर्नाम कन्यकाऽभूः । सा च साधुद्वेषिणी चिरं भवं भ्रान्त्वा चन्द्रपुरे धनस्य सुन्दरीकुक्षिजो वरुणोऽभूः । तत्रोदारप्रकृतिस्त्वं साधुभ्यः श्रद्धया दानं ददत् कालधर्ममासदः । ततो धातकीखण्डे युग्म्युत्तरकुरुषु भूत्वा मृत्वा देवत्वमाप्य ततश्च्युत्वा पुष्कलावत्यां विजये पुष्कलायां पुरि नन्दिघोषनृपस्य पृथ्वीकुक्षिजो नन्दिवर्धनः सुतोऽभूः । नन्दिघोषश्च पुत्रं त्वां राज्ये न्यस्य यशोधरमुनेर्गृहीतदीक्षो ग्रैवेयकं प्राप्तवान् । त्वं नन्दिवर्धनश्च श्रावकत्वं पालयित्वा विपद्य ब्रह्मलोकमाप । ततश्च्युत्वा प्राग्विदेहे वैताढ्ये उत्तर श्रेण्यां शशिपुरे नगरे रत्नमालिनो विद्याधरस्य विद्युल्लताकुक्षिजः सूर्यंजय इत्यभिधः सुतोऽभूः । Page #73 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः एकदा च स रत्नमाली विद्याधरेन्द्रं वज्रनयनं जेतुं सिंहपुरं गत्वा तत्पुरं ज्वालयितुं प्रारेभे । तदैव पूर्वजन्मपुरोधस उपमन्योर्जीवो देव: सहस्त्रारादुपेत्य तमुवाच- 'भो ! महानुभाव ! पापं मा कृथाः, त्वं पूर्वजन्मनि भूरिनन्दनो नाम नृपोऽभूः । तदा त्वं मांसनिवृत्ति प्रतिज्ञातवान् । उपमन्युना पुरोहितेनोक्तश्च प्रतिज्ञामत्याक्षीः । स पुरोहितश्च स्कन्दाभिधेन केनाऽपि पुरुषेण निपातितो गजो जातः । स च भूरिनन्दननृपेण गृहीतो रणे हतो भूरिनन्दननृपस्य गन्धाराकुक्षिजोऽरिसूदनः पुत्रोऽभूत् । जातिस्मरणमाप्य च प्रव्रज्य विपद्य सोऽहं सहस्त्रारे देवो जातोऽस्मि । भूरिनन्दनश्च विपद्य वनेऽजगरो भूत्वा तत्र दावानले दग्धो द्वितीयां नरकावनिं प्राप्त स्नेहात् प्रतिबोधितस्तत उद्धृत्य त्वं रत्नमाली जात: । तत्तदानीमिव मांसप्रत्याख्यानभङ्गं मा कार्षीः । पुरदाहाद् निवर्त्तस्व' । १२४ रत्नमाली च तद्वचः समाकर्ण्य युद्धाद् निवृत्तो राज्ये सूर्यंजयपुत्रं कुलनन्दनं निवेश्य सूर्यंजयेन सहैव तिलकसुन्दराचार्यसमीपे व्रतमादाय विपद्य महाशुक्रे देवौ जातौ । ततश्च्युत्वा सूर्यंजयजीवस्त्वं दशरथोऽभूः । रत्नमाली च जनक, उपमन्युस्तु कनकोऽभूत् । ते नन्दिवर्धनजन्मनि पिता नन्दिघोषोऽहं ग्रैवेयकाच्च्युत्वा सत्यभूतिरस्मि । तच्छ्रुत्वा जातवैराग्योऽनरण्यजः प्रव्रज्येच्छू रामं राज्येऽभिषेक्तुकामो गृहं गत्वा राशी: सुतान् मन्त्रिणश्च समाहूयाऽऽपप्रच्छ । ततो भरतो नत्वाऽवोचत् - ' अहमपि त्वया समं व्रतं ग्रहीष्यामि' । तच्छ्रुत्वा पति-पुत्रयोरुभयोर्विरहं सम्भाव्य कैकेय्युवाच- 'स्मरसि स्वामिन् ! यत् तत्र स्वयंवरोत्सवे मत्सारथ्यकर्मणा तुष्टेन त्वया स्वयं वरो दत्तः । तमधुना मह्यं प्रयच्छ, यतस्त्वं सत्यप्रतिज्ञोऽसि। ततो १२५ सप्तमं पर्व चतुर्थः सर्गः दशरथो जगाद - 'व्रतनिषेधं विना यद् ममाऽधीनमन्यत् तद् याचस्व' । तच्छ्रुत्वा कैकेयी जगौ 'यदि स्वयं प्रव्रजसि, तर्हि राज्यं भरताय यच्छ' । ततो दशरथ:- 'अद्यैव मद्राज्यं गृह्यतामिति तामभिधाय लक्ष्मणसहितं राममाहूय 'यो मया वरो दत्तः पुरा प्रतिज्ञातः सोऽधुना कैकेय्या भरतराज्यरूपेण याचितः ' । तच्छ्रुत्वा हृष्टेन रामेण 'भरताय राज्यं दीयतां, मात्रा साधु याचितम्' । एवं रामवचनं श्रुत्वा प्रीतो नृपो यावद् मन्त्रिणोऽदिक्षत् तावद् भरतो जगाद-'तात ! मया प्राक् सहैव व्रतादानं याचितं तद् नाऽन्यथाकर्तुमर्हसि । ततो राजोवाच- 'मम प्रतिज्ञां मुधा मा कुरु, मम मातुश्चाऽऽज्ञामन्यथा कर्तुं नाऽर्हसि । रामोऽपि भरतं 'पितुः प्रतिज्ञां पालयितुं त्वं राज्यं गृहाणे' त्युवाच । ततो भरतः सगद्गदं पादयोः पतित्वा राममुवाच- 'तव पितुश्च मे राज्यदानमुचितं, किन्तु मम तद्ग्रहणं नोचितम्' । ततो रामो नृपमुवाच - 'मयि सत्ययं राज्यं न ग्रहीष्यति, तस्मादहं वनवासाय यामि' । एवमनुज्ञाप्य राजानं नत्वा भरतस्य रुदतः स धनुर्धरो निर्ययौ । तं च निर्गच्छन्तं दृष्ट्वा सुतवत्सलो दशरथः पुनः पुनर्मूच्छितः । रामश्चाऽपराजितां देवीं नत्वोवाच'मातः ! यथाऽहं तथा भरतोऽपि ते पुत्रः । पिता स्वां प्रतिज्ञां पालयितुं भरताय राज्यमदात् । तन्मयि सत्ययं न गृह्णाति ततो वनं यामि । मद्वियोगेन कातरा मा भू:' । अपराजिता च तद्वाचमाकर्ण्य मूच्छिता भुवि पपात । लब्धसंज्ञा च मुहुर्मुहुः करुणं विललाप । रामो मधुरैर्वाक्यैस्तां बोधयित्वा नत्वाऽन्याश्च जननी: प्रणम्य निर्ययौ । सीताऽपि दूराद् दशरथं नत्वाऽपराजितामुपेत्य Page #74 -------------------------------------------------------------------------- ________________ १२६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रामानुगमनं याचितवती । 'त्वमत्यन्तं सुकुमारशरीरा न वनवासकष्टं सोढुमर्हसी'ति तया सस्नेहं क्रोडमारोप्य बोधिताऽपि साग्रह तामनुज्ञाप्य नत्वा राममनु निर्ययौ सा सीता । अहो अस्याः पतिभक्तिरित्येवं पौरस्त्रीभिः सा वनं प्रति गच्छन्ती साश्रु ददृशे । लक्ष्मणोऽपि रामं वनाय निर्गतं श्रुत्वा क्रुद्धो हृदि दध्यौ-'तात: प्रकृत्या सरलः, स्त्रियश्च कुटिला: । कथमन्यथा चिराद् वरं धृत्वाऽद्य याचते ? भवतु । भरताय राज्यं दत्तं नृपेणेति स्वस्य पितुश्च ऋणमपगतम् । तदद्य भरताद् राज्यं हृत्वा रामे न्यस्यामि । अथवाऽयं महासत्त्वस्तृणवद् राज्यं त्यक्तवानिति पुनर्न ग्रहीष्यति । तातस्य दुःखं च भविष्यति तस्मात् पदातिवदहमपि राममनुगच्छामि' । एवं विचार्य नृपमापृच्छय नत्वा सुमित्रामुपगम्य नत्वोवाच- 'रामो वनं गमिष्यति, तमहमप्यनुगमिष्यामि' । ततो धैर्यमालम्ब्य सुमित्रोवाच-'रामो मां नमस्कृत्य दूरं गतः, मा विलम्बस्व' । ततो लक्ष्मण: सहर्ष मातरं स्तुत्वा नत्वाऽपराजितां नन्तुमगच्छत् । तां नत्वोवाच च-'राम एकाक्येव चिरमगात् । तमनुजिगमिषुस्त्वामाप्रष्टुमागतोऽस्मि' । ततः साश्रु सोवाच-'वत्स ! त्वमपि मां त्यक्त्वा वनाय प्रस्थितोऽसि. मन्दभाग्याऽहं हताऽस्मि, ममाऽऽश्वासनाय त्वमेकोऽत्र तिष्ठ' ।। ततो लक्ष्मणः प्रत्युवाच-'त्वं रामस्य माताऽसि, तदधैर्येणाऽलम् । मम भ्राता दूरे याति, तं शीघ्रमनुयास्यामि, विघ्नं मा कृथाः' । एवमुक्त्वा नत्वा च स सीता-रामावनुदधाव । ततस्त्रयोऽपि ते प्रसन्नवदना वनाय पुर्या निर्ययुः । नागराश्च कष्टां दशां प्रापुः । कैकेयीं देवं चाऽऽक्रोशन्तः प्रेम्णा ताननुदधावुः । सप्तमं पर्व - चतुर्थः सर्गः .... १२७ दशरथोऽपि साश्रु सान्तःपुरपरिच्छदः स्नेहगुणैराकृष्टो द्रुतमनुजगाम। ततो रामोऽवस्थाय पितरं जननीरपि च कथञ्चित् सम्बोध्य विसृज्य च सीता-लक्ष्मणाभ्यां सह त्वरितं विनिर्ययौ । स ग्रामे पुरे च मार्गे ग्रामवृद्धादिभिरवस्थातुं प्रार्थ्यमानोऽपि नाऽवस्थित । इतश्च भरतो राज्यं नाऽऽदत्त, प्रत्युत स्वं कैकेयीं चाऽऽचुक्रोश । नृपश्च परिव्रज्योत्सुक: सामन्तादीन् राममानेतुं प्रेषयामास । ते च रामं प्राप्य राजाज्ञां निवेद्य निवृत्तये प्रार्थयामासुः। स तु प्रार्थ्यमानोऽपि न निववृते । ततस्ते तेन विसृज्यमाना अपि तन्निवर्त्तने कृताशा: पुन: पुन: सहैव चेलुः । ततः श्वापदादिभिर्गहनां पारियात्राटवीं प्राप्य तत्र गभीरां नदी ददृशुः । रामश्च तत्र स्थित्वा सामन्तादीनवोचत्-'इत: स्थानाद् यूयं निवर्तध्वम्, अस्माकं कुशलवृत्तान्तं च तातस्य निवेदयत । मद्वाक्याद् भरतं भजध्वम्'। ततस्ते स्वं निन्दन्तो रुदन्तः साश्रु न्यवर्त्तन्त । रामोऽपि ससीता-लक्ष्मणः तैस्तटस्थैः साश्रु दृश्यमानस्तां दुस्तरां नदीमुत्ततार । ततो रामेदृग्गोचरातीते ते सामन्ताद्याः कथञ्चनायोध्यामागत्य राज्ञे सर्वं वृत्तान्तं शशंसुः । ततो नृपो भरतमुवाच-'रामो नाऽऽयातः, तद्राज्यं गृहाण । मम दीक्षाविघ्नाय मा भूः' । भरतोऽपि-'राज्यं नाऽहं ग्रहीष्यामि, स्वयमेव गत्वा कथञ्चनाऽपि राममानेष्ये इत्युवाच । तदैव च कैकेयी समागत्य नृपमब्रवीत्-'भरताय त्वया राज्यं दत्तं, परमेष न गृह्णाति । तथाऽन्यासां मातॄणां मम च महद् दुःखमस्ति । पापया मया नृपे सत्यपि राज्यमराजकं कृतम् । अपराजितादीनां रुदितं श्रुत्वा मम Page #75 -------------------------------------------------------------------------- ________________ सप्तमं पर्व - चतुर्थः सर्गः निदेशाद् राज्यधुरमूरीचक्रे । दशरथोऽपि सत्यभूतिमुनेः पार्श्वे भूयसा परिवारेण सह व्रतं गृहीतवान् । भरतश्च भ्रातृवनवासेन हृदि दुःखितोऽर्हत्पूजापरायणो राज्यं ररक्ष । रामादयश्च मार्गे गच्छन् चित्रकूटगिरिमतीत्य कतिपयैदिनैरवन्तिदेशं प्राप ॥ ४ ॥ इति रामलक्ष्मणोत्पत्ति-परिणय-वनवासगमन वर्णनात्मकश्चतुर्थः सर्गः ॥४॥ १२८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हृदयं भिद्यते । तद्भरतेन समं गत्वाऽनुनीय तानानेष्यामि मामनुजानीहि' । तत: प्रहृष्टेन राज्ञा समादिष्टा सा भरतामात्यादिभिः सह कृतत्वरा रामं प्रति जगाम । षड्भिदिनैस्तद्वनं प्राप्य वृक्षमूले तान् दृष्ट्वा रथादवतीर्य वत्स ! वत्सेति भाषमाणा प्रणमन्तं रामं मूर्ध्नि चुचुम्ब । सीता-लक्ष्मणावपि च बाहुभ्यामुपरि समाक्रम्य तारतारं रुरोद । भरतोऽपि रामं प्रणम्य मूर्छामापन्नवान् । ततो रामेण बोधितो भरतो जगाद-कथं मां त्यक्त्वाऽत्राऽऽगम: ? राज्यार्थी भरत इति मातृदोषेण यो ममाऽपवादो जातस्तं मां सहैव नयन् हर । यद् वा निवृत्त्याऽयोध्यायां गत्वा राज्यमुद्वह । एवं कुलनाशकं मम शल्यमपयास्यति । लक्ष्मणस्तवाऽमात्योऽहं प्रतीहारः शत्रुघ्नश्च च्छत्रहरो भविष्यति' । तदा कैकेय्युवाच-'त्वं सदा मातृवत्सलोऽसि, तद्भ्रातृवच: प्रतिपालय । अत्र न कस्याऽपि दोषः, किन्तु ममैव । स्वैरित्वं विहाय स्त्रियाः सर्व एव दोषा मयि । मया पत्युः पुत्राणां तन्मातृवर्गस्य च दुःखदं कृतम् । तत् सहस्व, यतः सुतोऽसि । तामेवमुदश्रु जल्पन्तीं रामोऽवोचत्-'कथमहं प्रतिज्ञातं त्यजामि, राज्यं तातेन भरताय दत्तं, मया च तदनुमतम् । तत् तद्वचः कथङ्कारमन्यथा क्रियते । ततो भरतो द्वयोरपि निदेशतो राजाऽस्तु । अस्याऽहं तात इवाऽनुल्लयोऽस्मि' । एवमुक्त्वोत्थाय सीतानीतेन जलेन स्वयं सर्वसामन्तादिसमक्ष भरतं राज्येऽभिषिक्तवान् । ततः कैकेयीं प्रणम्य भरतं च समाश्वास्य विसृज्य दक्षिणां प्रति प्रतस्थे । भरतोऽपि साकेतं गत्वा पितुर्धातुश्च Page #76 -------------------------------------------------------------------------- ________________ १३१ पञ्चमः सर्गः अथ रामोऽध्वनि श्रान्तां जानकी विश्रमयितुं वटस्य मूले समुपाविशत् । तं देशं परितोऽवलोक्य च लक्ष्मणमुवाच-'अयं देशः कस्याऽपि भीत्याऽचिरादेव विजनो जातोऽस्ति । यतोऽत्रोद्यानानि सजलकल्यानि खलानि सान्नानि इक्षुवाटाश्च सेक्षव एव सन्ति' । तदैव च तत्र गच्छन्तं कञ्चिज्जनं 'कुतोऽयं देशो निर्जनः, त्वं च कुतश्चलितोऽसी'ति पप्रच्छ । ततः स जन उवाच-'अवन्तिदेशेऽवन्त्यां नगर्यां सिंहोदरो नाम नृपोऽस्ति । तस्य चाऽस्मिन् देशे वज्रको नाम सामन्तो दशाङ्गपुरनायकोऽस्ति । स चैकदा मृगयायै गतः कायोत्सर्गस्थं प्रीतिवर्धनं महामुनिमैक्षिष्ट । अरण्ये द्रुम इव किं स्थितोऽसीति तेन पृष्ट आत्महितार्थमिति मुनिरुदतरत्। ततः खाद्यपेयादिरिक्तेऽस्मिन्नरण्ये तव किमात्महितं सम्पद्यते इति तेन पृष्टश्च मुनिस्तमधिकारिणं मत्वाऽऽत्महितं धर्ममुपादिशत् । सोऽपि श्रावकत्वं सद्यः स्वीकृत्याऽर्हन्तं साधूंश्च विहाय नाऽन्यं प्रणंस्यामीत्यभिग्रहं गृहीत्वा मुनि वन्दित्वा दशाङ्गपुरं प्राप्तः श्रावकत्वं पालयन् दध्यौ-'मया नाऽन्यः प्रणम्य' इति मदभिग्रहेण मद्वैरी सिंहोदरोऽनमस्कृतो भविष्यति' । एवं विचार्य स निजाङ्गुलीये मुनिसुव्रतनाथस्य मणिमयी प्रतिमां निवेश्य तं नमन् सिंहोदरं वञ्चयते स्म । सप्तमं पर्व - पञ्चमः सर्गः तवृत्तान्तं कोऽपि दुर्जनः सिंहोदरस्याऽऽचख्यौ । तेन च सद्यः क्रुद्धः सिंहोदरः । तदपि कोऽपि वज्रकर्णायाऽऽख्यातवान् । तस्य मयि कोप: कथं त्वया ज्ञात इति वज्रकर्णेन पृष्टश्च स पुमानाख्यत्-कुन्दपुरे नगरे श्रावकः समुद्रसङ्गमो वणिगस्ति । तस्य यमुनाकुक्षिजोऽहं विद्युदङ्गाख्यः पुत्रोऽस्मि । क्रमात् तारुण्यं प्राप्तो भाण्डमादायाऽहमुज्जयिन्यां क्रयविक्रयार्थं समागमम् । तत्र कामलतां वेश्यां दृष्ट्वा कामवशगोऽहं निशामेकां वसामीति तामुपभुज्य दृढं तद्रागबद्धो मत्पित्रा कष्टेनाऽऽजन्मोपार्जितं धनं षड्भिर्मासैरेवाऽपव्ययिष्टम् । सा चैकदा 'सिंहोदरमहिष्याः श्रीधरायाः कुण्डलतुल्ये कुण्डले मह्यं देही ति मां याचितवती । अहं च धनाभावात् श्रीधराकुण्डलापजिहीर्षया साहसेन रात्रौ खात्रेण नृपगृह प्रविष्टः सिंहोदर-श्रीधरयोरालापं श्रुतवान् । किमित्युद्विग्नो निद्रां न लभस इति श्रीधरया पृष्टः 'प्रणामविमुखो वज्रकों यावद् नाश्यते तावत् कुतो मम निद्रा ? अमुं प्रात: सपुत्र-मित्र-बान्धवं हनिष्यामी'ति सिंहोदरः प्राह । तच्छ्रुत्वा तदाख्यातुं कुण्डलचौरिकं विहाय सार्मिकवात्सल्यात् त्वां प्राप्तोऽस्मि' । वज्रकर्णश्च तच्छ्रुत्वा सद्य एव पुरीं तृणा-ऽन्नादिसमृद्धां चकार । ___तदैव चाऽऽकाशे परसैन्यरजो दृष्टवान् । सिंहोदरेण च क्षणादेव तद्दशाङ्गपुरं बलैरवेष्ट्यत । दूतमुखेन च 'त्वया प्रणाममायया चिराद् वञ्चितोऽस्मि, तदङ्गुलीयं विहायाऽऽगत्य मां नमस्कुरु । अन्यथा सकुटुम्बस्य ते विनाश इति वज्रकर्णमुक्तवान् । सोऽपि 'ममाऽयमभिग्रहः, तन्नमस्कारं विना मम सर्वस्वं गृहाण, Page #77 -------------------------------------------------------------------------- ________________ १३२ पुरुष-गद्यात्मकसारोद्धारः मह्यं धर्मद्वारं देहि, येनाऽहं धर्मायाऽन्यत्र गच्छामीति प्रत्युदतरत् । स सिंहोदरो न तत् तथा प्रतिपन्नवान् । सवज्रकर्णं पुरं रुद्ध्वा च स बहिः स्थितोऽस्ति । तेनाऽयं देश उद्वसो जातोऽस्ति । अहमपि च सकुटुम्बोऽत्र नष्टोऽस्मि । सौधानि मम कुटी च जीर्णाऽत्र दग्धानि । क्रूरगृहिण्या च शून्येभ्य इभ्यगृहेभ्य उपकरणान्यानेतुं प्रेषितो यामि । तस्या दुर्वाक्यस्याऽप्येतद् मम शुभं फलं यद्भाग्याद् देवतुल्यस्त्वं दृष्टोऽसि' । ततो रामस्तस्य दरिद्रस्य रत्नस्वर्णमयं सूत्रमदत्त । तं विसृज्य च राम्रो दशाङ्गपुरमेत्य बहिश्चैत्ये चन्द्रप्रभं नत्वा तत्र स्थितः । रामाज्ञया च लक्ष्मणः क्षणात् तत्पुरं प्रविश्य वज्रकर्णमुपगम्य 'मम भोजनातिथ्यभाग् भवेति तेनोक्तो मम स्वामी बहिरुद्याने स्थित इति तमादौ भोजयामीत्युक्तवान् । ततो लक्ष्मणेन सह वज्रकर्णो विविधं भोज्यं रामान्तिकमुपनायितवान् । भोजनानन्तरं च रामेणाऽनुशिष्टः प्रेषितश्च लक्ष्मणोऽवन्तीशमुपगम्य राजराजो भरतस्ते वज्रकर्णेन विरोधं निषेधतीत्युक्तवान् । ततः सिंहोदरः प्राह- भरतोऽपि भक्तानामेव भृत्यानां प्रसादं कुरुते । अयं वज्रकर्णश्च मम सामन्तो दुराशयो मां न नमतीति कथं प्रसीदामीति वद' । ततो लक्ष्मणेन 'नाऽविनयात् किन्तु धर्मानुरोधिप्रतिज्ञया न नमति । तदयं न क्रोधपात्रं, त्वया भरतशासनं मान्यम् । यतः स आसमुद्रमेदिन्या: शासिते' त्युक्तः क्रुद्धो वज्रकर्णपक्षपातिनं भरतं न जानामीत्यवोचत् । ततोऽतिक्रुद्धः सौमित्रिः प्राह- 'रे भरतं न जानासि ? सपद्येव तं ज्ञापयामि, युधे सन्नद्धो भव, सद्य एव त्वां नाशयामि' । ततः सिंहोदरः ससैन्यो लक्ष्मणं हन्तुमुद्यतस्तेन सप्तमं पर्व पञ्चमः सर्गः १३३ गजालानमुत्पाट्य सैन्यानि विनाश्योत्पत्येभस्थितो निजवाससा कण्ठेऽबध्नात् । ततो लक्ष्मणस्तं दशाङ्गपुरवासिनां सविस्मयं पश्यतामेव रामसमीपं नीतः । ततः सिंहोदरो रामं दृष्ट्वा नत्वाऽभाषत - 'मया त्वमिहाऽऽगत इति न ज्ञातः । ममाऽज्ञानदोषं क्षमस्व, कर्त्तव्यमादिश, भृत्ये शिक्षार्थमेव गुरोः शिष्ये इव स्वामिनः कोपः । ततो वज्रकर्णेन सन्धि कुर्वित्यादिष्टो रामेण सिंहोदरस्तां वाचं तथेति प्रतिपन्नवान् । वज्रकर्णोऽपि च तत्राऽऽगतो विनयेन पुरोभूय बद्धाञ्जलिरुवाच-‘स्वामिनौ वृषभस्वामिवंशजौ बलदेव - वासुदेव मया दिष्ट्या दृष्टौ चिराज्ज्ञातौ । एनं सिंहोदरं मत्प्रभुं मुञ्च । तथा तथैनं शाधि यथाऽयं ममाऽन्यप्रणामाभिग्रहं सहते' । ततो रामभ्रूसंज्ञया सिंहोदरस्तत् प्रतिपद्य लक्ष्मणेन मुक्तो वज्रकर्णं परिषष्वजे । तथा रामसाक्षिकं राज्यार्धं परमया मुदा वज्रकर्णाय दत्तवान् । वज्रकर्णश्च सिंहोदरात् श्रीधराकुण्डले याचित्वा विद्युदङ्गाय ददौ । तथा वज्रकर्णोऽष्टौ स्वकन्याः ससामन्तः सिंहोदरश्च कन्याशतत्रयं लक्ष्मणाय ददौ । ततो लक्ष्मणः प्रोवाच- 'एता: कन्या वः पार्श्व एव सम्प्रति तिष्ठन्तु । यतः पित्रा मम भ्राता भरतो राज्ये निवेशितोऽस्ति । समये प्राप्तराज्यो वः सुताः परिणेष्यामि । इदानीं तु वयं प्रस्थाय मलयाचले स्थास्यामः । तत 'ओम्' इत्युक्त्वा स्थितौ वज्रकर्ण-सिंहोदरौ रामेण विसृष्टौ निजनिजं पुरं गच्छतुः । *** रामश्च तत्र रात्रिमतिवाह्य प्रभाते ससीता-लक्ष्मणो गच्छन् क्रमेण कमपि निर्जलं देशं सम्प्राप । तत्र तृष्णाकुलायां सीतायां Page #78 -------------------------------------------------------------------------- ________________ १३४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तरोस्तले विश्रान्तायां रामाज्ञया लक्ष्मणो जलमानेतुं प्रययौ । गच्छंश्च स स्वच्छसलिलं सरो दृष्टवान् । तदैव च तत्र कूबरपुरेशः कल्याणमालाभिधः क्रीडितुमागतो लक्ष्मणं दृष्ट्वा कामवशो मम भोजनातिथिर्भवेति प्रोक्तवान् । लक्ष्मणश्च कामविकारं देहलक्षणानि च दृष्ट्वा दध्यौ-'नूनमियं केनाऽपि कारणेन पुंवेषा नारी । ततः प्रकटमुवाच-'सभार्यो मम प्रभुरितोऽनतिदूरे तिष्ठति,तं विना न भुञ्जे । ततस्तेन प्रधानपुरुषैः ससीतो रामोऽभ्यर्थ्य तत्राऽऽनीय नत्वा द्वयोः कृते तत्कालं पटकुटी निरमात् । तत्र कृतस्नानभोजनं राममेकमन्त्रिणा सह निष्परिच्छदः स्त्रीवेश: समाययौ । तां लज्जानतमुखी रामः प्राह-'सौम्य ! पुरुषवेषेण स्त्रीत्वं किमिति निहनुषे ?' तत: कुबरपतिः प्राह-'महापुरेऽस्मिन् कूबरपुरे वालिखिल्यो नाम नृप: पृथ्वीनाम्नी तद्भार्या चाऽऽस्ताम् । अन्यदा तस्यां सगर्भायां स वालिखिल्यो म्लेच्छमहाभटैरवस्कन्दं दत्त्वा बद्ध्वा निन्ये । पश्चाच्च पृथ्वीदेवी मां तनयामसूत । सुबुद्धिना सचिवेन च पुत्रोऽजनीति घोषणा कृता । सिंहोदरश्च तच्छ्रुत्वा यावद् वालिखिल्यः समागच्छति तावदयं बालोऽपि राजाऽस्त्वि'त्यवदत् । तदारभ्य पुंवेषधारिण्यहं मातृ-मन्त्रिजनं मुक्त्वाऽन्यैरनुपलक्षिता क्रमेण वर्धमाना कल्याणमालाख्या राज्यं करोमि । तथा पितृमुक्तये म्लेच्छानां भूरि द्रव्यं यच्छामि,ते च द्रव्यं गृह्णन्ति, किन्तु मम पितरं न मुञ्चन्ति । तत् प्रसद्य तेभ्यो मम पितरं मोचय' । ततो राम उवाच-'तावत् पुंवेषैव राज्यं प्रशासती तिष्ठ, यावद् गत्वा म्लेच्छेभ्यस्त्वत्पितरं न मोचयामि' । ततः सा महाप्रसाद एष इत्युवाच । सुबुद्धिमन्त्री च लक्ष्मणोऽस्या सप्तमं पर्व - पञ्चम: सर्ग: वरोऽस्त्विति प्रार्थितवान् । ततो रामः पुनरुवाच-'वयं पित्रादेशाद् देशान्तरं यास्यामः । निवृत्तेष्वस्मासु लक्ष्मण एनां परिणेष्यति' । एवं प्रतिपद्य तत्र दिनत्रयं स्थित्वा रात्रिशेषे सुप्ते जने स ससीतालक्ष्मणो ययौ । साऽपि प्रभाते तानपश्यन्ती व्याकुलमनाः स्वं पुरं गत्वा यथापूर्वं राज्यं चक्रे । रामोऽपि क्रमेण नर्मदामुत्तीर्य पथिकैर्वार्यमाणोऽपि विन्ध्याटवीं प्रविष्टवान् । तत्राऽऽदौ च दक्षिणदिशि कण्टकिद्रुमस्थितः काको विरसं क्षीरद्रुमस्थितश्च काको मधुरं रुराव । किन्तु तेन रामस्य हर्षो विषादो वा न जातः । अग्रे गच्छंश्च देशघाताय निर्गतमुदायुधमसङ्ख्यरथादिसमन्वितं म्लेच्छसैन्यं ददर्श । तेष यवा सेनानी: सीतां विलोक्य कामार्तो म्लेच्छानादिशत्-'एतौ पथिको विनाश्य बलादेतां स्त्रियमपहृत्य मत्कृते समानयत' । तेऽपि च म्लेच्छास्तथाज्ञप्तास्तेन सहैव शरादिभिः प्रहरन्तो राममभ्यधावन्त । ततो लक्ष्मणो रामं प्राह-'आर्य ! इहैव तिष्ठ सीतया सह । अहममून् कुक्कुरानिव विद्रावयामि' । एवमुक्त्वा धनुरधिज्यं विधाय तच्छब्दैम्लेंच्छानत्रासयत् । चापशब्दोऽप्यसास्तत्र बाणवृष्टेः का कथेति म्लेच्छराजो राममुपजगाम म्लेच्छराजः । ततः स शस्त्राणि त्यक्त्वा रथादवतीर्य दीनवदनो लक्ष्मणेन सक्रोधमीक्ष्यमाणो नत्वाऽवोचत्-'देव ! कौशाम्बीनगर्यां वैश्वानरद्विजस्य सावित्रीकुक्षिजो रुद्रदेवाख्यः सुतोऽस्मि । आजन्म क्रूरकर्माऽहं पापरत एकदा खात्रमुख एव राजपुरुषैर्गृहीतो नृपाज्ञया शूलां समारोपयितुं नीतो दीनमुखः श्रावकवणिजा दृष्टो दण्डं दत्त्वा मोचितः । पुनश्चौरिकां मा कार्षीरित्युपदिश्य तेन विसृष्टस्तं देशं त्यक्त्वा भ्रमन्निमां पल्लीं प्राप्त: Page #79 -------------------------------------------------------------------------- ________________ १३६ पुरुषम् गद्यात्मकसारोद्धारः काक इत्यपराख्यया ख्यातः क्रमात् पल्लीपतित्वमाप । तत इह स्थितो लुण्टाकैः पुराणि लुण्टयित्वा नृपानपि धृत्वाऽऽनयामि । किन्तु व्यन्तर इव तव वश्योऽस्मि । कर्त्तव्यं समादिश, ममाऽविनयं क्षमस्व' | ततो रामेण वालिखिल्यं मुञ्चेत्यादिष्टः स म्लेच्छ्राट् तं मुमोच । वालिखिल्यश्च रामं ननाम रामाज्ञया च काकेन स पुनः कूबरपुरं प्रापितो निजां कन्यां पुंवेषां दृष्टवान् । ततो रामलक्ष्मणवृत्तान्तं तौ मिथोऽकुर्वताम् । काकश्च निजां पल्लीं गतः । रामोऽपि ततो निर्गत्य विन्ध्याटवीमतिक्रम्य महानदीं तापीं प्राप । रामः तामुत्तीर्याऽरुणग्रामं प्राप्य सीतायां तृषार्त्तायां सलक्ष्मणः कोपनस्य कपिलस्य द्विजस्य गृहं प्राप्तः । तत्र च सुशर्माख्यया ब्राह्मण्या पृथगासनं प्रदाय स्वादु शीतलं सलिलं तया दत्तं पपौ । तदैवाऽऽगतेन पिशाचेनेव दारुणेन कपिलेन 'पापिष्ठे ! किमेते मलिना मम गेहे प्रवेशिताः ?' इत्येवं निर्भर्त्स्यमानां तां ब्राह्मणीं दृष्ट्वा क्रुद्धो लक्ष्मणस्तमुद्धृत्य दिवि पर्यभ्रमयत् । ततो रामेण कीटमात्रेऽस्मिन् कोपेनाऽलम्, अमुं द्विजब्रुवं मुञ्चेत्यादिष्टः शनैस्तं द्विजममुञ्चत् । ततश्च रामस्तद्गृहाद् निर्ययौ । अथ ते गच्छन्तः क्रमादन्यां महाटवीं प्राप्ताः । तदैव च वर्षर्तुः समुपस्थितः । वारिदे वर्षति च 'अत्रैव वटे वर्षाकालं नयाम' इति वदन् रामश्च तत्रैव वटतरोस्तले तस्थौ । तद्वटस्थश्चेभकर्णाख्यो यक्षस्तद्वचो निशम्य भीतो गोकर्णं स्वप्रभुमुपजगाम । तं प्रणम्य 'निजावासाद् वटादहं कैश्चिद् दुःसहतेजोभिरुद्वासितः, तत् त्रायस्व मां, ते हि यावद् वर्षर्त्तुं मद्वट एव स्थास्यन्ति' इति प्रार्थितवान् सः । सप्तमं पर्व पञ्चमः सर्गः १३७ गोकर्णोऽप्यवधिना सर्वं ज्ञात्वाऽवोचत्- 'गृहायातावेतावृषभौ बलदेववासुदेवावच्य' । एवमुक्त्वा स रात्रौ तत्रोपेत्य नवयोजनविस्तृतां द्वादशयोजनायामां धन-धान्य- प्रासादादिसमृद्धां रामपुरीं नाम पुरीं निरमात् । प्रातश्च मङ्गलध्वनिना प्रबुद्धो रामस्तं वीणाधरं यक्षं समृद्धां नगरीं च दृष्ट्वा विस्मितः । ततः 'त्वं मे स्वामी चातिथिश्च, गोकर्णो नाम यक्षोऽहं त्वत्कृते पुरीं निर्मितवानस्मि । मया सेव्यमानस्त्वं यथाकालं यथारुचि तिष्ठेति गोकर्णेन प्रार्थितः ससीता-लक्ष्मणस्तत्रैव तस्थौ । इतश्च कपिलो विप्रः समिदाद्यर्थं भ्रमन् पर्शुपाणिस्तन्महारण्यं प्राप्य तां पुरीं दृष्ट्वा विस्मितो दध्यौ - 'इयं माया वेन्द्रजालं वा गान्धर्वमेतद् वा पुरम् ?' तत्र चैकां मानुषीरूपां यक्षिणीं कस्येयं पुरीत्यपृच्छच्च । सोचे-गोकर्णेन कृतेयं रामपुरी रामार्थम् । अत्र रामो दीनादिभ्योऽर्थं ददाति । अत्र समागतः सर्व एव कृतार्थो भवती' त्युक्तः समिद्भारं त्यक्त्वा स विप्रो मया कथं रामो द्रष्टव्य इति तां प्रार्थितवान् । तया च पुन: ‘अस्यां पुर्यां यक्षै रक्षितं द्वारचतुष्टयमस्ति, तदत्र प्रवेशोऽतिदुर्लभः । अत्र पूर्वद्वारे चैत्यं यथाविधि वन्दित्वा श्रावकीभूय प्रवेष्टुमर्हसि । नाऽन्यथेत्युक्तः स कपिलो धनार्थी साधूनुपगम्य तेभ्यो धर्मं श्रुत्वाऽल्पकर्मत्वाद् विशुद्धः श्रावकोऽभवत् । ततो गृहं गत्वा धर्ममाख्याय भार्यामपि श्राविकां विधाय रामपुरीमेत्य तया भार्यया सह चैत्यं वन्दित्वा राजगृहं प्राविशत् । तत्र सीता-राम-लक्ष्मणानुपलक्ष्य भीतो नंष्टुमना लक्ष्मणेन 'मा भैषीः, यथेष्टं धनं प्रार्थयस्वे 'त्युक्तो गतशङ्को रामायाऽऽशिषं दत्त्वा Page #80 -------------------------------------------------------------------------- ________________ १३८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः यक्षैर्दत्ते आसने समुपाविशत् । ततः कुत आगतोऽसीति रामेण पृष्टः सर्वं पूर्वं वृत्तं समाख्यातवान् । सुशर्मा चाऽपि सीतामुपगम्य प्राग्वृत्तं समाख्यायाऽऽशिष दत्त्वा दीनवदना समुपाविशत् । ततो रामेण धनैः कृतार्थी कृतो विसृष्टश्च निजं ग्राममुपेत्य प्रबुद्धो ब्राह्मणो दीनाय दानं यथारुचि दत्त्वा नन्दावतंससूरिपार्श्वे व्रतमग्रहीत् । अथ वर्षाकालेऽतीते जिगमिषु रामं प्रेक्ष्य गोकर्णो विनयाद् बद्धाञ्जलिरुवाच-'मयि प्रसीद, भक्तिस्खलितं क्षमस्व' । ततो रामाय स्वयंप्रभं नाम हारं लक्ष्मणाय दिव्यरत्ननिर्मिते ताडके सीतायै चूडामणिमिप्सितनादिनी वीणां च ददौ । रामश्च तं यक्षं सम्मान्य प्रतस्थे । यक्षोऽपि तां पुरीमुपसंजहार । सप्तमं पर्व - पञ्चमः सर्गः लक्ष्मणोऽपि किमियं करोतीति तमारुरोह । ततः सा प्राञ्जलिर्वनदेवतादीन् सम्बोध्य 'नेह जन्मनि लक्ष्मणो मम भर्ताऽभवत्, किन्तु यदि मद्भक्तिः सुनिश्चला, तर्हि स भवान्तरे भर्ता भूयात्' । इत्युक्त्वोत्तरवस्त्रेण गलपाशं विधाय वटशाखायां बद्ध्वा च त्वरितमेवाऽऽत्मानमलम्बयत् । ततो लक्ष्मण: 'भद्रे ! साहसं मा कार्षीः । लक्ष्मणोऽहमिति ब्रुवन् पाशमपास्य तामादायोत्तीर्य रात्रिशेषे प्रबुद्धयो राम-सीतयोर्वनमालाया अशेषं वृत्तान्तं शशंस । लज्जावगुण्ठितमुखी वनमालाऽपि सद्य एव जानकी-रामचरणौ ननाम । इतश्च महीधरभार्येन्द्राणी वनमालामपश्यन्ती सकरुणं पूच्चके । महीधरश्चाऽन्वेषणाय निर्गत इतस्ततो भ्राम्यन् तत्रस्थां तां दृष्ट्वा 'हत हतैतान् कुमारीतस्करानि ति पुरुषान् समादिशत् । ततो लक्ष्मण: क्रुद्धो धनुषि ज्यामारोप्य टङ्कारमकारयत् । तद्ध्वनिना त्रस्तेषु सैन्येषु महीधरो लक्ष्मणं दृष्ट्वोपलक्ष्य 'सौमित्रे ! धनुर्विज्यं कुरु, मत्सुताभाग्यादेव त्वमिहाऽऽगतः' इत्यवादीत् । तथा रामं प्रेक्ष्य रथादवतीर्य नत्वा 'तव भ्रात्रे सोमित्रये मया स्वयं जातानुरागेयं कल्पिता पुरा । इदानी मद्भाग्यादनयोः समागमो जज्ञे', इत्युक्त्वा महत्या प्रतिपत्त्या तान् निजसद्म निनाय । ___अथ तेषु तत्र तिष्ठत्सु कदाचन सभास्थितं महीधरं नृपमतिवीर्यनृपदूतः समुपेत्योचे-'नन्द्यावर्तपुराधीशोऽतिवीर्यस्त्वां भरतविग्रहे साहाय्यायाऽऽह्वयति । भरतस्य बले भूयांसो भूभूजाः समेयुः । तत् त्वमपि महाबलोऽतिवीर्येण समाहूयसे' । ततो लक्ष्मेणन 'नन्द्यावर्त्तनृपस्य भरतेन सह विरोधे को हेतुरि'ति पृष्टो दूत उवाच-'न: स्वामी भरताद् भक्तिमिच्छति, किन्तु स न अथ ते च रामादयो गच्छन्तोऽरण्यानि त्यक्त्वा सन्ध्यासमये विजयपुरं प्राप्य बहिरुद्याने वायव्यदिशि वटवृक्षतलेऽवात्सुः । तत्र पुरे च महीधरो नृप इन्द्राणी तद्भार्या वनमालेति तत्सुता चाऽऽसन् । वनमाला बाल्य एव लक्ष्मणगुणान् श्रुत्वा तं मुक्त्वा नाऽन्यं वरमियेष । तदा च दशरथं प्रव्रजितं राम-लक्ष्मणौ निर्गतौ च श्रुत्वा महीधरो विषण्णोऽभवत् । चन्द्रनगरे च वृषभनृपपुत्राय सुरेन्द्ररूपाय स वनमालां ददौ । वनमालाऽपि च तच्छृत्वा मरणे कृतनिश्चया रात्रावेकिका तद्द्यानं दैवात् प्राप । तत्र वनदेवतां सम्पूज्य जन्मान्तरेऽपि लक्ष्मणो मम पतिरस्त्विति सम्प्रार्थ्य तं वटं प्राप्ता सुप्तसीता-रामप्राहरिकेण लक्ष्मणेन दृष्टा । ततो लक्ष्मणो दध्यौ-'किमियं वनदेवता, एतस्य वटस्याऽधिष्ठात्री यक्षिणी वा ?' एवं चिन्तयति तस्मिन् सा तद्वटद्रुममारूढा। Page #81 -------------------------------------------------------------------------- ________________ १४० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वीकरोतीति विग्रहहेतुः' । ततो रामो दूतं पप्रच्छ-'अतिवीर्यस्य युद्धे भरतः समर्थो यत् तत्सेवां न मन्यते ?' ततो द्वावष्यसाधारणावित्युक्तवन्तं दूतं सत्वरमागच्छामीति विसृज्य महीधरो राममुवाच-'अयमल्पज्ञो यदस्मान् भरतयुद्धे समाह्वयति । तत्सेनया सह गत्वाऽनुपलक्षितशत्रुभावोऽतिवीर्यमेव हनिष्यामः' । ततो राम उवाच-'त्वं तिष्ठ, ससैन्यैस्तत्सुतैः सहऽहमेव तत्र गत्वा यथा यथोचितं करिष्यामि । एवमस्त्विति तेनोक्तश्च रामः ससैन्यैस्तत्पुत्रैः सहित: ससीता-लक्ष्मणो नन्द्यावर्तपुरं ययौ । रामो बहिरुद्याने कृतनिवास: किमभीष्टं ते करोमीति क्षेत्रदेवतया प्रार्थितो न न: किमपि कर्त्तव्यमित्युक्तवान् । तथाऽपि तवोपकरोम्येतद्यदतिवीर्यः स्त्रीभिजित इति तस्याऽयशसे तस्य ससैन्यस्य स्त्रीरूपं तव च कामिकं तत् करिष्यामी'ति सोचे । ततो महीधरसैन्यं स्त्रीराज्यमिव क्षणात् स्त्रीरूपमभवत् । राम-लक्ष्मणौ चाऽपि स्त्रीरूपावभूताम् । ___ ततो रामस्तमतिवीर्य महीधरेण स्वं सैन्यं तव साहाय्यकृते प्रेषितमिति द्वा:स्थेनाऽज्ञापयत् । ततोऽतिवीर्यो जगाद-'यदि महीधरः स्वयं नाऽऽगात् तर्हि तस्य बहुमानिनो मुमूर्षोः सैन्येनाऽलम्। एकोऽपि भरतं जेष्यामि । तत्सैन्यं द्रुतं निर्वास्यताम्' । ततस्तत्राऽन्यः कश्चिदूचे-'केवलं महीधरः स्वयं नाऽऽगात्, प्रत्युतोपहासाय स्त्रीसैन्यं प्राहिणोत् । तच्छ्रुत्वाऽत्यन्तं क्रुद्धो जातो नन्द्यावर्तेशः । स्त्रीरूपधारिणो रामाद्याश्च द्वारमुपाययुः । ततोऽतिवीर्यो दासीवदिमाः स्त्रियो गलेषु गृहीत्वा पुराद् बहिनिर्वास्यतामित्यादिक्षत् । ततः सामन्ताद्याः ससैन्यास्तत्स्त्रीसैन्यमुपद्रोतुं प्रावर्त्तन्त । ततो रामो गजस्तम्भमुत्पाट्याऽऽयुधीकृत्य तानपातयत् । तत: सैन्यभङ्गे सप्तमं पर्व - पञ्चमः सर्गः भृशं कुपितोऽतिवीर्यः खड्गमाकृष्य रणाय स्वयमुत्तस्थौ । लक्ष्मणश्च तत्खड्गमाच्छिद्य तं केशेष्वाकृष्य तद्वस्त्रेण बद्ध्वा व्याघ्रो मृगमिव तमादाय चचाल । ततः करुणावशात् सीता तं मोचयामास । लक्ष्मणश्च भरतसेवामतिवीर्यं प्रत्यपादयत् । क्षेत्रदेवता च सर्वेषां स्त्रीवेषं सञ्जहार । तदाऽतिवीर्योऽपि तौ राम-लक्ष्मणावज्ञासीत् । ततस्तयोः पूजां विधाय मानभङ्गेन विरक्त: किमहमन्यं भजिष्यामीत्यहङ्कारवान् दीक्षोत्सुको राज्ये सुतं विजयरथं निवेश्य रामेण निषिद्धोऽपि प्रावाजीत् । ततो विजयरथः स्वस्वसारं रतिमालं लक्ष्मणाय ददौ । लक्ष्मणस्तां स्वीचकार । रामोऽपि ससैन्यो विजयपुरं विजयरथश्च भरतं सेवितुमयोध्यां प्रतस्थे । भरतश्च तवृत्तान्तं ज्ञात्वा तं विजयरथमायान्तं सच्चकार । विजयरथश्च रतिमालानुजां विजयसुन्दरीं भरताय ददौ । तदा चाऽतिवीर्यो मुनिर्विहरन् तत्र समाययौ । भरतेन च वन्दित्वा क्षमयाञ्चक्रे । विजयरथश्च सप्रसादं भरतेन विसृष्टो नन्द्यावर्तपुरं ययौ । ___ अथ महीधरमनुज्ञाप्य रामे गन्तुमुत्सुके लक्ष्मणो वनमालामापप्रच्छे । तदा बाष्पार्द्रमुखी वनमालोचे-'यन्मत्प्राणत्राणमकार्षीस्तदधुना मुधा । त्वद्विरहजं हि दुःखमर्धवधतुल्यम् । ततो मृत्युरेव वरम् । तदद्यैव परिणीय मां सहैव नय' । ततो लक्ष्मणो'ऽभीप्सितं स्थानं रामं प्रापय्य त्वां समेष्यामी'ति सशपथं तामाश्वासितवान् । रात्रिशेषे च ससीता-लक्ष्मण: प्रस्थाय क्रमाद् वनान्यतिक्रम्य रामः क्षेमाञ्जलि पुरीं प्राप । तत्र लक्ष्मणेनाऽऽनीतैः सीतया स्वकरेण संस्कृतैः फलादिभिर्बहिरुद्याने वर्त्तयामास । Page #82 -------------------------------------------------------------------------- ________________ १४३ mom १४२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ राममनुज्ञाप्य कौतुकात् पुरीं प्रविश्य 'योऽस्य राज्ञः शक्तिप्रहारं सहते, तस्मै स्वकन्यकामेव ददाती'त्याघोषणां श्रुत्वा तद्धेतुं कमपि जनमपृच्छत् । स जन उवाच-'अत्र नगरे शत्रुदमनो नृपोऽस्ति । तस्य कनकादेवीकुक्षिजा जितपद्माख्या सुताऽस्ति । तद्वरस्य बलपरीक्षार्थं प्रत्यहं नृपो घोषणामिमां कारयति, किन्तु कोऽपि तादृशः पुरुषो नैति' । तच्छ्रुत्वा लक्ष्मण: सभास्थितं तं नृपमुपगम्य तेन कुतो हेतोः कुतस्त्य इति पृष्टोऽहं भरतदूतोऽस्मि । प्रयोजनेन केनाऽपि गच्छन् तवेमां कन्यां श्रुत्वा परिणेतुमागतोऽस्मि । मम शक्तिघातं सहिष्यसे इति राज्ञा पृष्टश्च 'किमेकेन पञ्चाऽपि सहिष्ये इति च लक्ष्मण उदतरत् । तदानीमेव च तत्राऽऽगता जितपद्मा लक्ष्मणं प्रेक्ष्य कामार्ता जाता । तया वार्यमाणोऽपि च नृपो लक्ष्मणाय दुःसहं शक्तिपञ्चकं प्राहरत् । लक्ष्मणश्च द्वे कराभ्यां द्वे कक्षाभ्यामेकां च दन्तैरग्रहीत् । ततो जितपद्मा स्वयं तस्मिन् वरमालामक्षिपत् । नृपोऽपि च कन्या त्वयोदुह्यतामित्यवोचत् । लक्ष्मणोऽपि बहिरुद्याने ममाऽग्रजो रामोऽस्ति, तेन सर्वदा परतन्त्रोऽस्मीत्यवोचत् । ततो नृपस्तौ रामलक्ष्मणौ ज्ञात्वा सद्यो गत्वा नत्वा स्ववेश्माऽऽनीय भक्त्याऽपूजयच्च । ततश्चलिते च राम लक्ष्मणः परावृत्तस्त्वत्सुतां परिणेष्यामीति नृपमुक्तवान् । अथ निशायां ततो निर्गत्य रामः सायं वंशशैलाख्यपर्वततटस्थितं वंशस्थलं नाम नगरं प्राप । तत्र सनृपं लोकं भयाकुलं प्रेक्ष्य कमपि जनं तद्भयकारणमपृच्छत् । ततः स पुरुष उवाच-'अद्य तृतीयो दिवसोऽस्ति, रात्रावस्मिन् पर्वते उच्चै रौद्रो ध्वनिर्जायते। तद्भयाच्च सकलो लोको रात्रावन्यत्र गच्छति । प्रातश्च पुनरायाति, सप्तमं पर्व - पञ्चमः सर्गः नित्यमियं कष्टा स्थिति:' । ततश्च रामः कौतुकालक्ष्मणेन प्रेरितस्तमद्रिमारुह्य कायोत्सर्गस्थितौ मुनी दृष्ट्वा सजानकी-लक्ष्मणो वन्दित्वा तदने गोकर्णदत्तवीणामवादयत् । लक्ष्मणश्च ग्रामरागमनोहरं गातुं प्रववृते । सीता च ननर्त । तदैव च रविरस्तमियाय । रात्रिः प्रवृत्ता, विविधानेकवेतालपरिवतोऽनलप्रभो देवश्चाऽऽगतः। स च स्वयं वेतालरूप: साट्टहासं तौ मुनी दृष्ट्वोपद्रोतुं प्रावर्त्तत । ततो राम-लक्ष्मणौ सीतां साधुसमीपे मुक्त्वा तं निहन्तुं सन्नद्धावुत्तस्थाते। ततः स देवस्तयोस्तेजः सोढुमक्षमो निजं स्थानं ययौ । तौ च केवलमापतुः । ततो देवैः केवलज्ञानमहिम्नि कृते रामो नत्वोपसर्गकारणमपृच्छत् । ततस्तयोरेको मुनिः कुलभूषणो जगौ-'पद्मिन्यां नगर्या विजयपर्वतो नृपो बभूव । तस्य चाऽमृतस्वराख्यो दूत आसीत् । तस्य दूतस्योपयोगाकुक्षिजावुदितो मुदितश्च द्वौ पुत्रावास्ताम् । तथा तस्य दूतस्य वसुभूतिद्विजो मित्रमासीत् । उपयोगा च तदनुरक्ताऽमृतस्वरं हन्तुमियेष । एकदा च नृपादेशाय गच्छन्नमृतस्वरः सह गच्छता वसुभूतिना हतः । पुरीमागत्य चाऽमृतस्वरेण कार्यवशादहं निवर्तित इति जनानवोचत् । उपयोगां चाऽमृतस्वरो मार्गे छलं प्राप्य मया हत इत्यवदत् । ततः सा तमभिनन्द्येमौ पुत्रावपि जहि, यथा सर्वथा विघ्ननाशः स्यादित्युक्तवती । सोऽपि तथेति प्रतिपन्नवान् । दैवाच्च वसुभूतिभार्या तच्छ्रुत्वेय॑योदित-मुदितयोस्तदाख्यत् । तेन च क्रुद्धोदितेन वसुभूतिर्हतः । स च मृत्वा नलपल्ल्यां म्लेच्छो जातः । नृपश्च महर्षेर्धर्मं श्रुत्वा बोधिमाप्योदित-मुदितौ चाऽपि प्रव्रज्यामग्रहीषुः । Page #83 -------------------------------------------------------------------------- ________________ षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा च सम्मेते चैत्यानि वन्दितुं प्रस्थितौ तावुदित- मुदितौ मार्गभ्रष्टौ तां पल्लीं प्रापतुः । तत्र वसुभूतिजीवो म्लेच्छ: पूर्ववैरात् तौ निरीक्ष्य हन्तुं धावितो म्लेच्छाधिपतिना निषिद्धः । स म्लेच्छराजश्च प्राग्भवे मृगः कर्षकाभ्यामुदित- मुदितजीवाभ्यां व्याधाद् मोचितः । तेन म्लेच्छेशेन रक्षितौ तौ सम्मेतमेत्य चैत्यानि वन्दित्वा चिराय विहरन्तावनशनं विधाय विपद्य महाशुक्रे सुन्दर-सुकेशाख्यौ देवौ बभूवतुः । वसुभूतिजीवो म्लेच्छ्च भवान् भ्रान्त्वा कथञ्चिद् मानुषं प्राप्य तापसो भूत्वा विपद्य ज्योतिष्केषु सुरेषूत्पन्नो मिथ्यादृष्टिधूमकेतुनाम्ना । उदित - मुदितजीवौ च शुक्राच्च्युत्वा भारतेऽरिष्टपुरे प्रियम्वदनृपस्य पद्मावतीकुक्षिजौ रत्नरथचित्ररथाख्यौ सुतौ जातौ । धूमकेतुरपि च्युत्वा तन्नृपस्य कनकाभायां पत्न्यामनुद्वरो नाम पुत्रो जज्ञे स सदा रत्नरथे चित्ररथे च समत्सरो बभूव । किन्तु तौ तस्मिन् मात्सर्यं न चक्रतुः । प्रियम्वदश्च रत्नरथे राज्यं चित्रकथा - ऽनुद्वरयोर्यौवराज्यं च न्यस्य षड् दिवसानि प्रायोपवेशनं कृत्वा विपद्य देवा बभूव । १४४ अथ कश्चिन्नृपोऽनुद्वरे याचमानेऽपि श्रीप्रभां नाम कन्यां रत्नरथाय ददौ । तेन क्रुद्धोऽनुद्वरो रत्नरथस्य महीमलुण्टयत् । रत्नरथेन च रणे निपात्य गृहीतो बहुशो विडम्ब्य मुक्तस्तापसो भूत्वा स्त्रीसङ्गाद् निजं तपो निष्फलीचक्रे । ततो मृत्वा भवान् भ्रान्त्वा मर्त्यो भूत्वा पुनरपि तापसः सन्नज्ञानकं तपश्चकार । सोऽयं मृत्वा ज्योतिष्केष्वनलप्रभोऽयमुपसर्गं चकार । रत्नरथ - चित्ररथौ च दीक्षां गृहीत्वाऽच्युतेऽतिबल - महाबलौ देवौ अभूताम् । ततः च्युत्वा सिद्धार्थपुरे क्षेमङ्करनृपस्य विमलादेवीकुक्षिजावहं कुलभूषणोऽयं देशभूषणश्च पुत्रौ जातौ । सप्तमं पर्व पञ्चमः सर्गः १४५ घोषोपाध्यायतो द्वादशाब्दीं यावत् सकलाः कला गृहीत्वा त्रयोदशेऽब्दे घोषेण सहाऽऽयातौ राज्ञाऽन्तिके राजकुले वातायनस्थां कन्यामपश्याव । तदा जातानुरागौ सद्य एव विमनायितौ राजानमुपगम्य कला अदर्शयाव । नृपेण सत्कृत उपाध्यायो निजास्पदं जगाम । आवां च राजाज्ञया मातरं नन्तुमगच्छाव । तत्र मातुः समीपे तां कन्यामपश्याव I माता च 'युवयोः स्वसा कनकप्रभेयमित्यकथयत् । तथा घोषोपाध्यायगृहे वसतोर्युवयोरियं जातेति युवां नोपलक्षयथ इति चाऽऽख्यातवती । तच्छ्रुत्वा लज्जितावावामज्ञानात् स्वसारं कामयमानौ क्षणाद् विरक्तौ प्राव्राजिष्व । ततस्तीव्रं तपस्तप्यमानौ अत्र प्राप्य महागिरौ शरीरेऽपि निःस्पृहौ कायोत्सर्गेणाSsस्थाव | आवयोर्वियोगेन पिता चाऽनशनेन विपद्य महालोचननामा देवो गरुडेश आसनकम्पेनाऽऽवयोरुपसर्गं विज्ञाय प्राग्जन्मस्नेहात् सम्प्रतीहाऽऽगतः । सोऽनलप्रभदेवो देवैः सह कौतुकादनन्तवीर्यमुनिं केवलिनमुपगम्य नत्वा देशनामश्रौषीत् । देशनान्ते च केनचिच्छिष्येणाऽस्मिन् मुनिसुव्रततीर्थे तव पश्चात् कः केवलीति पृष्टो मुनिराचख्यौ - 'मम निर्वाणे कुलभूषणो देशभूषणश्च द्वौ भ्रातरौ केवलिनौ भविष्यतः'। तच्छ्रुत्वा चाऽनलप्रभो निजं स्थानं प्राप्य विभङ्गेन कायोत्सर्गस्थितावावां ज्ञात्वाऽऽनन्तवीर्यवचनमन्यथा कर्तुमशक्तः प्राग्जन्मवैराद् दारुणमुपसर्गं चकार । तस्योपसर्गं कुर्वतश्च चत्वारि दिनानि व्यतीयुः । अद्याऽत्र युवामागतौ युष्मद्भीत्या च स पलायामास । आवयोश्च कर्मक्षयात् केवलमुत्पन्नम् । तदेवमयमुपसर्गपरोऽपि नौ कर्मक्षये सहायोऽभूत् । गरुडेशो महालोचनदेवोऽपि राममूचे'राघव ! त्वं साध्वकार्षीः, ते किं प्रत्युपकरोमि ?' ततो रामेण न Page #84 -------------------------------------------------------------------------- ________________ m १४७ १४६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कञ्चित् प्रयोजनमस्तीत्युक्तस्तथाऽप्युपकरिष्यामीत्युक्त्वा तिरोहितवान् । अथ वंशस्थलाधीशः सुरप्रभस्तत्रैत्य नत्वा पूजयित्वा रामाज्ञया तत्र शैलेऽर्हच्चैत्यान्यकारयत् । रामनाम्ना च स गिरिस्तत्प्रभृति रामगिरिरिति ख्यातः । रामश्च सुरप्रभमापृच्छ्य प्रस्थाय गहनं दण्डकारण्यं प्रविवेश । तत्र च महागिरिकन्दरे आवासं विधाय निजगृह इवोवास । अथाऽन्येधुर्भोजनसमये त्रिगुप्त-सुगुप्तौ चारणौ मुनी नभसा तत्र समायातौ कृतद्विमासोपवासौ पारणार्थमुपस्थितौ भक्त्या वन्दितवन्त: सीता-राम-लक्ष्मणाः । सीता च यथोचितैरन्नपानैस्तौ प्रत्यलाभयत् । तदा देवै रत्नगन्धाम्बुवृष्ट्यो विदधिरे । तदानीं च कम्बुद्वीपविद्याधरेश्वरो रत्नजटी द्वौ सुरौ चाऽऽगत्य रामाय साश्वं रथं ददुः । तत्र च गन्धाम्बुवृष्टिगन्धेनाऽऽकृष्टो गन्धनामा खगो रोगी पादपादुत्तीर्य समायातो मुनेर्दर्शनमात्रेण सम्प्राप्तजातिस्मरणो मूर्च्छया भूमौ पपातः । स: सीतयाऽम्बुभिः सिक्तो लब्धसंज्ञ: समुत्थाय साधुपादेषु पतित: साधोः स्पौषधीलब्या क्षणाद् नीरोगोऽभवत् । तदानीं च तस्य पक्षौ हैमौ, चञ्चू विद्रुमाभा, पादौ पद्मरागप्रभौ, वपुर्नानारत्नप्रभं जटाश्च शिरस्यभवन् । तदादि तस्य पक्षिणो जटायुरिति नामाऽभवत् । ततो रामो मुनी अपृच्छत्-'क्रव्यादः कुधीश्चाऽपि गृध्रोऽयं वः पादयोः पतित्वा कस्माच्छान्तो जातः । तथाऽत्यन्तकुरूपाङ्गः क्षणात् कनकरत्नद्युतिः कथमभवत् ?' ततः सुगुप्तमुनिराह सप्तमं पर्व - पञ्चमः सर्गः इह पुरा कुम्भकारकटं नाम पुरं दण्डको नाम राजा चाऽऽसीत् । तदा च श्रावस्त्यां जितशत्रू राजा धारिणी च तद्भार्या स्कन्दकश्च तत्पुत्र आसन् । तयोश्च पुरन्दरयशसं नाम कन्यां दण्डकः पर्यणैषीत् । एकदा च केनचित् प्रयोजनेन दण्डको जितशत्रु प्रति पालकं नाम द्विजं दूतं प्राहिणोत् । तदानीं च जितशत्रुरर्हद्धर्मगोष्ठीपर आसीत् । कुधी: पालकश्च तं धर्मं दूषयितुं प्रारेभे । तत: स्कन्दकेन युक्त्या स निरूत्तरीचक्रे । तदा सभ्यैरुपहसितः स्कन्दकः साम! राज्ञा विसृष्टः कुम्भकारकटमुपेतवान् । स्कन्दकश्चाऽन्यदा विरक्तः पञ्चशत्या राजपुरुषाणां मुनिसुव्रतपादान्ते व्रतं गृहीत्वा पुरन्दरयशःप्रभृतिकं बोधयितुं कुम्भकारकटं यामीत्यापप्रच्छ प्रभुम् । प्रभुणा च तत्र गतस्य ते सपरिवारस्य मारणान्तिक उपसर्गो भावीत्युक्तम् । तत्र वयमाराधका भाविनो न वेति पुनः पृष्टेन भगवता त्वां विना सर्वेऽप्याराधका इत्याख्यातम् । सर्वमेतत् सम्पूर्णमित्युक्त्वा मुनिपञ्चशत्या परिवृतश्चलितः स्कन्दकमुनिः कुम्भकारकटं प्राप्तवान् । पालकश्च तं दृष्ट्वा तं पराजयं स्मरन्नुद्याने शस्त्राण्यखानयत् । तत एकस्मिन्नुद्याने समवसृतं स्कन्दकमुनि वन्दितुं दण्डकः सपरिवार आययौ । मुनेर्देशनां श्रुत्वा च हृष्टो गृहं ययौ । तत: पालको रहसि दण्डकमूचे-'स्वामिन् ! असौ मुनिर्बकाचार: पाखण्डी सहस्रयोधिभिर्मुनिवेषधरैः पुम्भिस्त्वां हत्वा राज्यं ग्रहीतुमिहाऽऽगतोऽस्ति । अत्रोद्याने च निजस्थाने गुप्तं शस्त्राणि निखातानि दृष्ट्वा प्रत्ययं कुरु' । ततो नृपः सर्वतो मुनिस्थानानि निखन्य चित्राण्यस्त्राणि दृष्ट्वा च परं विषण्णोऽविचार्यैव पालकमादिदेश-'मन्त्रिन् ! त्वया Page #85 -------------------------------------------------------------------------- ________________ १४८ शाकापुरुषचरितम् - गद्यात्मकसारोद्धारः साधु ज्ञातम् । अस्य दुर्मतेरुचितं कर्तुं त्वमेव जानासि तत् कुरुष्व, पुनर्न प्रष्टव्योऽहम् । ततः पालकः शीघ्रं गत्वा यन्त्रं कारयित्वा स्कन्दकस्य पुरत एव साधून् प्रत्येकं निपीडितवान् । स्कन्दकश्च निपीड्यमानानेतान् स्वयं देशनापूर्वकं सम्यगाराधनाविधिमकारयत् । चरमे शिशौ मुनावुपयन्त्रं नीते च करुणावशात् स्कन्दकः पालकमुवाच- 'आदौ मामेव पीलय, ममैतद् वचः कुरु, बालं मुनिं यथा पील्यमानं न पश्यामि' | पालकस्तु स्कन्दकं तत्पीडापीडितं ज्ञात्वा तमेव बालमुनिमपीलयत् । ते मुनयश्च सर्वे समुत्पन्नकेवला अव्ययपदमवापुः । स्कन्दकस्तु प्रत्याख्याय निदानं चकार दण्डक-पालककुलराष्ट्रविनाशायाऽस्य तपसः फलेन भूयासम् । एवं कृतनिदान: पालकेन पीलितो विपद्याऽग्निकुमारो देवोऽभूत् । शकुनिकया च पुरन्दरयशसा दत्तं रत्नकम्बलतन्तुजं रक्ताक्तं तद्रजोहरणमुद्धृतं यत्नेन धृतमपि दैवात् पुरन्दरयशोदेव्याः पुरः पपात । सा च भ्रातुर्मुनेर्विपदं ज्ञात्वा दण्डकमाक्रोशन्ती शोकमग्ना शासनदेवतया मुनिसुव्रतपादान्ते नीता प्राव्राजीत् । स्कन्दका - ऽग्निकुमारश्च प्राग्जन्माऽवधिना ज्ञात्वा सपालकं सनगरं दण्डकं ददाह । तत्प्रभृत्युद्वसमिदं दारुणं दण्डकारण्यं दण्डकनाम्ना भुवि विख्यातं बभूव । दण्डकोऽपि भवान् भ्रान्त्वाऽयं गन्धाख्यः स्वकर्मभिर्महारोगी पक्षीजातोऽस्मद्दर्शनाज्जातिस्मरणं प्राप्तोऽस्मत्स्पर्शोषधीलब्ध्या नीरोगो जातः । तच्छ्रुत्वा प्रसन्नः स पक्षी पुनरपि मुनिपादयोः पतित्वा धर्मं श्रुत्वा श्रावकत्वमुरीचकार । मुनिरपि तस्येप्सितं ज्ञात्वा जीवघातमांसाहाररात्रिभोजनकर्मणां प्रत्याख्यानं ददौ । युष्माकमेष साधर्मिकः । सप्तमं पर्व पञ्चमः सर्गः १४९ तस्मिन् वात्सल्यं श्रेयस्करमुक्तं जिनेश्वरैरिति राममुक्त्वा तेन चाऽस्माकमेष परमो बन्धुरित्यङ्गीगारपूर्वकं वन्दितौ तौ मुनी नभसोत्पत्याऽन्यतो जग्मतुः । रामादयश्च जटायुना सह तं दिव्यं रथमारुह्य क्रीडया विजहुः । इतश्च पाताललङ्कायां खर- चन्द्रणखात्मजौ शम्बूक - सुन्दौ तरुणावास्ताम् । पितृभ्यां निषिध्यमानोऽपि शम्बूकः सूर्यहासासिसाधनार्थं दण्डकारण्यमुपेत्य क्रौञ्चरवातीरे वंशगह्वरान्तः स्थित्वा मां यो वारयिष्यति तं हनिष्यामीत्युक्तवान् । ततः स एकाशनो, विशुद्धो, ब्रह्मचार्यधोमुखो, वटशाखायां बद्धपादो, विद्यां सप्ताहाग्रद्वादशाब्द्या सिद्धिमुपगन्त्रीं जपितुमारेभे । एवमधोमुखं तस्थुषस्तस्य दिवसचतुष्ट्याऽधिकद्वादशाब्दी व्यतिक्रान्ता । ततः सेधुकामः सूर्यहासः कोशगुप्तस्तत्र समागतः । तदानीमेव क्रीडयेतस्ततो भ्राम्यन् लक्ष्मणस्तत्रोपेत्य तमसिं दृष्ट्वा हस्तेनाऽऽदाय कोशादाकृष्य तत्तीक्ष्णत्वपरीक्षार्थं समीपस्थां वंशजालीं लुलाव । तेन च वंशगह्वरान्तरस्थस्य शम्बूकस्य शिरं कर्तितं पुरः पतितं दृष्टम् । 'अयुध्यमानोऽशस्त्रश्च मया कोऽपि हतः, मां धिगि 'त्यात्मानं निन्दयित्वा गत्वा रामायाऽशेषं वृत्तान्तं निवेद्याऽसिं च दर्शयामास । ततो राम उवाच - 'सूर्यहासोऽयमसिः अस्य साधकस्त्वया हतः अस्य कोऽप्युत्तरसाधको भविष्यति' । अत्रान्तर एव रावणस्वसा चन्द्रणखा मत्पुत्रस्याऽद्य सूर्यहासः सेत्स्यतीति कृतत्व पूजासामग्रीमादाय मुदिता तत्रोपस्थिता पुत्रस्य च्छित्रं शिरो ददर्श च । क्वाऽसि वत्स ! शम्बूकेति रुदति लक्ष्मणस्य मनोहरां पादन्यासपङ्क्तिमपश्यत् । मत्पुत्रघातकस्येयं पादपङ्क्तिरिति Page #86 -------------------------------------------------------------------------- ________________ १५० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तामनुसरन्त्यविदूर एव ससीता-लक्ष्मणमासेचनकं रामं तरुतले स्थितमपश्यत् सा । रिरंसापरवशा सुन्दरं कन्यारूपं विकृत्य कम्पमानगात्रोपतस्थे सा । ततो रामेण कुत इहाऽऽगम इति पृष्टोवाच-'अवन्तिराजस्य कन्याऽहं सौधतले सुप्ता रात्रौ केनाऽपि हृता । इहाऽरण्ये च सखड्गेन केनाऽपि विद्याधरेण दृष्टः स स्त्रीरत्नमपहृत्य न गन्तुमर्हसि मयि तिष्ठतीति तेनोक्तः । ततो द्वावपि सामर्षों युद्ध्वा विपेदाते । अहं चैकाकिनीतस्ततो भ्राम्यन्ती दैवात् त्वां प्राप्ताऽस्मि । तन्मां कुलजां कुमारी परिणय' । ध्रुवमियं काऽपि मायाविनी मां वञ्चयितुमिहाऽऽगतेति चिन्तयन्तौ राम-लक्ष्मणौ स्मेरनेत्रावन्योन्यं ददृशतुः । रामस्तामुवाच-'अहं सभार्यः, तल्लक्ष्मणमभायं भज । ततस्तेनैवमुक्ता लक्ष्मणेन च तथैवोक्ता प्रार्थनाभङ्गात् पुत्रवधाच्च क्रुद्धा गत्वा खरादीनां सर्वं पुत्रवधादिवृत्तान्तमाख्यत् । ततस्ते खरादयः क्रुद्धाश्चतुर्दशभिविद्याधरसहनै राममुपद्रोतुमभ्याययुः । ततो मयि तिष्ठति तव यद्धेनाऽलमिति प्रार्थयन्तं लक्ष्मणं-'जयाय गच्छ, सङ्कटे ममाऽऽह्वानाय सिंहनादं कुर्या' इति रामः समादिशत्। ततो रामेणाऽनुज्ञप्तो लक्ष्मणो धनुरादाय गत्वा तान् हन्तुं गरुडः सानिव प्रववृते । युद्धे प्रवर्धमाने च स्वभर्तुः सहायार्थ सा रावणस्वसा गत्वा रावणमूचे-'दण्डकारण्ये समायातौ मनुष्यौ राम-लक्ष्मणौ ते भागिनेयं जघ्नतुः । तज्ज्ञात्वा तत्र गत्वा ते स्वसृपतिः सानुजः सबलो लक्ष्मणेन युध्यमानोऽस्ति । रामश्चाऽन्यत्र सीतया सह स्थितोऽस्ति । सीता परमसुन्दरी लोकविलक्षणैवाऽस्ति, यदि तत्स्त्रीरत्नं न गृह्णासि, तद् रावणो नाऽसि' । ततो रावणः पुष्पक विमानमारुह्य तं यत्र जानकी तत्र शीघ्र याहीत्यादिशत् । तत्र विमाने समुपस्थिते च राममुग्रतेजसं दृष्ट्वा सप्तमं पर्व - पञ्चमः सर्गः भीतस्ततो व्याघ्रोऽग्नेरिव दूरे स्थितोऽचिन्तयत्-'इतो रामो दुष्प्रापः, इतश्च सीताहरणमिष्टमितीतो व्याघ्र इतस्तटी' । तद्विचार्य स्मृतिमात्रेणोपस्थितामवलोकनी विद्यां बद्धाञ्जलिरादिशत्-'मम सीताहरणे साहाय्यं कुरु' । ततः सा विद्योवाच-'रामसमीपस्थायाः सीताया हरणमसाध्यम् । तत्रैष उपायो यद् रामो लक्ष्मणं तत्सङ्केतितसिंहनादेन यथा याति तथा कुरु' । ततस्तथा कुर्विति रावणेनाऽऽदिष्टा साऽन्यत्र गत्वा लक्ष्मणसिंहनादं विचकार । तं च श्रुत्वा लक्ष्मणोऽप्रतिमल्ल इति तस्य कुतः सङ्कटमिति चिन्तयति रामे लक्ष्मणवात्सल्यात् सीतोवाच-किं विलम्बसे ? शीघ्रं गत्वा लक्ष्मणं त्रायस्व' । तत: सिंहनादेन सीतावचनेन च प्रेरितोऽशकुनान्यप्यगणयन् द्रुतं जगाम । ततो रावणो विमानादुत्तीर्य बलाद् रुदती सीतां विमाने समारोपयितुमारेभे । तद् दृष्ट्वा च क्रुद्धो जटायुर्नखचञ्चुभिर्दशग्रीवस्योरो विदारयामास । रावणोऽपि खड्गमाकृष्य तं खगं पक्षौ छित्वा भूतलेऽपातयत् । ततो निःशङ्को रावणः सीतां पुष्पके समारोप्य दुतं नभसोत्पपात । सीतारुदितं श्रुत्वा चाऽर्कजटिपुत्रो रत्नजटिर्दध्यौ-'समुद्रस्योपरि रुदितं श्रूयते, तद् नूनं रामपत्नी रावणेन ह्रियते । राम-लक्ष्मणौ च च्छलितौ । तदद्य स्वामिनो भामण्डलस्योपकरोमी'ति विचिन्त्य खड्गमाकृष्य रावणं दधाव । रावणश्च युद्धायाऽऽह्वयमानं तं हसित्वा विद्यासामर्थ्यतस्तस्याऽखिलां विद्यां जहार । तेन च स पक्षहीन: पक्षीव हतविद्यः पतित: कम्बुद्धीपे कम्बुशैलमारुह्य तस्थौ । रावणोऽपि विमानस्थो नभसा गच्छन् कामातः सीतां सानुनयमुवाच-'खेचरभूचराधीशस्य मे महिषीपदमाप्य किं रोदिषि ? रामस्तव नाऽनुरूप: । मां पति मन्यस्व' । एवं कथयति रावणे Page #87 -------------------------------------------------------------------------- ________________ १५२ पुरुष-गद्यात्मकसारोद्धारः रामं स्मरन्ती सीता नम्रमुखी तस्थौ । रावणश्च कामार्त्तस्तस्याः पादयोः पपात । सीता च परपुरुषस्पर्शभीता पादावपसारयत् । निस्त्रप! परस्त्रीलम्पट ! शीघ्रमेव तव मृत्युर्भवितेति रावणमाचुक्रोश च । तदानीं च समन्ताद् रावणस्य सारणादयो मन्त्रिणः सामन्तादयश्च संमुखाः समागतवन्तः । रावणश्च सोत्साहं महोत्सवां लङ्कापुरीमागमत् । सीता च यावद् राम-लक्ष्मणकुशलं न प्राप्नोमि तावद् न भोक्ष्ये इत्यभिग्रहं गृहीतवती । ततो रावणो लङ्कापूर्वदिशि स्थिते देवरमणोद्याने रक्ताशोकतरुतले त्रिजटयाऽऽरक्षकैश्चाऽऽवृतां जानकीं मुक्त्वा प्रमुदितः स्वं धाम जगाम ॥ ५ ॥ इति सीताहरणवर्णनात्मकः पञ्चमः सर्गः ॥५॥ Page #88 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः अथ रामो धनुर्धरो द्रुतमेव शत्रुभिः सङ्ग्राममारभमाणं लक्ष्मणमुपाजगाम । तमागच्छन्तं दृष्ट्वा किं सीतामेकाकिनीं मुक्त्वा त्वमिहाऽऽगम इति लक्ष्मणः पृष्टवान् । तव सिंहनादेनाऽऽयातोऽस्मीति रामेण प्रत्युक्तश्च लक्ष्मणः पुनरुवाच- 'मया न सिंहनादो विहितो भवता च श्रुतः, तद् नूनं वयं केनाऽपि वञ्चिताः । सीतामपहर्तुं केनाऽप्यनेनोपायेन दूरमुपनीतोऽसि तदत्र बलवत्कारणं शङ्के । ततः सीतां परित्रातुं त्वरितमेव गच्छ । अहमप्यरीन् हत्वा द्रुतमेव पृष्ठतः समागच्छामि' । "लक्ष्मणेनैवमुक्तो रामः स्वस्थानं प्राप्य सीतामनवलोक्य च मूच्छितो भुवि पपात । लब्धसंज्ञश्चोत्थाय मुमूर्षु जटायुषं दृष्ट्वा च दध्यौ - 'केनाऽपि च्छलेन मे दयिताऽपहता, तेनैव चाऽयं युध्यमानो हतः " । ततः प्रत्युपकारकामो रामः तस्य श्रावकस्य जटायुषो नमस्कारमन्त्रं ददौ । स च विपद्य माहेन्द्रे महर्द्धिको देवोऽभवत् । रामश्च सीतावेष्टुमितस्ततोऽरण्ये बभ्राम | इतश्च लक्ष्मण एक एव खरेण युध्यमान खरानुजं त्रिशिरसं खरं निवार्य युद्धोद्यतं रथस्थं जघान । तदानीमेव च पाताललङ्केश्वरचन्द्रोदरनृपतनयो विराधः सबल: समुपत्य नत्वा लक्ष्मणमूचे'तव भृत्योऽहमेतेषां तव शत्रुणां शत्रुः । इमे रावणपत्तयो मे पितरं Page #89 -------------------------------------------------------------------------- ________________ १५४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चन्द्रोदरं निर्वास्य पाताललङ्कां जगृहुः । यद्यपि तव न मत्साहाय्यप्रयोजनं तथाऽपि मां समादिश" । ततो विहस्य लक्ष्मण उवाचमया हन्यमानान् शत्रून् पश्य, पराक्रमशालिनामन्यसाहाय्याद् विजयस्त्रपाकरः । अद्यारभ्य रामस्ते स्वामी, त्वं चाऽद्य मया पाताललङ्काराज्ये स्थापितोऽसि" । ततो विराधं तत्र दृष्ट्वाऽधिकं क्रुद्धोऽभ्येत्य खरो जगाद-'विश्वासघातिन् । क्व मम पुत्र: शम्बूकः ? विराधेन किमधुना रक्ष्यसे ?" ततो विहस्य लक्ष्मणो जगाद-'तवाऽनुजस्त्रिशिरा भ्रातुप्पुत्रस्य सोत्कण्ठस्तमनुप्रेषितः, त्वामपि तत्र नेताऽस्मि । मूर्ख ! मया प्रमादेन तव पुत्रो हतः, तत्र मे पौरुष नाऽस्ति । किन्तु त्वां हत्वा कीनाशं प्रीणयामि" । तद्वचसा क्रुद्धश्च खरो लक्ष्मणं प्रहर्तुमारेभे । लक्ष्मणोऽपि क्षणेनाऽपि बाणैर्नभच्छादयामास । द्वयोर्भयङ्करो युद्ध: प्रावर्त्तत । तदानीं च 'विष्णुनाऽपि युद्धे यस्येदृशी शक्तिः स खरः प्रतिविष्णोरप्यधिक" इति नभोवाणी प्रादुर्भूता । लक्ष्मणश्चाऽस्य वधेऽपि कालविलम्ब इत्यमर्षाल्लज्जितो बाणेन खरशिरश्चिच्छेद । दूषणोऽपि च युद्धायोद्यतः ससैन्यो लक्ष्मणेन विनाशितः । ततो विराधेन सह वलितो लक्ष्मणो दूरं गत्वा सीताविरहितं रामं दृष्ट्वा परमं विषादं प्राप । रामश्च सीताविरहपीडितः पुरस्थमपि लक्ष्मणमपश्यन् नभोऽभिमुखं जगाद-"मयेदं वनं भ्रान्तं किन्तु सीता नाऽवलोकिता । हे वनदेवताः ! युष्माभिः सा न दृष्टा किम् ? अस्मिन् गहने वने एकाकिनी सीतां मुक्त्वा लक्ष्मणाय गतोऽस्मि । लक्ष्मणं च रक्षोभटसहस्राग्रे मुक्त्वेहाऽऽगतः । मम धियं धिक्" । एवं ब्रुवन् रामो मूर्च्छया भुवि पपात । ततो लक्ष्मण उवाच-'एष तव भ्राता सप्तमं पर्व - षष्ठः सर्गः लक्ष्मणोऽरीन् हत्वा समुपस्थितोऽस्मि" । तद्वचसाऽमृतेनेव सिक्तो लब्धसंज्ञो रामोऽग्रे लक्ष्मणं दृष्ट्वाऽऽलिलिङ्ग । ततो लक्ष्मण उवाच-"सिंहनादस्य कारणं सीताहरणं ध्रुवं कस्याऽपि च्छलिनः । तत्तस्य प्राणैः सहैव सीतामानेष्यामि । सम्प्रति तवृत्तान्तप्राप्तये यतामहे । एष विराधश्च पैतृके पाताललङ्काराज्ये स्थाप्यताम् । यद् मया खरयुद्धे तत् स्वीकृतम्" । विराधश्च सीताप्रवृत्तिमानेतुं विद्याधरभटान् प्रेषयामास । राम-लक्ष्मणौ च क्रुधाऽधरंनिर्दशन्तौ शोकमग्नौ तत्र तस्थतुः । विद्याधराश्च दूरं भ्रान्त्वाऽपि सीताप्रवृत्तिमप्राप्य तत्रैत्याऽधोमुखास्तस्थुः । तज्ज्ञात्वा रामस्तानब्रवीत्-'स्वामिकार्ये युष्माभिर्यथाशक्ति साधु समुद्योग: कृतः । यदि सीताप्रवृत्तिर्न प्राप्ता, तत्र न भवतो दोषः" । ततो विराधो नत्वाऽवदत्-'शोकं मा कृथाः, पाताललङ्कायां मां निवेशयितुमद्याऽऽगच्छ, तत्र सीताप्रवृत्तिरपि सुलभा स्यात्" । ततो लक्ष्मणसहितो रामो विराधेन सबलेन सह पाताललङ्काया परिसरं प्राप्तवान् । तत्र च खरपुत्रः सुन्दो रणाय महासैन्यसमन्वितोऽभ्याययौ । स च विराधेन समं भयङ्करं युद्धं चकार । ततो रामे रणं प्राप्ते चन्द्रणखावचसा सुन्दः प्रणश्य लङ्कायां रावणं शरणं ययौ । राम-लक्ष्मणौ च पाताललङ्कां प्रविश्य विराधं पैतृके पदे निवेशयामासतुः । राम-लक्ष्मणौ च खरस्य प्रासादे विराधश्च सुन्दस्य प्रासादे तस्थुः । इतश्चिरं ताराभिलाषिणः साहसगतेहिमवत्कन्दरे प्रतारिणी विद्या सिद्धा । स च तया सुग्रीवरूप: किष्किन्धपुरे गत्वा क्रीडार्थ सुग्रीवे बहिरुद्याने गते ताराविभूषितं तदन्तःपुरं प्रविवेश । Page #90 -------------------------------------------------------------------------- ________________ १५७ १५६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सत्यसुग्रीवश्चाऽपि तदैवाऽऽगतो द्वारि 'सुग्रीवोऽग्रेगत' इति वादिभिरपालैर्निरुद्धः । ततो वालिपुत्र: सुग्रीवद्वयं दृष्ट्वा सन्देहात् शुद्धान्तोपद्रवं त्रातुं शीघ्रं ययौ । कपटसुग्रीवश्च तेन शुद्धान्ते प्रविशन्निरुद्धः । तदानीं च सैनिकानां चतुर्दशाक्षौहिण्यस्तत्राऽमिलन् । द्वयोरपि तयोर्भेदमजानन्तस्तेऽर्धेऽर्धे सत्यसुग्रीवत: कपटसुग्रीवतश्च विभक्ताः । ततो द्वयोरपि सैन्ययोर्दारुणं युद्धमजनि । तत्राऽन्तरे कपटसुग्रीवो गर्जितं कुर्वन् युद्धोद्यतोऽभवत् । तौ द्वावपि युद्ध्यमानौ च्छिन्नास्त्री मल्लयुद्धेन कृतघातावन्योन्यं जेतुमसमर्थों दूरमपसृत्य तस्थतुः । ततः सत्यसुग्रीवोऽञ्जनासुतं साहाय्यार्थं समाहूय भूयोऽपि मायासुग्रीवेण युध्यमानो भेदमजानतो हनुमतः पश्यतोऽपि मायासुग्रीवः सत्यसुग्रीवं ताडयामास । तेन खिन्नश्च सत्यसुग्रीवः किष्किन्धपुराद् बहिर्निर्गत्याऽऽवासमग्रहीत् । मायासुग्रीवश्च तत्रैव स्थितोऽपि वालिनन्दनाद् निषिद्धोऽन्तःपुरप्रवेशं न लेभे । __ सत्यसुग्रीवश्चाऽधोमुखो दध्यौ-'अहो ! कोऽपि परस्त्रीलम्पटो मायापटुरेष मे शत्रुः । माया-पराक्रमाभ्यामुत्कृष्टोऽयं मया कथं वध्यः ? पराक्रमभ्रष्टं मां धिक् । धन्यो वाली, यो राज्यं तृणवत् त्यक्त्वा परमं पदं जगाम । मम कुमारश्चन्द्ररश्मिर्जगतोऽपि बलीयान् । किन्तु द्वयोर्भेदमजानन् स कं रक्षतु कं वा हन्तु ? किन्तु तेनेदं साधु समाचारितं यत् तस्याऽन्तःपुरप्रवेशो रुद्धः । अस्य पापीयसो वधाय कं बलीयांसं श्रयामि ? किं त्रिलोकीवीरं रावणं देवयज्ञभञ्जनं श्रयामि ? किन्त्वसौ प्रकृत्या स्त्रीलम्पटो मां तं च हत्वा तारां ग्रहीष्यति । ईदृशेऽवसरे खरः साहाय्यकर आसीत्, सप्तमं पर्व - षष्ठः सर्गः सोऽपि रामेण हतः । तत्तावेव राम-लक्ष्मणौ विराधस्य राज्यप्रदौ पाताललङ्कायां स्थितौ गत्वा मित्रीकरोमि" । एवं विचार्य रहसि स्वयमनुशिष्य विश्वासपात्रं दूतं प्रेषितवान्। स दूतश्च गत्वा पाताललङ्कायां विराधं प्रणम्याऽशेषं वृत्तान्तं निवेद्याऽब्रवीत्-'मम स्वामी महति व्यसने पतितः, त्वद्वारेण राम-लक्ष्मणौ शरणीकर्तुमिच्छति' । ततस्तेन सुग्रीवो द्रुतमायात्वित्युक्त इत: समेत्य सुग्रीवाय निवेदयामास । सुग्रीवश्चाऽपि द्रुतमेव ससैन्यः प्रस्थाय पाताललां प्राप्य विराधमुपस्थाय तेन सहैव गत्वा रामं नत्वाऽवोचत्-'अस्मिन् व्यसने त्वं मे गतिः' । रामोऽपि स्वयं दःख्यपि परकार्यव्यसनी तदुःखं च्छेत्तुं समाजगाम। विराधेन सीताहरणवृत्तान्तं ज्ञात्वा च बद्धाञ्जलि: सुग्रीवो रामं निवेदयामास-'त्वत्प्रसादाद् विनष्टारिः ससैन्यः शीघ्रमेव सीतायाः प्रवृत्तिमानेष्यामि' । ततो रामो विराधं विसृज्य ससुग्रीवः किष्किन्धां प्रति प्रतस्थे । ततो रामे पुरद्वारमधिष्ठिते सुग्रीवः कपटसुग्रीवं रणायाऽऽह्वास्त । मायासुग्रीवोऽपि गर्जन् शीघ्रमेवाऽभ्याजगाम । द्वावपि च मत्तौ वनगजाविवाऽयुध्येताम् । रामश्च सरूपौ तौ दृष्ट्वा संशयानः क्षणमुदासीन इव तस्थौ । ततः किञ्चिद् विचार्य रामो वज्राभिधधनुष्टङ्कारमकरोत् । तद्धवनेश्च साहसगतेः प्रतारिणी विद्या क्षणादेव पलायत । ततो मायया सर्वं विमोह्य परदारै रिरंसुकाम ! पाप ! तिष्ठेत्युक्त्वा राम एकेनाऽपि बाणेन तस्य प्राणानहार्षीत् । तत: सुग्रीवं राज्ये न्यवेशयत् । सुग्रीवश्च प्राग्वदेव निजैर्नमश्चक्रे । ततः सुग्रीवस्त्रयोदशाऽत्यन्तसुन्दरीनिजा: कन्या ग्रहीतुं प्राञ्जली राममयाचिष्ट । रामश्च सीतान्वेषणार्थं प्रयतस्व, Page #91 -------------------------------------------------------------------------- ________________ १५८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एताभिः किमित्युक्त्वा बहिरुद्याने गत्वा तस्थौ । सुग्रीवोऽपि तदाज्ञया पुरीं प्रविवेश । इतश्च लङ्कायां पुरि रावणान्तःपुरस्त्रियो मन्दोदर्यादयः खरादिहननवृत्तान्तं श्रुत्वा भृशमरुदन् । सुन्देन सह चन्द्रणखाऽपि रुदती रावणगृहे प्रविवेश । रावणं दृष्ट्वा च कण्ठे लगित्वाऽऽर्तस्वरं रुरोद । ततो रावणस्त्वद्भर्तृ-पुत्रहन्तारमचिरादेव हनिष्यामीति तां प्रबोध्य तेन शोकेन सीताविरहपीडया च शयने निपत्य तस्थौ । ततो मन्दोदरी तमुपेत्योवाच-'स्वामिन् । किं प्राकृतजनवद् निश्चेष्टस्तिष्ठसि ?' ततो रावण उवाच-'सीताविरहपीडयाऽहं निश्चेष्टोऽस्मि, यदि मम जीवितेन ते प्रयोजनं तदा सीतां प्रबोधय । अनिच्छन्तीमन्यनारी जातुचिद् न भुजे इति गुरुसाक्षिको मम नियमः' । सा च पत्युः पीडया पीडिता तत्क्षणं देवरमणोद्याने समुपेत्य सीतामुवाच- अहमेषा मन्दोदरी रावणमहिषी, तव दासीभावं स्वीकरिष्यामि, रावणं भज । त्वं धन्याऽसि, यां विश्ववन्द्यो मम पति: सेवितुमिच्छति । यदि रावणो लभ्यस्तर्हि भूचरेण रामेण तपस्विना किम्" ? ततः क्रुद्धा सीतोवाच-'क्व सिंहः क्व च शृगालः ! क्व मम पती रामः क्व च ते पतिः ! तव तस्य च दम्पतित्वं युक्तम् । यदेकोऽन्यस्त्रीषु रिरंसुरपरा च दूती । त्वं द्रष्टुमप्यनर्हा, दूरं सम्भाषणम् । इतः स्थानाद् दूरमपसर, मम दृष्टिपथं त्यज' । तदानीमेव च रावणोऽपि तत्राऽऽगतो जगाद-'सीते ! मा कुपः, मन्दोदर्यहं च तव दासतामापन्नौ, प्रसादं कुरु' । सीतया चाऽन्यतो सप्तमं पर्व - षष्ठः सर्गः मुखीभूय 'अन्तकस्तवाऽन्तिकमागतो मम हरणेन, तवाऽऽशा सर्वदा निष्फलैव स्यात्' । इत्येवं बहुश आक्रुश्यमानोऽपि कामार्त्तः पुनः पुनः प्रार्थयामास । अत्राऽवसर एव सूर्योऽस्तमुपागतः । रात्रि?रा प्रावृतत् । कामक्रोधान्धो दुर्बुद्धी रावणः सीतायारुपसर्ग कर्तु प्रचक्रमे । भयङ्कराः श्वापद-पिशाचादयो रावणविकृताः सीतासमीपमीयुः । तथाऽपि सा पञ्चपरमेष्ठिनमस्कारं स्मरन्ती न भीता न वा रावणं भेजे। अथ विभीषणः प्रातर्निशावृत्तान्तं सर्वं विज्ञाय रावणमुपेत्य सीतां चोवाच-'त्वं सर्वं स्ववृत्तान्तमाख्याहि, मा भैषीः' । ततः सीता तं मध्यस्थं परिज्ञाय नम्रमुख्येव पित्रादिवृत्तान्तमारभ्य हरणान्तं सर्वं वृत्तं निवेदितवती । तन्निशम्य रावणं प्रणम्य विभीषण उवाच-'त्वया कतमिदं कर्म कुलदोषाय । यावच्च रामो नो हन्तुमिह न समायाति तावदेव सीतां तत्र नय" । तेन च क्रुद्धो रावणो विकत्थमानो विभीषणेन पुनः पुनर्बोध्यमानोऽपि तदनादृत्य पुष्पके सीतामारोप्य क्रीडापर्वतकादिकमदर्शयत् । रतिं याचमानो रावणस्तया च रामचरणाब्जमरालयाऽविगणितो रम्यस्थानेषु भ्रान्त्वा पुनस्तामशोकवनिकायां मुक्तवान् । विभीषणश्च रावणं दुर्बोध्यं विज्ञाय कुलामात्यानाहूय लङ्काया भाविभयत्राणमपृच्छत् । तैः कृतमन्त्रश्च सुधीविभीषणः सीतानिमित्तं रक्षःकुलक्षयं रामस्य हनूमदादिसाहाय्यं च तैत्विा पुरुषार्थे कृतनिश्चयो दुर्गे यन्त्रादिरोपणं चक्रे । इतश्च कथमपि कालं गमयन् विरहार्लो रामो लक्ष्मणमनुशिष्य सुग्रीवमनुप्रेषितवान् । लक्ष्मणं च चापादिसज्जं वेश्मन्युप Page #92 -------------------------------------------------------------------------- ________________ १६० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्थितं विज्ञाय सुग्रीवोऽन्तःपुरात् सद्य एव निर्गत्योपतस्थे । लक्ष्मणेन च कुद्धेन 'निःशङ्कं सुखं तिष्ठसि, प्रतिश्रुतं विस्मृतम् ? अधुनाऽपि सीताप्रवृत्तिमानेतुं प्रयतस्वे'ति निर्भत्सितः पादयोः पतित्वा प्रमादं मे क्षमस्वेति सम्प्रार्थितवान् सुग्रीवः । ततो लक्ष्मणमग्रे कृत्वोपगम्य नत्वा स्वान् सैन्यानादिदेश-'सर्वेऽपि यूयं गत्वा सीतामन्वेषयत' । तथाऽऽदिष्टाश्च ते द्वीपादिषु ययुः । विराधो भामण्डलोऽपि च सीताहरणवृत्तान्तं निशम्य दुःखितः ससैन्य आगत्य रामं शुश्रूषमाणोऽस्थात् । सुग्रीवश्च स्वयं गच्छन् कम्बुद्वीपे रावणात् पराजयं स्मृत्वा भीतभीतं रत्नजटिनमुपगम्योवाच-"किं नाऽभ्युत्थानं करोषि ?" ततो रावणेन युद्धे स्वविद्याहरणवृत्तान्तं निवेदयन्तं तमुपरामं नीतवान् । तेन च सीतावृत्तान्तं ज्ञात्वा मुदितस्तं रत्नजटिनमाश्लिष्य रामः पुनः पुनः पप्रच्छ । तथा रावणहनने विहितसाहसं लक्ष्मणं निशम्य जाम्बवानाह-'कोटिशिलोत्पाटी रावणहन्तेत्यनन्तवीर्यमुनिनाऽऽख्यातं, तत्प्रत्ययार्थं कोटिशिलामुत्पाटय" । तत एवमस्त्वित्युक्तवन्तं लक्ष्मणं विमानेन यत्र कोटिशिलाऽस्ति तत्र नयन्ति स्म ते । ततो देवैः कृतसाधुवादं समुद्धृतकोटिशिलं दृष्ट्वा सञ्जातप्रत्ययाः किष्किन्धायामुपरामं नीत्वोचुः कपिवृद्धाः'युष्मत्तो रावणक्षयः, नीत्यनुसारेणाऽऽदौ समर्थो दूतः प्रेष्यः । स च गहनां लङ्कां गत्वा विभीषणं सीतार्पणाय कथयिष्यति, तेन बोधितेनाऽपि रावणेनाऽवज्ञातो दूतो द्रुतं त्वामुपागमिष्यति' । रामेणाऽनुमते च तद्वचसि सुग्रीवः श्रीभूतिं प्रेष्य हनूमन्तमाहूतवान् । हनूमांश्च सुग्रीवादिपरिवृत्तं राममुपगम्य नत्वा तस्थौ। रामश्च सुग्रीववणितं स्वं गव-गवाक्ष-जाम्बवदादिष्वात्मान सप्तमं पर्व - षष्ठः सर्गः मन्यतमं कथयन्तं लङ्कासमुत्पाटने रावणादिहनने सीतासमानयने च विहितोत्साहं प्रशस्य लङ्कायां सीतान्वेष्यमाणमादिश्याऽभिज्ञानायोर्मिकां दत्त्वा चूडामण्यभिज्ञानानयनाय चाऽनुशिष्याऽहं त्वद्विरहार्तस्त्वां कथमपि धृतप्राणां रावणं हतं दर्शयिष्यामीति सन्दिष्टवान् । ___ हनूमानपि लङ्कातो मदागमनं यावद्भवताऽत्रैव स्थातव्यमिति रामं प्रार्थ्य विमानेन सपरिच्छदो लङ्कां प्रत्यचालीद् । ततो गच्छन् महेन्द्रपर्वते मातामहस्य महेन्द्रस्य महेन्द्रपुरनगरं दृष्ट्वाऽनपराधमातृनिर्वासनं स्मृत्वा क्रुद्धो रणभेरीमवादयत् । ततश्च निर्गतेन सपुत्रमहेन्द्रसैन्येन हनूमत्सैन्यस्य दारुणं युद्धमजनि । महेन्द्रपुत्रः प्रसन्नकीतिर्हनूमताऽयुध्यत । ततः स्वामिकार्यविलम्बकृद् युद्धं निन्दयित्वा प्रारब्धनिर्वाहार्थं जयं मनसि ध्यात्वा रथादीन् विनाश्य प्रसन्नकीर्ति महेन्द्रमपि च गृहीत्वा नत्वा चाऽऽख्यत्-'अहं ते दौहित्रोऽञ्जनासुतो रामकार्यार्थ यामि, किन्तु प्राक्कृतागसा योधितोऽसि, क्षमस्व, राममुपगच्छ' । महेन्द्रोऽपि तमाशीर्वचोभिरभिनन्द्य राममुपजगाम । अथाऽग्रे गच्छन् हनूमान् दधिमुखाद्रौ कायोत्सर्गस्थितौ महामुनी तदनतिदूर एव विद्यासाधनतत्पराश्चतस्त्रः कुमारिकाश्च दवसङ्कटे पतितान् दृष्ट्वा विद्यया सागरजलेन तत् शमयामास । तदैव च ताः सर्वाः तौ मुनी प्रदक्षिणीकृत्य हनूमन्तमाहु:-'त्वया साधव उपसर्गात् साधु रक्षिताः, त्वत्साहाय्येन न: कालमप्राप्ताऽपि विद्या सिद्धा' । ततो हनूमता का यूयमिति पृष्टास्ता: कन्या अब्रुवन्"दधिमुखपुराधीशस्य गन्धर्वराजस्य कुसुममालाकुक्षिजा: कन्या वयम् । मत्कृते व्यग्रं खेचरमङ्गारकमन्यं वाऽविगणय्य मुनेः साहसगतेर्हन्ता ते जामाता भावीति विज्ञातवान् मत्पिता न तादृशं Page #93 -------------------------------------------------------------------------- ________________ १६२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कमपि प्राप्तवान् । अस्माभिस्तं ज्ञातुं विद्यासाधनमारब्धम् । अङ्गारकेण च तदसहमानेन विहित उपसर्गस्त्वया शमितः । षड्भिर्मासैः सिद्धियोग्या च विद्या त्वत्साहाय्यात् क्षणात् सिद्धा मनोगामिनी नाम । त्वं निष्कारणबन्धुरसि" । ततः स्वकीयं लङ्काप्रवेशं रामात् साहसगतेर्वधं च हनूमत्कथितं प्रत्याय मुदितास्ता गत्वा पितरं कथयामासुः । सोऽपि ताभिः सह द्रुतमेव सद्यो राममुपाजगाम । हनूमांश्च लां प्राप्य शालिका विद्यां दृष्ट्वा भोजनार्थ व्यात्तमुखास्तस्या मुखं गदापाणिः प्रविश्य तां विदार्य निर्ययौ । तया विद्याशक्त्या कृतं प्राकारं कर्परवद् भङ्क्त्वा तत्प्राकाररक्षं क्रुद्धं वज्रमुखं युद्धप्रवृत्तं सोऽवधीत् । ततः कोपाद् विद्याबलमाधाय तत्पुत्रीं लङ्कासुन्दरी प्रहरन्तीमनिरस्त्रां विधाय हनूमांस्तया कामार्त्तया दृष्ट उक्तश्च-'मया पितृवधक्रुधा मुधैव योधितोऽसि, त्वत्पितृघातकस्ते भर्ता भविष्यतीति मुन्युक्त्यनुसारेण वशगां मां स्वीकुरु' । ततस्तां गान्धर्वेण विवाहेन स सानुरागं स्वीकृतवान् । तया रममाणश्च तां रात्रिमतिवाह्य हनुमाल्लङ्कासुन्दरीमापृच्छय लङ्का प्राविशत् । तत्र विभीषणस्य सद्म प्राप्य तेन सत्कृत आगमकारणं पृष्टश्च 'सीतां मुञ्च, रामपत्नीहरणं हि विपत्तये' इत्युक्तवान् हनूमान् । ___पुरेत्थं बोधितोऽपि रावणः पुनरपि बोधयिष्यते मये'ति विभीषणेनोक्तश्च देवरमणोद्याने जगाम सः । रामध्यानपरायणां विरहार्ता सीतां दृष्ट्वा तां प्रशस्य रामविरहं समर्थ्य रावणमाक्रुश्य विद्यातिरोहित: सीताक्रोडेऽङ्गुलीयं पातयामास हनूमान् । तद् दृष्ट्वा च साऽत्यन्तं मुमुदे । त्रिजटा च तदैव विषण्णायाः सप्तमं पर्व - षष्ठः सर्गः सीतायाः प्रमोदोद्गमं रावणं निवेदितवती । रावणश्च तां वशगामनुमाय मन्दोदरीं तां बोधयितुं प्रेरितवान् । मन्दोदरी च गत्वाऽऽवर्जयितुं सीतामुक्तवती-'रूपेण त्वमैश्वर्य-सौन्दर्याभ्यां च दशग्रीवोऽप्रतिमौ, तद्रावणं भजस्व' । तच्छ्रुत्वा सीताऽप्यवोचत्'पापे ! कस्त्वद्भर्तुर्मुखं वीक्षेत ? रामस्य पार्श्वे मामिहाऽऽगतं लक्ष्मणं च खरादीनिव सकुटुम्बं हतं रावणं च विद्धि । उत्तिष्ठ, अतः परं त्वया न वाच्यम्' । तयैवं तजिता सा मन्दोदरी सकोपा निजस्थानं ययौ । अथ हनूमान् प्रकटीभूय नत्वा कृताञ्जलि: सीतामब्रवीत्'देवि ! दिष्ट्या रामः सलक्ष्मणो जयति । त्वत्प्रवृत्त्यर्थं रामेणाऽऽदिष्टोऽहमिहाऽऽगमम् । मयि तत्र गते रामः सपरिच्छद इहाऽऽगमिष्यति । ततः साश्रुनेत्रा सीता तमपृच्छत्-त्वं कोऽसि दुर्लद्ध्यं सागरं कथं लचितवानसि, मम दयितो राम सलक्ष्मणः प्राणिति कच्चित्, स क्वाऽऽस्ते, कथं कालं नयति ?' ततो हनूमानुवाच-'अहं हनूमान् पवना-ऽजनयोः पुत्रो विद्यया विमानेन सागरमुल्लध्येहाऽऽगतोऽस्मि । रामस्त्वद्वियोगातॊ लक्ष्मणोऽपि सौख्यशून्य एवाऽऽस्ते । भामण्डलाद्याश्च विद्याधरास्तावुपास्ते। सुग्रीवदर्शितोऽहं तव प्रवृत्तिमानेतुं रामेण स्वाङ्गुलीयकं समर्प्य प्रेषितोऽस्मि । त्वयाऽर्पितं चूडामण्यभिज्ञानं दृष्ट्वा मामत्राऽऽयातं प्रत्येष्यति प्रभुः' । ततो हनूमदाग्रहेण रामप्रवृत्तिहर्षेण च सैकविंशत्यहोरात्रप्रान्ते भोजनं चकार । तथा चूडामण्यभिज्ञानं गृहीत्वेतः शीघ्रं गच्छ, अन्यथोपद्रवो भावी । अत्र त्वामागतं ज्ञात्वा राक्षसा हन्तुमागमिष्यन्तीति हनुमन्तमवोचच्च । Page #94 -------------------------------------------------------------------------- ________________ सप्तमं पर्व - षष्ठः सर्गः amannamanna तद्वाचा क्रुद्धो दशानन उवाच-'नूनं मर्तुकामोऽसि त्वं, किन्तु दूतत्वादवध्योऽसि, सम्प्रति रासभे समारोप्य पञ्चशिखो नगरे प्रतिपथं भ्राम्यसे' । तदुक्त्या क्रुद्धः पावनिर्नागपाशं भक्त्वोत्पत्य रावणस्य किरीटं पदाघातेन कणशश्चूर्णयामास । हन्यतां गृह्यतामेष इति वदति रावणे च स पादैस्तत्पुरीं भङ्क्त्वोत्पत्य राममुपेत्य चूडामणि समार्पयत् । रामश्च सीतामिव तच्चूडामणि मुहुर्मुहुर्हदि स्पृशन्नारोपयामास । हनूमांश्च रामेणाऽऽलिङ्गितः सर्वं रावणस्य सीतायाश्च वृत्तान्तं शशंस ॥ ६ ॥ इति सीताप्रवृत्यानयनो वर्णनात्मकः षष्ठः सर्गः ॥६॥ १६४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो हनूमान् विहस्य कृताञ्जलिर्जगाद-'राम-लक्ष्मणयोः पत्तिरह, ममाऽग्रतो रावणः कः? त्वामपि स्कन्धमारोप्य रावणं मथित्वा स्वामिनोऽन्तिकं नयामि' । ततो हसित्वा सीताऽप्युवाच'त्वयि सर्वं सम्भवति । किन्तु मे परपुरुषस्पर्शो न योग्यः । ततो गच्छ, यतस्त्वयि गते रामो युद्धोद्योगं करिष्यति' । ततो हनूमानुवाच-'अहं यामि, किन्तु रक्षसां किञ्चित् स्वपराक्रमं दर्शयिष्यामि' । तत ओम् इत्युक्त्वा सीता तस्य निजं चूडामणि ददौ । सोऽपि नत्वा तत: प्रस्थाय तदेव देवरमणोद्यानं भक्तुं प्रचक्रमे । ततो रक्ताशोकादिकं विनाशयन्तं हनूमन्तं हन्तुं तदुद्याने द्वारचतुष्टयारक्षा अधावन् । किन्तु हनूमति तेषामस्त्राणि न प्रसरन्ति स्म । हनूमांस्तदुद्यानवृक्षरेव तेषां सर्वमस्त्रं सञ्जहार । तानारक्षांश्च ममन्थ । तदा तैरुद्यानारक्षसंहारं ज्ञात्वा दशग्रीवेण प्रेषितं सबलमक्षकुमारं प्रहरन्तं चिरं योधयित्वा पावनिस्तं पशुमिवाऽवधीत् । ततो भ्रातृवधं श्रुत्वाऽऽगतं कुपितमिन्द्रजितं शस्त्राशस्त्रि योधयित्वा हनूमांस्तद्भटान् विनाशयामास । तत: सैन्यं निजास्त्रं च विफलं दृष्ट्वा स रावणिर्हनूमते नागपाशास्त्रं मुमोच । तथा हृष्टेन तेन हनूमन्तं दृढं बद्धवोपरावणमुपनीतवान् । ततो रावणो मारुतिमाह-'त्वया किमप्रियं कृतम् । रामलक्ष्मणौ तु तपस्विनावाजन्म मामकीनेनाऽऽश्रितौ तुभ्यं कि दास्यतः? तद्वाचा चेहाऽऽगतमात्रस्त्वं किं प्राणसंशयं प्राप्तोऽसि ? त्वं मम सेवकोऽपि दूतभावादवध्योऽसि, शिक्षार्थं च किञ्चिद् विडम्ब्यसे' । तच्छ्रुत्वा हनूमानुवाच-'न कदाऽपि तवाऽहं सेवकः, प्रत्युत मयैव सङ्कटे रक्षितोऽसि, न कोऽपि तव तादृशो यस्त्वां लक्ष्मणात् त्रास्यते, दूरे रामात्' । Page #95 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः अथ सलक्ष्मणो रामः सुग्रीवाद्यैः परिवृतो लङ्काविजयाय नभसा प्रचचाल । भामण्डल-विराध-हनूमदादयोऽपि कोटिशो विद्याधरेन्द्राः स्वस्वसैन्यै रामं परिवृत्य चेलुः । ससैन्यो गच्छंश्च रामो वेलन्धरपर्वते वेलन्धरपुरं प्राप । तत्र च समुद्र-सेतू द्वौ नृपौ रामाग्रसैन्येनाऽयुध्येताम् । ततो नलः समुद्रं नीलश्च सेतुं बद्ध्वा रामस्याऽन्तिकमानयेताम् । रामश्च पुनरपि तौ निजे राज्ये स्थापयामास । ततः समुद्रस्तिस्रो निजकन्यका लक्ष्मणाय ददौ । तत्र निशामतिवाह्य रामः सेतु-समुद्रानुसृतः प्रातः सुवेलादि प्राप्य तत्र सुवेलं नाम नृपं जित्वा निशामुवास । प्रात: पुन: प्रस्थाय लङ्कासमीपे हंसद्वीपे हंसरथं नृपं जित्वा तत्रैव कृतनिवासस्तस्थौ । लङ्का च रामे समीपस्थेऽनिष्टशङ्कया विक्षोभं प्राप । हस्तप्रहस्तादयो रावणस्य सहस्रशः सामन्ता युद्धाय संनयन्ति स्म । रावणश्च दारुणानि रणवाद्यानि कोटिशः किङ्करैर्वादयामास । ततो विभीषणो रावणं समुपेत्य नत्वा जगाद-'क्षणं प्रसीद, मम वचो विचारय, पुरा परदारापहारेण लोकद्वयविरोधिना कुलं कलङ्कितम् । तदद्य निजभायाँ मोचयितुं रामः समुपस्थितः । तदातिथ्याय सीतां समर्पय । रामो हि सीतां ग्रहिष्यत्येव । रक्ष:कुलं चाऽशेषं त्वया सह निग्रहीष्यति । तत्पत्तिर्हनूमान् सप्तमं पर्व - सप्तमः सर्गः १६७ दृष्टपराक्रमस्त्वया । सीतानिमित्तं लोकोत्कृष्टां श्रियं मा परिहार्षीः' । तत इन्द्रजिदुवाच-'त्वमाजन्मभीरुः, इन्द्रस्याऽपि विजेतारं तातमेवं सम्भावयन् नूनं मुमूर्षुस्त्वम् । पुराऽपि त्वया दशरथवधं प्रतिज्ञाय तदप्रतिपाल्य तातस्त्वया छलितः । इहाऽऽगतं रामं च भयमुत्पाद्य ताताद् रक्षितुमिच्छसि, तन्मन्ये त्वं रामपक्षेऽसि । ततस्त्वं न मन्वयोग्यः' । तच्छ्रुत्वा विभीषण: पुनरुवाच-'नाऽहं शत्रुपक्षे, त्वमेव पुत्ररूपेण कुलनाशनः शत्रुरुत्पन्नः । पिता तवैश्वर्य-कामान्धः, त्वं च जन्मान्ध इव न किमपि वेत्सि । नृप ! अनेन पुत्रेण निजेन चरित्रेण चाऽचिरादेव विनक्ष्यसि, त्वत्कृते मुधैव शोचामि' । तेन चाऽधिकं क्रुद्धो रावणः खड्गमाकृष्य विभीषणवधायोदस्थात् । विभीषणोऽपि क्रुधा दीर्घ स्तम्भमुत्पाटय योद्धमुत्तस्थौ । कुम्भकर्ण इन्द्रजिच्च मध्ये पतित्वा तौ युद्धाद् निवार्य द्विपौ गजशालामिव स्वं स्थानं नीतवान् । अथ रावणेनाऽग्निवदाश्रयनाश इति मत्पुर्या निर्याहीति निर्भत्सितो विभीषण उपराममगात् । रक्षो-विद्याधराणां त्रिंशदक्षौहिण्यश्चाऽपि लडेशं विहाय विभीषणमनुजग्मुः । ततस्तमागच्छन्तं दृष्ट्वा सुग्रीवाद्याः क्षोभमुपाययुः । विभीषणोऽपि दूतं प्रेष्य रामाय स्वमजिज्ञपत् । रामश्च सुग्रीवमुखं प्रेक्षत । ततः सुग्रीव उवाच-'यद्यप्येते आजन्म च्छलिनः, तथाऽप्यसाविहाऽऽयातु, परैरस्य शुभा-ऽशुभं भावं ज्ञास्यामि' । ततस्तदभिज्ञो विशालो नाम खेचर उवाच-'विभीषणो राक्षसेष्वेको महात्मा धार्मिकश्च । सीतार्पणायोपदिशन्नयं भ्रात्रा Page #96 -------------------------------------------------------------------------- ________________ १६८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निर्वासितस्त्वां शरणमागात्' । तच्छ्रुत्वा रामो द्वारपालेन विभीषणं प्रवेश्य प्रणमन्तं च ससम्भ्रमं परिषष्वजे। ततो विभीषण उवाच'दुर्नयं भ्रातरं त्यक्त्वा त्वामुपस्थितोऽस्मि, सुग्रीववद् मां भक्तं विद्धि' । ततो रामस्तस्मै लङ्काराज्यं प्रतिपन्नवान् । हंसद्वीपे च दिनान्यष्टावतिवाह्य सैन्यैः परिवृतो रामो लङ्कां प्रति चचाल । तथा सेनया विंशति योजनानि पृथिव्या रुद्ध्वा सज्जोऽवतस्थे रामः । ततो रामसेना कलकलेन रावणसेनान्यो हस्त-प्रहस्ताद्याः सन्नह्य रावणं परिवठः । ततो रत्नश्रवसः प्रथमः पुत्रो भानुकर्णः सन्नह्य रथमारुह्योपेत्य रावणस्य पारिपाश्विकोऽभवत् । इन्द्रजिद्मेघवाहनौ च दशग्रीवस्य द्वयोः पार्श्वयोस्तस्थतुः । अन्येऽपि पुत्राः कोटिशः सामन्ता: शुक-मारीच-सुन्दादयोऽभ्ययुः । रावणश्च युद्धचतुरैरक्षौहिणीनामसङ्ख्यैः सहस्रदिशः प्रच्छादयन् पुर्याः प्रचचाल । नानाशस्त्रप्रहरणाश्च रावणभटा विपक्षवीरान् नामग्राहं मुहुर्मुहुः पृच्छन्तो रणाय विचेरुः । ततो रावणो रणाय पञ्चाशद् योजनान्याच्छाद्य तस्थौ । तत्र च स्वनायकान् प्रशंसन्तः परनायकान् निन्दन्तो मिथो नाम कथयन्तोऽस्त्राण्यस्त्रेर्वादयन्तो द्वयोः सैन्याः कांस्यतालवद् मिमिलुः । ततो द्वयोः सैन्ययोः शस्त्राशस्त्रि दारुणे युद्धे प्रवृत्ते वानरै राक्षससैन्यमभजि । ततो योद्घमुद्यतौ हस्त-प्रहस्तौ नल-नीलाभ्यां युयुधाते । हस्तो नलश्च प्रथमतो युध्यमानौ बाणान् ववृषतुः । तत्र नलो हस्तं नीलश्च प्रहस्तमवधीत् । ततो नल-नीलयोरुपरिष्टाद् नभस: पुष्पवृष्टिर्बभूव । ततः क्रुधा मारीचाद्या: कपिभिरयुध्यन्त । परस्परं प्रहरत्सु च तेषु रविरस्तं ययौ । ततो द्वयोरपि सैन्यानि युद्धाद् निवृत्त्य स्वान् हतानहतांश्चाऽन्वेषयन्तोऽस्थुः । प्रातश्च पुनरपि सप्तमं पर्व - सप्तमः सर्गः राक्षसभटा रामसैन्यैर्योद्धमुपस्थिताः । रावणश्च मध्येसैन्यं गजरथमारुह्याऽरीन् तृणाय मन्यमानो रणभूमिमगात् । रामसैन्यानि च नभसि देवैर्दृश्यमानानि रणाय समाजग्मुः । अथ रावणहुङ्कारप्रेरितै रक्षःसैन्यैः कपिसैन्यानि बभञ्जिरे। तेन च क्रुद्धः सुग्रीवो धनुरादायाऽधिज्यं विधाय प्रबलैः सैन्यैर्महीं कम्पयन् चचाल । ततो मम विक्रमं पश्य, त्वमिहैव तिष्ठेति सुग्रीवं निषिध्य हनूमान् प्रस्थाय राक्षससैन्यं मन्दराद्रिः सागरमिवाऽमनात् । ततो मेघवद् गर्जन् माली हनूमतेऽधावत् । द्वावपि मिथोऽस्त्राणि प्रहरन्तौ चिच्छेदाते । चिरं युद्धवा च हनूमान् मालिनं निरस्त्रं चक्रे । ततो वज्रोदरः समेत्य हनूमन्तमवोचत्-'एहि, मया युध्यस्व, मा स्म गा:' । तद्वचः श्रुत्वा क्रुद्धो हनूमान् सिंहनादं विधाय शरैस्तं छादयामास । देवेषु प्रशंसत्सु च हनूमान् युगपदस्त्राणि मुञ्चन् वज्रोदरमवधीत् । तेन च क्रुद्धो रावणपुत्रो जम्बुमाली युद्धाय हनूमन्तं डुढौके । क्रुद्धश्च हनूमांस्तं विरथं कृत्वा गुरुतरेण मुद्गरेण ताडयामास । जम्बुमाली च तेन प्रहारेण मूच्छितो भुवि पपात । ततो रोषाद् महोदरोऽन्ये च राक्षसभटा: जिघांसवो हनूमन्तं शूकरं श्वान इव वेष्टयामासुः । तैर्भुजादिषु हन्यमानश्च हनूमान् क्षणादेव सूर्यस्तमांसीव तानभाङ्क्षीत् । तत: क्रुद्धः कुम्भकर्णः शूलमादाय कपीनमथ्नात् । तं च दृष्ट्वा सुग्रीव-भामण्डलाद्या धावित्वा सिंहं व्याधा इव रुद्धवाऽस्त्राण्यमुञ्चन् । ततो मुनिवाक्यवदमोघं स्वापनास्त्रं कुम्भकर्णस्तेष्वमुञ्चत् । सुग्रीवश्च स्वं सैन्यं निद्रायमाणं दृष्ट्वा प्रबोधिनी महाविद्यां सस्मार । वानरभटाश्चोत्थाय सुग्रीवाधिष्ठिताः कुम्भकर्णमुपाद्रवन् । सुग्रीवश्च गदया कुम्भकर्णस्य रथं सारथिं वाहनानि च Page #97 -------------------------------------------------------------------------- ________________ १७१ सप्तमं पर्व - सप्तमः सर्गः दध्यतुः-'एष पितृव्योऽस्माभिर्युद्धाय स्वयमभ्येति, तातकल्पेन तेन सह युद्धमनुचितमितीतोऽपसरामि । इमौ च शत्रू पाशबद्धौ नूनं मरिष्यत इतीहैवाऽऽसातां, यथा नो तातो नाऽन्वेति', एवं विचिन्त्य नेशतुः। १७० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दलयामास । ततो भूमिष्ठः कुम्भकर्णो हस्तेन मुद्गरमुद्यम्य सुग्रीवायाऽधावत । तस्याऽङ्गवातेन च कतिपये कपयः पेतुः । कपिभिरनिरुद्धः स सुग्रीवरथं मुद्गरेण चूर्णयामास । सुग्रीवश्च नभस्युत्पत्त्य महीयसीमेकां शिलां वज्री वज्रमिव कुम्भकर्णाय मुमोच । कुम्भकर्णश्च मुद्गरेण तां शिलां चूर्णयामास । ततः सुग्रीवो रावणानुजाय दण्डास्त्रं मुमोच । तेन ताडितश्च कुम्भकर्ण उव्या पपात । भ्रातरि मूच्छिते च रावणोऽत्यन्तं क्रुद्धः साक्षादन्तक इव स्वयमचालीत् । तत इन्द्रजिद् रावणं निषिध्य कपीन् निघ्नन् कपिसैन्यं प्रविवेश । तं च रणाय निमन्त्रयन्तं सुग्रीवो मेघवाहनं च भामण्डलः शरभः शरभमिवाऽऽयोधयितुमारेभाते । ते चत्वारश्च दिग्गजा इव गतागतैर्वसुन्धरां कम्पयन्तो बाणान् ववृषुः । तत इन्द्रजिद्-मेघवाहनौ सुग्रीव-भामण्डलयोर्नागपाशं मुमुचतुः । ततो नागपाशबद्धौ तौ नि:श्वसितुमप्यशक्तावभूताम् । इतश्च लब्धसंज्ञेन कुम्भकर्णेन रोषाद् गदया ताडितः पावनिर्मूच्छितो भुवि न्यपतत् । तं च दोष्णाऽऽदाय कुम्भकर्णोऽन्तःकक्षं न्यधत्त । ततो विभीषणो राममुवाच-'तव सैन्ये सारभूतौ भामण्डल-सुग्रीवौ रावणपुत्राभ्यां बद्धौ यावद् न लङ्कां नीयेते, तावत् तावहं मोचयामि । तथा कुम्भकर्णेन दोष्णा बद्धो हनूमान् लङ्कामप्राप्त एव मोचनीयः । तान् विना नः सैन्यमवीरमिवेत्यनुजानीहि' । तस्मिन्नेवं वदत्येवाऽङ्गदो वेगाद् गत्वाऽऽक्षिप्य कुम्भकर्णेन युयुधे । क्रोधादुत्क्षिप्तबाहौ कुम्भकर्णे हनूमान् पञ्जरात् खग इवोत्पत्य ययौ । विभीषणश्च रथस्थो भामण्डलसुग्रीवौ मोचयितुं रावणपुत्राभ्यां युयुधे । ततस्तौ रावणपुत्रौ विभीषणश्च भामण्डल-कपीश्वरौ दृष्ट्वा तत्रैवाऽस्थात् । राम-लक्ष्मणौ च सचिन्तौ तस्थतुः । ततो रामो गरुडेशं पूर्वप्रतिपन्नवरं महालोचनं देवमस्मार्षीत् । स चाऽवधिना ज्ञात्वाऽभ्येत्य रामाय सिंहनिनादाख्यां विद्यां मुसलं हलं रथं लक्ष्मणाय च गारुडी विद्यां रथं विद्युद्वदनां गदां वारुणादीनि दिव्यान्यस्त्राण्युभयोश्छत्रे च ददौ । लक्ष्मणवाहनीभूतं गरुडं दृष्ट्वा च सुग्रीव-भामण्डलयोः पाशनागास्तत्क्षणं प्रणेशुः । रामसैन्ये च सर्वतो जयजयारावो जज्ञे। रविश्चाऽस्तमुपेयाय । प्रातश्च राम-रावणसैन्यानि समराङ्गणं समीयुः । तेषां च शस्त्रास्त्रादिभिर्महारण: प्रावर्त्तत । तत्र च रक्षोबलैर्वानरबलमभञ्जि। तद् दृष्ट्वा च सुग्रीवाद्या राक्षससैन्येषु प्रविविशुः । तैश्चाऽऽक्रान्ता राक्षसा गरुडै गा इव पलायामासुः । तेन क्रुद्धो रावणो रथस्थ: स्वयं दधावे । तस्य च गच्छतोऽग्रे कोऽपि कपिवीरः स्थातुं न शशाक । तद्युद्धे प्रस्थितं रामं विभीषणो निषिध्य क्षणादेवैत्य दशग्रीवं रुरोध । तं दृष्ट्वा रावण उवाच-'त्वय्यद्याऽपि मम स्नेहः, तद् गच्छ, अद्य ससैन्यौ राम-लक्ष्मणावेव हनिष्यामि । मया दत्ताभयस्त्वं समुपेत्य स्वस्थान एव तिष्ठ' । ततो विभीषण उवाच-'त्वां प्रत्यन्तक इव स्वयं चलितो रामो मया छलाद् निषिद्धः, अहं च त्वां बोधयितुकामो Page #98 -------------------------------------------------------------------------- ________________ १७२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युद्धव्याजादिहाऽऽगतः । अधुनाऽपि सीतां समर्पय, प्रसीद, मद्वचः कुरु । अहं मृत्युभयाद् राज्यलोभाद् वा न, किन्त्वपवादभयादेव राममुपगतोऽस्मि । तत्सीतामर्पय, यथा पुनरेवाऽहं त्वां श्रयामि' । तत: क्रुद्धो दशकन्धरस्तं कटुवाक्यैनिर्भय॑ धनुरास्फालयामास । विभीषणोऽपि प्रत्युक्त्वा स्वं धनुरास्फालयामास । ततो विविधान्यस्त्राणि वर्षन्तौ तौ मिथो युयुधाते । इन्द्रजित्कुम्भकर्णाद्याश्चाऽपि स्वामिभक्त्याऽधावन्त ।। ततो रामः कुम्भकर्णं लक्ष्मण इन्द्रजितमपरे चाऽपरान् रुद्धवा सागरे नक़र्नका इवाऽयुध्यन्त । एवमतिदारुणे युद्धे प्रवर्त्तमाने इन्द्रजिलक्ष्मणाय तामसास्त्रममुञ्चत् । तच्च लक्ष्मणस्तपनास्त्रेण वारयामास । ततो लक्ष्मणो नागपाशास्त्रं मुक्त्वा इन्द्रजितमबध्नात् । तेन चाऽऽक्रान्तसर्वाङ्गः स भूमौ निपपात । विराधश्च लक्ष्मणाज्ञया तं स्वरथे निक्षिप्य स्वशिबिरमनैषीत् । रामेण नागपाशास्त्रेण बद्धं कुम्भकर्णं च भामण्डलो रामाज्ञया शिबिरमनैषीत् । अन्येऽपि मेघवाहनादयो रामस्य सैनिकैर्बद्धा निजे शिबिरे निन्यिरे । तद् दृष्ट्वा च क्रोध-शोकाभ्यामाक्रान्तो रावणो विभीषणाय शूलं मुमोच । तच्च लक्ष्मणो मध्य एव बाणैः कणशश्चकार । ततो विजयार्थी रावणो धरणेन्द्रप्रदत्ताममोघविजयाख्यां महाशक्ति सर्वजगद्भयावहां समुद्दधे। ततो रामो लक्ष्मणमुवाच-'अस्माकमतिथिरेष विभीषणो हन्यते, आश्रितघातिनो नो धिक्' । तच्छ्रुत्वा च लक्ष्मणो विभीषणाग्रे गत्वा स्थित्वा रावणमाक्षिपत् । तं गरुडस्थं दृष्ट्वा रावण उवाच-'तुभ्यं शक्तिोंक्षिप्ता, मा मृथाः, अथवा म्रियस्व, यतस्त्वमेव मे हन्तव्यः' इत्युक्त्वा तां भ्रमयित्वा लक्ष्मणाय सप्तमं पर्व - सप्तमः सर्गः मुमोच । तां चाऽऽपतन्ती लक्ष्मणाद्याः स्वैः स्वैरौनिवारयामासुः । किन्तु सा शक्तिरस्त्राणि तान्यविगणय्य लक्ष्मणोर:स्थले पपात । तया विभिन्नश्च सौमित्रिभूमौ पपात । कपिसैन्ये च महान् हाहारवो जज्ञे । तेन चाऽतिक्रुद्धो रामो रावणं जिघत्सुरिवाऽऽयोधयितुमारेभे। क्षणाच्च स तं रावणं विरथं चकार । रावणश्च रथान्तरमारुरोह । एवं रामो रावणं पञ्च वारान् विरथी चकार । रावणश्च हृद्यचिन्तयत्-भ्रातृस्नेहादयं स्वयं मरिष्यति, तद्युद्धेनाऽलम् । एवं विचार्य स द्रुतं लङ्कापुरीं जगाम । रविश्चाऽस्तमुपेयाय । *** ततो रावणे गते रामो लक्ष्मणमुपेत्य तं भुवि पतितं दृष्ट्वा मूच्छित: सुग्रीवादिकृतशीतोपचारेण लब्धसंज्ञो रुदन् बहु विललाप। क्रोधाद् रावणं प्रति धावमानश्च विनयात् सुग्रीवाद्यैः 'रावणो लङ्कां गतो लक्ष्मणश्च विह्वल इति धैर्यमाधेहि, लक्ष्मणस्य संज्ञोपायं चिन्तये'ति प्रतिबोधितोऽपि भूयोऽपि विललाप । ततो विभीषण उवाच 'स्वामिन् ! अधैर्येणाऽलम्, अनया शक्त्या हतोऽपि नरो रात्रि यावज्जीवति, तन्मन्त्र-तन्त्रादिना घातप्रतीकाराय यतनीयम्' । ततो रामेण तथास्त्वित्युक्ते सुग्रीवाद्या विद्यया सप्तप्राकारान् चतुरान् राम-लक्ष्मणयोः परितो विचक्रुः । तत्र पूर्वद्वारे सुग्रीवाद्या, उदीच्यामङ्गदाद्याः, प्रतीच्यां नीलाद्या, दक्षिणस्यां च भामण्डलाद्या अस्थुः । एवं राम-लक्ष्मणौ मध्ये कृत्वा सुग्रीवाद्याः प्रजागरपरास्तस्थुः । कश्चिच्च सीताया: लक्ष्मणस्य विपतिं प्रातः रामस्य च भ्रातृसौहृदाद् मरणमाचख्यौ । तेन च वज्रेणेव हता सा भूमौ मूच्छिता Page #99 -------------------------------------------------------------------------- ________________ me ...१७५ १७४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पपात । विद्याधरीभिः कृतशीतोपचारा च लब्धसंज्ञोत्थाय करुणस्वरं मुहुर्मुहुविललाप । तां करुणं रुदती च काऽपि दयावती विद्याधर्याऽऽलोकिन्या विद्ययाऽवलोक्योवाच-'देवि ! तव देवरः प्रभाते स्वस्थो भविष्यति, रामेण सममेत्य च त्वामानन्दयिष्यति' । तद्वचसा स्वस्था च सा सूर्योदयं ध्यायन्ती जाग्रती तस्थौ । इतश्च रावणोऽपि लक्ष्मणो हत इति जहर्ष । भ्रातृ-पुत्रादिबन्धं स्मृत्वा च भृशं रुरोद मुमूर्छ च । इतश्च रामसैन्ये प्राग्द्वाररक्षकं भामण्डलमुपेत्य कोऽपि विद्याधरोऽब्रवीत्-'रामं दर्शय', लक्ष्मणजीवनौषधं कथयिष्यामि, युष्माकं हितोऽस्मि' । ततो भामण्डलेन पाणिना बाहौ धृत्वा नीतो रामं नत्वाऽब्रवीत्-अहं सङ्गीतपुरेशस्य शशिमण्डलनृपस्य सुप्रभाकुक्षिजः पुत्रः क्रीडार्थं सकलत्रश्चलितो नभसि सहस्रविजयनाम्ना विद्याधरेण दृष्टः । तेन कामविरोधाद् योधितशक्त्याऽऽहत्य भूतले पातितः साकेतपुर्यां माहेन्द्रोदयोद्याने भुवि लुठन् त्वद्भ्रात्राऽतिकृपालुना भरतेन दृष्टोऽहम् । गन्धाम्बुसेकाच्छक्त्या त्रातः सद्यो रूढव्रणो विस्मितो गन्धाम्बुमाहात्म्यमपृच्छम् । ____ ततो भरत उवाच-'विन्ध्यनामा सार्थवाहो गजपुरादिहाऽऽगात् । तस्य चैको महिषो मार्गे भारत्रुटितोऽपतत् । नागरजनश्च तच्छिरसि पादं न्यस्य गतागतं चकार । तदुपद्रवेण स महिषो विपन्नोऽकामनिर्जरायोगात् श्वेतङ्करपुरेशो नाम्ना पवनपुत्रो वायुकुमारः सुरोऽभूत् । स चाऽवधिना पूर्वं मृत्युं ज्ञात्वा क्रुद्धोऽस्मिन् पुरे जनपदे च नानाविधान् व्याधीन् व्यधत्त । किन्तु मन्मातुलस्य द्रोणमेघनृपस्य गृहे देशे च व्याधिर्नाऽभूत् । तत्कारणं मया पृष्टश्च द्रोणमेघोऽवदत्-'मम भार्या प्रियङ्करा पुराऽतिव्याधिपीडिताऽभूत् । सप्तमं पर्व - सप्तमः सर्गः जाते गर्भे च सा तत्प्रभावाद् व्याधिमुक्ता विशल्यां नाम पुत्रीं सुषुवे । विशल्यास्नानजलेन च सिक्तो लोको निर्व्याधिरभूत् । एकदा च मया पृष्टः सत्यभूतिशरणो मुनिर्दिशति स्म यद्'विशल्याया: पूर्वजन्मसुकृतफलमेतद् यदस्याः स्नानजलेन जनानां क्षतसंरोपणं शल्योपशमो व्याधिविनाशश्च । तथाऽस्या भर्ती लक्ष्मणो भावी । ततश्च तेन मुनिवचसा सम्यग्ज्ञानादनुभवाच्च विशल्या स्नानजलस्य प्रभावो मया निश्चितः' । एवमुक्त्वा द्रोणमेघो विशल्यास्नानजलं ममाऽऽर्पयद् येन मन्मही निर्व्याधिरभूत्। तत्स्नानजलेन मया सिक्तस्त्वमपि क्षणादेव सर्वपीडारहितोऽभूः । एवं भरतस्य मम विश्वासो जातः । तद् यावद् नोदेति भास्करस्तावदेव तज्जलमानीयताम्' । ततो रामो भामण्डलादीन् तज्जलानयनाय भरतं प्रति प्रेषितवान् । ते च विमानेन त्वरितमयोध्यां प्राप्य प्रासादे भरतं सुप्तं ददृशुः । ततो गीतेन तं प्रबोध्य तेन पृष्टाः सर्व वृत्तमाख्यातवन्तस्ते । स च मया तत्र गतेनैतत्कार्य सेत्स्यतीति तद्विमानमेवाऽधिरुह्य कौतुकमङ्गलं पुरं प्राप्य द्रोणघनं विशल्यां याचितवान् । स च विशल्यामुद्वाह्य स्त्रीसहस्रसहितामदत्त । भामण्डलश्च भरतमयोध्यायां मुक्त्वा सपरिवारो विशल्या सहित: समेत्य विशल्यां लक्ष्मणान्तिकं मुमोच । तस्याश्च पाणिस्पर्शमाप्य लक्ष्मणात् सहसा महाशक्तिनिर्गता समुत्पन्ती श्येनेन वर्तिकेव हनूमता गृहीतोचे-'अहं प्रज्ञप्तिभगिनी धरणेन रावणाय प्रदत्ता प्रेष्यत्वमापन्नाऽस्मि, मां मुञ्च, न मे दोषः । विशल्यातपस्तेज: सोढुमशक्ता यास्यामि' । Page #100 -------------------------------------------------------------------------- ________________ १७६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो हनूमता मुक्ता साऽन्तर्दधे । तथा विशल्या पुनरपि लक्ष्मणं पाणिना पस्पर्श, गोशीर्षचन्दनेन विलिलेप च । ततो रूढव्रणो लक्ष्मणस्तत्क्षणं प्रबुद्धो मुदितेन रामेणाऽऽलिङ्गितः । तथा रामो विशल्यावृत्तान्तं लक्ष्मणाय शसंस । तत्स्नानवारिणा च स्वान् परांश्च सिक्तवान् । रामाज्ञया लक्ष्मणश्च कन्यासहस्रसहितां विशल्यां तदानीमेव परिणीतवान् । तथा विद्याधरेश्वरैः सोत्साहं महोत्सवश्चक्रे। *** अथ लक्ष्मणो जीवित इति चरैविज्ञाय रावणो मन्त्रिभिर्मन्वयाञ्चक्रे-'दैववैपरीत्याल्लक्ष्मणो जीवितो मम मनोरथश्च सर्वो विलुप्तः । तदधुना कुम्भकर्णादयाः कथं मोचयितव्याः' । ततो मन्त्रिण ऊचुः-'सीतार्पणं विना कुम्भकर्णादीनां मोक्षोऽसम्भवः, प्रत्युताऽनिष्टमेव भावि' । रावणश्च तानगणयित्वा सामन्तं दूतमनुशिष्योपरामं प्रेषितवान् । स च गत्वा द्वारस्थो नत्वा सुग्रीवादिपरिवृतं राघवमुवाच-'रावणो निवेदयति यद् मद्वन्धुवर्ग मुञ्च, सीतां त्यज, मम राज्याधं च गृहाण, अन्यानि त्रीणि कन्यासहस्त्राणि च गहाण, तावता तोषमेहि । अन्यथा जीवितेन सह सर्वमेव गमयिष्यसि । __ ततो राघवोऽब्रवीत्- 'अर्थेन परस्त्रीभिश्च न मे प्रयोजनं, यदि रावणः सत्कृत्य वैदेहीं प्रेषयति, तदैव तद्वन्धुवर्ग मोक्ष्यामि, नाऽन्यथा' । ततः सामन्तः पुनरुवाच-'नैतत् तवोचितं, स्त्रीमात्रकृते सर्वविनाशो मूर्खतैव । एकवारं जीवितोऽपि लक्ष्मणोऽन्ये त्वं च कथं जीविष्यसि ? एकोऽपि दशग्रीवो विश्वमपि हन्तुमीश्वरः । तदायति विचार्य रावणवचो मान्यम्' । ततः क्रुद्धो लक्ष्मण उवाच-'युद्धाय रावणं सन्नद्धं कुरु, एको रावणः किं करिष्यति ? तं हन्तुं मम भुजः कृतान्त इवोद्यतोऽस्ति' । लक्ष्मणेनैवं निभित्सितो सप्तमं पर्व - सप्तमः सर्गः १७७ गदितुमनाः स दूतो वानरैर्गलहस्तेन निर्वासितो गत्वा रावणाय सर्व वृत्तान्तं निवेदितवान् । अथ रावणो मन्त्रिणोऽपृच्छत्-'अधुना किं कार्यं तद् ब्रूत'। ततो मन्त्रिण ऊचुः-'सीतार्पणमेवोचितं, तथैव बन्धवो मुक्ताः स्युः । तद्वचसा मर्माहतो दशग्रीवश्चिरं विचार्य बहुरूपाया विद्यायाः साधनं हृदि निधाय शान्तिजिनचैत्यं ययौ । तत्र स उपशान्तकषायः शान्तिस्नात्रं यथाविधि विधाय भक्त्या स्तुत्वा रत्नशिलास्थितोऽक्षमालां धारयंस्तां विद्या साधयितुमारेभे । इतश्च मन्दोदरी यमदण्डं द्वारपालं समादिशत्-'सर्वोऽपि नागरोऽष्टाहानि जिनधर्मरतोऽस्तु । आज्ञाविराधको वध्यः स्यादिति लङ्कायां पटहघोषणां कुरु' । द्वारपालश्च तदादेशं प्रतिपालितवान् । सग्रीवश्च चारैस्तज्ज्ञात्वा 'यावदेष विद्यां न साधयति, तावदेव हन्तव्य' इति राममब्रवीत् । ततो ध्यानपरायणो रावणो निश्छलेन मया कथं निग्रहीतव्य इति रामवचः श्रुत्वाऽङ्गदादयो गुप्तमेव गत्वा विविधानुपसर्गान् व्यधुः । किन्तु रावणो मनागपि ध्यानाद् नाऽचालीत् । ततोऽङ्गदः-'त्वया परोक्षे सीताऽपहता,किन्त्वहं तव पश्यत एव मन्दोदरीं हरामी'त्युक्त्वा रुदतीं मन्दोदरी कचैहीत्वाऽकर्षत् । रावणस्तदपि न गणयामास । तदैव च बहरूपिणी विद्या प्रादुर्भूय-'तव वशेऽस्मि, किं करवाणीति बहि, राघवौ कियन्मात्रौ' इत्यवोचत् । ततो रावण उवाच-'तव सर्वं साध्यं, सम्प्रति स्वं स्थानं गच्छ, स्मृता काले समागच्छेः' । एवं रावणेन विसृष्टा सा तिरोभूता । वानराश्च निजं शिबिरं जग्मुः । अथ रावणो मन्दोदर्यङ्गदवृत्तान्तं विज्ञाय क्रुद्धः स्नात्वा भुक्त्वा च देवरमणं वनं प्राप्य सीतामवोचत्-'मया चिरमनुनयः कृतः । अधुना त्वत्पति-देवरौ हत्वा त्वां बलाद् रमयिष्ये' । Page #101 -------------------------------------------------------------------------- ________________ १७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तच्छ्रुत्वा च मूच्छिता सीता भूमौ निपपात । कथञ्चित् संज्ञां लब्ध्वा च 'राम-लक्ष्मणयोर्मृत्युश्चेद् ममाऽनशनमस्त्वि'त्यभिग्रहमग्रहीत् । तच्छ्रुत्वा रावणश्चिन्तयामास-'अस्या रामे स्वाभाविकः स्नेहः । तन्मयाऽद्य यावद् न युक्तं कृतम् । अद्य चेदिमां मुञ्चामि तदा रामभीतेन रावणेन सीता मुक्तेत्यपयशो मे भवेत् । ततो राम-लक्ष्मणौ बद्धवेहाऽऽनीयैनामर्पयिष्यामि । तदेतद् धर्म्य यशस्यं च स्यात्' । एवं विचार्य स तां रात्रिमतिवाह्याऽशकुनान्यगणयन् युद्धार्थं चचाल । ततो द्वयोः सैन्ययोरे युद्धे प्रवृत्ते लक्ष्मणो राक्षसान् विधूय बाण रावणं विव्याघ । रावणश्च तत्पराक्रमं दृष्ट्वा साशङ्को बहुरूपां विद्यां स्मृत्वा स्वानि रूपाण्यनेकधा भयङ्कराणि विचक्रे । लक्ष्मणश्च सर्वतो रावणानेव दृष्ट्वा स्मृतिमात्रेणोपस्थितैर्नारायणशरैस्तान् जघान । दशकन्धरश्च तैस्ताडितोऽर्धचक्रित्वलिङ्गं चक्रं स्मृत्वा तद् नभसि भ्रमयित्वा लक्ष्मणाय मुमोच । तच्चक्रं च प्रदक्षिणीकृत्य लक्ष्मणस्य दक्षिणपाणाववतस्थे । ततो विषण्णो दशग्रीवो दध्यौ-'मुनेर्वच: सत्यं जातम् । विभीषणादीनां च निर्णय उचित इति जाने । विभीषणश्च तं तादृशं प्रेक्ष्याऽद्याऽपि सीतां मुञ्चेति बोधयामास । ततः क्रुद्धो रावणोऽवोचत्-'कि रे ! चक्रमेव मेऽस्रम् ? मुष्टिनाऽपि सचक्रमेनं द्विषं हनिष्यामि' । तदैव च लक्ष्मणस्तेनैव चक्रेण कूष्माण्डवद् रावणस्य वक्षो विदारयामास । तदा च ज्येष्ठकृष्णैकादश्यामपराणे मृतो रावणश्चतुर्थं नरकं ययौ । दिवि च देवैर्जयजयारावपूर्वकं पुष्पवृष्टिविदधे । कपयश्च प्रमुदितास्ताण्डवं चक्रुः ॥ ७ ॥ इति रावणवधवर्णनात्मकः सप्तमः सर्गः ॥७॥ अष्टमः सर्गः अथ विभीषणो भयात् पलायितान् राक्षसान् ज्ञातिस्नेहादेवमाश्वासयन्नाह-एतौ राम-लक्ष्मणावष्टमौ बलभद्र-वासुदेवौ शरणं निःशङ्कं भजध्वम्' । ततस्ते तो भेजुः । तौ च तेषु प्रसादं चक्रतुः। विभीषणश्च भ्रातरं हतं दृष्ट्वा शोकसन्तप्तो मरणेच्छया निजां छुरिकां चकर्ष । भ्रातर्घातरिति करुणं क्रन्दन्तं स्वकुक्षिचुम्बितच्छुरिकं तं रामो दधे । तथा मन्दोदर्यादिभिः सह रावणसमीपे रुदन्तं तं सलक्ष्मणो रामो बोधयन्नाह-'रावण ईदृशपराक्रमो न शोच्यः, तेन सह समरे देवा अपि नाऽलम् । वीरमृत्युं गतोऽसौ सुकीर्तिपात्रमेव। तदस्योर्ध्वदेहिकं समाचरत, रुदितैः कृतम्' । एवं तान् प्रबोध्य स रामो बद्धान् कुम्भकर्णादीन् मोचितवान् । ततो विभीषणादयः साश्रुनेत्रा: सम्भूय दशकन्धराङ्गाग्निसंस्कारं व्यधुः । ततो रामः सलक्ष्मणः कुम्भकर्णादीनाह-'वीरा: ! पूर्ववत् स्वस्वराज्यं कुरुध्वं, भवद्राज्येनाऽस्माकं न प्रयोजनम् । व: क्षेममस्तु' तदा कुम्भकर्णाद्या जगुः । 'वयं मोक्षसाम्राज्यप्रदां प्रव्रज्यां ग्रहीष्यामः' । अत्राऽवसर एव कुसुमायुधोद्याने चतुर्ज्ञान्यप्रमेयबलो मुनिः समवससार । तस्य च रात्रौ केवलज्ञाने समुत्पन्ने देवास्तन्महिमानं चक्रुः । प्रातश्च राम-लक्ष्मणौ कुम्भकर्णादयश्चोपेत्य नत्वा देशनां शुश्रुवुः । तच्छ्रुत्वा च परमं वैराग्यमापन्नाविन्द्रजिद्-मेघवाहनौ Page #102 -------------------------------------------------------------------------- ________________ १८१ १८० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः देशनान्ते निजान् पूर्वभवान् पप्रच्छतुः । ततः स महामुनिरुवाच-'इह भारते कौशाम्ब्यां नगर्यामुत्पन्नौ दरिद्रौ भ्रातरौ युवां नाम्ना प्रथमपश्चिमौ जातौ । अन्यदा भवदत्तमुनेधर्मं श्रुत्वा व्रतं गृहीत्वा निष्कषायौ विजहूतुस्तौ । ततोऽन्येद्युः कौशाम्ब्यामेव गतौ नन्दिघोषं नृपं वसन्तोत्सवे भार्ययेन्दुमुख्या क्रीडन्तं ददृशतुः । तं दृष्ट्वा च पश्चिमो निदानमकार्षीत्-ईदृक्तपसाऽनयोरहमीदृक्क्रीडापरः पुत्रो भूयासमि'ति । मुनिभिनिषिध्यमानोऽपि च स निदानाद् न न्यवर्त्तत । विपद्य च स पश्चिमस्तयो रतिवर्धनः पुत्रो बभूव । क्रमेण यौवनं प्राप्तः स राज्यमासाद्य रमणीभिः परिवृतः पितेव रेमे । प्रथममुनिस्तु निर्निदानो विपद्य पञ्चमे कल्पे परमद्धिको देवो बभूव । स चाऽवधेर्धातरं तत्रोत्पन्नं नृपं ज्ञात्वा तं बोधयितुं मुनिरूपधरः समेत्य रतिवर्धनेनाऽर्पित आसने उपविश्य भ्रातृस्नेहात् तस्य स्वस्य च प्राग्भवं कथयामास । तेन सञ्जातजातिस्मरणो रतिवर्धनः प्रव्रज्य क्रमाद् विपद्य ब्रह्मलोके देवोऽभवत् । ततश्च्युत्वा च विदेहेषु विबुद्धनगरे युवां भ्रातरौ जातौ प्रव्रज्याऽच्युतकल्पं जग्मथुः । ततश्चाऽपि च्युत्वा प्रतिविष्णो रावणस्य पुत्राविन्द्रजिद्मेघवाहनावभूताम् । रतिवर्धनमाता चन्द्रमुखी विपद्य युवयोरियं माता मन्दोदरी जाता । तद् निशम्य च कुम्भकर्णादयस्तदैव व्रतं जगृहु: । रामादयश्च मुनि नत्वा समहोत्सवं लङ्कायां प्रविविशुः । __ तत्र च पुष्पगिरिशिखरस्थोद्याने हनूमता यथाख्यातां सीतां दृष्ट्वा द्वितीयं जीवितमिव निजोत्सङ्गे चकार रामः । तदैव चाऽऽकाशे प्रमोदात् सिद्धगन्धर्वादय इयं महासती सीता जयत्विति जुघुषुः । लक्ष्मणश्च साश्रुनेत्रो मैथिली ननाम । सीता चाऽऽशीर्वादपूर्वकं लक्ष्मणं शिरस्याघ्रातवती । नमस्कुर्वन्तं सप्तमं पर्व - अष्टमः सर्गः भामण्डलं चाऽपि साऽभिननन्द । सुग्रीवादयश्चाऽपि स्वनामाख्यानपूर्वकं सीतां प्रणेमुः । ततो रामः ससीतो भुवनालङ्कारगजमारुह्य सुग्रीवाद्यैः परिवृतो रावणावासं गत्वा तदन्तःस्थं मणिस्तम्भसहस्रमण्डितं श्रीशान्तिजिनचैत्यं प्रविवेश । विभीषणापितैः पुष्पादिभिः शान्तिजिनमर्चयित्वा विभीषणस्य प्रार्थनया तद्गृहमेत्य तत्र देवार्चन-स्नान-भोजनादि चक्रे । ततो रत्नसिंहासनासीनं राममुभे वस्त्रे परिधाप्य कृताञ्जलिविभीषण उवाच-'अहं ते पत्तिरस्मि, सर्वमिदं रत्नादिकं राक्षसद्वीपं च गृहाण । त्वदाज्ञया ते राज्याभिषेकं कुर्महे, प्रसीद, मामनुगृहाण' । ततो राम उवाच-'मया पुरा लङ्काराज्यं तुभ्यं दत्तं, तत् किं विस्मरसि ?' एवं निवार्य रामस्तं तदैव लङ्काराज्येऽभिषिच्य सीतादिभिरन्वितो रावणगृहं जगाम । तत्र च विद्याधरा रामस्याऽऽज्ञया तेनोद्वोढुं प्रागङ्गीकृताः सिंहोदरादीनां कन्या आनेषुः । ततः स्वस्वाङ्गीकृताः कुमारीर्यथाविधि समहोत्सवं राम-लक्ष्मणौ परिनिन्यतुः । तथा तत्र भोगानुपभुञ्जानौ सुग्रीवाद्यैः सेव्यमानौ तौ षडब्दी व्यतीयतुः । अत्राऽन्तरे च विन्ध्यस्थल्यामिन्द्रजिद्-मेघवाहनौ सिद्धि गच्छतः। तच्च मेघरथाख्यं तीर्थं जज्ञे । नर्मदायां नद्यां च कम्भकर्णः सिद्धि प्राप । तच्च तीर्थं पृष्टरक्षितनाम्ना ख्यातमासीत् । इतश्चाऽयोध्यायां राम-लक्ष्मणयोर्वार्तामप्यजानन्त्यौ तन्मातरौ भृशं दुःखिते तस्थतुः । तदा च धातकीखण्डादागतो नारदः कुतो दुःखिते युवामिति ते पप्रच्छ । ततोऽपराजिता वनगमनादि Page #103 -------------------------------------------------------------------------- ________________ १८३ १८२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विशल्यानयनान्तं वृत्तान्तं निवेद्य तदूर्ध्ववृत्ताज्ञानाद् हा वत्सेत्येव सुमित्रामपि रोदयन्ती करुणं रुरोद । ततो नारदस्ते उवाच-'युवां सुस्थिते भवतं, युष्मत्पुत्रमुपगम्य तावानेष्यामि' । तयोरेवं प्रतिज्ञाय किम्वदन्त्या ज्ञातवृत्तो नारदो नभसा लङ्कायां राममुपेयाय । सत्कृत्य किमत्राऽऽगा इति रामेण पृष्टश्च तन्मातृदुःखवृत्तान्तमाख्यातवान् । तेन तत्क्षणं समुत्सुको रामो विभीषणमुवाच 'मातॄणां दुःखं विस्मृत्य त्वद्भक्त्येहाऽधिकमस्थाम् । अद्य तत्र यास्यामस्तदनुमन्यस्व । ततो विभीषणो नत्वोवाच-'षोडशाहान्यत्र तिष्ठ, यावत् स्वैः शिल्पिभी रम्यामयोध्यां करोमि' । रामेणैवमस्त्विति प्रोक्तश्च सोऽयोध्यां स्वर्गपुरीनिभां चक्रे । तदा रामेण सत्कृत्य विसृष्टो नारदो गत्वाऽपराजितादीनां पुत्रागमनवृत्तान्तमकथयत् । रामश्च षोडशेऽह्नि सान्तःपुरः सलक्ष्मणः पुष्पक विमानमारुह्य विभीषणादिभिरनुत्रियमाणोऽयोध्यां प्राप । भरतश्च दूरादपि रामादीन् दृष्ट्वा गजारूढः सानुजोऽभ्याजगाम । भरते आगच्छति च रामाज्ञया पुष्पकं भूमिं प्राप । आदौ च भरतः सानुजो गजादुत्ततार । राम-लक्ष्मणावपि च सोत्कण्ठौ पुष्पकादुत्तरतुः । साश्रुनेत्रं पादयोः प्रणतं भरतं च समुत्थाप्य मूनि मुहुर्मुहुश्चुम्बन् समालिलिङ्ग । शत्रुघ्नमपि च पादयोः पतितमुत्थाप्य स्ववाससा परिमृज्य परिरेभे । लक्ष्मणोऽपि प्रणमन्तौ भरत-शत्रुघ्नौ-भुजौ प्रसार्याऽऽलिलिङ्ग । कृतत्वरो रामश्च त्रिभिरनुजैः सार्द्ध पुष्पकमारुह्याऽयोध्याप्रवेशाय समादिदेश । समहोत्सवं पुरीं प्रविश्य च पुष्पकादुत्तीर्य सलक्ष्मणो रामो मातृसदनं गत्वा सर्वा मातृः प्रणनाम । ताभिश्चाऽऽशीर्वचोभिर सप्तमं पर्व - अष्टमः सर्गः भिनन्द्यत । सीताद्याश्चाऽपराजितामन्याः श्वश्रूश्च प्रणेमुः । ताश्च शुभाशिषं ददुः । अथाऽपराजिता लक्ष्मणं मुहुर्मुहुः पाणिना स्पृशन्ती मूर्ति चुम्बन्ती चैवमुवाच-'वत्स ! दिष्ट्या दृष्टोऽसि अधुना पुनर्जातोऽसि, यद् विदेशं गत्वा विजयं प्राप्येहाऽऽगमः । तवैव परिचर्यया रामः सीता च वनवासभवानि कष्टानि व्यतिनिन्यतुः । ततो लक्ष्मण उवाच-'तातेनेव रामेण त्वयेव सीतया च लालितोऽहं वनेऽपि सुखमस्थाम् । युष्मदाशीभिरेव वैरिसागरं ती| सपरिवारो राम इहाऽऽययौ । अथ भरतोऽयोध्यायां महोत्सवमकारयत् । एकदा च रामं प्रणम्य सोऽवोचत्-'आर्य ! त्वदाज्ञयेयत्कालं राज्यं मया धृतं, पित्रा सह तदैवाऽहं प्राव्रजिष्यं यदि भवदाज्ञाऽर्गला नाऽभविष्यत् । तदिदानीं मां व्रतायाऽनुमन्यस्व, स्वं राज्यं गृहाण, त्वयि प्राप्ते भवोद्विग्नोऽहमतः परं स्थातुं नोत्सहे' । ततो रामः साश्रुस्तमाह'वत्स ! मैवं वोचः, त्वमेव राज्यं कुरु, वयमिह त्वय्युत्सुका एवाऽऽगताः । राज्येन सहाऽस्माकं त्यजन् पुनर्विरहव्यथां किं ददासि? ततस्तिष्ठ, ममाऽऽज्ञां पूर्ववत् पालय' । एवमाग्रहपरं रामं ज्ञात्वा नत्वा चलितो लक्ष्मणेनोत्थाय पाणिना धृतः । तथा सीताद्या अपि व्रताय कृतनिश्चयं यान्तं भरतं ज्ञात्वा ससम्भ्रमं तत्राऽऽजग्मुः । तथा व्रताग्रहं विस्मारयितुकामास्ता भरतं जलक्रीडा) प्रार्थयामासुः । स च विरक्तोऽपि तासामनुरोधेन सान्तःपुरः क्रीडासरसि चिक्रीड । जलाद् निर्गत्य च भरतस्तत्तीरेऽस्थात् । भवनालारो गजश्च स्तम्भमृत्पाट्य तत्राऽऽययौ । भरतदर्शनाद् मदान्धोऽपि सोऽमदोऽभवत् । भरतोऽपि तं दृष्ट्वा परमां प्रीति Page #104 -------------------------------------------------------------------------- ________________ १८४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ययौ । राम-लक्ष्मणौ चोपद्रवकारिणस्तस्य गजस्य बन्धनाय ससामन्तौ तत्राऽऽशूपेयतुः । तथा स करी रामाज्ञया स्तम्भेऽनीयत हस्तिपकैः । तदैव चाऽऽगतावुद्याने समवसृतौ देशभूषणकुलभूषणमुनी वन्दितुं सपरिच्छदा रामादयस्तत्रोपगत्य नेमुः । तथा रामो मम गजो भुवनालङ्कारो भरतदर्शनात् कथममदोऽजनीति पप्रच्छ । अथ केवली देशभूषणो मुनिराख्यत्-'पुरा ऋषभप्रभुणा समं चत्वारः सहस्रा राजानः प्राव्रजन् । ते च कृतमौनेऽनाहारे प्रभौ विहरति निविण्णा वनवासिनस्तापसा जाताः । तेषु प्रह्लादनसुप्रभनृपपुत्रौ तापसौ चन्द्रोदय-सूरोदयौ भवं भ्रमतुः । चन्द्रोदयो गजपुरे हरिमतेश्चन्द्रलेखायां भार्यायां कुलङ्करः पुत्रोऽजनि । सूरोदयोऽपि गजपुर एव विश्वभूतिविप्रस्याऽग्निकुण्डायां भार्यायां श्रुतिरतिस्तनयो जातः । कुलङ्करश्च नृपस्तापसाश्रमं गच्छनवधिज्ञानिनाऽभिनन्दनमुनिनोक्त:-'तत्र पञ्चाग्नितपस्तप्यमानेन तपस्विना होतुमानीतस्य काष्ठस्य मध्ये सर्पस्तिष्ठति, स च पूर्वभवे क्षेमङ्करस्तव पितामहः । तत् काष्ठं दारयित्वा तं यत्नादाकृष्य रक्ष' । तच्छ्रुत्वा व्याकुलः स गत्वा तत् काष्ठं दारयित्वा तदन्तःस्थं सर्प दृष्ट्वा विस्मितो यावत् प्रव्रज्यामादित्सते स्म, तावच्छृतिरतिस्तमेवमाह-'अयं न वेदविहितो धर्मः, यदि तवाऽऽग्रहस्तदाऽन्तिमे वयसि दीक्षाऽऽदेया । सम्प्रति खेदेनाऽलम्' । स राजाऽपि तद्वचसा भग्नदीक्षोत्साहो मया किमत्र कर्त्तव्यमिति चिन्तयन् स्थितः । तद्राज्ञी श्रीदामा च पुरोधोऽनुरक्ता मामेष ज्ञातवानित्याशङ्कत । तथा यावदेव आवां न हन्ति तावदेवैनं सप्तमं पर्व - अष्टमः सर्गः १८५ हन्मीति पुरोधोऽनुमता विषं दत्त्वा कुलङ्करममारयत् । श्रुतिरतिरपि च मृतः । तावुभावपि चिरं भवं भ्रमतुः । ____ अन्यदा च राजगृहे कपिलद्विजस्य सावित्र्यां पत्न्यां तौ युग्मतो विनोद-रमणाख्यौ पुत्रावभूताम् । रमणश्च वेदमध्येतुं देशान्तरं गत्वाऽधीतवेदो रात्रौ राजगृहमागत्याऽकालोऽसाविति बुद्ध्या बहिरेव स्थितो यक्षमन्दिरे सर्वसाधारणोऽस्वाप्सीत् । तदानीं च तत्र विनोदभार्या शाखा दत्तेन द्विजेन समं कृतसङ्केताऽऽगात् । विनोदोऽपि च तामनु तत्राऽऽगतः । सा च दत्तं मत्त्वा रमणमुत्थाप्य तेन रेमे । विनोदश्चाऽसिमाकृष्य तं निर्विशङ्क जघान। तदा शाखया रमणच्छुरिकया विनोदोऽपि हतः । स च विनोदजीवश्चिरं भवं भ्रान्त्वा धनाख्य इभ्यपुत्रोऽभवत् । रमणश्चाऽपि भवं भ्रान्त्वा धनस्यैव लक्ष्मीकुक्षिजन्मा भूषणो नाम पुत्रो बभूव । स च धनाज्ञया द्वात्रिंशदिभ्यकन्या: परिणीय ताभिः क्रीडन् स्वसद्मतले स्थितश्चतुर्थे प्रहरे रात्रौ श्रीधरमुनेरुत्पन्ने केवले देवैरारब्धमुत्सवं ददर्श । तेन सजातधर्ममतिः सद्मन उत्तीर्य मुनि वन्दितुं चलितो मार्गे सर्पण दष्टः । ततः स शुभपरिणामाच्छुभगतीर्घान्त्वाऽत्र जम्बूद्वीपे विदेहे रत्नपुरेऽचलचक्रिणो हरिणीकुक्षिजो धर्मरतः प्रियदर्शनाख्यः पुत्रोऽभूत् । प्रविव्रजिषुरपि स पित्रनुरोधात् त्रीणि कन्यासहस्राणि परिणीयाऽपि संविग्नो गृहवासेऽपि वर्षाणां चतुष्षष्टिसहस्राणि परं तपश्चरित्वा ब्रह्मलोके देवोऽभवत् । धनोऽपि संसारं भ्रान्त्वा पोतनपुरेऽग्निमुखद्विजस्य शकुनाकुक्षिजो मृदुमतिः पुत्रोऽभवत् । स दुविनीतत्वाच्च पित्रा गृहाद् निर्वासितो धूर्तो भ्रमन् सर्वकलाकुशलो भूत्वा पुनरपि गृहमगात् । Page #105 -------------------------------------------------------------------------- ________________ १८६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र स द्यूतपरायणो देवकेभ्यो दिने दिने भूरि धनं जित्वा वसन्तसेनया वेश्यया सह भोगान् भुक्त्वाऽन्ते प्रव्रजितो ब्रह्मलोकेऽमरोऽभवत् । ततश्च्युत्वा च पूर्वभवमायादोषाद् वैताढ्ये भुवनालङ्कारो नाम गजो बभूव । प्रियदर्शनजीवोऽपि ब्रह्मलोकात् परिच्युत्य भवतो भ्राताऽयं भरतो बभूव । तदर्शनाच्च जातजातिस्मृतिरसौ गज: सद्यो गतमदो जज्ञे । एवं पूर्वभवान् श्रुत्वाऽधिकं विरक्तो भरतो नृपसहस्रेण समं व्रतमादाय मोक्षमियाय । सहस्रं ते राजानश्चाऽपि चिरं व्रतं पालयित्वा नानालब्धिसम्पन्ना अनुरूपं पदं प्राप्तवन्तः । स गजोऽपि वैराग्याद् द्विविधं तपो विधायाऽनशनं प्रपद्य विपद्य ब्रह्मलोके देवोऽभवत् । कैकेय्यपि व्रतं गृहीत्वा चिरं निरतीचारं पालयित्वाऽव्ययं पदं प्राप । सप्तमं पर्व - अष्टमः सर्गः १८७ शत्रुसैन्यं विनाश्य पुनस्तत्करे समभ्येति' । ततः शत्रुघ्न उवाच'अहं तव भ्राताऽस्मि, मया युद्धे तस्य कस्त्राता ? ततो मह्यं मथुरां पुरीं प्रयच्छ । अहं स्वयमेव मधोः प्रतीकारं करिष्यामि' । ततो रामस्तदाग्रहं ज्ञात्वाऽशिषत्-'शूलरहित: प्रमत्तश्च मधुस्त्वया योधनीयः' । तथाऽक्षय्यबाणौ तूणौ दत्वा कृतान्तवदनं नाम सेनापति सहैवाऽदिशत् । लक्ष्मणोऽपि चाऽग्निमुखान् बाणान् अर्णवावर्त धनुश्च तस्य विजयमाशंसन् ददौ । ___ अथ शत्रुघ्नः प्रस्थाय निरन्तरैः प्रयाणैर्मधुमुपेत्य नदीतटेऽवात्सीत् । तत्र प्रथमं प्रेषिताश्चराश्चैत्य शत्रुघ्नमवोचन्-'यद् मथुरापूर्वदिक्स्थे कुबेरोद्याने मधुः पत्न्या जयन्त्या सह क्रीडापरोऽस्ति, तच्छुलं चाऽधुना शस्त्रागारेऽस्ति, तेन युद्धस्य समुचितोऽयं कालः । 'ततश्छलज्ञः शत्रुजो निशि मथुरां प्रविशन् मधुं बलैरुरुधे । तत्र युद्धे च शत्रुघ्नः प्रथमं मधुपुत्रं लवणं जघान । ततः क्रुद्धो मधुर्धावित्वा शत्रुघ्नेन सह युयुधे । तयोः शस्त्राशस्त्रि युद्धे प्रवृत्ते शत्रुघ्नो लक्ष्मणप्रदत्तोऽर्णवावर्त धनुरग्निमुखान् बाणांश्चाऽस्मार्षीत् । तेन च शार्दूलं व्याध इव स मधुं जघान । तद्बाणप्रहारविह्वलो मधुरचिन्तयत्-'शूलं मम पाणौ नाऽगात्, शत्रुघ्नश्च न हतः । तन्मम जन्म मुधा गतं यज्जिनेन्द्रो नाऽचितश्चैत्यानि न कारितानि, पात्रेषु च न दत्तम् । एवं ध्यायन् भावदीक्षितो नमस्कारपरायणः स मधुविपद्य सनत्कुमारे महद्धिको देवोऽभवत् । तच्छूलं च देवतारूपं चमरान्तिकमुपेत्य च शत्रुघ्नाच्छलपूर्वकं मधुहननं शशंस । अथ मित्रवधात् क्रुद्धः स्वयं चलित: क्व यासीति गरुडेशेन वेणुदारिणा पृष्टः स्वमित्रहन्तारं मथुरास्थं शत्रुघ्नं हन्तुं यास्यामीति चमरोऽवदत् । ततो वेणुदारी पुनरुवाच-लक्ष्मणेनाऽर्धचक्रिणा अथ भरते प्रव्रजिते राजानो भक्तितो राम लक्ष्मणोऽयं वासुदेवो भवद्भिरभिषिच्यतामिति प्रार्थयामासुः । रामादिष्टाश्च ते तथैव चक्रुः । रामस्याऽपि च ते बलभद्रत्वाभिषेकं चक्रुः । द्वावपि तावष्टमौ बलभद्र-वासुदेवौ राज्यमपाताम् । ततो रामो विभीषणाय कुलक्रमागतं रक्षोद्वीपं, सुग्रीवाय कपिद्वीपं, हनूमते श्रीपुरं, विराधाय पाताललङ्का, नीलाय ऋक्षपुरं, प्रतिसूर्याय हनुपुरं, रत्नजटिने देवोपगीतपुरं, भामण्डलाय वैताढ्ये रथनूपुरं पुरमन्येभ्योऽप्यन्यद् नगरं च प्रदाय शत्रुजमुवाच-'वत्स ! यद् रोचते तं देशमुररीकुरु' । ततो मथुरां मे प्रयच्छेति तेन प्रार्थितो राम उवाच-'वत्स ! सा पुरी दुःसाध्या, तत्र मधोनूपस्य चमरेण पुराऽपितं शूलं दूरादेव Page #106 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धरणेन्द्राद् रावणेन लब्धा शक्तिर्निर्जिता, रावणोऽपि हतः, शत्रुघ्नश्च लक्ष्मणादेशाद् युद्धे मधुं जघान' । ततश्चमरेन्द्र उवाच'लक्ष्मणेन विशल्याप्रभावेण जिता शक्तिः, तस्याश्चा ब्रह्मचारिण्या विशल्यायाः स प्रभावोऽधुना नष्टः । ततस्तं मित्रघातकं हन्तुं यास्यामी'त्युक्त्वा रोषाच्छ्त्रुघ्नमहीं गत्वा तत्र सर्वं लोकं सुस्थं ददर्श । तत: स प्राक् प्रजोपद्रवेणैतं मधुरिपुमुपद्रवामीति विचार्य तत्प्रजासु विविधान् व्याधीन् व्यधात् । कुलदेवतया व्याधिकारणं ज्ञात्वा च शत्रुघ्नोऽयोध्यायामुपराम-लक्ष्मणं जगाम । तदानीं चाऽऽगतौ देशभूषण - कुलभूषणमुनी राम-लक्ष्मण - शत्रुघ्ना उपेत्य वन्दितवन्तः । १८८ तदा केन हेतुना शत्रुघ्नो मथुरां प्रत्याग्रहीति रामेण पृष्टो देशभूषणो मुनिरुवाच- 'मथुरायां शत्रुघ्नजीवोऽनेकश उत्पद्य श्रीध नाम रूपवान् मुनिसेवको विप्रोऽभूत् । स चाऽन्यदा ललिताख्यया राजमहिष्या मार्गे दृष्टो रन्तुं स्वान्तिके आनायितः । तदानीमेव चाऽतर्कितो नृपः समाजगाम । तदा क्षुभितया ललितया चौरोऽसाविति पूच्चक्रे । नृपेण च स विप्रो धृतः । नृपादेशाच्च स वधस्थानं नीतः प्रतिज्ञाव्रतः कल्याणमुनिना मोचितः प्रव्रज्य तपस्तप्त्वा दिवं प्राप । ततश्च्युत्वा मथुरायामेव चन्द्रभद्रनृपस्य काञ्चनप्रभाकुक्षिजोऽचलाख्यो नृपस्याऽतिवल्लभो बभूव । स च भानुप्रभाद्यैः सपत्नभ्रातृभिरष्टभी राजाऽयं मा भूदिति हन्तुमारेभे । ततो मन्त्रिभिर्विचार्य नंष्ट्वाऽन्यतो गत्वा भ्रमन् वने महता कण्टकेन विद्धः पथि क्रन्दन् श्रावस्तिवासिना पितृनिर्वासितेनाऽङ्कनाम्ना काष्ठभारिणा दृष्टोऽपनीतकण्टकः कृतः । सप्तमं पर्व अष्टमः सर्गः १८९ ततः सोऽचलोऽङ्कं कण्टकं प्रदायोवाच- 'त्वया साधु कृतम् । मथुरापुर्यां यदाऽचलं नृपं श्रृणोषि तदा तत्र समागच्छेः, त्वं परमोपकार्यसि' । ततोऽचलः कौशाम्ब्यां गतः सिंहगुरोरिन्द्रदत्तनृपं धन्वाभ्यासपरं ददर्श । ततः सिंहेन्द्रदत्तयोः स्वधानुष्कत्वमदर्शयत् । तत इन्द्रदत्तस्तस्मै दत्तां नाम कन्यां देशं च ददौ । स चाऽचलोऽङ्गादिकान् देशान् साधयित्वा मथुरां प्राप्याऽग्रजान् भानुप्रभादीनष्टौ युद्धे बद्ध्वा गृहीतवान् । चन्द्रभद्रश्च तन्मुक्त्यै मन्त्रिणोऽचलान्तिके प्रैषीत् । ते च मन्त्रिणोऽचलवृत्तान्तं विज्ञाय गत्वा शीघ्रमेव चन्द्रभद्रायाऽऽचख्युः । तेन दृष्टश्चन्द्रभद्रोऽचलं पुरीं प्रवेश्य तं क्रमेण लघीयांसमपि निजराज्ये निवेशितवान् । पित्रा निर्वास्यमानांश्च तान् भानुप्रभादिकान् भ्रातॄन् कथञ्चिदचलो रक्षित्वा गुप्तसेवकांश्चकार । एकदा चाऽचलो नटरङ्गस्थोऽङ्कं द्वारपालेन हन्यमानं निजान्तिकं समानीय तज्जन्मभूमिं श्रावस्तीं तस्मै ददौ । ततो द्वावपि तौ सम्भूय मित्रे राज्यं चक्राते । अन्ते समुद्राचार्यसमीपे प्रव्रज्य विपद्य ब्रह्मलोके देवोत्तमौ जातौ । ततश्च्युत्वाऽचलजीवः शत्रुघ्नोऽभूत् । तत्प्राग्जन्ममोहवशादयं मथुराग्रही । अङ्कजीव ततश्च्युत्वाऽयं सेनापतिः कृतान्तवदनो जातः । एवमुक्त्वा तौ मुनी विजहुतुः, रामादयश्च स्वं स्वं स्थानं जग्मुः । इतश्च प्रभापुरपुरेशस्य श्रीनन्दनस्य धारिणीकुक्षिजाः सुरनन्दश्रीनन्द-श्रीतिलक-सर्वसुन्दर - जयन्ता ऽमर - जयमित्राः सप्त पुत्राः क्रमादभवन् । श्रीनन्दनश्च मासजातं सुतं राज्ये न्यस्य प्रीतिकरगुरोस्तैः सुतैः सह प्रावाजीत् । तत्र श्रीनन्दनो मोक्षमियाय । सुरनन्दादयश्च तपःप्रभावाज्जङ्घाचारणलब्धयो विहरन्तो मथुरा Page #107 -------------------------------------------------------------------------- ________________ १९० पुरुष-गद्यात्मकसारोद्धारः पुरीं जग्मुः । ततस्ते प्रावृषि शैलगुहागृहमधिवास्य षष्ठाऽष्टमादितप:परायणा उत्पत्य दूरदेशेषु पारणं कुर्वन्ति स्म । तत्प्रभावाच्च मथुरायां चमरकृता व्याधयः शमं जग्मुः । अन्यदा च ते पारणायाऽयोध्यां प्राप्याऽर्हद्दत्त श्रेष्ठिनो गृहे भिक्षार्थं प्राविशन् । स श्रेष्ठी च तान् सावज्ञं नत्वा दध्यौ - 'इमे नेहत्याः साधवः, वर्षास्वपि विहरमाणाः केऽप्यन्ये साधवः, किममून् पृच्छामि' ? तस्यैवं ध्यायतस्तद्बध्वा ते प्रतिलम्भिताः । ततो द्युतेराचार्यस्य वसतिं गतास्तेनाऽभ्युत्थाय सगौरवं वन्दिताः । किन्त्वकालचारिण इति मत्वा साधुभिर्न वन्दिता: । द्युतिना च दत्तासनास्ते पारणं व्यधुः । मथुरापुर्या आयाताः सम्प्रति तत्र यास्याम इत्याख्याय च ते समुत्पत्य स्वं स्थानं ययुः । द्युति जङ्घाचारणानां तेषां गुणस्तुतिं श्रुत्वा कृतावज्ञाः साधव पश्चात्तापं चक्रुः । तच्छ्रुत्वाऽर्हद्दत्तोऽपि पश्चात्तापं कुर्वन् कार्तिकशुक्लसप्तम्यां मथुरां गत्वा चैत्यानि वन्दित्वा तान् सप्तर्षीनपि वन्दित्वा स्वयं कृतमवज्ञादोषं क्षमयामास । शत्रुघ्नोऽपि च सप्तर्षिप्रभावाच्छान्तव्याधिं देशं ज्ञात्वा कार्तिकपूर्णिमायां मथुरामियाय । तान् नत्वा मद्गृहे भिक्षां गृह्यतामिति प्रार्थयामास । राजपिण्डो न कल्पते इति तैः प्रत्युक्तश्च किञ्चित्कालमत्र स्थीयतामिति पुनः प्रार्थयामास शत्रुघ्नः । ततः प्रावृट्कालोऽयं गतः, तत्तीर्थयात्रया विहरिष्यामः । त्वं गृहिणां गृहे गृहेऽर्हद्विम्बं कारयेः, तेनाऽस्यां पुर्यां जातुचिद् न व्याधिर्भावीत्युक्त्वा समुत्पत्य ते सप्तर्षयोऽन्यत्र ययुः । शत्रुघ्नोऽपि तथाऽकरोत् । लोकोऽपि निरामयो जातः । तथा स तेषां सप्तर्षीणां रत्ननिर्मिताः प्रतिमा मथुरापुर्यां चतसृष्वपि दिक्षु चक्रे । सप्तमं पर्व अष्टमः सर्गः इतश्च वैताढ्ये दक्षिणश्रेण्यां रत्नपुरे पुरे रत्नरथनृपस्य चन्द्रमुखीकुक्षिजा मनोरमाख्या पुत्री प्राप्तयौवना जाता । कस्येयं कन्या दातव्येति चिन्तापरे नृपे नारद आगत्य लक्ष्मणयोग्येयमित्यब्रवीत् । तेन च गोत्रवैरतः कुपिता मनोरमा भ्रूसंज्ञया भृत्यान् नारदकुटनायाऽऽदिशत् । नारदश्च तान् जिघांसून् विज्ञाय पक्षीव समुत्पत्य लक्ष्मणमुपगम्य पटे लिखित्वा तां कन्यां दर्शयामास, स्ववृत्तान्तं च सर्वं शशंस । लक्ष्मणश्च तद्रूपदर्शनात् क्षणाज्जातानुरागो रामेण समं रक्षोविद्याधरैः परिवृतस्तत्राऽऽययौ । लक्ष्मणेन पराजितश्च रत्नरथस्तस्मै मनोरमां रामाय च श्रीदामां नाम कन्यां ददौ । राम-लक्ष्मणौ च सर्वां वैताढ्यदक्षिणश्रेणीं जित्वाऽयोध्यामागत्य महीं पालयन्तौ तस्थतुः । तदा लक्ष्मणस्य षोडशान्तः पुरस्त्रीसहस्रं बभूव । तासु च विशल्या रूपवतीवनमालादयोऽष्टौ महिष्योऽभवन् । पुत्राश्च तस्य सार्धे द्वे शते अभूवन् । तेष्वष्टौ श्रीधरादयो महिषीभवा आसन् । रामस्य च चतस्रः सीताद्या महिष्योऽभवन् । *** १९१ एकदा च सीता ऋतुस्नाता रात्रिशेषे विमानाच्च्युतौ शरभौ मुखे प्रविशन्तौ स्वप्नं ददर्श । तज्ज्ञात्वा च रामोऽवदत्- 'तव वीरौ सुतौ भाविनौ, किन्तु विमानाच्छरभौ च्युताविति न मम मोदाय' । तदा सीता धर्मस्य तव च माहात्म्यात् सर्वं शुभं भावीत्युक्त्वा गर्भं दधार । सा च पूर्वतोऽपि प्रियतमा सगर्भा रामस्याऽधिकं प्रियाऽभूत् । तेनेर्ष्यालवः सपत्न्यश्छलपरायणा ऊचुः - 'रावणः कीदृशोऽभूदिति लिखित्वा दर्शय' । Page #108 -------------------------------------------------------------------------- ________________ १९२ manamannamanna त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो मया रावणः सर्वाङ्गेन न दृष्टः, किन्तु तच्चरणावेव दृष्टाविति कथं तं लिखामीत्युक्तवती । ततस्तत्पादावप्यालिखेति ताभिः कृताग्रहा रावणपादावालिलेख । तदवसरे च तत्रोपस्थितो रामस्ताभिरूचे 'तव प्रिया सीताऽद्याऽपि रावणस्य स्मरति, सीतया लिखितमेतद् रावणपदद्वयं पश्य, सीता तस्यैव नाथत इति जानीहि । तत्तथा दृष्ट्वाऽपि धीरो रामोऽनुपलक्षितः सीतायां तथैव वर्त्तते स्म । सपल्यश्च निजैर्दासीजनैः सीतायास्तं दोषं जने प्राकाशयन् । अथ वसन्ते रामः सीतामब्रवीत्-'सीते ! गर्भखेदितां त्वां विनोदयितुमिव मधुलक्ष्मीरिहोपस्थिता । ततोऽधुना महेन्द्रोदयोद्यानं रन्तुं व्रजामः । सीताऽप्युद्यानभवैर्नानापुष्पर्मे देवतार्चनरूपो दोहदः पूर्यतामित्यूचे । ततस्तत्क्षणमेव रामो देवानां पूजामकारयत् । सपरिच्छदश्च महेन्द्रोदयोद्यानं जगाम । तत्र चाऽर्हत्पूजोत्सवमयं मधूत्सवं सुखासीना सीता ददर्श । तदवसरे च सा स्फुरितं दक्षिणनेत्रं साशङ्का राघवाय निवेदयामास । नेदं साध्विति रामेण कथिते च सीतोवाच'रक्षोद्वीपवासादद्याऽपि मे दुविधिर्न तुष्टः, त्वद्वियोगदुःखादधिक किमसौ दास्यति, निमित्तं हि नाऽन्यथा भवति' । ततो रामस्तामुवाच-'खेदं मा वह, सुखा-ऽसुखे कर्माधीने अवश्यमेव भोक्तव्ये' । ततो गच्छ, मन्दिरे देवार्चनं कुरु, पात्रेभ्यो दानं प्रयच्छ' । सीताऽपि तच्छ्रुत्वा सदनमेत्य रामेण यथोक्तं सर्वं तथैव चक्रे । ___अथ राजधानीमहत्तरा यथाभूतपुरीवृत्तान्तनिवेदका विजयादय उपेत्य नत्वा कम्पमानास्तस्थुः । न तु किमपि विज्ञापयामासुः । ततो रामस्तानभयं प्रदाय निवेदनायाऽऽदिशत् । ततस्तेषु मुख्यो महत्तरो विजयो विज्ञपयामास-'देव ! देव्यां प्रवादोऽस्ति, जानकी सप्तमं पर्व - अष्टमः सर्गः कामुकेन रावणेन हृत्वैकैव नीता, तद्गृहे चिरमवात्सीच्च । ततश्च सीता रक्ता विरक्ता वा तेनाऽवश्यं दूषिता भवेत् । तदेतं प्रवादं मा सहस्व' । ___ततो रामः कलङ्कितां सीतां निश्चित्य दुःखात् तूष्णीको धैर्यमालम्ब्य तानुवाच-'भवद्भिः साधु व्यज्ञपि, स्त्रीमात्रकृतेऽहमयशो न सहिष्ये' । एवं प्रतिज्ञाय तान् विसृज्य रामो रात्रौ प्रच्छन्नो गृहाद् बहिर्गत्वा पदे पदे सीतापवादं श्रुत्वा गृहमागत्य भूयोऽपि तच्छ्रवणार्थं चरानादिश्य दध्यौ-'मया यत्कृते रक्षःकुलक्षयः कृतः, तस्याः किमिदमागतम् ? सीता महासती, परस्त्रीलम्पटो रावणश्चेति जाने । कुलं च मे निष्कलङ्कम् । हा ! राम: किं करोतु ?' तदा चरा बहिर्गत्वा श्रुत्वा सीतापवादं रामस्य सपरिच्छदस्याऽब्रुवन् । तेन क्रुद्धो लक्ष्मणोऽवोचत्-'ये हेतुभिर्दोषान् कल्पयित्वा सती सीतां निन्दन्ति, तेषामहमन्तकोऽस्मि' । ततो राम उवाच-'पुरा मम महत्तरैरिदं निवेदितं, स्वयं च श्रुतं, चरैरपि समर्थितम् । सीतायाः स्वीकारवत् तत्त्यागेन जनो माऽपवादीत्' । ततो लक्ष्मणः पुनरुवाच-'लोकवचसा सीतां मा त्यज । अनिरुद्धमुखो हि जनो यथा तथाऽपवदिता' । ततो रामः पुनरुवाच-'सत्यमेतत्, लोकः सदाऽपीदृशः। किन्तु सर्वलोकविरुद्धं त्याज्यमेव' । एवमुक्त्वा रामः सेनापति कृतान्तवदनं सगर्भाऽपि सीताऽरण्ये क्वाऽपि त्यज्यतामित्यादिशत् । सीतात्यागो नोचित इति रुदन निवेदयन् लक्ष्मणो रामेण नाऽतः परं त्वया वाच्यमिति निषिद्धो नीरङ्गीच्छन्नमुखः स्वगृहं जगाम । ततो दोहदानुसारेण सम्मेतयात्राव्याजेन सीतां नीत्वाऽरण्ये त्यजेति कृतान्तवदनं रामोऽन्वशात् । सेनापतिरपि सम्मेतयात्रार्थ Page #109 -------------------------------------------------------------------------- ________________ १९४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रामाज्ञां निवेद्य सीतां रथे समारोप्य द्रुतं प्रस्थितवान् । शकुनेषु दुनिमित्तेष्वपि निर्विशङ्का रथस्था सीता दूरं मागं जगाम । ततो गङ्गासागरमुत्तीर्य सिंहनिनादके वने गत्वा कृतान्तवदनः किञ्चिद् विचारयंस्तस्थौ । तं च साश्रु खिन्नमुखं प्रेक्ष्य कथमित्थं सशोक इव स्थितोऽसीति सीता पप्रच्छ । ततः सेनापतिरुवाच-'देवि ! राक्षसगृहवासापवादाल्लोककृताद् भीतेन रामेण वने त्याजिताऽसि । अस्मिन् श्वापदाकीर्णे वने मया त्यक्ता स्वप्रभावेणैव जीविष्यसि । तच्छ्रुत्वा मूच्छिता सीता भुवि पपात । सेनापतिरपि सीता मृतेति मत्वा रुरोद । ततो वनवातेन लब्धसंज्ञा सेतोऽयोध्या कियद् दूरे ? रामः कुत्र तिष्ठति ? इति सेनान्यमपृच्छत् । ततः सेनानीरुवाच-'दूरेऽयोध्या, अनया पृच्छया किम् ? अव्याहताशस्य रामस्य वार्त्तयाऽलम्' । एवं श्रुत्वाऽपि रामभक्ता सा सेनापतिमुवाच-'भद्र ! रामस्येदं मद्वाचिकं कथये:-यदि ममाऽपवादभीतस्त्वं, तर्हि परीक्षा कथं नाऽकृथाः ? शङ्कास्थाने हि सर्वोऽपि दिव्यं लभते । मन्दभाग्याऽहं वने स्वकर्माण्यनुभोक्ष्ये । किन्तु त्वं विवेकस्य कुलस्य चाऽनुरूपं नाऽकार्षीः । यथा दुर्जनगिरा मामत्याक्षीः, तथा मिथ्यादृशां वाचा जिनधर्मं मा त्याक्षी:' । एवमुक्त्वा मूच्छिता भूमौ पतितोत्थायाऽवोचत्-'हा ! मया विना रामः कथं जीविष्यति ? हा हताऽस्मि, रामाय स्वस्ति लक्ष्मणाय चाऽऽशिषं कथयेः । शिवास्ते पन्थान: सन्तु । वत्स ! राममुपैहि' । सेनानीः कृतान्तवदनश्चैवंविधे विपरीतवृत्तौ प्रियेऽपि यैवंविधा तदियमेव सतीशिरोमणिरिति चिन्तयन् प्रणिपत्य सीतां मुक्त्वा कथञ्चित् परावृत्तवान् ॥ ८ ॥ इति सीतापरित्यागवर्णनात्मकोऽष्टमः सर्गः ॥८॥ नवमः सर्गः अथ भीता सीता वने इतस्ततो भ्राम्यन्ती स्वं निन्दन्ती रुदती पदे पदे स्खलन्ती च गच्छन्ती पुरत आगच्छद् महासैन्यं दृष्ट्वाऽभीतैव नमस्कारपरायणा तस्थौ । सैनिकाश्च प्रत्युत का नाम दिव्यरूपेयं भूस्थितेति वदन्तो बिभयाञ्चक्रुः । सीताया रुदितंश्रुत्वा च स्वरजस्तच्चमूनृप इयं सगर्भा काऽपि महासतीत्यवोचत्। तथा सीतायाः समीपं गतः । सीता चाऽऽशङ्किता स्वं नेपथ्यं समर्पितवती । ततो दयालुः स नृप उवाच-'त्वं मनागपि मा भैषीः, एतानि भूषणानि तवाऽङ्ग एव तिष्ठन्तु । का त्वं कस्त्वामिहाऽत्याक्षीत्, तदाख्याहि, मा स्म शतिष्ठाः, त्वदुःखेन दुःखितोऽस्मि' । तन्मन्त्री सुमतिश्चाऽपि सीतामुवाच-'गजवाहननृपस्य बन्धुदेवीकुक्षिजन्मा तनयो वज्रजयोऽयं पुण्डरीकपुरेशो महार्हतो महासत्त्व: परस्त्रीसहोदरः । गजान् ग्रहीतुमत्रैत्य कृतप्रयोजनश्च व्रजन्नत्राऽगात् । तन्निजदुःखमाख्याहि । ततो विश्वस्य सीताऽशेषतः स्ववृत्तान्तं निवेदितवती । ततो निश्छलो नृपो जगाद-त्वं मे स्वसाऽसि, यत एकं धर्मं प्रपन्ना मिथो बन्धवः स्युः' । तन्मम भामण्डलस्य भ्रातुरिव गृहे समेहि । स्त्रीणां हि पतिगृहादन्यद् भ्रातृगृहमेव स्थानम् । रामोऽपि हि त्वां लोकापवादभयादेवाऽत्याक्षीद् न तु स्वयम् । विरहातुरः स Page #110 -------------------------------------------------------------------------- ________________ १९६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वामचिरादेवाऽन्वेषयिष्यति' । एवं निर्विकारेण तेनोक्ता तथाऽस्त्वित्युक्त्वा तेनाऽऽनीतां शिबिकां सीता समारुरोह । पुण्डरीकपुरं गत्वा च तद्दर्शिते गृहेऽहर्निशं धर्मशीला तस्थौ । इतश्च सेनापतिर्गत्वा रामाय सीतात्यागवृत्तान्तं वाचिकं च शशंस । तदाकर्ण्य मूर्च्छया भुवि पतितं रामं लक्ष्मणः ससम्भ्रममेत्य चन्दनजलेनाऽभ्यषिञ्चत् । उत्थाय विलपन्तं च तं लक्ष्मण उवाच-'सा तस्मिन् वनेऽद्याऽपि स्वप्रभावादेव रक्षिता भवेत्, तत्स्वयं गत्वा तामन्विष्याऽऽनीयतां, यावत् सा त्वद्विरहे न विपद्यते' । तच्छ्रुत्वा तेन सेनापतिना विद्याधरैश्च सह व्योमयानेन रामस्तद् वनं प्राप । सर्वतोऽन्विष्याऽपि तां सीतामप्राप्य व्याघ्रादिना सा भक्षिता भवेदिति चिन्तया दु:खितो निवृत्त्य स्वपुरीमागतवान् रामः । सीतागुणगानपूर्वकं नागरैनिन्द्यमानस्तस्याः प्रेतकार्याणि विधाय तामेवाऽनिशं हृदि चिन्तयंस्तस्थौ । इतश्च सीता पुण्डरीकपुरे युग्मिनौ नाम्नाऽनङ्गलवणं मदनाङ्कुशं च सुतौ सुषुवे । वज्रजङ्घश्च प्रमुदितस्तयोर्जन्ममहोत्सवं नामकरणं च चकार । तौ च धात्रीभिबल्यमानौ क्रमेण वर्धमानौ विद्याग्रहणयोग्यौ जातौ । तदा च सिद्धपुत्र: सिद्धार्थोऽणुव्रती कलाकुशलस्त्रिसन्ध्यमपि मेर्वद्रौ चैत्ययात्रासु नभोगामी भिक्षार्थं सीतासदनमियाय । तया भक्ताद्यैर्भक्त्या भोजितः पृष्टश्च सुखविहारिकमुक्तवान् । सीता चाऽपि तेन पृष्टा पुत्रजन्म यावत् सर्ववृत्तान्तमाचख्यौ । ततो दयालु निमित्तज्ञ: सिद्धार्थ उवाच-'मुधा खेदं मा गाः, तव मनोरथं शीघ्रमेवैतौ लवणा-ऽङ्कुशौ पूरयिष्यतः । तेनैवमाश्वासिता सीता सानुनयं तं स्वपुत्राध्यापनाय स्वगृह एव धारयामास । स च सिद्धार्थो भव्याविति सर्वाः सप्तमं पर्व - नवमः सर्गः कलास्तौ तथाऽध्यापयामास यथा तौ देवानामपि दुर्जयावभूताम् । एवं तावधीतसकलकलौ यौवनं प्रपेदाते । ततो वज्रजो लवणेन लक्ष्मीवतीकुक्षिजां शशिचूलां पुत्री द्वात्रिंशतमन्या अपि च कन्या उदवाहयत् । अङ्कुशाय च स पृथ्वीपुरपतेः पृथुनृपादमृतवतीकुक्षिजां कनकमालिकां ययाचे । किन्त्वज्ञातवंशाय पुत्री कथं दीयतामिति तेनोक्तः क्रोधात् तमभ्यषेणयत् । ततः तत्पक्षाश्रितं व्याघ्ररथं युद्धे बद्ध्वाऽग्रहीत् । ततः पृथुः स्वमित्रं पोतनपति साहाय्यायाऽऽजुहाव । वज्रजोऽपि स्वपुरुषैर्युधि स्वपुत्रानानाययत् । तैर्वार्यमाणावपि च लवणाऽङ्कुशावपि चलितौ । ततोऽन्येधुर्द्वयोः सैन्ययोयुद्धे प्रवृत्ते पृथुसैन्यैर्वज्रजङ्घसैन्यं पराजितम् । तेनाऽतिक्रुद्धौ लवणा-ऽङ्कुशौ निरङ्कुशौ गजाविवाऽधावताम् । ताभ्यां चौजस्विभ्यां यावत् पृथुः ससैन्योऽपि नाऽभज्यत तावदेवमूचे-'अपरिज्ञातवंशाभ्यामप्यावाभ्यां ख्यातवंशा यूयं कथं पलायध्वे ?' । ___तच्छ्रुत्वा निवृत्त्य पृथुरुवाच-'अनेन विक्रमेण मया युवयोवंशो व्यज्ञायि' । एवमुक्त्वा स तदैवाऽङ्कुशाय कनकमालां प्रदाय वज्रजङ्ग्रेन सह सन्धि चकार । शिबिरं न्यस्य तत्र स्थिते वज्रजङ्घ च नारदः समाजगाम । तेन सत्कृत्य पृथुप्रतिज्ञातमङ्कुशाय कन्यादानमूचे च । तथा लवणा-ऽङ्कुशयोर्वंशं पृथुतोषायाऽऽख्याहीति प्रार्थितश्च । ततो नारदो विहस्य भगवन्तमृषभमारभ्य लोकापवादात् सीतात्यागान्तं सर्वमुदन्तं शशंस । तच्छ्रुत्वा हसित्वाऽङ्कुश उवाच-'अयोध्येत: कियद् दूरे?' षष्ट्यधिकं शतयोजनमिति मुनिनोक्तश्च तत्र गत्वा राम-लक्ष्मणौ द्रष्टुं वज्रजङ्घमुवाच । Page #111 -------------------------------------------------------------------------- ________________ १९८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वज्रजकोऽपि तद्वाचं प्रतिपद्य तं कनकमालया समहोत्सवं पर्यणाययत् । ततो वज्रजङ्घ-पृथुभ्यां समन्वितौ लवणा-ऽङ्कुशौ बहून् देशान् साधयन्तौ लोकपुरमीयतुः । ततो युद्धे तन्नृपं कुबेरकान्तं जित्वा लम्पाकदेशेषु तन्नृपमेककर्णाख्यं विजयस्थल्यां भ्रातृशताख्यं च नृपं वशगं विचक्राते । ततो गङ्गामुत्तीर्य कैलासस्योत्तरां दिशं गच्छन्तौ नन्दनचारूणां देशानां जयं विधाय ऋष-कुन्तलादींश्च देशानधिकृत्य सिन्धोः परकूलं प्राप्याऽऽर्या-ऽनार्यांश्च नृपान् साधयामासतुः । ततो निवृत्त्य पुण्डरीकपुरमेत्य स्वगृहं नागरैः प्रशस्यमानौ प्रविश्य सीतायाश्चरणौ प्रणेमतुः । सीता च तयोः साशिषं मूनि चुचुम्ब । सप्तमं पर्व - नवमः सर्गः इतश्च भामण्डलो नारदात् तच्छ्रुत्वा सीतामुपेत्य सर्वं वृत्तं विज्ञाय त्वत्त्यागमिव रभसा पुत्रयोर्वधं राघवौ मा कार्टामित्युक्त्वा तां स्वविमानेऽधिरोप्य लवणा-ऽङ्कुशयोः स्कन्धावारं जगाम । ताभ्यां च मातुलोऽयमिति सीतया कारितपरिचयाभ्यां नमस्कृतस्तौ शिरसि चुम्बित्वाऽङ्कमधिरोप्य च सहर्षमूचे-'मम भगिनी वीरपत्नी सम्प्रति युवाभ्यां वीरसूरपि, वीरपुत्रौ वीरौ युवां पितृ-पितृव्याभ्यां युद्धं मा कार्टाम् । रावणस्याऽपि हन्त्रीस्तयोर्युवाभ्यां युद्धं कथम्?' तच्छ्रुत्वा तावूचतुः-'स्वसेव कातरं वचो मा वोचः । तातयोर्न कोऽपि प्रतिमल्ल इत्यावामपि विद्वहे, तद्युद्धं त्यक्त्वा तयोहिये कथं भविष्याव: ?' एवं ब्रुवतोरेव तयोर्द्वयोः सैन्ययोयुद्धं प्रववृते । भामण्डलश्च सुग्रीवाद्यैर्विद्याधरैरनयोर्भूचरं सैन्यं हतं स्यादिति शङ्कया युधि ययौ । तौ कुमारावपि च युद्धायोत्तस्थाते । सुग्रीवाद्या विद्याधराश्च युध्यमाना युधि भामण्डलं दृष्ट्वा काविमाविति पप्रच्छु: । ततो रामपुत्राविमाविति विज्ञाय गत्वा सीतां प्रणम्य भुवि समुपविविशुः । इतश्च वीरौ लवणा-ऽङ्कुशौ क्षणेनाऽपि रामसैन्यं हतविद्रुतं विधाय राम लक्ष्मणं चेयतुः । तौ दृष्ट्वा चाऽन्योन्यमूचतु:'काविमौ ? निसर्गादनयोर्मन: स्निह्यति' । एवमुक्तवन्तं रामं लवणो लक्ष्मणं चाऽङ्कुशोऽवोचताम्-'रावणस्याऽपि जेतारं वीरयुद्धश्रद्धालुरहं त्वां दिष्ट्याऽद्राक्षम् । रावणेनाऽप्यपूरिता ते युद्धेच्छैष पूरयिष्यामि । त्वं च मम तत् पूरयिष्यसि' । ततो राम-लक्ष्मणौ लवणा-ऽकुशौ च स्वं स्वं धनुरास्फालयामासः । ततो रामस्य कृतान्तवदनो लवणस्य वज्रजङ्घो लक्ष्मणस्य विराधोऽङ्कुशस्य अथ तौ वज्रजङ्घमूचतुः-'त्वया सहाऽयोध्याऽभियातव्या, ततोऽनुतिष्ठ, तथा लम्पाक-ऋषादिनृपान् आज्ञापय । येनाऽद्याऽऽवयोर्माता त्यक्ता तस्य विक्रमः प्रेक्षणीयः'। तच्छ्रुत्वा रुदती वारयन्ती च सीतोचे-रावणस्य हन्तारौ देवैरपि दुर्जयो राम-लक्ष्मणौ पूज्यौ विनयादेवाऽवलोकनीयौ' । ततस्तावूचतुः-'त्वत्त्यागिनि शत्रुभूते को विनय: ? तव पुत्रावावामिति लज्जाकरं वचो गत्वा तस्याऽग्रे कथं स्वयं कथयिष्याव: ? तस्य पितुरपि कुलद्वययशस्करं युद्धाह्यनमेव युज्यते' । एवमुक्त्वा तौ ससैन्यानुपायोध्यं योद्धुकामावूषतुः । द्विषबलं पुराद् बहिरायातं श्रुत्वा च विस्मिती कृतस्मितौ च राम-लक्ष्मणौ । ततो लक्ष्मण: केडमी मर्तुकामाः समापेतुरित्युक्त्वा रामेण सह सुग्रीवादिभिः परिवृतो युद्धे चचाल । Page #112 -------------------------------------------------------------------------- ________________ २०१ २०० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च पृथुः सारथयो रथं चतुरं भ्रमयामासुः । ते च चत्वारो द्वन्द्वयोधिनो विविधं प्रजहुः । तत्र रामो विविधैरायुधैर्युद्ध्वा युद्धान्तेच्छू रथमरिं प्रति वाह्येत्युक्तवान् । ततोऽश्वो न शक्तोऽहमपि च द्विषो बाणाघातैरसमर्थ इति सारथिनोक्तो रामोऽप्यभाषिष्ट-'ममाऽपि वज्रावतं धनुः शिथिलायते, मुशलरत्नं हलरत्नं चाऽपि शत्रुदलनेऽक्षमं जातम् । सदा शत्रुनाशकानां ममाऽस्त्राणां केयं दुरवस्था सम्प्राप्ता ?' एवमेवाऽङ्कुशेन युद्ध्यमानस्य लक्ष्मणस्याऽपि मोघास्त्रता जाता । अत्राऽवसरे च लक्ष्मणोऽङ्कुशेनोरसि बाणेन ताडितो मूच्छितो रथेऽपतत् । रथमादायाऽयोध्यां प्रति चलिते विराधे च लब्धसंज्ञः साक्षेपमूचे-'विराध ! किं नवमकृथाः? वीरस्यैतदनुचितम् । तद्रथं शीघ्रं तत्रैव नय, यथा चक्रेण द्विषः शिरश्छिनद्मि । एवमुक्तो विराधोऽङ्कुशं प्रति रथमानैषीत् । ____ लक्ष्मणश्च तिष्ठ तिष्ठेति वदन् चक्रं गृहीत्वा भ्रमयित्वा चाऽङ्कुशाय मुमोच । अस्त्रैरङ्कुशेनाऽनेकशस्ताडितमपि सर्वात्मनाऽप्रतिहतं तच्चक्रं वेगेनाऽऽपत्याऽङ्कुशस्य प्रदक्षिणां विधाय पक्षी स्वनीडमिव पुनर्लक्ष्मणहस्तौ समागात् । तेन पुनर्मुक्तमपि तच्चक्रं तथैव पुनस्तत्पाणिमेवाऽऽगमत्। ततो विषण्णौ राम-लक्ष्मणौ'किमावां न, किन्त्विमावेव बलभद्र-वासुदेवावि'ति दध्यतुः । अत्राऽवसरे नारदः सिद्धार्थेन सह तत्रोपेत्य खिन्नं सलक्ष्मणं राममुवाच-'हर्षस्थाने किमयं विषादः ? पुत्रात् पराजयो हि वंशोद्योतनाय । इमौ न शत्रू, किन्तु सीताकुक्षिजन्मानौ पुत्रौ लवणाऽकुशौ त्वां द्रष्टुं युद्धव्याजेनाऽत्राऽऽगतौ । तत्रेदमभिज्ञानं यच्चक्रं सप्तमं पर्व - नवमः सर्गः नाऽनयोः प्रबभूव । पुरा भरतस्य चक्रमपि बाहुबली मुधाऽभूत् । ततो नारदः पुनः सीतायास्त्यागमारभ्य पुत्रयुद्धान्तं सर्वं वृत्तमाशशंस । रामश्च तच्छ्रुत्वा विस्मय-लज्जा-खेद-मोदसमाकुलो मूच्छितश्चन्दनजलेन सिक्तो लब्धसंज्ञ उदश्रुर्लक्ष्मणेन सह पुत्रवात्सल्यात्तयोरन्तिकं जगाम । तौ च लवणा-ऽङ्कुशौ विनीतौ सद्यो रथादवतीर्य निरस्त्रौ पितृ-पितृव्ययोः पादेषु पेततुः ।। रामश्च तावालिङ्ग्य क्रोडे कृत्वा शिरसि चुम्बन् शोकस्नेहसमाकुल उच्चै रुरोद । लक्ष्मणश्चाऽपि तौ निजोत्सङ्गमारोप्य शिरसि चुम्बन् साश्रुर्बाहुभ्यां परिरेभे । एवमेव शत्रुघ्नोऽपरे च नृपाः प्रमोदन्ते स्म । सीता तु पुत्रयोविक्रमं पित्रा सह तयोः सङ्गमं च दृष्ट्वा हृष्टा विमानेन पुण्डरीकपुरं ययौ । वज्रजङ्घनपोऽपि भामण्डलाख्यातो राम-लक्ष्मणौ पत्तिरिव ननाम । रामश्च त्वं मे भामण्डलसमोऽसि, यो मे पुत्राववर्धयस्त्वमिमामवस्थामनैषीश्चेत्युक्त्वा पुष्पकारूढस्ताभ्यां पुत्राभ्यां सह पुरीं प्रविश्य नागरैर्दूश्यमानः स्तूयमानश्च गृहं गत्वोत्ततार, महान्तमुत्सवं च कारयामास । अथ रामं लक्ष्मण-सुग्रीवाद्या: सम्भूय व्यजिज्ञपन्-'त्वया विरहिता परदेशे स्थिता सीताऽमूभ्यां कुमाराभ्यां विनाऽतिकष्टेन जीवति, यद्यादिशसि, तमुद्य तामिहाऽऽनयामः, अन्यथा पति-पुत्रवियुक्ता सा विपत्स्यते' । ततो राम: किञ्चिद् विचार्योवाच'सीताया आनयने लोकापवादो महाविघ्नः । सीता सतीति जाने। ततस्सा सर्वलोकसमक्षं दिव्यं करोतु, शुद्ध्या च तया सह मे पुनर्गृहवासो-ऽस्तु' । तत एवमस्त्वित्युदित्वा पुर्या बहिर्मण्डपान् Page #113 -------------------------------------------------------------------------- ________________ २०२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदन्तर्मञ्चश्रेणीश्च कारयामासुः । तेषु च भूपा नागरादयश्चोपाविशन् । सुग्रीवश्च रामाज्ञयोत्थाय स्वयं पुण्डरीकपुरे गत्वा नत्वा च वैदेहीमुवाच-'त्वत्कृते रामेण प्रेषितं पुष्पकमधिरुह्य रामसमीपमुपैहि' । तत: सीतयाऽरण्यत्यागदुःखं मेऽद्याऽपि न शाम्यति, तत् पुनर्दुःखान्तरप्रदं रामं कथं यामीत्युक्तः पुनर्नत्वा तव शुद्धये पौरादिभिः सह राघवो मञ्चारुढोऽस्तीत्युक्तवान् । ततः पूर्वत एव शुद्धिकाङ्क्षिणी जानकी विमानमारुह्याऽयोध्यां जगाम । माहेन्द्रोदयोद्यानं प्राप्य च तत उत्ततार । लक्ष्मणेनोपेत्य दत्तार्घा च नृपैरपि नमश्चक्रे । ततः सन्पो लक्ष्मण उवाच-'देवि ! निजां परी निजं गृहं च प्रवेशात् पावय' । प्राप्तशुद्धिरिमां पुरीं गृहं च प्रवेक्ष्यामि, नाऽन्यथाऽपवादः शाम्यतीति सीताप्रतिज्ञां भूभुग्भिर्विज्ञाय रामोऽप्युपेत्य जानकी न्यायनिष्ठुरमुवाच-'तद्गृहे वसन्त्या रावणेन चेद् न भुक्ता तदा सर्वलोकानां समक्षं दिव्यं कुरु' । तत: सीतोवाच-'त्वत्तः परोऽपरो न विज्ञः । किन्तु मे दोषमज्ञात्वा महावने मामत्यजः । पूर्वं दण्डं विधाय पश्चात् परीक्षणं करोषि, तथाऽपि तत्राऽऽरुढाऽहम' । तेन विलक्षो राम उवाच-'न ते दोषोऽस्तीति जाने, किन्तु जनापवादनिवारणायेदमुच्यते' । ततः सीतोवाच-'मया दिव्यपञ्चकं वह्निप्रवेश-मन्त्रिततण्डुलभक्षणतुलारोहण-तप्तकोशपान-फालग्रहणरूपं स्वीकृतम्' । अत्राऽवसरे नभःस्थ: सिद्धार्थो नारदो लोक्श्च तुमुलं निवार्योवाच-'भो ! राम ! सीतेयं निश्चयेन महासती । तदत्र संशयं जातुचिद् नाऽकार्षीः' । ततो राम उवाच-'लोकाः ! काऽपि मर्यादा वो नाऽस्ति, यद्दोषमुद्भाव्य युष्माभिरेवेयं पुरा दूषिता, पुरतश्चाऽन्यद् सप्तमं पर्व - नवमः सर्गः २०३ ब्रूध्वे। स तदा कथं सदोषाऽधुना च निर्दोषा जाता ? तत्प्रत्ययाय सीता वह्नि प्रविशतु' । एवमुक्त्वा रामो हस्तशतत्रयं गतं खानयित्वा पुरुषद्वयदघ्नं चन्दनेन्धनैरपूरयत् ।। अत्राऽवसरे च वैताढ्योत्तरश्रेणिवर्तिनो हरिविक्रमनृपस्य कुमारोऽष्टशतनारीपतिर्जयभूषणः किरणमण्डलाख्यां पत्नी हेमशिखाख्येन मातुलेन समं सुप्तां दृष्ट्वा तां निर्वास्य स्वयं प्राव्रजत् । सा किरणमण्डलाऽपि विपद्य विद्युइंष्ट्रेति राक्षसी जाता। जयभूषणश्चाऽयोध्याया बहिरेत्य प्रतिमया तस्थौ । तं च सा राक्षस्युपाद्रवत् । तन्मुनेः केवले समुत्पन्ने चोत्सवार्थं शक्रादयः समाजग्मुः । देवाश्च सीतायास्तत् प्रेक्ष्य शक्रमाहुः-'लोकस्य मुधाऽपवादेनाऽद्य सीता वह्नौ प्रवेक्ष्यति' । ततः इन्द्रः पत्त्यनीकपर्ति सीतासामीप्यायाऽऽदिश्य स्वयं मुनेः केवलज्ञानोत्सवं चकार । अथ रामस्य निदेशाद् भृत्याश्चन्दनभृतं तद्गत्तँ परितो ज्वालयामासुः । तमग्नि दृष्ट्वा रामो दध्यौ-'अहो ! अत्यन्तविषमं ममेदं समुपस्थितं यदियं महासती निःशङ्का नूनमग्नि प्रवेक्ष्यति, भाग्यस्येव दिव्यस्य विषमागतिः । मया सहाऽस्या निर्वासो, रावणेन हरणं, वने त्यागो भूयश्चैतद् मया कृतम्' । एवं चिन्तयति रामे सीतोपाग्नि स्थित्वा सर्वज्ञं स्मृत्वा च सत्यापनां चक्रे-'सर्वे श्रृण्वन्तु, यद्यहं रामादन्यमचीकमे, तदाऽयमग्निर्मी दहतु, अन्यथा तु जलमिवाऽयं सुखस्पर्शो भवतु' । एवमुक्त्वा सा स्मृतनमस्कारा तस्मिन् वह्रौ झम्पां ददौ । किन्तु यावत् सा प्रविशति तावदग्निविध्यातः, गर्तश्च स्वच्छसलिलसम्भृतो वापीभावमापन्नः । सीता च जले कमलोपरि सिंहासनस्थिता लक्ष्मीव देवप्रभावतो बभौ । Page #114 -------------------------------------------------------------------------- ________________ षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः अत्राऽवसरे च समुद्रजलमिव सर्वतः सावर्त्तमुच्छलद् वाप्या जलमुञ्चानपि मञ्चानाप्लावयितुमारेभे । विद्याधराश्च भयोद्भ्रान्ताः समुत्पत्य नभसीयुः । भूचराश्च 'महासति सीते! पाही 'ति चुकुशुः । सीता चोच्छलितं तदम्भः पाणिभ्यामवालयत् । तत्प्रभावतश्च तज्जलं पुनर्वापीप्रमाणमभूत् । सा वापी चोत्पलादिभिः शोभिता मणिसोपानमनोहरा रत्नबद्धोभयतटा च जाता । नारदाद्याश्च नभसि सीताशीलप्रशंशिनो ननृतुः पुष्पाणि ववृषुश्च । अहो ! रामपल्या यशस्करं शीलमिति महान् लोकप्रघोषोऽभूत् । लवणा-ऽङ्कुशौ च मातुस्तत्प्रभावं दृष्ट्वा प्रमुदितौ हंसाविव तरन्तौ तत्समीपमाप्तौ जानक्या मूर्त्याघ्राय पार्श्वयोरुपवेशितौ । लक्ष्मणादयश्च गत्वा सीतां सभक्ति नमश्चक्रुः । २०४ रामश्च सीतामुपगम्य पश्चात्ताप - लज्जानतो रचिताञ्जलि - रुवाच-'स्वभावादप्यसद्दोषोद्घोषकाणां नागराणामनुरोधात् त्यक्ताऽसि, देवि ! तत् सहस्व । वने त्यक्ता च स्वप्रभावत एव त्वमजीवः । एकं दिव्यमासीत्, तदप्यहं नाऽज्ञासिषम् । मम तत् सर्वं क्षान्त्वा पुष्पकमध्यास्य वेश्म गत्वा प्राग्वद् मया सह रमस्व' । ततः सीतोचे- 'न ते न वा लोकस्य कश्चन दोष:, किन्तु मत्पूर्वकर्मणामेव । तत्तादृशकर्मोच्छेदकारिणीं प्रव्रज्यामेव निर्विण्णा ग्रहीष्यामि । एवमुक्त्वा सा स्वमुष्टिना केशानुत्खाय जिनेश्वरः शक्रस्येव रामस्याऽर्पयामास । तेन मूच्छितश्च रामो यावद् नोत्तस्थौ तावत् सीता जयभूषणमुनेरन्तिकं ययौ । स मुनिश्च जानकीं विधिवद् दीक्षित्वा सुप्रभाख्यगणिनीपरिवारे तां तपः परायणां चकार ।। ९ ।। इति सीताशुद्धि-व्रतग्रहणवर्णनात्मको नवमः सर्गः ॥ ९ ॥ 赤龍 दशमः सर्गः अथ रामं चन्दनजलेन सिक्तं लब्धसंज्ञं 'क्व नु सीता, लुञ्चितकेशामपि तां मे प्रियां दर्शयत यदि यूयं न मुमूर्षवः, दुःस्थिते मयि किं यूयं सुस्थिता' इत्युक्त्वा चापं गृह्णन्तं तं नत्वा लक्ष्मणोऽब्रवीत् - 'आर्य! किमिदं, लोकः खलु तव किङ्करः । यथा त्वं दोषभीतः सीतामत्याक्षीः, तद्यथा सा भवभीता सर्वमत्यजत् । भवत: प्रत्यक्षमेवैतत् सा केशान् स्वयमुत्पाट्य जयभूषणमुनिसमीपे विधिवद् दीक्षां जग्राह तस्य मुनेश्चेदानीमेव केवलमुत्पन्नम् । तज्ज्ञानमहिमा तवाऽप्यवश्यकर्त्तव्योऽस्ति । सीताऽपि व्रतिनी सतीमार्गमिव मुक्तिमार्गं दर्शयन्ती तत्रैवाऽऽस्ते' । ततो रामः स्वस्थः सन्नुवाच- 'मम प्रिया परिव्रज्यामाददे तत् साधु'। एवमुक्त्वा सपरिवार: केवलिनं जयभूषणमुपगम्य नत्वा देशनां श्रुत्वाऽन्ते च पप्रच्छ-'भगवन् ! अहमात्मानं भव्यभव्यं वा न वेद्मि तदाख्याहि, प्रसीद' । ततः केवलिना 'त्वं भव्योऽसि, अनेनैव जन्मनोत्पन्नकेवलः सिद्धिं यास्यसीत्युक्तः पुनरपि स पप्रच्छ-'प्रव्रज्यया मोक्षः, सा च सर्वत्यागेन, किन्तु लक्ष्मणो मम दुस्त्यज:' । ततो मुनिराह 'तव बलसम्पदोऽवश्यं भोक्तव्याः, अन्ते च सङ्गं त्यक्त्वा प्रव्रज्य मोक्षमेष्यसि । ततो विभीषणो नत्वाऽपृच्छत्- 'केन कर्मणा रावणः सीतामपजहार, लक्ष्मणश्च तं Page #115 -------------------------------------------------------------------------- ________________ २०७ २०६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जघान । तथा सुग्रीव-भामण्डल-लवणा-ऽङ्कुशाः अहं च केन कर्मणा रामेऽनुरक्ताः ?' ततो मुनिः प्राह___ अथ भरतार्धे दक्षिणे क्षेमपुरे नगरे नयदत्तस्य वणिजः सुनन्दाकुक्षिजन्मानौ धनदत्त-वसुदत्तौ पुत्रावभूताम् । तयोश्च याज्ञवल्क्यो द्विजो मित्रमभूत् । तस्मिन्नेव पुरे च वणिज: सागरदत्तस्य गुणधरः पुत्रः पुत्री च गुणवत्यास्ताम् । सागरदत्तेन धनदत्ताय दत्ता गुणवती । तन्मात्रा रत्नप्रभया च साऽर्थलोभत: श्रीकान्तायेभ्याय गुप्तं दत्ता । याज्ञवल्क्यस्त तज्ज्ञात्वा स्वमित्रयोराख्यत् । ततो वसुदत्तो निशि गत्वा श्रीकान्तमवधीत् । श्रीकान्तेनाऽपि च खड्गेन वसुदत्तो हतः । तौ च विन्ध्याटव्यां कुरङ्गौ जातौ । गुणवत्यपि मृत्वा तत्र मृगी जाता । तस्याः कृते तत्राऽपि तौ यध्वा विपद्य परस्परवैरेणैवं बहून् भवान् भ्रमतुः । धनदत्तश्च भ्रातृवधपीडितो निर्धर्मो भ्रमन् रात्रौ क्षुधित: साधून् दृष्ट्वा भोजनं ययाचे । तेष्वेको मुनिर्जगाद-दिवाऽपि मुनीनां भक्तादिसङ्ग्रहो न भवति, तवाऽपि च रात्रौ भोजनादिकं नोचितम्। ईदृशेऽन्धकारेऽन्नादौ जीवसंपर्क को वेत्ति ?' एवं तेन बोधितः स श्रावको भूत्वा विपद्य सौधर्मे त्रिदशो भूत्वा ततश्च्युत्वा महापुरनगरे मेरो-र्धारणीकुक्षिजन्मा नाम्ना पद्मरुचिः श्रेष्ठी परमश्रावकोऽभवत् । स चैकदाऽश्वारूढो गोकुलं गच्छन् जरवृषभं पथि पतितं मुमूर्षु दृष्ट्वा कृपयोत्तीर्य तस्य कर्णमूले पञ्चपरमेष्ठिनमस्कार ददौ । स वृषभश्च विपद्य नमस्कारप्रभावात् तत्रैव छत्रच्छायनृपस्य श्रीदत्ताकुक्षिजो वृषभध्वजो नाम पुत्रो बभूव । स्वेच्छया भ्रमंश्च तां जरवृषभभूमिं गतः प्राग्जन्मस्थानदर्शनाज्जातिस्मरणमाप्य तत्र चैत्यमकारयत् । तस्यैकभित्तौ तं मुमूर्षु सप्तमं पर्व - दशमः सर्गः जरगवं तत्कर्णान्ते नमस्कारदायिनं तं पुरुषं तत्समीपे सपर्याणं हयं च लेखयित्वाऽऽरक्षानादिशत्-'यः परमार्थतश्चित्रं विदन् दृश्येत स शीघ्रं मम ज्ञाप्यः' । एवमुक्त्वा स स्वं वेश्म ययौ । तत्र चैकदा वन्दनायाऽऽगत: पद्मरुचिः श्रेष्ठी जिनं वन्दित्वा भित्तिचित्रं दृष्ट्वा सर्वमेतद् मम सम्वदतीति विस्मित उवाच । आरक्षैस्तद् विज्ञाय च वृषभध्वजस्तत्रोपेत्य किं चित्रवृत्तान्तं वेत्सीति तं पद्मरुचिमपृच्छत् । स च पुरा गवेऽस्मै मुमूर्षवे नमस्कारदानं, तत्केनाऽप्यभिज्ञेनेह लिखितोऽस्मीत्युवाच । ततो वृषभध्वजस्तं नत्वोवाच-'योऽयं जरद्गवः सोऽहं नमस्कारप्रभावतो राजपुत्रोऽभवं, त्वमनेन प्रकारेण महान् कृपालुरसि, अन्यथा तिर्यग्योनेर्मम का गतिर्भवेत् ? ततस्त्वं सर्वथा मे गुरुः स्वामी दैवतं चाऽसि, सर्वमिदं मम प्राज्यं राज्यं भुक्ष्व'। एवमुक्त्वा स वृषभध्वजः पद्मरुचिना सहैव श्रावकव्रतं पालयन् विजहार । चिरं श्रावकत्वं पालयित्वा विपद्य चेशानकल्पे महद्धिको देवौ जातौ । ततश्च्युत्वा च पद्मरुचिर्मेरोः पश्चिमतो वैताढ्ये नन्दावर्ते नगरे कनकाभाकुक्षिजो नन्दीश्वरतनयो नयनानन्दनामाऽभूत् । तत्र राज्यं भुक्त्वा परिव्रज्य माहेन्द्रे देवो जातः । ततश्च्युत्वा च प्राग्विदेहेषु क्षेमापुर्यां विपुलवाहननृपस्य पद्मावतीकुक्षिजन्मा श्रीचन्द्रो नाम तनयो जातः । राज्यं भुक्त्वाऽन्ते समाधिगुप्तस्य मुनेरन्तिके प्रव्रज्य ब्रह्मलोकेन्द्रो जातः । ततश्च्युत्वा चाऽयं रामो बलभद्रो जातः । वृषभध्वजजीवश्चैष सुग्रीवः । श्रीकान्तजीवश्च मृणालकन्दनगरे शम्भोर्नृपस्य हेमवतीभवो वजकण्ठो नाम तनयो बभूव । वसुदत्तजीवश्च शम्भुनृपपुरोहितस्य विजयस्य रत्नचूडाकुक्षिजन्मा श्रीभूतिः पुत्रो बभूव । Page #116 -------------------------------------------------------------------------- ________________ पुरुष-गद्यात्मकसारोद्धारः गुणवत्यपि तस्य श्रीभूतेः सरस्वतीकुक्षिभवा वेगवती नाम तनया जाता । सा प्राप्तयौवना प्रतिमास्थं जनैर्वन्द्यमानं सुदर्शनं मुनिं निरीक्ष्य सोपहासमवदत् - 'अहो ! अयं साधुः पुरा स्त्रिया सह क्रीडन् दृष्टः, साऽन्यत्राऽनेन प्रेषिता, तं कथं वन्दध्वम् ? ' तच्छ्रुत्वा च सर्वोऽपि लोकः कलङ्कोद्घोषपूर्वकं तं मुनिं विप्लावयितुमारेभे । स मुनिश्च यावदयं कलङ्को नोत्तरिष्यति तावत् प्रतिमां न पारयिष्यामीत्यभिजग्राह । ततश्च देवतारोषाद् वेगवत्या मुखमुच्छूनं (सशोथं) जातम् । साधुवृत्तान्तं ज्ञात्वा च पित्राऽपि भृशं निर्भत्सता । सा च पितू रोगाच्च भीता तस्य मुनेरग्रे सर्वलोकसमक्षमुच्चैरुवाच'त्वं सर्वथा निर्दोषोऽसि, दोषोऽयमलीको मयैवाऽऽरोपितः, तत् क्षमस्व' । तच्छ्रुत्वा च लोकस्तं मुनिं पुनरप्यानर्च । वेगवती च तत्प्रभृति श्राविका जाता | शम्भुनृपश्च तां रूपवतीं दृष्ट्वा ययाचे । श्रीभूतिश्च मिथ्यादृशे नैषा दातव्येति तं प्रत्युवाच । शम्भुश्च तं निहत्य तां बलाद् बुभुजे । सा च भवान्तरे ते वधाय भूयासमिति शापं दत्तवती । शम्भुना विमुक्ता च सा हरिकान्ताव्रतिनीपार्श्वे प्रव्रज्य विपद्य ब्रह्मलोकं ययौ । २०८ ततश्च्युत्वा च सा शम्भुजीवस्य रावणस्य वधाय पूर्वनिदानवशाज्जाता सीतेयं जनकनन्दिनी । तस्याः सुदर्शनमुनेरलीकदोषारोपाल्लोकेनऽलीकोऽयं कलङ्कोऽधिरोपितः । शम्भुजीवश्च भवं भ्रान्त्वा कुशध्वजद्विजस्य सावित्र्यां प्रभासो नाम नन्दनो भूत्वा विजयसेनमुनेरन्तिके प्राव्राजीत् । एकदा च सम्मेतयात्रां प्रस्थितं विद्याधरेन्द्रं परमर्द्धिकं कनकप्रभं दृष्ट्वाऽनेन तपसाऽहमीदृक् परमर्द्धिर्भूयासमिति निदानं व्यधात् । ततो विपद्य २०९ सप्तमं पर्व दशमः सर्गः तृतीयकल्पे समुत्पद्य ततश्च्युत्वा विद्याधरेन्द्रस्तवाऽग्रजोऽभूत् । याज्ञवल्क्यश्च भवं भ्रान्त्वा त्वं विभीषणोऽभूः । श्रीभूतिश्च नृपेण हतो दिवं गत्वा च्युत्वा सुप्रतिष्ठपुरे विद्याधरः पुनर्वसुर्जात: । स च कामार्त्तः पुण्डरीकविजये त्रिभुवनानन्दचक्रिणः कन्यामनङ्गसुन्दरीमपजहार । चक्रिप्रेषितैर्विद्याधरैर्युध्यमानस्य तस्य विमानादनङ्गसुन्दरी क्वाऽपि निकुञ्जे पपात । पुनर्वसुश्च प्रव्रज्य तत्प्राप्त्यै निदानं कृत्वा विपद्य दिवं गत्वा वा चाऽयं लक्ष्मणो जातः । अनङ्गसुन्दरी च वने स्थितोग्रं तपः कुर्वन्ती विहितानशनाऽजगरेण जग्रसे। समाधिना मृत्वा सा द्वितीये कल्पे देवीभावमाप्य ततश्च्युत्वा विशल्या लक्ष्मणस्य महिष्यभूत् । गुणवतीभ्राता गुणधरश्च भवं भ्रान्त्वा कुण्डलमण्डितो राजपुत्रो भूत्वा चिराय श्रावकत्वं पालयित्वा विपद्यैष भामण्डलो बभूव । इतश्च काकन्द्यां वामदेवद्विजस्य श्यामलाकुक्षिजातौ वसुनन्द सुनन्दनौ द्वौ पुत्रावभूताम् । एकदा तयोर्गेहे स्थितयो - र्मासोपवासी मुनिराययौ । स च ताभ्यां भक्तितः प्रतिलम्भितः । तद्दानधर्मेण स विपन्न उत्तरकुरुषु युग्मिनौ भूत्वा विपद्य सौधर्मे सुरौ जातौ । ततः च्युत्वा काकन्द्यामेव रतिवर्धननृपस्य सुदर्शनायां प्रियङ्कर - शुभङ्करौ तनयौ अभूतौ । चिरं राज्यं पालयित्वा विपद्य ग्रैवेयके सुरौ भूत्वा च्युत्वा चेमौ लवणा-ऽङ्कुशौ जातौ । तयोर्माता सुदर्शना च चिरं भवं भ्रान्त्वा सिद्धार्थ एष तयोरध्यापकः' । एवं मुनिवचः श्रुत्वा बहवः संवेगं ययुः । तदैव च रामचमूपतिः कृतान्तवदनः प्राव्राजीत् । *查* Page #117 -------------------------------------------------------------------------- ________________ पुरुषतम्-गद्यात्मकसारोद्धारः अथ रामो जयभूषणं प्रणम्य सीतायाः समीपं गत्वा दध्यौ'असौ सुकुमाराङ्गी कथं तपःक्लेशं सहिष्यते ? यद् वा यस्याः सतीत्वं भङ्क्तुं रावणोऽपि नाऽलं सा व्रतेऽपि दृढप्रतिज्ञा भाविनी' । एवं विचार्य सीतां ववन्दे । अन्येऽपि च लक्ष्मणादयस्तां ववन्दिरे । ततः सपरिवारो रामोऽयोध्यां ययौ । सीता - कृतान्तवदनौ चोग्रं तपस्तेपाते । कृतान्तवदनश्च विपद्य ब्रह्मलोकं ययौ । सीता च षष्टिं वर्षाणि विविधं तपो विधाय त्रयस्त्रिंशदहोरात्रीमनशनं कृत्वा मृता च द्वाविंशतिसागरोपमायुरच्युतेन्द्रोऽजायत । २१० इतश्च वैताढ्ये काञ्चनपुरे नगरे विद्याधरेन्द्रः कनकरथः कन्ययोर्मन्दाकिनी - चन्द्रमुख्योः स्वयंवरे सपुत्रान् राम-लक्ष्मणादीनाह्वयत् । भूपेषु तत्राऽऽसीनेषु च मन्दाकिनी स्वयं लवणं चन्द्रमुखी चाऽङ्कुशं वृतवती । तेन क्रुद्धा लक्ष्मणस्य पुत्राः सार्धे द्वे शते युद्धायोत्तस्थिरे । तच्छ्रुत्वा लवणा-ऽङ्कुशावूचतुः - को नामैभिर्योत्स्यते ? भ्रातरौ ह्यवध्याः । यथा तातयोर्न कोऽपि भेदः, तथाऽस्माकमपि कोऽपि भेदो माऽस्तु' । लक्ष्मणपुत्राश्चरेभ्यस्तज्ज्ञात्वा विस्मिताः स्वं निनिन्दुः । संवेगमाप्ताश्च पितरावापृच्छ्य महाबलमुनेरन्तिके व्रतं जगृहु: । तदानीं कृतविवाहौ लवणाऽङ्कुशौ च राम-लक्ष्मणाभ्यां सहाऽयोध्यामाजग्मतुः । इतश्च स्वपुरे हर्म्यतले स्थितो भामण्डलश्चिन्तयामास - 'श्रेणिद्वयं वशे कृत्वाऽऽत्तदीक्षोऽन्ते विहृत्य पूर्णमनोरथः स्याम् । एवं विचारयतश्च तस्य शिरसि दिवो विद्युत् पपात । तेन मृत्वा च स देवकुरुषु युगलधर्मिषु जातः । इतश्च हनूमांश्चैत्रे चैत्यवन्दनाय मेरुं गतस्ततो निवृत्तश्चाऽस्तं गच्छन्तं सूर्यं दृष्ट्वा दध्यौ - 'यथोदयस्तथाऽस्तमपि भवत्येव, तत्राऽयं सप्तमं पर्व दशमः सर्गः सूर्य एव दृष्टान्तः । सर्वमेव नश्वरम्' । एवं विचिन्त्य स्वपुरमागत्य राज्ये पुत्रं न्यस्य धर्मरत्नमुनिपार्श्वे सार्धसप्तशतनृपैः सह प्राव्राजीत् । तत्पल्यश्च लक्ष्मीवतीव्रतिनीपार्श्वे दीक्षिता अस्थुः । श्रीशैलश्च ध्यानाग्निना कर्माणि भस्मसात् कृत्वा शैलेशीं प्राप्याऽव्ययं पदं जगाम । २११ रामश्च हनूमन्तं प्रव्रजितं ज्ञात्वा दध्यौ - 'भोगसुखं हित्वा किमयं कष्टप्रदां दीक्षामाददे' । सौधर्मेन्द्रश्चाऽवधेस्तज्ज्ञात्वा सभायामूचे- 'अहो ! कर्मगतिश्चित्रा, चरमदेहोऽपि रामः स्वयं धर्मं हसति, विषयजं सुखं च प्रशंसति । अथवा ज्ञातं यदनयो राम-लक्ष्मणयोः कोऽपि गाढतरः स्नेहः, यो भवानिर्वेदकारणम्' । तत: कौतुकाद् द्वौ देवौ तयोः स्नेहं परीक्षितमयोध्यामागत्य लक्ष्मणस्य सद्मनि मायया सर्वमन्तःपुरं करुणस्वरमाक्रन्दद् दर्शयामासतुः । हा रामेत्यादि बहु विलपन्तीरन्तःपुरवधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत्- 'मम जीवितस्याऽपि जीवितं भ्राता मृतः । छलघातिना कृतान्तेन किं कृतम् ? एवं वदतश्च लक्ष्मणस्य वचसा सह जीवितं निर्ययौ', तं च मृतं दृष्ट्वा मिथस्तौ सुरौ विषण्णावूचतुः - 'अहो ! आवाभ्यां किमिदं कृतम् ! विश्वाधारोऽसौ नरः किमावाभ्यां हतः' ! एवं स्वं निन्दन्तौ तौ स्वं कल्पं जग्मतुः । लक्ष्मणं च मृतं दृष्ट्वा तदन्तः पुरस्त्रियः सपरीवाराश्चक्रन्दुः । तच्छ्रुत्वा च रामस्तत्रोपेत्योवाच- 'अज्ञानात् किममङ्गलमारब्धम् ? अहं जीवन्नेवाऽस्मि, ममाऽनुजोऽप्येष जीवत्येव । कोऽपि रोगोऽमुं बाधते, तत्प्रतिक्रिया विधेया' । एवमुक्त्वा स वैद्यान् निमित्तज्ञांश्चाssहूय मन्त्र-तन्त्राणां प्रयोगं कारयामास । तद्वैफल्ये च मूच्छ प्राप्य कथञ्चिल्लब्धसंज्ञो राम उच्चैर्विललाप । विभीषणाद्या अपि हताः स्म इति वदन्तो विमुक्तकण्ठं रुरुदुः । कौशल्याद्या मातरोऽपि वधूभिः सह भूयो भूयोऽपि मूर्च्छा गच्छन्त्यः करुणं चक्रन्दुः । Page #118 -------------------------------------------------------------------------- ________________ २१३ २१२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो रामं नत्वा लवणा-ऽङ्कुशावूचतुः-कनीयस्तातमृत्युनाऽद्य भवादतिभीतौ स्वः । मृत्युरकस्मादेवाऽऽपतति, तत् परलोकाय मूलत एव यतनीयम् । अतो दीक्षायै अनुमन्यस्व, अत: परं नस्तदेव युक्तम्' । एवमुक्त्वा रामं नत्वाऽमृतघोषमुनेस्तावुभौ दीक्षां गृहीत्वा क्रमाच्छिवपदमीयतुः । रामश्च भ्रातुः पुत्रयोश्च वियोगेन मूर्छामाप्य लब्धसंज्ञो मोहाद् बहु विललाप । ततो विभीषणाद्याः कथञ्चन राममेत्य गद्गदस्वरमूचुः-धीरेषु धीरो वीरेषु च वीरस्त्वमधैर्य मुञ्च । लक्ष्मणस्य समयोचितमङ्गसंस्कारपूर्वकौलदेहिकं कुरु' । तेन च कुपितो रामस्तान् निर्भत्र्योन्मत्तवत् तद्विरहं बहूक्त्वा लक्ष्मणमसे समारोप्याऽन्यत्र जगाम । तस्य च विफलं स्नानादिकारयतस्तस्य स्नेहोन्मत्तस्य विस्मतान्यक्रियस्य षण्मासी व्यतीयाय । तं तथाभूतं श्रुत्वा च विद्विष इन्द्रजित्-सुन्दपुत्रा अन्ये च जिघांसवः समेत्य सैन्यैरयोध्यां रुरुधुः । रामोऽपि लक्ष्मणमङ्के कृत्वा वज्रावर्त धनुरास्फालयत् । तदा चाऽऽसनकम्पेन माहेन्द्राद् देवैः सह जटायू राममुपाययौ । इन्द्रजित्पुत्रादयश्चाऽपि देवा रामं गृह्या इति वदन्तो दुद्रुवुः । अत्र देवैः कृतसहायः सविभीषणो रामो नो हन्तेति भीता लज्जिताश्च ते परं संवेगमाप्याऽतिवेगस्य मुनेः पार्श्वे प्राव्रजन् । जटायुश्च देवो रामस्य पुरः स्थित्वा शुष्कं तरुमम्भसा सिषेच । अश्मनि गोमयादि क्षिप्त्वा कमलिनी रोपयामास । मृतवृषभेण लाङ्गुलेन चाऽकालेऽपि बीजान्युवाप । यन्त्रे च तैलार्थं वालुका निधाय पीलयामास' । ततो रामस्तमुवाच-'किं वृथा प्रयतसे' । तत: स्मित्वा जटायुरप्युवाच-'यद्येतावद् वेत्सि तर्हि मृतकं किं स्कन्धे वहसि ?' सप्तमं पर्व - दशमः सर्गः ततो लक्ष्मणशरीरमालिङ्गय रामस्तमाह-'किममङ्गलं भाषसे, मम दृष्टिपथं त्यज' । एवं वदति रामे कृतान्तवदनो देवोऽवधेर्ज्ञात्वा रामबोधार्थं समाययौ । सः स्कन्धे स्त्रीमृतकं कृत्वोपरामं विचरन् रामेण किमुन्मत्त इव स्कन्धे स्त्रीमृतकं वहसीत्युक्तः प्रत्युवाच-'किममङ्गलं वदसि, ममैषा प्रेयसी, त्वं किं स्वयं मृतकं वहसि ?' मयोह्यमानां मे भार्यां चेद् मृतां जानासि तर्हि निजस्कन्धस्थितं शवं किं न जानासि' । तेनैवं दर्शितैस्तैस्तैर्निमित्तैर्लब्धस्वास्थ्यो रामो दध्यौ-'किं सत्यं ममाऽनजो न जीवति?' ततस्तौ जटाय-कतान्ती प्राप्तबोधाय रामाय स्वं कथयित्वा निजं स्थानं जग्मतुः । रामश्च निजानुजस्य प्रेतकार्य विधाय दीक्षेच्छु: शत्रुघ्नं राज्यदानायाऽऽदिशत् । शत्रुघ्नश्च भवोद्विग्नोऽहमपि व्रतं ग्रहीष्यामीति राज्यं नाऽङ्गीचकार । ततो रामो लवणसुतायाऽनङ्गदेवाय राज्यं प्रदाय मुनिसुव्रतवंशस्य सुव्रतस्य मुनेरहंदासश्रावकोपदिष्टस्य समीपं गत्वा शत्रुघ्न-सुग्रीव-विभीषण-विराधादिभिः सार्धं व्रतमाददे । रामे च निर्गते नृपाणां षोडश सहस्राणि भववैराग्याद् व्रतमाददिरे । सप्तत्रिंशत् सहस्राणि स्त्रियश्च श्रीमत्याः श्रमणाया व्रतं जगृहतुः । रामश्च पूर्वाङ्गश्रुतपवित्रितो गुरोः समीपे षष्ठ्यब्दी यावद् विविधाभिग्रहरतस्तपांसि तेपे । अथ रामो गुर्वनुज्ञया प्रच्छकविहारोऽटव्यां गिरिकन्दरे प्रयातवान् । तस्यां रात्रौ च ध्यानमग्नस्य तस्याऽवधिज्ञानमुत्पेदे । तेन च विश्वं करामलकवत् पश्यन्ननुजं देवाभ्यां हतं नरकं प्राप्तं च ज्ञात्वा दध्यौ-'अहं पूर्वजन्मनि धनदत्तो लक्ष्मणस्तु वसुदत्तः । Page #119 -------------------------------------------------------------------------- ________________ २१४ २१५ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्राऽप्यसावकृतकृत्यो विपद्याऽस्मिन् भवे ममाऽनुजो जातः । अत्राऽप्यस्य कौमारे वर्षशतं, मण्डलित्वे वर्षाणि शतत्रयं चत्वारिंशच्च, दिग्विजये साधैकादश सहस्राः. राज्ये षष्टिवर्षाणीति मिलित्वा द्वादशवर्षसहस्राण्यायुरविरतस्य नरकावहं जातम् । अत्र देवयोर्न दोषः । कर्मणां हि विपाक एवेदृशः' । एवं चिन्तयन् रामः कर्मभेदाय विशेषतस्तपः-समाधिपरायणोऽभूत् । __ अथ रामः षष्ठोपवासान्ते स्यन्दनस्थले नगरे पारणाय युगमात्रदत्तदृष्टिः प्रविवेश । पौरेरुपढौकितानाहारानगृह्णन् धाहारासक्तो नृपगृहं गतवान् । तत्र प्रतिनन्दिनृपेणोचितमन्नादिकं प्रतिलम्भितं भुक्तवान् । देवैश्च तत्र वसुधारादिपञ्चकं विदधे । रामश्च पुनस्तदरण्यं गत्वा पुरक्षोभः स्वस्य संघट्टश्च मा भूदित्यभिग्रहो जग्राह-'भिक्षाकालेऽत्रैव वने चेद् भिक्षा लप्स्यते, तदा पारणं कार्य नाऽन्यथे'ति । तादृशाभिग्रहपरश्च समाधिमापन्नः प्रतिमाधरस्तस्थौ । अथैकदा दुःशिक्षितेनाऽश्वेन जविना ह्रियमाणः प्रतिनन्दिनृपः समागतवान् । नन्दनपुण्याख्यसरस: पङ्के चाऽश्वो मग्नः । अनुपदं तस्य सैन्यं चाऽऽगतम् । तमश्वं पङ्कादुद्धृत्य शिबिरं विधाय च स्नात्वा सपरिच्छदो नृपो भोजनं चक्रे । तदा च पारितध्यानो रामः पारणेच्छया तत्राऽऽगतवान् । नृपश्चाऽभ्युत्थाय भक्तपानस्तं प्रत्यलाभयत् । कृतपारणे च रामे नभसो रत्नवृष्टिरभूत् । रामस्य देशनां श्रुत्वा च ते प्रतिनन्द्यादयः श्रावका बभूवुः । तदारभ्य रामश्चिरं वनदेवताभिः पूज्यमानस्तत्रैव तस्थौ । भवविच्छेदकामश्च मासोपवासादिनिरतो नानासनो दुस्तपं ध्यानस्थस्तपस्तेपे । अन्यदा च रामः कोटिशिलां शिलां पुरा लक्ष्मणेनोत्तोलितां प्राप्य तामध्यास्य रात्रौ प्रतिमाधरः शुक्लध्यानान्तरं प्राप । अवधिना सप्तमं पर्व - दशमः सर्गः तज्ज्ञात्वा च सीतेन्द्रो दध्यौ-'यदयं भवी भवेत् तदा तेन योगो भवतु मम, तदस्योपसर्ग विदधामि, यथाऽयं देवो मत्सुहृत् स्यात्' । एवं विचिन्त्योपराममागत्य ऋतुसमुद्धमुद्यानं सीतारूपं स्त्रीजनानपि च विकृत्योचे-'प्रिय ! तव प्रिया सीताऽहमिहोपस्थिताऽस्मि, त्वामनुरक्तं त्यक्त्वाऽहं प्राव्रजम् । पश्चाच्च ममाऽत्यन्तं पश्चात्तापोऽभूत् । अद्य चाऽऽभिविद्याधरकुमारीभिः प्रार्थिताऽहं-प्रसीद, स्वं पति रामं याचे, नो नाथीकुरुष्व । त्वं च परिव्रज्यां मुक्त्वा रामस्य महिषी भव, वयं च त्वदादेशात् तस्य पल्यो भविष्यामः । तदमूः स्वीकुरु, त्वया सह प्राग्वद् रस्ये' । एवं वदति सीतेन्द्रे च विकृतास्ताः स्त्रियः कामोद्दीपकं सङ्गीतं चक्रुः । किन्तु राममुनिर्मनागपि नाऽक्षुभ्यत् । अथ माघस्य शुक्लद्वादश्यां रात्रेरन्तिमे प्रहरे रामस्याऽमलं केवलमुत्पन्नम् । तदा सीतेन्द्रोऽन्ये च देवास्तस्य विधिपूर्वकं केवलज्ञानमहिमानं चक्रुः । रामश्च धर्मदेशनां विदधे । देशनान्ते च सीतेन्द्रेण क्षमयित्वा नत्वा च लक्ष्मण-रावणगति पृष्टो रामोऽब्रवीत्-रावणोऽधुना शम्बूकेन सह चतुर्थे नरके लक्ष्मणश्च स्तः । नरकायुरनुभूय तौ प्राग्विदेहे विजयावत्यां नगर्यां सुनन्दस्य रोहिणीभवौ तनयौ जिनदास-सुदर्शनौ भूत्वाऽर्हद्धर्म पालयिष्यतः। तत: सौधर्मे त्रिदशौ भूत्वा च्युत्वा च विजयापुर्यां श्रावको भूत्वा विपद्य हरिवर्षे पुरुषभावमाप्य मृत्वा देवलोकं गमिष्यतः । ततः च्युत्वा तस्यामेव विजयापुर्यामार्तराजो लक्ष्मीकुक्षिजौ जयकान्तजयप्रभौ कुमारौ जिनोक्तं संयम पालयित्वा लान्तके देवी भविष्यतः । Page #120 -------------------------------------------------------------------------- ________________ सप्तमं पर्व - दशमः सर्गः . २१७ दिवं याहि' । तत: सीतेन्द्रस्तान् मुक्त्वा रामं नत्वा शाश्वतार्हतीर्थयात्राकृते नन्दीश्वरादिषु जगाम । गच्छंश्च देवकुरुषु भामण्डलजीवं दृष्ट्वा प्राक्स्नेहवशात् तं सम्यक् प्रतिबोध्य सीतेन्द्रो निजं कल्पमियाय । रामश्चोत्पन्ने केवले वर्षाणां पञ्चविंशति भव्यान् प्रबोध्याऽऽयुश्च वर्षाणां पञ्चदशसहस्त्राणि व्यतीत्य कृतकृत्यः शैलेशी प्रतिपद्याऽव्ययं पदं प्रपेदे ॥ १० ॥ इति रामनिर्वाणगमनवर्णनात्मको दशमः सर्गः ॥१०॥ २१६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदा च त्वमप्यच्युताच्च्युत्वाऽत्रैव भारते सर्वरत्नमतिर्नाम चक्री भविष्यसि । तौ च च्युत्वेन्द्रायुध-मेघरथाख्यौ ते पुत्रौ भाविनौ । त्वं तु प्रव्रज्य वैजयन्तं गमिष्यसि । इन्द्रायुधस्तु रावणजीव: शुभं गतित्रयं भ्रान्त्वा तीर्थकरनामकर्माऽर्जयिष्यति । ततो रावणजीवस्तीर्थकरो, भवाँश्च वैजयन्ताच्च्युतस्तस्य गणधरो भावी । ततस्तौ मोक्षं यास्यतः । लक्ष्मणजीवस्तु भवत्पुत्रो मेघरथः शुभा गतीर्धान्त्वा प्राग्विदेहे पुष्करद्वीपे रत्नचित्रायां नगाँ चक्रिश्रियं भुक्त्वा क्रमेण प्रव्रज्य तीर्थकरो भूत्वा निर्वाणमेष्यति' । एवं श्रुत्वा च सीतेन्द्रो रामं प्रणम्य ततो यत्र नरके लक्ष्मणस्तत्र गत्वा विकृतैः सिंहादिरूपैर्लक्ष्मणेन सह रावणशम्बूको युध्यमानौ ददर्श । परमाधार्मिकाश्च नैवं युध्यमानानां वो दुःखं भावीति भाषमाणास्तानग्निकुण्डेषु तप्ततैलकुम्भ्यां भाष्ट्रे च बलाद् निदधुः । तेषां तद् दुःखं दृष्ट्वा सीतेन्द्रोऽसुरानुवाच-'किं रे ! न जानीथ, यदिमे पुरुषश्रेष्ठा आसन् ? दूरमपयात । एतान् मुञ्चत' । एवं तानसुरान् निवार्य सशम्बूक-रावणावुवाच-'युवाभ्यां तथाकृतं येनेमं नरकं प्राप्तौ, तथा पूर्ववैरं परिणामं दृष्ट्वाऽपि कि न मुञ्चतम् ?' तावेवं निषिध्य स रामकेवलिना कथितं लक्ष्मणस्य रावणस्य च बोधार्थमाचख्यौ । ततस्तावूचतुः-'दयालो ! त्वया साधुकृतम् । त्वच्छुभोपदेशेनाऽस्माकं दुःखविस्मृतिर्जाता । पुराकृतकर्मभिर्नो दीर्घो नरकवासः । स केन नामाऽपनेष्यते?' ततस्तदुक्त्या दयाः सीतेन्द्रः प्रत्युवाच-'त्रीनपि युष्मानितो नरकाद् दिवं नेष्यामि' । एवमुक्त्वा तांस्त्रीनपि पाणिनोद्दधे । किन्तु ते कणशो विशीर्य पारदवत् क्षणात् पाणे: पेतुः । एवं पुनः पुनर्जाते सीतेन्द्रं ते ऊचुः-'एवं नोऽधिकमेव दुःखं जायते । तदस्मान् मुञ्च, Page #121 -------------------------------------------------------------------------- ________________ एकादशः सर्गः वप्रा - विजययोः सूनुराह्निका चारदेशकः । कर्मपङ्कनिमग्नानां जीयाद् बन्धुर्जिनो नमिः ॥ १ ॥ अथेह जम्बूद्वीपे पश्चिमविदेहे भरतक्षेत्रे कौशाम्ब्यां नगर्यां कृतकृत्य: सिद्धार्थो नाम नृपो बभूव । सर्वाद्भुतगुणविराजित: स भवाद् विरज्य सुदर्शनमुनेर्दीक्षामुपाददे । कतिपयैः स्थानकैश्च तीर्थकृन्नामकर्मोपार्ण्य सम्यग् व्रतं पालयित्वा विपद्य सोऽपराजिते कल्पे महर्द्धिकोऽमरोऽभवत् । इतश्चाऽस्मिन्नेव जम्बूद्वीपेऽत्रैव भरते मिथिलायां नगर्यां चैत्य-प्राकारादिविराजितायां परमश्रीसम्पन्नो विजयो नाम नृपोऽभवत् । तस्य च शीलगुणमण्डिता वप्रा नाम भार्याऽऽसीत् । तस्याश्च कुक्षौ सिद्धार्थजीवस्त्रयस्त्रिशस्सागरोपममायुः पूरयित्वा - ऽऽश्विनपूर्णिमायामश्विनीनक्षत्रे जगत्त्रये कृतोद्योतोऽपराजिताच्च्युत्वाऽवातरत् । निशाशेषे च सुखसुप्ता वप्रादेवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् दृष्टवती । पूर्णे समये च श्रावणकृष्णाष्टम्यामश्विनीनक्षत्रे सा नीलकमलाङ्कं स्वर्णवर्णं सुतमसूत । दिक्कुमारिकाश्चाऽऽगत्य विधिवत् सूतिकर्माणि चक्रुः । शक्रश्च प्रभुं यथाविधि मेरुं नीत्वा सर्वैरिन्द्रादिदेवैः सह स्नात्रं विधिवद् विधायाऽर्चयित्वा नत्वा स्तुत्वा च पुनरादाय वप्रास्वामिन्या: पार्श्वे सप्तमं पर्व एकादशः सर्गः २१९ मुमोच । ततो यथाविधि रक्षादिकं विधाय निजं धाम जगाम । विजयोऽपि प्रमुदित: कारामोक्षणादिपूर्वकं प्रभोर्जन्मोत्सवं विदधे । 'अस्मिन् गर्भस्थे प्रासादारूढां वप्रां दृष्ट्वाऽरयो नेमुरि'ति नमिरिति नाम चक्रे । प्रभुश्च शक्रादिष्टाभिर्धात्रीभिः पाल्यमानश्चन्द्र इव दिने दिने वर्धमानः शैशवं व्यतीत्य प्राप्तयौवनः पञ्चधनूच्छ्रितः पित्रोरुपरोधाद् राजकन्यां पर्यणैषीत् । जन्मतः सार्धवर्षसहस्रद्वयमतीत्य पित्रा दत्तं राज्यं कर्मभोगफलं मत्वाऽऽददे । राज्यग्रहणात् पञ्चसु वर्षसहस्रेषु यातेषु लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितः प्रभुः सुप्रभं नाम पुत्रं राज्ये निवेश्य जृम्भकदेवापृतैर्द्रव्यैर्वार्षिकदानं प्रददौ । तत: सुप्रभादिभिर्नृपैः शक्राद्यैर्देवैश्च परिवृतो देवकुरुनाम्या शिबिकया सहस्त्राम्रवणं ययौ प्रभुः । आषाढकृष्णनवम्यामश्विनीनक्षत्रेऽपराह्णे कृतषष्ठो नृपसहस्रेण समं प्राव्राजीत् । तत्कालोत्पन्नचतुर्थज्ञानश्च प्रभुर्द्वितीयेऽह्नि वीरपुरे दत्तनृपगृहे पायसेन पारणं चकार । तत्र च तदानीं देवैर्वसुधारादिपञ्चकं दत्तेन च प्रभुपादन्यासस्थाने रत्नपीठं च चक्रे । *** अथ नमिप्रभुर्नवमासान् यावद् विहृत्य दीक्षास्थानं सहस्राम्रवणं प्राप्य षष्ठेन प्रतिमास्थो बकुलस्याऽधस्तस्थौ । घातिकर्मक्षयाच्च मार्गशुक्लैकादश्यामश्विनीनक्षत्रे प्रभोरुज्ज्वलं केवलमुत्पन्नम् । तत्र च देवैर्यथाविधि अशीत्यग्रधनुःशतोच्छ्रिताशोकद्रुमभूषितं समवसरणं विचक्रे । तत्र चाऽशोकं प्रदक्षिणीकृत्य तीर्थाय नम इति वदन् प्रभुः पूर्वद्वारा प्रविश्य पूर्वरत्नसिंहासने Page #122 -------------------------------------------------------------------------- ________________ २२० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्राङ्मुखः समुपाविशत् । अन्यासु दिशास्वपि च व्यन्तरै रलसिंहासनस्थानि प्रतिबिम्बानि विचक्रिरे । ततो यथास्थानं चतुर्विधे सङ्घ समुपविष्टे शक्रेण स्तुतो नमिप्रभुर्धर्मदेशनामकरोत् । 'संसारोऽसारः, धनं तरङ्गवदस्थिरं, शरीरमपि विद्युदिव क्षणनश्वरम् । तद्धीमांस्तेष्वास्थां विहाय मुमुक्षुर्यतिधर्माय यतेत । तद्विधानेऽशक्तश्चेद् द्वादशविधश्रावकधर्माय सम्प्रयतेत । श्रावको हि धम्यैर्मनो-वाक्-कायजैः कर्मभिरहोरात्रं नयेत् । ब्राह्म मुहूर्ते समुत्थाय परमेष्ठिनः स्तुवन्, किंधर्मा ? किंकुल: ? किंव्रतश्चाऽस्मीति स्मरन्, शुचिः पुष्पादिभिर्देवदेवं सम्पूज्य यथाशक्ति प्रत्याख्याय देवगृहं गच्छेत् । तत्र प्रविश्य विधिना जिनं त्रिःप्रदक्षिणीकृत्य पुष्पादिभिः पूजयित्वा स्तुवीत । ततो गुरुमुपगम्य प्रतिपत्तिपूर्वकं प्रत्याख्यानं प्रकाशयेत् । प्रतिपत्तिश्च गुरोस्तद्दर्शनेऽभ्युत्थानं, तदागमेऽभिगमनं, शिरस्यञ्जलिकरणं, स्वयमासनदानमासनाभिग्रहो, भक्त्या वन्दना पर्युपासनं तद्गमनेऽनुसरणं च प्रोक्तम् । ततस्ततः प्रतिनिवृत्त्य स्वस्थानं गत्वा धर्माविरोधेन यथोचितमर्थं चिन्तयेत् । ततो मध्याह्निकीमों विधाय कृतभोजनादि विद्वद्भिः शास्त्रार्थमर्म विचारयेत् । पुनश्च सन्ध्याकाले देवार्चनं विधायाऽऽवश्यकं कृत्वा स्वाध्यायं कुर्यात् । ततः समुचिते काले देव-गुरून् स्मरन् प्रायेणाऽब्रह्मत्यागी निद्रामल्पामेव भजेत् । निद्राभङ्गे च मुनीनां तन्निषेधाद् योषिदङ्गानामसारत्वं चिन्तयेत् । स्त्रियो हि यकृदादिभृता नाडीबद्धा बही रम्याश्चर्मप्रसेविका इव । स्त्रीशरीरस्य चेद् बहिरन्तविपर्यासो भवेत् तदा कामुकस्तस्यैव गृध्रादिभी रक्षणं कुर्यात् । कामो हि स्त्रीशस्त्रेण विश्वं जिगीषति । तदस्य सङ्कल्पयोनेर्मूलं सङ्कल्पमेवोत्खनामीत्येवं चिन्तयेत् । सप्तमं पर्व - एकादशः सर्गः बाधकस्य दोषस्य प्रतिक्रियां विचारयेत् । दोषमुक्तेषु मुनिषु च प्रमोदं वहेत् । स्थिरचित्तश्च सर्वजीवेषु भवस्थितिर्दुःस्थेति चिन्तयेत् । तेषु स्वाभाविकसुखं मोक्षमेवाऽन्वेषयेत् । यत्र हि जिनो देवो, दया धर्मो, मुनयो गुरवस्तच्छ्रावकत्वं को विमूढो नेच्छेत् । जिनधर्मरहितश्चक्रयपि मा भूवं, दरिद्रोऽपि दासोऽपि च जिनधर्मानुरक्तः स्यामिति दध्यात् । निःसङ्गो जीर्णवस्त्रो मलिनाङ्गो माधुकरी वृत्ति सेवमानो मुनिचाँ कदा प्राप्नुयामिति भावयेत् । दुर्जनसङ्गं त्यजन्, गुरुं सेवमानो, योगमभ्यस्यन् कदा भवच्छेदाय प्रभवेयम् । रात्रौ पुराद् बहिः कृतकायोत्सर्गः प्रतिमास्थ: कदा स्याम् । वने पद्मासनासीन उत्सङ्गकृतमृगशावको मृगैः कदा मुखे आघ्रातः स्याम् । रिपौ मित्रे, तृणे स्त्रैणे, स्वर्णे ग्रानि, मणौ मृदि, मोक्षे भवे च कदा समतामति: स्यामि'त्येवं गुणश्रेणिमधिरोढुमपवर्गमिच्छु: सदा भावयेत् । एवमाहोरात्रिकी चर्यामप्रमत्तोऽनुतिष्ठन् यथावदुक्तवृत्तपरायणो गृहस्थोऽपि विशुध्यति' इतीमां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् । तत्र च प्रभोः कुम्भादयः सप्तदश गणधरा अभवन् । प्रभोर्देशनान्ते च कुम्भो देशनां चकार । शक्राद्याश्च देशनान्ते प्रभु नत्वा स्वं स्वं धाम ययुः । तत्तीर्थे च समुत्पन्ने त्र्यक्षश्चतुर्मुखः स्वर्णवर्णो वृषरथश्चतुभिर्दक्षिणैर्भुजैर्मातुलिङ्ग-शक्ति-मुद्गरा-ऽभययुतो वामैश्च तावद्भि(जैनकुल-पशु-वज्रा-ऽक्षसूत्रधरो भृकुटिर्यक्षः, श्वेताङ्गी हंसवाहना Page #123 -------------------------------------------------------------------------- ________________ २२२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दक्षिणाभ्यां बाहुभ्यां वरद-खड्गधरा वामाभ्यां च बीजपूरधरा गान्धारीदेवी च द्वे शासनदेवते प्रभोः सदा सन्निहिते अभूताम् । ताभ्यां सहितश्च स्वामी नवमासोनं सार्धं वर्षसहस्रद्वयं यावद् वसुन्धरां विजहार । तदानीं च नमिप्रभोः परिवारे साधूनां विंशतिः सहस्राणि, साध्वीनां चैकचत्वारिंशत्सहस्री, चतुर्दशपूर्वभृतां सार्धं शतचतुष्टयम्, अवधिज्ञानिनां षट्शताधिकं सहस्र, मन:पर्ययिणां षष्ट्यधिका द्वादशशती, केवलज्ञानिनां षोडशशतानि, जातवैक्रियलब्धीनां पञ्च सहस्री, वादलब्धिमतामेकं सहस्रं, श्रावकाणां लक्षमेकं सप्ततिः सहस्राणि च श्राविकाणां चाऽष्टचत्वारिंशत्सहस्रसहिता त्रिलक्षी चाऽभवन् । अथ मोक्षकालं ज्ञात्वा नमिप्रभुः सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपेदे । मासान्ते वैशाखकृष्णदशम्यामश्विनीनक्षत्रे च तैमुनिभिः समं प्रभुः परमं पदं प्राप । प्रभोश्च कौमारे सार्धं वर्षसहस्रद्वयं, राज्ये वर्षाणां पञ्चसहस्री, व्रते च साधं वर्षसहस्रद्वयमित्ययुतवर्षाण्यायुः । मुनिसुव्रतनिर्वाणाच्च वर्षाणां षट्सु लक्षेष्वतीतेषु श्रीनमिप्रभोर्निर्वाणमभूत् । अथ शक्राद्याः समेत्य सपरिच्छदस्य प्रभोनिर्वाणकल्याणकं शरीराग्निसंस्कारपूर्वकं चक्रुः । यथावत् स्वस्थानं जग्मुश्च ॥११॥ इति श्रीनमिनाथचरितवर्णनात्मकः एकादशः सर्गः ॥११॥ द्वादशः सर्गः हरिषेणचक्रिचरितम् अथेह भरते नरपुरे नगरे नराभिरामो नृपोऽभूत् । स च क्रमेण भवविरक्तः प्रव्रज्यां प्रपद्य मृतः सनत्कुमारकल्पे महद्धिको देवोऽभवत् । तथा पञ्चालदेशे काम्पील्यपुरे महाहरिनामनृपस्य मेराया महिष्याः कुक्षौ नराभिरामजीवस्ततश्च्युत्वा चतुर्दशमहास्वप्नसूचितश्चक्रधरोऽवातरत् । पूर्णे समये च सा हरिषेणाख्यं कनकाभं सुतमसूत् । पञ्चदशधनून्नतः स यौवराज्येऽभिषिक्त: पैतृकं राज्यं शशास । एकदा च तस्याऽस्त्रशालायां चक्ररत्नं प्रादुरभूत् । अन्यान्यपि च पुरोधःप्रभृतीनि रत्नानि तस्य जातानि । स च चक्रमनुसरन् प्राच्या मगधेशं साधयित्वा दक्षिणस्यां वरदामेशं वशगं विधाय पश्चिमायां प्रभासेशं सुरं चाऽसाधयत् । ततः सिन्धुं प्राप्य सिन्धुदेवीं वशगां विधाय वैताढ्यकुमारं कृतमालदेवं चाऽसाधयत् । ततः सेनापतिना पश्चिमं सिन्धुनिष्कुटं साधयित्वा तेनोद्घाटितद्वारां तमिस्रागुहां यथाविधि प्रविवेश स: । एवं पद्मयोन्मग्न-निमग्ने नद्यावुत्तीर्य स्वयमुद्घटितोत्तरद्वारा ततो विनिर्गत्याऽऽपाताख्यान् म्लेच्छान् जित्वा क्षुद्रहिमवत्कुमारमाज्ञावर्तिनमकरोत् सः । ततः काकिण्या ऋषभकूटे स्वनामोत्कीर्य प्रस्थाय सेनान्या गाङ्गं Page #124 -------------------------------------------------------------------------- ________________ २२४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पूर्वनिष्कुटं साधयित्वोभयश्रेणिवर्तिभिर्विद्याधरैर्दत्तदण्डो नाट्यमालं चाऽसाधयत् । तत: सेनापतिनोद्घाटितां खण्डप्रपातां प्रविश्य पूर्ववत् ततो निर्गत्य च सेनान्या गाङ्गं पश्चिमनिष्कुटं जित्वा गङ्गायां निवासं चकार चक्री । तत्रोत्कृष्टपुण्यप्रभावेण स्वयंसिद्धैर्गङ्गामुखमागधवासिभिर्नवभिनिधिभिः समृद्धः सम्पूर्णचक्रवर्ती षट्खण्डभरतेश्वरः काम्पील्यपुरमाजगाम । देवैनरैश्च तस्य समहोत्सवं चक्रवर्तित्वाभिषेकश्चक्रे । द्वादशवत्सरान् यावत् पुरे महोत्सव: प्रावृतत् । स च नृपैः सेवितो धर्माबाधया भोगान् बुभुजे । अथाऽन्यदा भवविरक्तो राज्यं त्यक्त्वा स हरिषेणः प्राव्राजीत् । तस्य च कौमारे वर्षाणां सपादशतत्रयी, मण्डलित्वेऽपि तावदेव, जये च साधू वर्षशतं, चक्रित्वे चाऽष्टौ सहस्राण्यष्टौ शतानि पञ्चाशच्च, व्रते च सार्धं शतत्रयमित्ययुतवर्षाण्यायुः । स तीव्र व्रतं सम्यक् परिपाल्य क्षीणकर्मोत्पन्नकेवलज्ञानः परमं पदं प्राप ॥ १२ ॥ इति हरिषेणचक्रिचरितवर्णनात्मको द्वादशः सर्गः ॥१२॥ त्रयोदशः सर्गः जयचक्रिचरितम् नमेजिनेश्वरस्यैव काले जातस्य चक्रिणः । जयाख्यस्येह चरितं पुण्यं श्रव्यमथोच्यते ॥१॥ अथाऽस्य जम्बूद्वीपस्यैरवते वर्षे श्रीपुरे नगरे वसुन्धरो नृप आसीत् । स च प्रियायाः पद्मावत्या मृत्युना भवोद्विग्नो विनयन्धरं पुत्र राज्ये निवेश्य मनोहरवने वरधर्ममुनेस्तत्त्वं श्रुत्वा प्रबुद्धः प्रव्रज्य चिरं व्रतं पालयित्वा विपद्य सप्तमे कल्पे देवत्वमाप । इतश्च मगधे राजगृहे इक्ष्वाकुवंशे विजयो नाम नृपो बभूव। तस्य वप्राख्याया महिष्याः कुक्षौ शुक्राच्च्युत्वा वसुन्धरजीवोऽवातरत् । पूर्णे समये च सा चतुर्दशमहास्वप्नसूचितं जयं नाम स्वर्णवणं पुत्रं सुषुवे । स च द्वादशधनून्नत: पित्रा राज्ये निवेशितः । तस्य शस्त्रागारे च चक्रिलाञ्छनं चक्ररत्नं समुत्पन्नम् । अन्यानि च त्रयोदशरत्नानि जज्ञिरे । दिग्जयार्थं चक्रमनुसरंश्च स पूर्वस्यां मागधेशं दक्षिणस्यां वरदामेशं पश्चिमायां प्रभासेशं सिन्धुं वैताढ्यकुमार कृतमालदेवं सेनापतिना सिन्धुपश्चिमनिष्कुटं च क्रमशो वशीचक्रे स्वयम् । यथापूर्वं तमिस्रां प्रविश्य ततो निर्गत्य चाऽऽपातान् म्लेच्छान् जित्वा क्षुद्रहिमवत्कुमारं वशगं विदधे । तत: काकिण्या ऋषभकूटे स्वं नाम लिखित्वा सेनान्या गाङ्गं प्रानिष्कुटं विजित्य Page #125 -------------------------------------------------------------------------- ________________ कठिनशब्दार्थः २२७ २२६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रस्थितो गङ्गां जित्वा विद्याधरेन्द्रान् खण्डप्रपातद्वारस्थं नाट्यमालं चाऽजयत् सः। ततो वैताढ्याद् निर्गत्य सेनान्या गाङ्गं पश्चिमनिष्कुटं साधयित्वा गङ्गायामावासं विधाय नवाऽपि निधीन् वशगान् विधाय वलितश्चक्री निजं पुरं प्राप्तवान् । देवैर्नृपैश्च तस्य समहोत्सव चक्रित्वाभिषेकश्चक्रे । षट्खण्डां पृथिवीं भुक्त्वा च क्रमेण भवविरक्त: परिव्रज्यां प्रतिपन्नवान् । तस्य चक्रिणो जयस्य कौमारे वर्षाणां शतत्रयी, मण्डलित्वेऽपि च तावदेव, दिग्जये शतं, चक्रित्वे चैकोनविंशतिशती, व्रते च चत्वारि शतानि व्यतीतानि । तदेवं वर्षत्रयसहस्रायुः स व्रतं परिपाल्य क्षीणकर्मोत्पन्नकेवलः परमं पदमियाय ।। १३ ॥ इति श्रीजयचक्रिचरितवर्णनात्मकः त्रयोदशः सर्गः ॥१३॥ रामलक्ष्मणदशानना नमिस्तीर्थकृच्च हरिषेणचक्रभृत् । चक्रभृच्च जय इत्यमुत्र षट् वर्णिताः श्रुतिसुखाय सन्तु वः ॥ १ ॥ વર્ષ कठिनशब्दार्थः षष्ठं पर्व प्रथमः सर्गः अपराह्नः छागः બોકડો सञ्चयः ઢગલો सहकारतरुः परायत्तम् उन्नत: ઊંચું मिषम् अब्द: व्याधः शिबिका પાલખી वर्त्म वसुन्धरा પૃથ્વી मुद्गरः पादपः ઝાડ, વૃક્ષ पाशः કારણ नकुलः વાહન शूलम् दीपिका हावडी, नानो हीवो | अक्षसूत्रम् वात्या વાયુનો સમૂહ वामनः मातुलिङ्गः બીજોરું जन्ययात्रा केकी મયૂર कूपमण्डूकः शिरोतिः बीजपुरः બીજોરું मुषण्डी એક જાતનું શસ્ત્ર | वेश्म प्रतिपत्तिथि: એકમતિથિ, પડવો फलकम् दंष्ट्रा आपणम् द्वितीयः सर्गः तन्त्री परिखा अनुस्यूतः આગેવાન वलकी બપોર પછીનો માંગ આંબાનું વૃક્ષ પરાધીન બહાને, છળ શિકારી માર્ગ હથોડો એક શસ્ત્ર નોળીયો ભાલો જપમાલાની દોરી હીંગુજી લગ્નની જાન કૂવાનો દેડકો માથાની પીડા સ્વેચ્છાએ निबन्धनम् यानम् इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न-श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे सप्तमे पर्वणि समाप्तं रामादिषट्शलाकापुरुषचरितप्रतिबद्धं सप्तमं पर्व ॥७॥ स्वैरम् ઘર દાઢા પાટીયું દુકાન વીણા પરોવાયેલ વીણા ખાઈ Page #126 -------------------------------------------------------------------------- ________________ कठिनशब्दार्थः २२९ पलितम् ૨સ્તો કુહાડી २२८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पर्षद् સમાં વૃદ્ધત્વને કારણે એકાન્ત વાળની ધોળાશ आकृतिः દેખાવ ક્ષિામ: કુશ, દુર્બળ प्रकृतिलोला સ્વભાવથી ચંચળ | થાત્ની: સાળી असवः પ્રાણ (પત્નીની બહેન) अध्वा પશું: अन्तकः યમરાજ सनिर्बन्धम् આગ્રહપૂર્વક દાનશાળા सत्रागारम् પોત: વહાણ ઉછળતાં મોજાં मक्षिका માખી उत्तालतरङ्गः - પશ્વમ: : ग्रावा પત્થર व्रतिनी कुञ्जरः હાથી સાધ્વીજી प्रतिश्रयः ઉપાશ્રય પE: : प्रवहणम् વહાણ सांयात्रिकाः દરિયાઈ વેપારીઓ પત્ની સાથે क्षमणा ક્ષમાપના વાસણ भाण्डम् जामाता उपायनम् ભેટવું તૃતીયઃ સ: અંતઃપુરનો રખેવાળ निदानम् निर्वासितः કાઢી મૂકેલ उत्तुङ्गः ઊંચો उत्सङ्गः ગોદ તાર્યઃ ગરુડ, વિષ્ણુ अन्तर्जवनिका પડદાની અંદર तालध्वजः બળદેવ आढ्यः ધનિક शाङ्गम् ધનુષ वृषी સંન્યાસીનું દર્ભનું लाङ्गलम् આસન तुम्बप्रहारः અગ્રભાગનો પ્રહાર | વેરનો બદલો લેવો વાઈ: સઃ સ્ત્રીઓનો સમૂહ નિશીથવૃત્વમ્ રાત્રિકાર્ય शुषिरम् પોલાણ વવવત્ રાફડાથી વ્યાપ્ત अपवरकः ઓરડો, રૂમ તિરસ્કાર પામેલ પ્રેબુ. निराकृतः પ્રાપ્ત કરવાની ઈચ્છાવાળો | तालु તાળવું થત: ગંધાતો, સડેલો | ધર્મશુશ્રષા शलाका સળી शप्ता શ્રાપ આપનાર सूना आयुधम् શસ્ત્ર निरस्तः સપ્તમ: : अवस्कन्दम् आलयम् ધર गेहेनर्दी कुविन्दी વણકર સ્ત્રી धौरेयः મુખ્ય विधित्सा प्रातिवेश्मिकः પડોશમાં રહેનાર विप्लवः प्रतिपत्तिः સેવા, ભક્તિ મૃગુવછપત્તનમ્ ભરૂચ નગર निकषा उत्कर्णो हयः ઊંચા કરેલ तारतारम् કાનવાળો ઘોડો વાસ: प्रतिशीनम् થીજેલું तुमुलम् उपदेहिका ઊધઈ पर्यङ्कः सोपहासम् મશ્કરીપૂર્વક सर्वाभिसारः उपचिकीर्षा ઉપકારની ઈચ્છા परिवेषणम् પીરસવું प्रसा બલાત્કારે, जिघृक्षा બળજબરીથી અટ્ટમ: સf: विहायः जिगीषुः જીતવાની असकृत् ઈચ્છાવાળો सप्तमं पर्व પ્રથમ: : व्योममार्गः આકાશમાર્ગ रन्तुमनाः कुचौ સ્તન लुब्धक: શિકારી दोहदः ધર્મ સાંભળવાની ઈચ્છા વધસ્થાન પરાભવ કરેલા પડાવ, હુમલો ઘરમાં બડાઈ હાંકનાર, બીકણ કરવાની ઈચ્છા બળવો નજીક મોટેથી વસ્ત્ર યુદ્ધ પલંગ ચતુરંગ સેના સાથે યુદ્ધ માટે પ્રયાણ સિંહ ગ્રહણ કરવાની ઈચ્છા જમાઈ सौविदामः નિયાણું આકાશ વારંવાર वैरानृण्यम् स्त्रैणम् વૃત્તાના રમવાની ઈચ્છાવાળો મનોરથ Page #127 -------------------------------------------------------------------------- ________________ २३० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कठिनशब्दार्थः धीवरः दोर्बलम् - ભુજાબળ अग्रेगू: અગ્રેસર ज्यायसी મોટી कन्दुकः દડો कनीयसी નાની कक्षा બગલ सूतिकातल्यम् સુવાવડી બાઈની | अवनिः પૃથ્વી પથારી फेनिलम् ફીણવાળું उद्दामपादः વિશાળ પગવાળો સેતુ: પૂલ મહાબળવાળો संवर्मितः બન્નર સહિત करण्डकः કરંડિયો उदस्वः તૈયાર શસ્ત્રધારી ક્રિય: : अधुठितः ઉછળેલ मुमूर्षुः લૂંટનાર મરવાની लुण्टाक: ઈચ્છાવાળો al+TI/રમ્ કેદખાનું માછીમાર मराली હંસી अधिज्यधन्वा દોરી ચઢાવેલ यामद्वितयम् બે પ્રહર ધનુષવાળો गिरिशृङ्गम् ગિરિશિખર तृणपूलः ઘાસનો પૂડો बिभीषिका ભયજનક व्यावृत्तः પાછા વળેલ પરિસ્થિતિ पावकः અગ્નિ अम्बरम् આકાશ તુપાવતનનમ્ ગંદકીથી दृग्प्रीणकः આંખને સંતોષ ખરડાયેલ પાણી આપનાર 27: યશ મા: સરોવર અના-II: નિરપરાધી जिघांसुः હણવાની યશ માટેની ભૂમિ ઈચ્છાવાળો यष्ट થર્ણ કરનાર गरीयान् મોટું, ભારે સંપ: મની: ઈચ્છા રહિત યૂપ: યજ્ઞ માટેનો સ્તંભ समुच्छायः ઊંચો व्याधः શિકારી आस्थानी સભા મમ: થરા પત્તઃ સૈનિક अध्वर्युः યજુર્વેદનો જાણકાર उद्धाह्य વિવાહ કરીને क्रव्यादः રાક્ષસ पिष्टकुक्कुट: લોટમાંથી બનાવેલ કૂકડો પn: પ્રતિજ્ઞા पर्जन्यः મેઘ पार्थिवः રાજા पुरोधा પુરોહિત વ: સમિધ પુત્વા: ટાલિયો ઘોડો कृपाण: તલવાર प्राकारः કિલ્લો તૃતીયઃ સ: લજ્જા તા : થાંભલો तिरोहितः છૂપાયેલ વિષ્ટઃ ભાગ્યયોગે त्रपावती લજ્જાલુ अङ्गुलीयः વિટી शिबिरम् છાવણી, પડાવ साधिक्षेपम् આક્ષેપપૂર્વક अवकरः કચરો નામ: બહેન मातुलः મામાં लम्बमानी લટકતી रत्नकिङ्किणी રત્નની ઘૂઘરી. सन्धिः સમાધાન व्यसनम् स्कन्धावारम् ઘતુર્થ: સf: | શ્યત: સાળો (પત્નીનો ભાઈ) नर्मोक्तिः કટાક્ષ વિપરિતકુણા મુખ પહોળું કરેલ રસોઈયો अन्तिकः પાસે, નજીક कालयापना સમય પસાર કરવો Nિ : દોરી, લગામ न्यासीभूतः થાપણરૂપ स्नुषा પુત્રવધૂ आर्यिका સાધ્વીજી विक्रयः માલ વેચવો પી : ઝૂંપડી तूलिका यात्राभेरी યુદ્ધનો પડહ શરમ: હાથીનું બચ્ચું कान्दिशीक: ડરપોક वयस्यः મિત્ર सौप्तिकम् રાત્રિ યુદ્ધ चापम् ધનુષ गुणम् દોરી कार्मुकम् ધનુષ कञ्चुकी અંતઃપુરનો અધિકારી वार्धक्यम् ઘડપણ પાયદળ ચરઃ છાવણી, પડાવ | પરતઃ Page #128 -------------------------------------------------------------------------- ________________ २३२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार: कठिनशब्दार्थः २३३ થશે ઇકુ. શિકાર સમડી सौधम् विपन्नः जिगमिषुः જવાની તકાર: ચોર ઈચ્છાવાળો ज्या ધનુષની દોરી निदेशः આદેશ कामिकः ઈચ્છિત પશ્વમ: : તા:: દ્વારપાળ कुल्यम् નહેર कर्षक: इक्षुवाटः શેરડીનું ખેતર वातायनम् બારી मृगया कन्दरम् ગુફા अपजिहीर्षा અપહરણ કરવાની | ગીધ ઈચ્છા प्रत्ययः વિશ્વાસ खात्रम् કોદાળી, પાવડો | शकुनिका સ: નિર્જન, વસતિશૂન્ય पादपङ्क्तिः પગલાં ઘર भागिनेयः ભાણેજ રૂય: શ્રેષ્ઠી સ: છાતી सूत्रम् હારે सानुनयः વિનંતિપૂર્વક सपदि અધુના, તુરંત પB: : તૈયાર થવું સર્કઃ दयिता पुरोभूय આગળ આવીને પ્રિયા त्रपाकरः લજ્જાકારક प्रसद्य કૃપા કરીને યા: વરદાન, વરરાજા रिरंसुः રમવાની पथिकः ઈચ્છાવાળો મુસાફર सलिलम् પાણી ऊर्मिका વિટી उद्घासितः કાઢી મૂકવો व्यात्तमुखा પહોળું કરેલા आयामः લંબાઈ મુખવાળી समिध् સમિધ कर्परः इप्सितवादिनी ઈચ્છિત વગાડનાર | स्कन्धः ખભો. एकिका એકલી चूडामणिः મસ્તક પર રહેલ प्राहरिकः દ્વારપાળ મણિ गलपाशः ગળાફાંસો किरीटः મુગુટ સપ્તમ: સ: अनुरोधः આગ્રહ पारिपाश्चिक: સેવક हस्तिपकः મહાવત शुकरः ભૂંડ હોતુ: अमोघम् નિષ્ફળ ન જનાર देवकः જુગારી वजी તૂUT: બાણ રાખવાનું ભાથું હાથે प्रावृट्काल: વર્ષાકાળ पितृव्यः કાકા निसमयः પીડા રહિત થી ન: બહાનું, કપટ दुर्विधिः દુભાંગ્ય ન ; મગરમચ્છ રાનધાનમત્તા: મહાજન जिघत्सुः ખાવા ઈચ્છતો | નરલીઝનમુ: ઘૂંઘટ કાઢીને વર: દિયર નવમ: : गतागतम् આવનજાવન મ: ઉતાવળ મૃત્યુ પામેલ ની: માળો वत्तिका ચકલી રાજા વા ; જખમ, ઘા નર્તઃ ખાડો श्येनः બાજ પક્ષી सत्यापना સાચું, ખરું आयतिः ભવિષ્ય वापी વાવ, જળાશય कृतान्तः યમરાજ કીવર્ત: ઘુમરી સાથે अक्षमाला રુદ્રાક્ષની માળા सोपानम् નિસરણી વા:ગુપ્તચર लोकप्रघोषः લોક અવાજ कूष्माण्डः કોઠાનું ફળ ૩મ: સમાં: શામ: : पलायितः ભાગી જવું कुरङ्गः હરણ और्ध्वदेहिकम् મરેલાની મરણ | पर्याणम् ઘોડા ઉપર તિથિએ ખવાતું પિંડ નાંખવાનું પલાણ किंवदन्ती અફવો उच्छूनम् સોજા, ફૂલી જવું अनुस्त्रियमाण: અનુસરાતો નિ : લતામંડપ परिचर्या સેવા चमूपतिः સેનાપતિ अर्गला આગળીયો અંત: ખમો Page #129 -------------------------------------------------------------------------- ________________ 234 अश्मा लागुल: वालुका शवः करामलकवत् त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः પત્થર एकादशः सर्गः પૂંછડી कारामोक्षणम् हीमोन छोडी રેતી મૂકવા મડદું तरङ्गः મોજાં, લહેર હાથમાં રાખેલ अभ्युत्थानम् ઊભા થવું આંબળાની જેમ अभिगमनम् સામાં જવું સામે રાખવું यकृद् કલેજું चर्मप्रसेविका ચામડાની ધમણ नानो घडी, &issii | द्वादशः सर्गः તવી उत्कीर्योतरीने પારો उपढौकितः जवः कुम्भी भ्राष्ट्रम् पारदः