________________
१३१
पञ्चमः सर्गः अथ रामोऽध्वनि श्रान्तां जानकी विश्रमयितुं वटस्य मूले समुपाविशत् । तं देशं परितोऽवलोक्य च लक्ष्मणमुवाच-'अयं देशः कस्याऽपि भीत्याऽचिरादेव विजनो जातोऽस्ति । यतोऽत्रोद्यानानि सजलकल्यानि खलानि सान्नानि इक्षुवाटाश्च सेक्षव एव सन्ति' । तदैव च तत्र गच्छन्तं कञ्चिज्जनं 'कुतोऽयं देशो निर्जनः, त्वं च कुतश्चलितोऽसी'ति पप्रच्छ । ततः स जन उवाच-'अवन्तिदेशेऽवन्त्यां नगर्यां सिंहोदरो नाम नृपोऽस्ति । तस्य चाऽस्मिन् देशे वज्रको नाम सामन्तो दशाङ्गपुरनायकोऽस्ति ।
स चैकदा मृगयायै गतः कायोत्सर्गस्थं प्रीतिवर्धनं महामुनिमैक्षिष्ट । अरण्ये द्रुम इव किं स्थितोऽसीति तेन पृष्ट आत्महितार्थमिति मुनिरुदतरत्। ततः खाद्यपेयादिरिक्तेऽस्मिन्नरण्ये तव किमात्महितं सम्पद्यते इति तेन पृष्टश्च मुनिस्तमधिकारिणं मत्वाऽऽत्महितं धर्ममुपादिशत् । सोऽपि श्रावकत्वं सद्यः स्वीकृत्याऽर्हन्तं साधूंश्च विहाय नाऽन्यं प्रणंस्यामीत्यभिग्रहं गृहीत्वा मुनि वन्दित्वा दशाङ्गपुरं प्राप्तः श्रावकत्वं पालयन् दध्यौ-'मया नाऽन्यः प्रणम्य' इति मदभिग्रहेण मद्वैरी सिंहोदरोऽनमस्कृतो भविष्यति' । एवं विचार्य स निजाङ्गुलीये मुनिसुव्रतनाथस्य मणिमयी प्रतिमां निवेश्य तं नमन् सिंहोदरं वञ्चयते स्म ।
सप्तमं पर्व - पञ्चमः सर्गः
तवृत्तान्तं कोऽपि दुर्जनः सिंहोदरस्याऽऽचख्यौ । तेन च सद्यः क्रुद्धः सिंहोदरः । तदपि कोऽपि वज्रकर्णायाऽऽख्यातवान् । तस्य मयि कोप: कथं त्वया ज्ञात इति वज्रकर्णेन पृष्टश्च स पुमानाख्यत्-कुन्दपुरे नगरे श्रावकः समुद्रसङ्गमो वणिगस्ति । तस्य यमुनाकुक्षिजोऽहं विद्युदङ्गाख्यः पुत्रोऽस्मि । क्रमात् तारुण्यं प्राप्तो भाण्डमादायाऽहमुज्जयिन्यां क्रयविक्रयार्थं समागमम् । तत्र कामलतां वेश्यां दृष्ट्वा कामवशगोऽहं निशामेकां वसामीति तामुपभुज्य दृढं तद्रागबद्धो मत्पित्रा कष्टेनाऽऽजन्मोपार्जितं धनं षड्भिर्मासैरेवाऽपव्ययिष्टम् ।
सा चैकदा 'सिंहोदरमहिष्याः श्रीधरायाः कुण्डलतुल्ये कुण्डले मह्यं देही ति मां याचितवती । अहं च धनाभावात् श्रीधराकुण्डलापजिहीर्षया साहसेन रात्रौ खात्रेण नृपगृह प्रविष्टः सिंहोदर-श्रीधरयोरालापं श्रुतवान् । किमित्युद्विग्नो निद्रां न लभस इति श्रीधरया पृष्टः 'प्रणामविमुखो वज्रकों यावद् नाश्यते तावत् कुतो मम निद्रा ? अमुं प्रात: सपुत्र-मित्र-बान्धवं हनिष्यामी'ति सिंहोदरः प्राह । तच्छ्रुत्वा तदाख्यातुं कुण्डलचौरिकं विहाय सार्मिकवात्सल्यात् त्वां प्राप्तोऽस्मि' । वज्रकर्णश्च तच्छ्रुत्वा सद्य एव पुरीं तृणा-ऽन्नादिसमृद्धां चकार । ___तदैव चाऽऽकाशे परसैन्यरजो दृष्टवान् । सिंहोदरेण च क्षणादेव तद्दशाङ्गपुरं बलैरवेष्ट्यत । दूतमुखेन च 'त्वया प्रणाममायया चिराद् वञ्चितोऽस्मि, तदङ्गुलीयं विहायाऽऽगत्य मां नमस्कुरु । अन्यथा सकुटुम्बस्य ते विनाश इति वज्रकर्णमुक्तवान् । सोऽपि 'ममाऽयमभिग्रहः, तन्नमस्कारं विना मम सर्वस्वं गृहाण,