________________
Manormanner
षष्ठं पर्व - द्वितीयः सर्गः भोगान् भुक्ते । जिनेश्वर एवमाख्याय बहून् जनान् प्रतिबोध्य विहरन्नन्यतो ययौ । वीरभद्रश्च भोगांश्चिरं भुक्त्वा प्रव्रज्य क्रमाद् विपद्य देवलोकं जगाम ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वं वृत्तान्तमकथयत् । ताश्च तिस्रोऽप्येकपतिसम्वादादुच्चैरुदश्वसन् । इत्येवमभिधाय गणधरः पुनः प्राह-'श्रेष्ठिन् ! स एष वामनस्तव जामाता, यः क्रीडया तासां तिसृणां विरहं ददौ । तच्छ्रुत्वा वामनो गणधरं वन्दित्वा जगाद-'भवद्भिर्ज्ञानदृशैवमेतद् दृष्टं, नाऽन्यथाऽत्र' । ततो द्वितीयपौरुष्यां पूर्णायां गणधरो देशनां विससर्ज ।
श्रेष्ठी च गणधरं वन्दित्वा मुदितो वामनेन सह प्रतिश्रयमगात्। ताश्च तिस्रो वामनमायान्तं प्रेक्ष्य शीघ्रं तत्रोपाजग्मुः । सागरदत्तश्च युष्माकं तिसृणामसौ पतिरित्युक्त्वा सर्वं वृत्तान्तमकथयत् । तेन च गणिन्या सममेव तास्तिस्रोऽपि विस्मयं प्रापुः । सोऽपि च वामनत्वं मुक्त्वा पुराऽनङ्गसुन्दर्या दृष्टवद् भूत्वा पश्चाद् गौरत्वं प्रत्यपद्यत । ततस्सः सर्वाभिश्च ताभिः सोत्कण्ठाभिः प्रत्यभिज्ञात: समादृतश्च । सुव्रतया किमेवं भवता कृतमिति पृष्टश्च क्रीडयेत्यवोचत् । तत: सुव्रता पुनरुवाच-'धर्मिणः क्वाऽपि दुःखपदेऽप्यतुलं सौख्यमेव लभन्ते, सत्पात्रदानानुभावात् तेषां सर्वत्र भोगा एव भवन्तीत्यार्हतं वचः, तदनेन कस्मै दत्तमित्यरजिनं पृच्छामः' । ततः सा गणिनी सागरदत्तो वीरभद्रः प्रियदर्शनादयश्चाऽरनाथमुपेत्य यथाविधि प्रणेमुः । ___ततो वीरभद्रः प्राग्भवे किं व्यधादिति सुव्रतया पृष्टो जिनेश्वरो जगाद-'इतस्तृतीये मे भवे राज्यं त्यक्त्वा व्रतं गृहीत्वा विहरतश्चातुर्मासोपवासान्ते रत्नपुरे पुरे श्रेष्ठिपुत्रोऽसौ वीरभद्रो जिनदासाख्यो भक्त्या भिक्षां ददौ । तेन पुण्येनाऽसौ ब्रह्मलोके देवोऽभूत् । ततश्च्युत्वा जम्बूद्वीपस्यैरवते वर्षे काम्पील्ये पुरे परमद्धिः श्रावकत्वं परिपाल्य मृत्वाऽच्युते कल्पे देवोऽभवत् । पुनस्ततश्च्युत्वा वीरभद्रोऽभूत् । तेन पुण्यानुबन्धिपुण्येनाऽसौ
अरजिनस्य च केवलादारभ्य त्रिवर्षोनाब्दसहस्रकविंशति वसुन्धरां विहरत: परिवारे श्रमणानां पञ्चाशत्सहस्राणि, साध्वीनां षष्टिसहस्री, चतुर्दशपूर्वभृतां दशाग्राणि षट्शतानि, अवधिज्ञानिनां सषट्शते द्वे सहस्रे, मनःपर्ययिणां सार्धे सहस्र द्वे एकपञ्चाशच्च, केवलिनां साष्टशते द्वे सहस्र, जातवैक्रियलब्धीनां त्रिसप्ततिशती सञ्जातवादलब्धीनां सहस्रं षट् शतानि च, श्रावकाणामुभे लक्षे षोडशसहस्रोनेः, श्राविकाणां त्रीणि लक्षाणि द्वासप्ततिसहस्री चाऽभवन् ।
अथ निर्वाणकालं ज्ञात्वा प्रभुः सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते मार्गशीर्षशुक्लदशम्यां रेवतीस्थे चन्द्रे तैर्मुनिभिः सममव्ययं पदं जगाम ।।
तदेवं प्रभोः कौमार-राज्य-चक्रवर्तित्व-व्रतेषु चतुरशीत्यब्दसहस्राण्यायुरभवत् । श्रीकुन्थुनाथनिर्वाणाच्च वर्षकोटिसहस्रोने पल्योपमचतुर्थांशे गते श्रीमतोऽरनाथस्य मोक्षोऽभूत् । इन्द्राश्च समेत्य भक्त्याऽरनाथस्य तैर्मुनिभिः समं शिवमुपेयुषः शरीरसंस्कारपूर्वक निर्वाणकल्याणकमकार्षुः ॥२॥
इति श्रीअरनाथचरितवर्णनात्मको द्वितीयः सर्गः ॥२॥