________________
तृतीयः सर्गः आनन्द-पुरुषपुण्डरीक-बलिचरितम् अथ विजयपुरे पुरे चन्द्र इव सुदर्शन: सुदर्शनो नाम नृपो बभूव । स दमधराद् मुनेर्धर्मं श्रुत्वा विरक्तः प्रव्रज्य तपस्तप्त्वा सहस्रारे कल्पे सुरोऽभवत् । तथा पोतनपुरे प्रियमित्रो नाम नृपो बभूव । सुकेतुश्च तत्प्रियां जहार । तत्पराभवाद् विरक्तः प्रियमित्रो वसुभूतिमुनेः पार्श्वे प्रव्रज्यामुपादाय दुस्तपं तपस्तपन् पल्यपहारकवधं प्रति निदानं चकार । तन्निदानमनालोच्यैव चाऽनशनेन विपद्य माहेन्द्रे कल्पे महद्धिको देवोऽभवत् ।। ____ इतश्च वैतादयगिरावरिञ्जयपुरे सुभूमचक्रिणा प्राप्तश्रेणिद्वितयवैभवस्तस्यैव चक्रिणः पद्मश्रीनाम्न्याः पल्याः पिता मेघनादनामा विद्याधरनृपोऽभवत् । सुकेतोर्जीवश्च भवं भ्रान्त्वा मेघनादान्वये बलि: प्रतिविष्णुरभवत् । स च पञ्चाशद्वर्षसहस्रायुः कृष्णवर्णः षड्विशधनूत्तुङ्गत्रिखण्डपृथिवीशो जज्ञे।
अथाऽस्य जम्बूद्वीपस्य दक्षिणभरतार्धे चक्रपुरे महाशिरा इति ख्यातोऽपरो लोकपाल इव भूपालोऽभवत् । तस्य च नृपस्य वैजयन्ती लक्ष्मीवती च द्वे पत्न्यावास्ताम् । तत्र वैजयन्त्या उदरे सहस्रारात् सुदर्शनजीवश्च्युत्वा समवातरत् । बलजन्मसूचकेन महास्वप्नचतुष्टयेन हष्टा सा देवी गर्भ दधौ । पूर्णे समये च पूर्णचन्द्रमिवाऽमलमेकोनत्रिंशद्धन्वोच्चमानन्दाख्यं सुतमसूत ।
षष्ठं पर्व - तृतीयः सर्गः प्रियमित्रस्य जीवश्च तुर्यकल्पात् परिच्युत्य लक्ष्मीवत्याः कुक्षौ समवतीर्णवान् । विष्णुजन्मसूचकैः सप्तभिर्महास्वप्नैर्हष्टा सा गर्भ धारयामास । काले चैकोनत्रिंशद्धनून्नतं कृष्णवर्णं पुरुषपुण्डरीकाख्यं सुतमसूत । तौ च भ्रातरौ पित्रोर्मनोरथैः सह वर्धमानौ तार्क्ष्य-तालध्वजौ नील-पीताम्बरधरौ समस्तकलाकुशलौ क्रमेण यौवनं प्रपेदाते।
राजेन्द्रपुरनृप उपेन्द्रसेन: पुण्डरीकाय पद्मावती नाम निजकन्यकां ददौ । तां च रूपवतीं श्रुत्वा प्रतिविष्णुर्बलिस्तत्र समाययौ । आनन्द-पुण्डरीकौ च देवार्पितशाङ्ग-लाङ्गलप्रभृतिशस्त्री बलिना सह युयुधाते । ततश्च बलिनो बलेर्बलेन तयोर्बलमभज्यत । ततश्चाऽऽनन्दः पुण्डरीकश्च रथस्थौ रणाय डुढौकाते । पुण्डरीकध्मातेन पाञ्चजन्यशङ्खशब्देन च बलिसैन्यं नष्टम् । ततः कुपितो बलिः शरैर्वर्षन् योद्धमुपतस्थे । तयोः शस्त्राशस्त्रि युद्धे प्रवृत्ते च प्रतिविष्णुर्बलिश्चक्रं भ्रमयित्वा पुण्डरीकायाऽमुञ्चत् । तत्तुम्बप्रहाराच्च क्षणं मूच्छितो लब्धसंज्ञस्तमेव चक्रमादाय विष्णुर्धमयित्वा मुक्त्वा च बलेः शिरश्चिच्छेद । ततश्चाऽऽनन्दसहितोऽहितनृपान् मथ्नन् विष्णुदिग्यात्रां विधायाऽर्धचक्री बभूव । तथा मगधान्तरवस्थितां कोटिनरोत्पाट्यां महाशिला लीलयोत्पाटयामास । वर्षाणां पञ्चषष्टिसहस्राणि निजमायुरतिवाह्य च स स्वोग्रकर्मभिः षष्ठं नरकं ययौ ।
पुण्डरीकस्य च कौमारे सार्धं वर्षशतद्वयं, तावदेव मण्डलित्वे, दिग्विजये च षष्टिवत्सरी, राज्ये च वर्षाणां चतुष्षष्टिसहस्री चत्वारि शतानि चत्वारिंशच्चाऽगात् । आनन्दश्चाऽनुजं विना विषण्ण: सुमित्रमुनेर्दीक्षामुपादाय पञ्चाशीतिवर्षसहस्रायुः केवलमवाप्याऽव्ययं पदं प्राप ॥३॥ इति आनन्द-पुण्डरीक-बलिचरितवर्णनात्मकः तृतीयः सर्गः ॥३॥