________________
॥ अर्हम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः श्रीकुन्थुनाथ-अरनाथादिचरितप्रतिबद्धं
षष्ठं पर्व श्रीकुन्थुजिनचरितम्
प्रथमः सर्गः चक्री च धर्मचक्री च श्री-शूरतनयो जिनः । मनःशुद्भया श्रियो वृद्धयै कुन्थुर्हदि निधीयते ॥१॥
अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु आवर्तनाम्नि विजये खड्गिनाम्न्यां महापूर्यां सकलगुणभाजनं धर्मधुरन्धरो नीतिपरायणः सिंहावहो नाम नृपो बभूव । सोऽनासक्त्या भोगान् भुञ्जान: कमपि कालं गमयित्वा सातिशयवैराग्य: संवराचार्यपादान्ते दीक्षामग्रहीत् । तीव्र व्रतं पालयश्चाऽर्हदाराधनादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपार्जयत् । कालयोगेन विपद्य च सर्वार्थसिद्धे विमाने महद्धिकः सुरोऽभवत् ।
इतश्चाऽस्यैव जम्बूद्वीपस्य भारतक्षेत्रे चैत्य-प्रासादादिसुशोभिते हस्तिनापुरे पुरे तेजसा शूर इव शूरो नाम नृपो बभूव । दयादाक्षिण्यादिगुणालङ्कतस्य तस्य रूप-लावण्यसमन्विता शीलवती