Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 114
________________ षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः अत्राऽवसरे च समुद्रजलमिव सर्वतः सावर्त्तमुच्छलद् वाप्या जलमुञ्चानपि मञ्चानाप्लावयितुमारेभे । विद्याधराश्च भयोद्भ्रान्ताः समुत्पत्य नभसीयुः । भूचराश्च 'महासति सीते! पाही 'ति चुकुशुः । सीता चोच्छलितं तदम्भः पाणिभ्यामवालयत् । तत्प्रभावतश्च तज्जलं पुनर्वापीप्रमाणमभूत् । सा वापी चोत्पलादिभिः शोभिता मणिसोपानमनोहरा रत्नबद्धोभयतटा च जाता । नारदाद्याश्च नभसि सीताशीलप्रशंशिनो ननृतुः पुष्पाणि ववृषुश्च । अहो ! रामपल्या यशस्करं शीलमिति महान् लोकप्रघोषोऽभूत् । लवणा-ऽङ्कुशौ च मातुस्तत्प्रभावं दृष्ट्वा प्रमुदितौ हंसाविव तरन्तौ तत्समीपमाप्तौ जानक्या मूर्त्याघ्राय पार्श्वयोरुपवेशितौ । लक्ष्मणादयश्च गत्वा सीतां सभक्ति नमश्चक्रुः । २०४ रामश्च सीतामुपगम्य पश्चात्ताप - लज्जानतो रचिताञ्जलि - रुवाच-'स्वभावादप्यसद्दोषोद्घोषकाणां नागराणामनुरोधात् त्यक्ताऽसि, देवि ! तत् सहस्व । वने त्यक्ता च स्वप्रभावत एव त्वमजीवः । एकं दिव्यमासीत्, तदप्यहं नाऽज्ञासिषम् । मम तत् सर्वं क्षान्त्वा पुष्पकमध्यास्य वेश्म गत्वा प्राग्वद् मया सह रमस्व' । ततः सीतोचे- 'न ते न वा लोकस्य कश्चन दोष:, किन्तु मत्पूर्वकर्मणामेव । तत्तादृशकर्मोच्छेदकारिणीं प्रव्रज्यामेव निर्विण्णा ग्रहीष्यामि । एवमुक्त्वा सा स्वमुष्टिना केशानुत्खाय जिनेश्वरः शक्रस्येव रामस्याऽर्पयामास । तेन मूच्छितश्च रामो यावद् नोत्तस्थौ तावत् सीता जयभूषणमुनेरन्तिकं ययौ । स मुनिश्च जानकीं विधिवद् दीक्षित्वा सुप्रभाख्यगणिनीपरिवारे तां तपः परायणां चकार ।। ९ ।। इति सीताशुद्धि-व्रतग्रहणवर्णनात्मको नवमः सर्गः ॥ ९ ॥ 赤龍 दशमः सर्गः अथ रामं चन्दनजलेन सिक्तं लब्धसंज्ञं 'क्व नु सीता, लुञ्चितकेशामपि तां मे प्रियां दर्शयत यदि यूयं न मुमूर्षवः, दुःस्थिते मयि किं यूयं सुस्थिता' इत्युक्त्वा चापं गृह्णन्तं तं नत्वा लक्ष्मणोऽब्रवीत् - 'आर्य! किमिदं, लोकः खलु तव किङ्करः । यथा त्वं दोषभीतः सीतामत्याक्षीः, तद्यथा सा भवभीता सर्वमत्यजत् । भवत: प्रत्यक्षमेवैतत् सा केशान् स्वयमुत्पाट्य जयभूषणमुनिसमीपे विधिवद् दीक्षां जग्राह तस्य मुनेश्चेदानीमेव केवलमुत्पन्नम् । तज्ज्ञानमहिमा तवाऽप्यवश्यकर्त्तव्योऽस्ति । सीताऽपि व्रतिनी सतीमार्गमिव मुक्तिमार्गं दर्शयन्ती तत्रैवाऽऽस्ते' । ततो रामः स्वस्थः सन्नुवाच- 'मम प्रिया परिव्रज्यामाददे तत् साधु'। एवमुक्त्वा सपरिवार: केवलिनं जयभूषणमुपगम्य नत्वा देशनां श्रुत्वाऽन्ते च पप्रच्छ-'भगवन् ! अहमात्मानं भव्यभव्यं वा न वेद्मि तदाख्याहि, प्रसीद' । ततः केवलिना 'त्वं भव्योऽसि, अनेनैव जन्मनोत्पन्नकेवलः सिद्धिं यास्यसीत्युक्तः पुनरपि स पप्रच्छ-'प्रव्रज्यया मोक्षः, सा च सर्वत्यागेन, किन्तु लक्ष्मणो मम दुस्त्यज:' । ततो मुनिराह 'तव बलसम्पदोऽवश्यं भोक्तव्याः, अन्ते च सङ्गं त्यक्त्वा प्रव्रज्य मोक्षमेष्यसि । ततो विभीषणो नत्वाऽपृच्छत्- 'केन कर्मणा रावणः सीतामपजहार, लक्ष्मणश्च तं

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129