Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१४
२१५
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्राऽप्यसावकृतकृत्यो विपद्याऽस्मिन् भवे ममाऽनुजो जातः । अत्राऽप्यस्य कौमारे वर्षशतं, मण्डलित्वे वर्षाणि शतत्रयं चत्वारिंशच्च, दिग्विजये साधैकादश सहस्राः. राज्ये षष्टिवर्षाणीति मिलित्वा द्वादशवर्षसहस्राण्यायुरविरतस्य नरकावहं जातम् । अत्र देवयोर्न दोषः । कर्मणां हि विपाक एवेदृशः' । एवं चिन्तयन् रामः कर्मभेदाय विशेषतस्तपः-समाधिपरायणोऽभूत् ।
__ अथ रामः षष्ठोपवासान्ते स्यन्दनस्थले नगरे पारणाय युगमात्रदत्तदृष्टिः प्रविवेश । पौरेरुपढौकितानाहारानगृह्णन् धाहारासक्तो नृपगृहं गतवान् । तत्र प्रतिनन्दिनृपेणोचितमन्नादिकं प्रतिलम्भितं भुक्तवान् । देवैश्च तत्र वसुधारादिपञ्चकं विदधे । रामश्च पुनस्तदरण्यं गत्वा पुरक्षोभः स्वस्य संघट्टश्च मा भूदित्यभिग्रहो जग्राह-'भिक्षाकालेऽत्रैव वने चेद् भिक्षा लप्स्यते, तदा पारणं कार्य नाऽन्यथे'ति । तादृशाभिग्रहपरश्च समाधिमापन्नः प्रतिमाधरस्तस्थौ ।
अथैकदा दुःशिक्षितेनाऽश्वेन जविना ह्रियमाणः प्रतिनन्दिनृपः समागतवान् । नन्दनपुण्याख्यसरस: पङ्के चाऽश्वो मग्नः । अनुपदं तस्य सैन्यं चाऽऽगतम् । तमश्वं पङ्कादुद्धृत्य शिबिरं विधाय च स्नात्वा सपरिच्छदो नृपो भोजनं चक्रे । तदा च पारितध्यानो रामः पारणेच्छया तत्राऽऽगतवान् । नृपश्चाऽभ्युत्थाय भक्तपानस्तं प्रत्यलाभयत् । कृतपारणे च रामे नभसो रत्नवृष्टिरभूत् । रामस्य देशनां श्रुत्वा च ते प्रतिनन्द्यादयः श्रावका बभूवुः । तदारभ्य रामश्चिरं वनदेवताभिः पूज्यमानस्तत्रैव तस्थौ । भवविच्छेदकामश्च मासोपवासादिनिरतो नानासनो दुस्तपं ध्यानस्थस्तपस्तेपे ।
अन्यदा च रामः कोटिशिलां शिलां पुरा लक्ष्मणेनोत्तोलितां प्राप्य तामध्यास्य रात्रौ प्रतिमाधरः शुक्लध्यानान्तरं प्राप । अवधिना
सप्तमं पर्व - दशमः सर्गः तज्ज्ञात्वा च सीतेन्द्रो दध्यौ-'यदयं भवी भवेत् तदा तेन योगो भवतु मम, तदस्योपसर्ग विदधामि, यथाऽयं देवो मत्सुहृत् स्यात्' । एवं विचिन्त्योपराममागत्य ऋतुसमुद्धमुद्यानं सीतारूपं स्त्रीजनानपि च विकृत्योचे-'प्रिय ! तव प्रिया सीताऽहमिहोपस्थिताऽस्मि, त्वामनुरक्तं त्यक्त्वाऽहं प्राव्रजम् । पश्चाच्च ममाऽत्यन्तं पश्चात्तापोऽभूत् । अद्य चाऽऽभिविद्याधरकुमारीभिः प्रार्थिताऽहं-प्रसीद, स्वं पति रामं याचे, नो नाथीकुरुष्व । त्वं च परिव्रज्यां मुक्त्वा रामस्य महिषी भव, वयं च त्वदादेशात् तस्य पल्यो भविष्यामः । तदमूः स्वीकुरु, त्वया सह प्राग्वद् रस्ये' । एवं वदति सीतेन्द्रे च विकृतास्ताः स्त्रियः कामोद्दीपकं सङ्गीतं चक्रुः । किन्तु राममुनिर्मनागपि नाऽक्षुभ्यत् ।
अथ माघस्य शुक्लद्वादश्यां रात्रेरन्तिमे प्रहरे रामस्याऽमलं केवलमुत्पन्नम् । तदा सीतेन्द्रोऽन्ये च देवास्तस्य विधिपूर्वकं केवलज्ञानमहिमानं चक्रुः । रामश्च धर्मदेशनां विदधे । देशनान्ते च सीतेन्द्रेण क्षमयित्वा नत्वा च लक्ष्मण-रावणगति पृष्टो रामोऽब्रवीत्-रावणोऽधुना शम्बूकेन सह चतुर्थे नरके लक्ष्मणश्च स्तः । नरकायुरनुभूय तौ प्राग्विदेहे विजयावत्यां नगर्यां सुनन्दस्य रोहिणीभवौ तनयौ जिनदास-सुदर्शनौ भूत्वाऽर्हद्धर्म पालयिष्यतः। तत: सौधर्मे त्रिदशौ भूत्वा च्युत्वा च विजयापुर्यां श्रावको भूत्वा विपद्य हरिवर्षे पुरुषभावमाप्य मृत्वा देवलोकं गमिष्यतः । ततः च्युत्वा तस्यामेव विजयापुर्यामार्तराजो लक्ष्मीकुक्षिजौ जयकान्तजयप्रभौ कुमारौ जिनोक्तं संयम पालयित्वा लान्तके देवी भविष्यतः ।

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129