Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 121
________________ एकादशः सर्गः वप्रा - विजययोः सूनुराह्निका चारदेशकः । कर्मपङ्कनिमग्नानां जीयाद् बन्धुर्जिनो नमिः ॥ १ ॥ अथेह जम्बूद्वीपे पश्चिमविदेहे भरतक्षेत्रे कौशाम्ब्यां नगर्यां कृतकृत्य: सिद्धार्थो नाम नृपो बभूव । सर्वाद्भुतगुणविराजित: स भवाद् विरज्य सुदर्शनमुनेर्दीक्षामुपाददे । कतिपयैः स्थानकैश्च तीर्थकृन्नामकर्मोपार्ण्य सम्यग् व्रतं पालयित्वा विपद्य सोऽपराजिते कल्पे महर्द्धिकोऽमरोऽभवत् । इतश्चाऽस्मिन्नेव जम्बूद्वीपेऽत्रैव भरते मिथिलायां नगर्यां चैत्य-प्राकारादिविराजितायां परमश्रीसम्पन्नो विजयो नाम नृपोऽभवत् । तस्य च शीलगुणमण्डिता वप्रा नाम भार्याऽऽसीत् । तस्याश्च कुक्षौ सिद्धार्थजीवस्त्रयस्त्रिशस्सागरोपममायुः पूरयित्वा - ऽऽश्विनपूर्णिमायामश्विनीनक्षत्रे जगत्त्रये कृतोद्योतोऽपराजिताच्च्युत्वाऽवातरत् । निशाशेषे च सुखसुप्ता वप्रादेवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् दृष्टवती । पूर्णे समये च श्रावणकृष्णाष्टम्यामश्विनीनक्षत्रे सा नीलकमलाङ्कं स्वर्णवर्णं सुतमसूत । दिक्कुमारिकाश्चाऽऽगत्य विधिवत् सूतिकर्माणि चक्रुः । शक्रश्च प्रभुं यथाविधि मेरुं नीत्वा सर्वैरिन्द्रादिदेवैः सह स्नात्रं विधिवद् विधायाऽर्चयित्वा नत्वा स्तुत्वा च पुनरादाय वप्रास्वामिन्या: पार्श्वे सप्तमं पर्व एकादशः सर्गः २१९ मुमोच । ततो यथाविधि रक्षादिकं विधाय निजं धाम जगाम । विजयोऽपि प्रमुदित: कारामोक्षणादिपूर्वकं प्रभोर्जन्मोत्सवं विदधे । 'अस्मिन् गर्भस्थे प्रासादारूढां वप्रां दृष्ट्वाऽरयो नेमुरि'ति नमिरिति नाम चक्रे । प्रभुश्च शक्रादिष्टाभिर्धात्रीभिः पाल्यमानश्चन्द्र इव दिने दिने वर्धमानः शैशवं व्यतीत्य प्राप्तयौवनः पञ्चधनूच्छ्रितः पित्रोरुपरोधाद् राजकन्यां पर्यणैषीत् । जन्मतः सार्धवर्षसहस्रद्वयमतीत्य पित्रा दत्तं राज्यं कर्मभोगफलं मत्वाऽऽददे । राज्यग्रहणात् पञ्चसु वर्षसहस्रेषु यातेषु लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितः प्रभुः सुप्रभं नाम पुत्रं राज्ये निवेश्य जृम्भकदेवापृतैर्द्रव्यैर्वार्षिकदानं प्रददौ । तत: सुप्रभादिभिर्नृपैः शक्राद्यैर्देवैश्च परिवृतो देवकुरुनाम्या शिबिकया सहस्त्राम्रवणं ययौ प्रभुः । आषाढकृष्णनवम्यामश्विनीनक्षत्रेऽपराह्णे कृतषष्ठो नृपसहस्रेण समं प्राव्राजीत् । तत्कालोत्पन्नचतुर्थज्ञानश्च प्रभुर्द्वितीयेऽह्नि वीरपुरे दत्तनृपगृहे पायसेन पारणं चकार । तत्र च तदानीं देवैर्वसुधारादिपञ्चकं दत्तेन च प्रभुपादन्यासस्थाने रत्नपीठं च चक्रे । *** अथ नमिप्रभुर्नवमासान् यावद् विहृत्य दीक्षास्थानं सहस्राम्रवणं प्राप्य षष्ठेन प्रतिमास्थो बकुलस्याऽधस्तस्थौ । घातिकर्मक्षयाच्च मार्गशुक्लैकादश्यामश्विनीनक्षत्रे प्रभोरुज्ज्वलं केवलमुत्पन्नम् । तत्र च देवैर्यथाविधि अशीत्यग्रधनुःशतोच्छ्रिताशोकद्रुमभूषितं समवसरणं विचक्रे । तत्र चाऽशोकं प्रदक्षिणीकृत्य तीर्थाय नम इति वदन् प्रभुः पूर्वद्वारा प्रविश्य पूर्वरत्नसिंहासने


Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129