Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्राङ्मुखः समुपाविशत् । अन्यासु दिशास्वपि च व्यन्तरै रलसिंहासनस्थानि प्रतिबिम्बानि विचक्रिरे । ततो यथास्थानं चतुर्विधे सङ्घ समुपविष्टे शक्रेण स्तुतो नमिप्रभुर्धर्मदेशनामकरोत् ।
'संसारोऽसारः, धनं तरङ्गवदस्थिरं, शरीरमपि विद्युदिव क्षणनश्वरम् । तद्धीमांस्तेष्वास्थां विहाय मुमुक्षुर्यतिधर्माय यतेत । तद्विधानेऽशक्तश्चेद् द्वादशविधश्रावकधर्माय सम्प्रयतेत । श्रावको हि धम्यैर्मनो-वाक्-कायजैः कर्मभिरहोरात्रं नयेत् । ब्राह्म मुहूर्ते समुत्थाय परमेष्ठिनः स्तुवन्, किंधर्मा ? किंकुल: ? किंव्रतश्चाऽस्मीति स्मरन्, शुचिः पुष्पादिभिर्देवदेवं सम्पूज्य यथाशक्ति प्रत्याख्याय देवगृहं गच्छेत् । तत्र प्रविश्य विधिना जिनं त्रिःप्रदक्षिणीकृत्य पुष्पादिभिः पूजयित्वा स्तुवीत । ततो गुरुमुपगम्य प्रतिपत्तिपूर्वकं प्रत्याख्यानं प्रकाशयेत् । प्रतिपत्तिश्च गुरोस्तद्दर्शनेऽभ्युत्थानं, तदागमेऽभिगमनं, शिरस्यञ्जलिकरणं, स्वयमासनदानमासनाभिग्रहो, भक्त्या वन्दना पर्युपासनं तद्गमनेऽनुसरणं च प्रोक्तम् । ततस्ततः प्रतिनिवृत्त्य स्वस्थानं गत्वा धर्माविरोधेन यथोचितमर्थं चिन्तयेत् ।
ततो मध्याह्निकीमों विधाय कृतभोजनादि विद्वद्भिः शास्त्रार्थमर्म विचारयेत् । पुनश्च सन्ध्याकाले देवार्चनं विधायाऽऽवश्यकं कृत्वा स्वाध्यायं कुर्यात् । ततः समुचिते काले देव-गुरून् स्मरन् प्रायेणाऽब्रह्मत्यागी निद्रामल्पामेव भजेत् । निद्राभङ्गे च मुनीनां तन्निषेधाद् योषिदङ्गानामसारत्वं चिन्तयेत् । स्त्रियो हि यकृदादिभृता नाडीबद्धा बही रम्याश्चर्मप्रसेविका इव । स्त्रीशरीरस्य चेद् बहिरन्तविपर्यासो भवेत् तदा कामुकस्तस्यैव गृध्रादिभी रक्षणं कुर्यात् । कामो हि स्त्रीशस्त्रेण विश्वं जिगीषति । तदस्य सङ्कल्पयोनेर्मूलं सङ्कल्पमेवोत्खनामीत्येवं चिन्तयेत् ।
सप्तमं पर्व - एकादशः सर्गः
बाधकस्य दोषस्य प्रतिक्रियां विचारयेत् । दोषमुक्तेषु मुनिषु च प्रमोदं वहेत् । स्थिरचित्तश्च सर्वजीवेषु भवस्थितिर्दुःस्थेति चिन्तयेत् । तेषु स्वाभाविकसुखं मोक्षमेवाऽन्वेषयेत् । यत्र हि जिनो देवो, दया धर्मो, मुनयो गुरवस्तच्छ्रावकत्वं को विमूढो नेच्छेत् । जिनधर्मरहितश्चक्रयपि मा भूवं, दरिद्रोऽपि दासोऽपि च जिनधर्मानुरक्तः स्यामिति दध्यात् ।
निःसङ्गो जीर्णवस्त्रो मलिनाङ्गो माधुकरी वृत्ति सेवमानो मुनिचाँ कदा प्राप्नुयामिति भावयेत् । दुर्जनसङ्गं त्यजन्, गुरुं सेवमानो, योगमभ्यस्यन् कदा भवच्छेदाय प्रभवेयम् । रात्रौ पुराद् बहिः कृतकायोत्सर्गः प्रतिमास्थ: कदा स्याम् । वने पद्मासनासीन उत्सङ्गकृतमृगशावको मृगैः कदा मुखे आघ्रातः स्याम् । रिपौ मित्रे, तृणे स्त्रैणे, स्वर्णे ग्रानि, मणौ मृदि, मोक्षे भवे च कदा समतामति: स्यामि'त्येवं गुणश्रेणिमधिरोढुमपवर्गमिच्छु: सदा भावयेत् । एवमाहोरात्रिकी चर्यामप्रमत्तोऽनुतिष्ठन् यथावदुक्तवृत्तपरायणो गृहस्थोऽपि विशुध्यति' इतीमां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् ।
तत्र च प्रभोः कुम्भादयः सप्तदश गणधरा अभवन् । प्रभोर्देशनान्ते च कुम्भो देशनां चकार । शक्राद्याश्च देशनान्ते प्रभु नत्वा स्वं स्वं धाम ययुः ।
तत्तीर्थे च समुत्पन्ने त्र्यक्षश्चतुर्मुखः स्वर्णवर्णो वृषरथश्चतुभिर्दक्षिणैर्भुजैर्मातुलिङ्ग-शक्ति-मुद्गरा-ऽभययुतो वामैश्च तावद्भि(जैनकुल-पशु-वज्रा-ऽक्षसूत्रधरो भृकुटिर्यक्षः, श्वेताङ्गी हंसवाहना

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129