Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दक्षिणाभ्यां बाहुभ्यां वरद-खड्गधरा वामाभ्यां च बीजपूरधरा गान्धारीदेवी च द्वे शासनदेवते प्रभोः सदा सन्निहिते अभूताम् । ताभ्यां सहितश्च स्वामी नवमासोनं सार्धं वर्षसहस्रद्वयं यावद् वसुन्धरां विजहार ।
तदानीं च नमिप्रभोः परिवारे साधूनां विंशतिः सहस्राणि, साध्वीनां चैकचत्वारिंशत्सहस्री, चतुर्दशपूर्वभृतां सार्धं शतचतुष्टयम्, अवधिज्ञानिनां षट्शताधिकं सहस्र, मन:पर्ययिणां षष्ट्यधिका द्वादशशती, केवलज्ञानिनां षोडशशतानि, जातवैक्रियलब्धीनां पञ्च सहस्री, वादलब्धिमतामेकं सहस्रं, श्रावकाणां लक्षमेकं सप्ततिः सहस्राणि च श्राविकाणां चाऽष्टचत्वारिंशत्सहस्रसहिता त्रिलक्षी चाऽभवन् ।
अथ मोक्षकालं ज्ञात्वा नमिप्रभुः सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपेदे । मासान्ते वैशाखकृष्णदशम्यामश्विनीनक्षत्रे च तैमुनिभिः समं प्रभुः परमं पदं प्राप ।
प्रभोश्च कौमारे सार्धं वर्षसहस्रद्वयं, राज्ये वर्षाणां पञ्चसहस्री, व्रते च साधं वर्षसहस्रद्वयमित्ययुतवर्षाण्यायुः । मुनिसुव्रतनिर्वाणाच्च वर्षाणां षट्सु लक्षेष्वतीतेषु श्रीनमिप्रभोर्निर्वाणमभूत् ।
अथ शक्राद्याः समेत्य सपरिच्छदस्य प्रभोनिर्वाणकल्याणकं शरीराग्निसंस्कारपूर्वकं चक्रुः । यथावत् स्वस्थानं जग्मुश्च ॥११॥
इति श्रीनमिनाथचरितवर्णनात्मकः एकादशः सर्गः ॥११॥
द्वादशः सर्गः
हरिषेणचक्रिचरितम् अथेह भरते नरपुरे नगरे नराभिरामो नृपोऽभूत् । स च क्रमेण भवविरक्तः प्रव्रज्यां प्रपद्य मृतः सनत्कुमारकल्पे महद्धिको देवोऽभवत् । तथा पञ्चालदेशे काम्पील्यपुरे महाहरिनामनृपस्य मेराया महिष्याः कुक्षौ नराभिरामजीवस्ततश्च्युत्वा चतुर्दशमहास्वप्नसूचितश्चक्रधरोऽवातरत् । पूर्णे समये च सा हरिषेणाख्यं कनकाभं सुतमसूत् । पञ्चदशधनून्नतः स यौवराज्येऽभिषिक्त: पैतृकं राज्यं शशास ।
एकदा च तस्याऽस्त्रशालायां चक्ररत्नं प्रादुरभूत् । अन्यान्यपि च पुरोधःप्रभृतीनि रत्नानि तस्य जातानि । स च चक्रमनुसरन् प्राच्या मगधेशं साधयित्वा दक्षिणस्यां वरदामेशं वशगं विधाय पश्चिमायां प्रभासेशं सुरं चाऽसाधयत् । ततः सिन्धुं प्राप्य सिन्धुदेवीं वशगां विधाय वैताढ्यकुमारं कृतमालदेवं चाऽसाधयत् । ततः सेनापतिना पश्चिमं सिन्धुनिष्कुटं साधयित्वा तेनोद्घाटितद्वारां तमिस्रागुहां यथाविधि प्रविवेश स: । एवं पद्मयोन्मग्न-निमग्ने नद्यावुत्तीर्य स्वयमुद्घटितोत्तरद्वारा ततो विनिर्गत्याऽऽपाताख्यान् म्लेच्छान् जित्वा क्षुद्रहिमवत्कुमारमाज्ञावर्तिनमकरोत् सः । ततः काकिण्या ऋषभकूटे स्वनामोत्कीर्य प्रस्थाय सेनान्या गाङ्गं

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129