Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्तमं पर्व - दशमः सर्गः
. २१७ दिवं याहि' । तत: सीतेन्द्रस्तान् मुक्त्वा रामं नत्वा शाश्वतार्हतीर्थयात्राकृते नन्दीश्वरादिषु जगाम । गच्छंश्च देवकुरुषु भामण्डलजीवं दृष्ट्वा प्राक्स्नेहवशात् तं सम्यक् प्रतिबोध्य सीतेन्द्रो निजं कल्पमियाय ।
रामश्चोत्पन्ने केवले वर्षाणां पञ्चविंशति भव्यान् प्रबोध्याऽऽयुश्च वर्षाणां पञ्चदशसहस्त्राणि व्यतीत्य कृतकृत्यः शैलेशी प्रतिपद्याऽव्ययं पदं प्रपेदे ॥ १० ॥
इति रामनिर्वाणगमनवर्णनात्मको दशमः सर्गः ॥१०॥
२१६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदा च त्वमप्यच्युताच्च्युत्वाऽत्रैव भारते सर्वरत्नमतिर्नाम चक्री भविष्यसि । तौ च च्युत्वेन्द्रायुध-मेघरथाख्यौ ते पुत्रौ भाविनौ । त्वं तु प्रव्रज्य वैजयन्तं गमिष्यसि । इन्द्रायुधस्तु रावणजीव: शुभं गतित्रयं भ्रान्त्वा तीर्थकरनामकर्माऽर्जयिष्यति । ततो रावणजीवस्तीर्थकरो, भवाँश्च वैजयन्ताच्च्युतस्तस्य गणधरो भावी । ततस्तौ मोक्षं यास्यतः । लक्ष्मणजीवस्तु भवत्पुत्रो मेघरथः शुभा गतीर्धान्त्वा प्राग्विदेहे पुष्करद्वीपे रत्नचित्रायां नगाँ चक्रिश्रियं भुक्त्वा क्रमेण प्रव्रज्य तीर्थकरो भूत्वा निर्वाणमेष्यति' ।
एवं श्रुत्वा च सीतेन्द्रो रामं प्रणम्य ततो यत्र नरके लक्ष्मणस्तत्र गत्वा विकृतैः सिंहादिरूपैर्लक्ष्मणेन सह रावणशम्बूको युध्यमानौ ददर्श । परमाधार्मिकाश्च नैवं युध्यमानानां वो दुःखं भावीति भाषमाणास्तानग्निकुण्डेषु तप्ततैलकुम्भ्यां भाष्ट्रे च बलाद् निदधुः । तेषां तद् दुःखं दृष्ट्वा सीतेन्द्रोऽसुरानुवाच-'किं रे ! न जानीथ, यदिमे पुरुषश्रेष्ठा आसन् ? दूरमपयात । एतान् मुञ्चत' । एवं तानसुरान् निवार्य सशम्बूक-रावणावुवाच-'युवाभ्यां तथाकृतं येनेमं नरकं प्राप्तौ, तथा पूर्ववैरं परिणामं दृष्ट्वाऽपि कि न मुञ्चतम् ?' तावेवं निषिध्य स रामकेवलिना कथितं लक्ष्मणस्य रावणस्य च बोधार्थमाचख्यौ । ततस्तावूचतुः-'दयालो ! त्वया साधुकृतम् । त्वच्छुभोपदेशेनाऽस्माकं दुःखविस्मृतिर्जाता । पुराकृतकर्मभिर्नो दीर्घो नरकवासः । स केन नामाऽपनेष्यते?'
ततस्तदुक्त्या दयाः सीतेन्द्रः प्रत्युवाच-'त्रीनपि युष्मानितो नरकाद् दिवं नेष्यामि' । एवमुक्त्वा तांस्त्रीनपि पाणिनोद्दधे । किन्तु ते कणशो विशीर्य पारदवत् क्षणात् पाणे: पेतुः । एवं पुनः पुनर्जाते सीतेन्द्रं ते ऊचुः-'एवं नोऽधिकमेव दुःखं जायते । तदस्मान् मुञ्च,

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129