Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१३
२१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो रामं नत्वा लवणा-ऽङ्कुशावूचतुः-कनीयस्तातमृत्युनाऽद्य भवादतिभीतौ स्वः । मृत्युरकस्मादेवाऽऽपतति, तत् परलोकाय मूलत एव यतनीयम् । अतो दीक्षायै अनुमन्यस्व, अत: परं नस्तदेव युक्तम्' । एवमुक्त्वा रामं नत्वाऽमृतघोषमुनेस्तावुभौ दीक्षां गृहीत्वा क्रमाच्छिवपदमीयतुः ।
रामश्च भ्रातुः पुत्रयोश्च वियोगेन मूर्छामाप्य लब्धसंज्ञो मोहाद् बहु विललाप । ततो विभीषणाद्याः कथञ्चन राममेत्य गद्गदस्वरमूचुः-धीरेषु धीरो वीरेषु च वीरस्त्वमधैर्य मुञ्च । लक्ष्मणस्य समयोचितमङ्गसंस्कारपूर्वकौलदेहिकं कुरु' । तेन च कुपितो रामस्तान् निर्भत्र्योन्मत्तवत् तद्विरहं बहूक्त्वा लक्ष्मणमसे समारोप्याऽन्यत्र जगाम । तस्य च विफलं स्नानादिकारयतस्तस्य स्नेहोन्मत्तस्य विस्मतान्यक्रियस्य षण्मासी व्यतीयाय । तं तथाभूतं श्रुत्वा च विद्विष इन्द्रजित्-सुन्दपुत्रा अन्ये च जिघांसवः समेत्य सैन्यैरयोध्यां रुरुधुः । रामोऽपि लक्ष्मणमङ्के कृत्वा वज्रावर्त धनुरास्फालयत् ।
तदा चाऽऽसनकम्पेन माहेन्द्राद् देवैः सह जटायू राममुपाययौ । इन्द्रजित्पुत्रादयश्चाऽपि देवा रामं गृह्या इति वदन्तो दुद्रुवुः । अत्र देवैः कृतसहायः सविभीषणो रामो नो हन्तेति भीता लज्जिताश्च ते परं संवेगमाप्याऽतिवेगस्य मुनेः पार्श्वे प्राव्रजन् । जटायुश्च देवो रामस्य पुरः स्थित्वा शुष्कं तरुमम्भसा सिषेच । अश्मनि गोमयादि क्षिप्त्वा कमलिनी रोपयामास । मृतवृषभेण लाङ्गुलेन चाऽकालेऽपि बीजान्युवाप । यन्त्रे च तैलार्थं वालुका निधाय पीलयामास' । ततो रामस्तमुवाच-'किं वृथा प्रयतसे' । तत: स्मित्वा जटायुरप्युवाच-'यद्येतावद् वेत्सि तर्हि मृतकं किं स्कन्धे वहसि ?'
सप्तमं पर्व - दशमः सर्गः
ततो लक्ष्मणशरीरमालिङ्गय रामस्तमाह-'किममङ्गलं भाषसे, मम दृष्टिपथं त्यज' । एवं वदति रामे कृतान्तवदनो देवोऽवधेर्ज्ञात्वा रामबोधार्थं समाययौ । सः स्कन्धे स्त्रीमृतकं कृत्वोपरामं विचरन् रामेण किमुन्मत्त इव स्कन्धे स्त्रीमृतकं वहसीत्युक्तः प्रत्युवाच-'किममङ्गलं वदसि, ममैषा प्रेयसी, त्वं किं स्वयं मृतकं वहसि ?' मयोह्यमानां मे भार्यां चेद् मृतां जानासि तर्हि निजस्कन्धस्थितं शवं किं न जानासि' । तेनैवं दर्शितैस्तैस्तैर्निमित्तैर्लब्धस्वास्थ्यो रामो दध्यौ-'किं सत्यं ममाऽनजो न जीवति?' ततस्तौ जटाय-कतान्ती प्राप्तबोधाय रामाय स्वं कथयित्वा निजं स्थानं जग्मतुः ।
रामश्च निजानुजस्य प्रेतकार्य विधाय दीक्षेच्छु: शत्रुघ्नं राज्यदानायाऽऽदिशत् । शत्रुघ्नश्च भवोद्विग्नोऽहमपि व्रतं ग्रहीष्यामीति राज्यं नाऽङ्गीचकार । ततो रामो लवणसुतायाऽनङ्गदेवाय राज्यं प्रदाय मुनिसुव्रतवंशस्य सुव्रतस्य मुनेरहंदासश्रावकोपदिष्टस्य समीपं गत्वा शत्रुघ्न-सुग्रीव-विभीषण-विराधादिभिः सार्धं व्रतमाददे । रामे च निर्गते नृपाणां षोडश सहस्राणि भववैराग्याद् व्रतमाददिरे । सप्तत्रिंशत् सहस्राणि स्त्रियश्च श्रीमत्याः श्रमणाया व्रतं जगृहतुः । रामश्च पूर्वाङ्गश्रुतपवित्रितो गुरोः समीपे षष्ठ्यब्दी यावद् विविधाभिग्रहरतस्तपांसि तेपे ।
अथ रामो गुर्वनुज्ञया प्रच्छकविहारोऽटव्यां गिरिकन्दरे प्रयातवान् । तस्यां रात्रौ च ध्यानमग्नस्य तस्याऽवधिज्ञानमुत्पेदे । तेन च विश्वं करामलकवत् पश्यन्ननुजं देवाभ्यां हतं नरकं प्राप्तं च ज्ञात्वा दध्यौ-'अहं पूर्वजन्मनि धनदत्तो लक्ष्मणस्तु वसुदत्तः ।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129