Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 117
________________ पुरुषतम्-गद्यात्मकसारोद्धारः अथ रामो जयभूषणं प्रणम्य सीतायाः समीपं गत्वा दध्यौ'असौ सुकुमाराङ्गी कथं तपःक्लेशं सहिष्यते ? यद् वा यस्याः सतीत्वं भङ्क्तुं रावणोऽपि नाऽलं सा व्रतेऽपि दृढप्रतिज्ञा भाविनी' । एवं विचार्य सीतां ववन्दे । अन्येऽपि च लक्ष्मणादयस्तां ववन्दिरे । ततः सपरिवारो रामोऽयोध्यां ययौ । सीता - कृतान्तवदनौ चोग्रं तपस्तेपाते । कृतान्तवदनश्च विपद्य ब्रह्मलोकं ययौ । सीता च षष्टिं वर्षाणि विविधं तपो विधाय त्रयस्त्रिंशदहोरात्रीमनशनं कृत्वा मृता च द्वाविंशतिसागरोपमायुरच्युतेन्द्रोऽजायत । २१० इतश्च वैताढ्ये काञ्चनपुरे नगरे विद्याधरेन्द्रः कनकरथः कन्ययोर्मन्दाकिनी - चन्द्रमुख्योः स्वयंवरे सपुत्रान् राम-लक्ष्मणादीनाह्वयत् । भूपेषु तत्राऽऽसीनेषु च मन्दाकिनी स्वयं लवणं चन्द्रमुखी चाऽङ्कुशं वृतवती । तेन क्रुद्धा लक्ष्मणस्य पुत्राः सार्धे द्वे शते युद्धायोत्तस्थिरे । तच्छ्रुत्वा लवणा-ऽङ्कुशावूचतुः - को नामैभिर्योत्स्यते ? भ्रातरौ ह्यवध्याः । यथा तातयोर्न कोऽपि भेदः, तथाऽस्माकमपि कोऽपि भेदो माऽस्तु' । लक्ष्मणपुत्राश्चरेभ्यस्तज्ज्ञात्वा विस्मिताः स्वं निनिन्दुः । संवेगमाप्ताश्च पितरावापृच्छ्य महाबलमुनेरन्तिके व्रतं जगृहु: । तदानीं कृतविवाहौ लवणाऽङ्कुशौ च राम-लक्ष्मणाभ्यां सहाऽयोध्यामाजग्मतुः । इतश्च स्वपुरे हर्म्यतले स्थितो भामण्डलश्चिन्तयामास - 'श्रेणिद्वयं वशे कृत्वाऽऽत्तदीक्षोऽन्ते विहृत्य पूर्णमनोरथः स्याम् । एवं विचारयतश्च तस्य शिरसि दिवो विद्युत् पपात । तेन मृत्वा च स देवकुरुषु युगलधर्मिषु जातः । इतश्च हनूमांश्चैत्रे चैत्यवन्दनाय मेरुं गतस्ततो निवृत्तश्चाऽस्तं गच्छन्तं सूर्यं दृष्ट्वा दध्यौ - 'यथोदयस्तथाऽस्तमपि भवत्येव, तत्राऽयं सप्तमं पर्व दशमः सर्गः सूर्य एव दृष्टान्तः । सर्वमेव नश्वरम्' । एवं विचिन्त्य स्वपुरमागत्य राज्ये पुत्रं न्यस्य धर्मरत्नमुनिपार्श्वे सार्धसप्तशतनृपैः सह प्राव्राजीत् । तत्पल्यश्च लक्ष्मीवतीव्रतिनीपार्श्वे दीक्षिता अस्थुः । श्रीशैलश्च ध्यानाग्निना कर्माणि भस्मसात् कृत्वा शैलेशीं प्राप्याऽव्ययं पदं जगाम । २११ रामश्च हनूमन्तं प्रव्रजितं ज्ञात्वा दध्यौ - 'भोगसुखं हित्वा किमयं कष्टप्रदां दीक्षामाददे' । सौधर्मेन्द्रश्चाऽवधेस्तज्ज्ञात्वा सभायामूचे- 'अहो ! कर्मगतिश्चित्रा, चरमदेहोऽपि रामः स्वयं धर्मं हसति, विषयजं सुखं च प्रशंसति । अथवा ज्ञातं यदनयो राम-लक्ष्मणयोः कोऽपि गाढतरः स्नेहः, यो भवानिर्वेदकारणम्' । तत: कौतुकाद् द्वौ देवौ तयोः स्नेहं परीक्षितमयोध्यामागत्य लक्ष्मणस्य सद्मनि मायया सर्वमन्तःपुरं करुणस्वरमाक्रन्दद् दर्शयामासतुः । हा रामेत्यादि बहु विलपन्तीरन्तःपुरवधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत्- 'मम जीवितस्याऽपि जीवितं भ्राता मृतः । छलघातिना कृतान्तेन किं कृतम् ? एवं वदतश्च लक्ष्मणस्य वचसा सह जीवितं निर्ययौ', तं च मृतं दृष्ट्वा मिथस्तौ सुरौ विषण्णावूचतुः - 'अहो ! आवाभ्यां किमिदं कृतम् ! विश्वाधारोऽसौ नरः किमावाभ्यां हतः' ! एवं स्वं निन्दन्तौ तौ स्वं कल्पं जग्मतुः । लक्ष्मणं च मृतं दृष्ट्वा तदन्तः पुरस्त्रियः सपरीवाराश्चक्रन्दुः । तच्छ्रुत्वा च रामस्तत्रोपेत्योवाच- 'अज्ञानात् किममङ्गलमारब्धम् ? अहं जीवन्नेवाऽस्मि, ममाऽनुजोऽप्येष जीवत्येव । कोऽपि रोगोऽमुं बाधते, तत्प्रतिक्रिया विधेया' । एवमुक्त्वा स वैद्यान् निमित्तज्ञांश्चाssहूय मन्त्र-तन्त्राणां प्रयोगं कारयामास । तद्वैफल्ये च मूच्छ प्राप्य कथञ्चिल्लब्धसंज्ञो राम उच्चैर्विललाप । विभीषणाद्या अपि हताः स्म इति वदन्तो विमुक्तकण्ठं रुरुदुः । कौशल्याद्या मातरोऽपि वधूभिः सह भूयो भूयोऽपि मूर्च्छा गच्छन्त्यः करुणं चक्रन्दुः ।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129