Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 115
________________ २०७ २०६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जघान । तथा सुग्रीव-भामण्डल-लवणा-ऽङ्कुशाः अहं च केन कर्मणा रामेऽनुरक्ताः ?' ततो मुनिः प्राह___ अथ भरतार्धे दक्षिणे क्षेमपुरे नगरे नयदत्तस्य वणिजः सुनन्दाकुक्षिजन्मानौ धनदत्त-वसुदत्तौ पुत्रावभूताम् । तयोश्च याज्ञवल्क्यो द्विजो मित्रमभूत् । तस्मिन्नेव पुरे च वणिज: सागरदत्तस्य गुणधरः पुत्रः पुत्री च गुणवत्यास्ताम् । सागरदत्तेन धनदत्ताय दत्ता गुणवती । तन्मात्रा रत्नप्रभया च साऽर्थलोभत: श्रीकान्तायेभ्याय गुप्तं दत्ता । याज्ञवल्क्यस्त तज्ज्ञात्वा स्वमित्रयोराख्यत् । ततो वसुदत्तो निशि गत्वा श्रीकान्तमवधीत् । श्रीकान्तेनाऽपि च खड्गेन वसुदत्तो हतः । तौ च विन्ध्याटव्यां कुरङ्गौ जातौ । गुणवत्यपि मृत्वा तत्र मृगी जाता । तस्याः कृते तत्राऽपि तौ यध्वा विपद्य परस्परवैरेणैवं बहून् भवान् भ्रमतुः । धनदत्तश्च भ्रातृवधपीडितो निर्धर्मो भ्रमन् रात्रौ क्षुधित: साधून् दृष्ट्वा भोजनं ययाचे । तेष्वेको मुनिर्जगाद-दिवाऽपि मुनीनां भक्तादिसङ्ग्रहो न भवति, तवाऽपि च रात्रौ भोजनादिकं नोचितम्। ईदृशेऽन्धकारेऽन्नादौ जीवसंपर्क को वेत्ति ?' एवं तेन बोधितः स श्रावको भूत्वा विपद्य सौधर्मे त्रिदशो भूत्वा ततश्च्युत्वा महापुरनगरे मेरो-र्धारणीकुक्षिजन्मा नाम्ना पद्मरुचिः श्रेष्ठी परमश्रावकोऽभवत् । स चैकदाऽश्वारूढो गोकुलं गच्छन् जरवृषभं पथि पतितं मुमूर्षु दृष्ट्वा कृपयोत्तीर्य तस्य कर्णमूले पञ्चपरमेष्ठिनमस्कार ददौ । स वृषभश्च विपद्य नमस्कारप्रभावात् तत्रैव छत्रच्छायनृपस्य श्रीदत्ताकुक्षिजो वृषभध्वजो नाम पुत्रो बभूव । स्वेच्छया भ्रमंश्च तां जरवृषभभूमिं गतः प्राग्जन्मस्थानदर्शनाज्जातिस्मरणमाप्य तत्र चैत्यमकारयत् । तस्यैकभित्तौ तं मुमूर्षु सप्तमं पर्व - दशमः सर्गः जरगवं तत्कर्णान्ते नमस्कारदायिनं तं पुरुषं तत्समीपे सपर्याणं हयं च लेखयित्वाऽऽरक्षानादिशत्-'यः परमार्थतश्चित्रं विदन् दृश्येत स शीघ्रं मम ज्ञाप्यः' । एवमुक्त्वा स स्वं वेश्म ययौ । तत्र चैकदा वन्दनायाऽऽगत: पद्मरुचिः श्रेष्ठी जिनं वन्दित्वा भित्तिचित्रं दृष्ट्वा सर्वमेतद् मम सम्वदतीति विस्मित उवाच । आरक्षैस्तद् विज्ञाय च वृषभध्वजस्तत्रोपेत्य किं चित्रवृत्तान्तं वेत्सीति तं पद्मरुचिमपृच्छत् । स च पुरा गवेऽस्मै मुमूर्षवे नमस्कारदानं, तत्केनाऽप्यभिज्ञेनेह लिखितोऽस्मीत्युवाच । ततो वृषभध्वजस्तं नत्वोवाच-'योऽयं जरद्गवः सोऽहं नमस्कारप्रभावतो राजपुत्रोऽभवं, त्वमनेन प्रकारेण महान् कृपालुरसि, अन्यथा तिर्यग्योनेर्मम का गतिर्भवेत् ? ततस्त्वं सर्वथा मे गुरुः स्वामी दैवतं चाऽसि, सर्वमिदं मम प्राज्यं राज्यं भुक्ष्व'। एवमुक्त्वा स वृषभध्वजः पद्मरुचिना सहैव श्रावकव्रतं पालयन् विजहार । चिरं श्रावकत्वं पालयित्वा विपद्य चेशानकल्पे महद्धिको देवौ जातौ । ततश्च्युत्वा च पद्मरुचिर्मेरोः पश्चिमतो वैताढ्ये नन्दावर्ते नगरे कनकाभाकुक्षिजो नन्दीश्वरतनयो नयनानन्दनामाऽभूत् । तत्र राज्यं भुक्त्वा परिव्रज्य माहेन्द्रे देवो जातः । ततश्च्युत्वा च प्राग्विदेहेषु क्षेमापुर्यां विपुलवाहननृपस्य पद्मावतीकुक्षिजन्मा श्रीचन्द्रो नाम तनयो जातः । राज्यं भुक्त्वाऽन्ते समाधिगुप्तस्य मुनेरन्तिके प्रव्रज्य ब्रह्मलोकेन्द्रो जातः । ततश्च्युत्वा चाऽयं रामो बलभद्रो जातः । वृषभध्वजजीवश्चैष सुग्रीवः । श्रीकान्तजीवश्च मृणालकन्दनगरे शम्भोर्नृपस्य हेमवतीभवो वजकण्ठो नाम तनयो बभूव । वसुदत्तजीवश्च शम्भुनृपपुरोहितस्य विजयस्य रत्नचूडाकुक्षिजन्मा श्रीभूतिः पुत्रो बभूव ।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129