Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 113
________________ २०२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदन्तर्मञ्चश्रेणीश्च कारयामासुः । तेषु च भूपा नागरादयश्चोपाविशन् । सुग्रीवश्च रामाज्ञयोत्थाय स्वयं पुण्डरीकपुरे गत्वा नत्वा च वैदेहीमुवाच-'त्वत्कृते रामेण प्रेषितं पुष्पकमधिरुह्य रामसमीपमुपैहि' । तत: सीतयाऽरण्यत्यागदुःखं मेऽद्याऽपि न शाम्यति, तत् पुनर्दुःखान्तरप्रदं रामं कथं यामीत्युक्तः पुनर्नत्वा तव शुद्धये पौरादिभिः सह राघवो मञ्चारुढोऽस्तीत्युक्तवान् । ततः पूर्वत एव शुद्धिकाङ्क्षिणी जानकी विमानमारुह्याऽयोध्यां जगाम । माहेन्द्रोदयोद्यानं प्राप्य च तत उत्ततार । लक्ष्मणेनोपेत्य दत्तार्घा च नृपैरपि नमश्चक्रे । ततः सन्पो लक्ष्मण उवाच-'देवि ! निजां परी निजं गृहं च प्रवेशात् पावय' । प्राप्तशुद्धिरिमां पुरीं गृहं च प्रवेक्ष्यामि, नाऽन्यथाऽपवादः शाम्यतीति सीताप्रतिज्ञां भूभुग्भिर्विज्ञाय रामोऽप्युपेत्य जानकी न्यायनिष्ठुरमुवाच-'तद्गृहे वसन्त्या रावणेन चेद् न भुक्ता तदा सर्वलोकानां समक्षं दिव्यं कुरु' । तत: सीतोवाच-'त्वत्तः परोऽपरो न विज्ञः । किन्तु मे दोषमज्ञात्वा महावने मामत्यजः । पूर्वं दण्डं विधाय पश्चात् परीक्षणं करोषि, तथाऽपि तत्राऽऽरुढाऽहम' । तेन विलक्षो राम उवाच-'न ते दोषोऽस्तीति जाने, किन्तु जनापवादनिवारणायेदमुच्यते' । ततः सीतोवाच-'मया दिव्यपञ्चकं वह्निप्रवेश-मन्त्रिततण्डुलभक्षणतुलारोहण-तप्तकोशपान-फालग्रहणरूपं स्वीकृतम्' । अत्राऽवसरे नभःस्थ: सिद्धार्थो नारदो लोक्श्च तुमुलं निवार्योवाच-'भो ! राम ! सीतेयं निश्चयेन महासती । तदत्र संशयं जातुचिद् नाऽकार्षीः' । ततो राम उवाच-'लोकाः ! काऽपि मर्यादा वो नाऽस्ति, यद्दोषमुद्भाव्य युष्माभिरेवेयं पुरा दूषिता, पुरतश्चाऽन्यद् सप्तमं पर्व - नवमः सर्गः २०३ ब्रूध्वे। स तदा कथं सदोषाऽधुना च निर्दोषा जाता ? तत्प्रत्ययाय सीता वह्नि प्रविशतु' । एवमुक्त्वा रामो हस्तशतत्रयं गतं खानयित्वा पुरुषद्वयदघ्नं चन्दनेन्धनैरपूरयत् ।। अत्राऽवसरे च वैताढ्योत्तरश्रेणिवर्तिनो हरिविक्रमनृपस्य कुमारोऽष्टशतनारीपतिर्जयभूषणः किरणमण्डलाख्यां पत्नी हेमशिखाख्येन मातुलेन समं सुप्तां दृष्ट्वा तां निर्वास्य स्वयं प्राव्रजत् । सा किरणमण्डलाऽपि विपद्य विद्युइंष्ट्रेति राक्षसी जाता। जयभूषणश्चाऽयोध्याया बहिरेत्य प्रतिमया तस्थौ । तं च सा राक्षस्युपाद्रवत् । तन्मुनेः केवले समुत्पन्ने चोत्सवार्थं शक्रादयः समाजग्मुः । देवाश्च सीतायास्तत् प्रेक्ष्य शक्रमाहुः-'लोकस्य मुधाऽपवादेनाऽद्य सीता वह्नौ प्रवेक्ष्यति' । ततः इन्द्रः पत्त्यनीकपर्ति सीतासामीप्यायाऽऽदिश्य स्वयं मुनेः केवलज्ञानोत्सवं चकार । अथ रामस्य निदेशाद् भृत्याश्चन्दनभृतं तद्गत्तँ परितो ज्वालयामासुः । तमग्नि दृष्ट्वा रामो दध्यौ-'अहो ! अत्यन्तविषमं ममेदं समुपस्थितं यदियं महासती निःशङ्का नूनमग्नि प्रवेक्ष्यति, भाग्यस्येव दिव्यस्य विषमागतिः । मया सहाऽस्या निर्वासो, रावणेन हरणं, वने त्यागो भूयश्चैतद् मया कृतम्' । एवं चिन्तयति रामे सीतोपाग्नि स्थित्वा सर्वज्ञं स्मृत्वा च सत्यापनां चक्रे-'सर्वे श्रृण्वन्तु, यद्यहं रामादन्यमचीकमे, तदाऽयमग्निर्मी दहतु, अन्यथा तु जलमिवाऽयं सुखस्पर्शो भवतु' । एवमुक्त्वा सा स्मृतनमस्कारा तस्मिन् वह्रौ झम्पां ददौ । किन्तु यावत् सा प्रविशति तावदग्निविध्यातः, गर्तश्च स्वच्छसलिलसम्भृतो वापीभावमापन्नः । सीता च जले कमलोपरि सिंहासनस्थिता लक्ष्मीव देवप्रभावतो बभौ ।

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129