Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१९८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वज्रजकोऽपि तद्वाचं प्रतिपद्य तं कनकमालया समहोत्सवं पर्यणाययत् ।
ततो वज्रजङ्घ-पृथुभ्यां समन्वितौ लवणा-ऽङ्कुशौ बहून् देशान् साधयन्तौ लोकपुरमीयतुः । ततो युद्धे तन्नृपं कुबेरकान्तं जित्वा लम्पाकदेशेषु तन्नृपमेककर्णाख्यं विजयस्थल्यां भ्रातृशताख्यं च नृपं वशगं विचक्राते । ततो गङ्गामुत्तीर्य कैलासस्योत्तरां दिशं गच्छन्तौ नन्दनचारूणां देशानां जयं विधाय ऋष-कुन्तलादींश्च देशानधिकृत्य सिन्धोः परकूलं प्राप्याऽऽर्या-ऽनार्यांश्च नृपान् साधयामासतुः । ततो निवृत्त्य पुण्डरीकपुरमेत्य स्वगृहं नागरैः प्रशस्यमानौ प्रविश्य सीतायाश्चरणौ प्रणेमतुः । सीता च तयोः साशिषं मूनि चुचुम्ब ।
सप्तमं पर्व - नवमः सर्गः
इतश्च भामण्डलो नारदात् तच्छ्रुत्वा सीतामुपेत्य सर्वं वृत्तं विज्ञाय त्वत्त्यागमिव रभसा पुत्रयोर्वधं राघवौ मा कार्टामित्युक्त्वा तां स्वविमानेऽधिरोप्य लवणा-ऽङ्कुशयोः स्कन्धावारं जगाम । ताभ्यां च मातुलोऽयमिति सीतया कारितपरिचयाभ्यां नमस्कृतस्तौ शिरसि चुम्बित्वाऽङ्कमधिरोप्य च सहर्षमूचे-'मम भगिनी वीरपत्नी सम्प्रति युवाभ्यां वीरसूरपि, वीरपुत्रौ वीरौ युवां पितृ-पितृव्याभ्यां युद्धं मा कार्टाम् । रावणस्याऽपि हन्त्रीस्तयोर्युवाभ्यां युद्धं कथम्?'
तच्छ्रुत्वा तावूचतुः-'स्वसेव कातरं वचो मा वोचः । तातयोर्न कोऽपि प्रतिमल्ल इत्यावामपि विद्वहे, तद्युद्धं त्यक्त्वा तयोहिये कथं भविष्याव: ?' एवं ब्रुवतोरेव तयोर्द्वयोः सैन्ययोयुद्धं प्रववृते । भामण्डलश्च सुग्रीवाद्यैर्विद्याधरैरनयोर्भूचरं सैन्यं हतं स्यादिति शङ्कया युधि ययौ । तौ कुमारावपि च युद्धायोत्तस्थाते । सुग्रीवाद्या विद्याधराश्च युध्यमाना युधि भामण्डलं दृष्ट्वा काविमाविति पप्रच्छु: । ततो रामपुत्राविमाविति विज्ञाय गत्वा सीतां प्रणम्य भुवि समुपविविशुः ।
इतश्च वीरौ लवणा-ऽङ्कुशौ क्षणेनाऽपि रामसैन्यं हतविद्रुतं विधाय राम लक्ष्मणं चेयतुः । तौ दृष्ट्वा चाऽन्योन्यमूचतु:'काविमौ ? निसर्गादनयोर्मन: स्निह्यति' । एवमुक्तवन्तं रामं लवणो लक्ष्मणं चाऽङ्कुशोऽवोचताम्-'रावणस्याऽपि जेतारं वीरयुद्धश्रद्धालुरहं त्वां दिष्ट्याऽद्राक्षम् । रावणेनाऽप्यपूरिता ते युद्धेच्छैष पूरयिष्यामि । त्वं च मम तत् पूरयिष्यसि' । ततो राम-लक्ष्मणौ लवणा-ऽकुशौ च स्वं स्वं धनुरास्फालयामासः । ततो रामस्य कृतान्तवदनो लवणस्य वज्रजङ्घो लक्ष्मणस्य विराधोऽङ्कुशस्य
अथ तौ वज्रजङ्घमूचतुः-'त्वया सहाऽयोध्याऽभियातव्या, ततोऽनुतिष्ठ, तथा लम्पाक-ऋषादिनृपान् आज्ञापय । येनाऽद्याऽऽवयोर्माता त्यक्ता तस्य विक्रमः प्रेक्षणीयः'।
तच्छ्रुत्वा रुदती वारयन्ती च सीतोचे-रावणस्य हन्तारौ देवैरपि दुर्जयो राम-लक्ष्मणौ पूज्यौ विनयादेवाऽवलोकनीयौ' । ततस्तावूचतुः-'त्वत्त्यागिनि शत्रुभूते को विनय: ? तव पुत्रावावामिति लज्जाकरं वचो गत्वा तस्याऽग्रे कथं स्वयं कथयिष्याव: ? तस्य पितुरपि कुलद्वययशस्करं युद्धाह्यनमेव युज्यते' । एवमुक्त्वा तौ ससैन्यानुपायोध्यं योद्धुकामावूषतुः । द्विषबलं पुराद् बहिरायातं श्रुत्वा च विस्मिती कृतस्मितौ च राम-लक्ष्मणौ । ततो लक्ष्मण: केडमी मर्तुकामाः समापेतुरित्युक्त्वा रामेण सह सुग्रीवादिभिः परिवृतो युद्धे चचाल ।

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129