Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१९६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वामचिरादेवाऽन्वेषयिष्यति' । एवं निर्विकारेण तेनोक्ता तथाऽस्त्वित्युक्त्वा तेनाऽऽनीतां शिबिकां सीता समारुरोह । पुण्डरीकपुरं गत्वा च तद्दर्शिते गृहेऽहर्निशं धर्मशीला तस्थौ ।
इतश्च सेनापतिर्गत्वा रामाय सीतात्यागवृत्तान्तं वाचिकं च शशंस । तदाकर्ण्य मूर्च्छया भुवि पतितं रामं लक्ष्मणः ससम्भ्रममेत्य चन्दनजलेनाऽभ्यषिञ्चत् । उत्थाय विलपन्तं च तं लक्ष्मण उवाच-'सा तस्मिन् वनेऽद्याऽपि स्वप्रभावादेव रक्षिता भवेत्, तत्स्वयं गत्वा तामन्विष्याऽऽनीयतां, यावत् सा त्वद्विरहे न विपद्यते' । तच्छ्रुत्वा तेन सेनापतिना विद्याधरैश्च सह व्योमयानेन रामस्तद् वनं प्राप । सर्वतोऽन्विष्याऽपि तां सीतामप्राप्य व्याघ्रादिना सा भक्षिता भवेदिति चिन्तया दु:खितो निवृत्त्य स्वपुरीमागतवान् रामः । सीतागुणगानपूर्वकं नागरैनिन्द्यमानस्तस्याः प्रेतकार्याणि विधाय तामेवाऽनिशं हृदि चिन्तयंस्तस्थौ ।
इतश्च सीता पुण्डरीकपुरे युग्मिनौ नाम्नाऽनङ्गलवणं मदनाङ्कुशं च सुतौ सुषुवे । वज्रजङ्घश्च प्रमुदितस्तयोर्जन्ममहोत्सवं नामकरणं च चकार । तौ च धात्रीभिबल्यमानौ क्रमेण वर्धमानौ विद्याग्रहणयोग्यौ जातौ । तदा च सिद्धपुत्र: सिद्धार्थोऽणुव्रती कलाकुशलस्त्रिसन्ध्यमपि मेर्वद्रौ चैत्ययात्रासु नभोगामी भिक्षार्थं सीतासदनमियाय । तया भक्ताद्यैर्भक्त्या भोजितः पृष्टश्च सुखविहारिकमुक्तवान् । सीता चाऽपि तेन पृष्टा पुत्रजन्म यावत् सर्ववृत्तान्तमाचख्यौ । ततो दयालु निमित्तज्ञ: सिद्धार्थ उवाच-'मुधा खेदं मा गाः, तव मनोरथं शीघ्रमेवैतौ लवणा-ऽङ्कुशौ पूरयिष्यतः । तेनैवमाश्वासिता सीता सानुनयं तं स्वपुत्राध्यापनाय स्वगृह एव धारयामास । स च सिद्धार्थो भव्याविति सर्वाः
सप्तमं पर्व - नवमः सर्गः कलास्तौ तथाऽध्यापयामास यथा तौ देवानामपि दुर्जयावभूताम् । एवं तावधीतसकलकलौ यौवनं प्रपेदाते ।
ततो वज्रजो लवणेन लक्ष्मीवतीकुक्षिजां शशिचूलां पुत्री द्वात्रिंशतमन्या अपि च कन्या उदवाहयत् । अङ्कुशाय च स पृथ्वीपुरपतेः पृथुनृपादमृतवतीकुक्षिजां कनकमालिकां ययाचे । किन्त्वज्ञातवंशाय पुत्री कथं दीयतामिति तेनोक्तः क्रोधात् तमभ्यषेणयत् । ततः तत्पक्षाश्रितं व्याघ्ररथं युद्धे बद्ध्वाऽग्रहीत् । ततः पृथुः स्वमित्रं पोतनपति साहाय्यायाऽऽजुहाव । वज्रजोऽपि स्वपुरुषैर्युधि स्वपुत्रानानाययत् । तैर्वार्यमाणावपि च लवणाऽङ्कुशावपि चलितौ । ततोऽन्येधुर्द्वयोः सैन्ययोयुद्धे प्रवृत्ते पृथुसैन्यैर्वज्रजङ्घसैन्यं पराजितम् । तेनाऽतिक्रुद्धौ लवणा-ऽङ्कुशौ निरङ्कुशौ गजाविवाऽधावताम् । ताभ्यां चौजस्विभ्यां यावत् पृथुः ससैन्योऽपि नाऽभज्यत तावदेवमूचे-'अपरिज्ञातवंशाभ्यामप्यावाभ्यां ख्यातवंशा यूयं कथं पलायध्वे ?' । ___तच्छ्रुत्वा निवृत्त्य पृथुरुवाच-'अनेन विक्रमेण मया युवयोवंशो व्यज्ञायि' । एवमुक्त्वा स तदैवाऽङ्कुशाय कनकमालां प्रदाय वज्रजङ्ग्रेन सह सन्धि चकार । शिबिरं न्यस्य तत्र स्थिते वज्रजङ्घ च नारदः समाजगाम । तेन सत्कृत्य पृथुप्रतिज्ञातमङ्कुशाय कन्यादानमूचे च । तथा लवणा-ऽङ्कुशयोर्वंशं पृथुतोषायाऽऽख्याहीति प्रार्थितश्च । ततो नारदो विहस्य भगवन्तमृषभमारभ्य लोकापवादात् सीतात्यागान्तं सर्वमुदन्तं शशंस । तच्छ्रुत्वा हसित्वाऽङ्कुश उवाच-'अयोध्येत: कियद् दूरे?' षष्ट्यधिकं शतयोजनमिति मुनिनोक्तश्च तत्र गत्वा राम-लक्ष्मणौ द्रष्टुं वज्रजङ्घमुवाच ।

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129