Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 112
________________ २०१ २०० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च पृथुः सारथयो रथं चतुरं भ्रमयामासुः । ते च चत्वारो द्वन्द्वयोधिनो विविधं प्रजहुः । तत्र रामो विविधैरायुधैर्युद्ध्वा युद्धान्तेच्छू रथमरिं प्रति वाह्येत्युक्तवान् । ततोऽश्वो न शक्तोऽहमपि च द्विषो बाणाघातैरसमर्थ इति सारथिनोक्तो रामोऽप्यभाषिष्ट-'ममाऽपि वज्रावतं धनुः शिथिलायते, मुशलरत्नं हलरत्नं चाऽपि शत्रुदलनेऽक्षमं जातम् । सदा शत्रुनाशकानां ममाऽस्त्राणां केयं दुरवस्था सम्प्राप्ता ?' एवमेवाऽङ्कुशेन युद्ध्यमानस्य लक्ष्मणस्याऽपि मोघास्त्रता जाता । अत्राऽवसरे च लक्ष्मणोऽङ्कुशेनोरसि बाणेन ताडितो मूच्छितो रथेऽपतत् । रथमादायाऽयोध्यां प्रति चलिते विराधे च लब्धसंज्ञः साक्षेपमूचे-'विराध ! किं नवमकृथाः? वीरस्यैतदनुचितम् । तद्रथं शीघ्रं तत्रैव नय, यथा चक्रेण द्विषः शिरश्छिनद्मि । एवमुक्तो विराधोऽङ्कुशं प्रति रथमानैषीत् । ____ लक्ष्मणश्च तिष्ठ तिष्ठेति वदन् चक्रं गृहीत्वा भ्रमयित्वा चाऽङ्कुशाय मुमोच । अस्त्रैरङ्कुशेनाऽनेकशस्ताडितमपि सर्वात्मनाऽप्रतिहतं तच्चक्रं वेगेनाऽऽपत्याऽङ्कुशस्य प्रदक्षिणां विधाय पक्षी स्वनीडमिव पुनर्लक्ष्मणहस्तौ समागात् । तेन पुनर्मुक्तमपि तच्चक्रं तथैव पुनस्तत्पाणिमेवाऽऽगमत्। ततो विषण्णौ राम-लक्ष्मणौ'किमावां न, किन्त्विमावेव बलभद्र-वासुदेवावि'ति दध्यतुः । अत्राऽवसरे नारदः सिद्धार्थेन सह तत्रोपेत्य खिन्नं सलक्ष्मणं राममुवाच-'हर्षस्थाने किमयं विषादः ? पुत्रात् पराजयो हि वंशोद्योतनाय । इमौ न शत्रू, किन्तु सीताकुक्षिजन्मानौ पुत्रौ लवणाऽकुशौ त्वां द्रष्टुं युद्धव्याजेनाऽत्राऽऽगतौ । तत्रेदमभिज्ञानं यच्चक्रं सप्तमं पर्व - नवमः सर्गः नाऽनयोः प्रबभूव । पुरा भरतस्य चक्रमपि बाहुबली मुधाऽभूत् । ततो नारदः पुनः सीतायास्त्यागमारभ्य पुत्रयुद्धान्तं सर्वं वृत्तमाशशंस । रामश्च तच्छ्रुत्वा विस्मय-लज्जा-खेद-मोदसमाकुलो मूच्छितश्चन्दनजलेन सिक्तो लब्धसंज्ञ उदश्रुर्लक्ष्मणेन सह पुत्रवात्सल्यात्तयोरन्तिकं जगाम । तौ च लवणा-ऽङ्कुशौ विनीतौ सद्यो रथादवतीर्य निरस्त्रौ पितृ-पितृव्ययोः पादेषु पेततुः ।। रामश्च तावालिङ्ग्य क्रोडे कृत्वा शिरसि चुम्बन् शोकस्नेहसमाकुल उच्चै रुरोद । लक्ष्मणश्चाऽपि तौ निजोत्सङ्गमारोप्य शिरसि चुम्बन् साश्रुर्बाहुभ्यां परिरेभे । एवमेव शत्रुघ्नोऽपरे च नृपाः प्रमोदन्ते स्म । सीता तु पुत्रयोविक्रमं पित्रा सह तयोः सङ्गमं च दृष्ट्वा हृष्टा विमानेन पुण्डरीकपुरं ययौ । वज्रजङ्घनपोऽपि भामण्डलाख्यातो राम-लक्ष्मणौ पत्तिरिव ननाम । रामश्च त्वं मे भामण्डलसमोऽसि, यो मे पुत्राववर्धयस्त्वमिमामवस्थामनैषीश्चेत्युक्त्वा पुष्पकारूढस्ताभ्यां पुत्राभ्यां सह पुरीं प्रविश्य नागरैर्दूश्यमानः स्तूयमानश्च गृहं गत्वोत्ततार, महान्तमुत्सवं च कारयामास । अथ रामं लक्ष्मण-सुग्रीवाद्या: सम्भूय व्यजिज्ञपन्-'त्वया विरहिता परदेशे स्थिता सीताऽमूभ्यां कुमाराभ्यां विनाऽतिकष्टेन जीवति, यद्यादिशसि, तमुद्य तामिहाऽऽनयामः, अन्यथा पति-पुत्रवियुक्ता सा विपत्स्यते' । ततो राम: किञ्चिद् विचार्योवाच'सीताया आनयने लोकापवादो महाविघ्नः । सीता सतीति जाने। ततस्सा सर्वलोकसमक्षं दिव्यं करोतु, शुद्ध्या च तया सह मे पुनर्गृहवासो-ऽस्तु' । तत एवमस्त्वित्युदित्वा पुर्या बहिर्मण्डपान्

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129