Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 109
________________ १९४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः रामाज्ञां निवेद्य सीतां रथे समारोप्य द्रुतं प्रस्थितवान् । शकुनेषु दुनिमित्तेष्वपि निर्विशङ्का रथस्था सीता दूरं मागं जगाम । ततो गङ्गासागरमुत्तीर्य सिंहनिनादके वने गत्वा कृतान्तवदनः किञ्चिद् विचारयंस्तस्थौ । तं च साश्रु खिन्नमुखं प्रेक्ष्य कथमित्थं सशोक इव स्थितोऽसीति सीता पप्रच्छ । ततः सेनापतिरुवाच-'देवि ! राक्षसगृहवासापवादाल्लोककृताद् भीतेन रामेण वने त्याजिताऽसि । अस्मिन् श्वापदाकीर्णे वने मया त्यक्ता स्वप्रभावेणैव जीविष्यसि । तच्छ्रुत्वा मूच्छिता सीता भुवि पपात । सेनापतिरपि सीता मृतेति मत्वा रुरोद । ततो वनवातेन लब्धसंज्ञा सेतोऽयोध्या कियद् दूरे ? रामः कुत्र तिष्ठति ? इति सेनान्यमपृच्छत् । ततः सेनानीरुवाच-'दूरेऽयोध्या, अनया पृच्छया किम् ? अव्याहताशस्य रामस्य वार्त्तयाऽलम्' । एवं श्रुत्वाऽपि रामभक्ता सा सेनापतिमुवाच-'भद्र ! रामस्येदं मद्वाचिकं कथये:-यदि ममाऽपवादभीतस्त्वं, तर्हि परीक्षा कथं नाऽकृथाः ? शङ्कास्थाने हि सर्वोऽपि दिव्यं लभते । मन्दभाग्याऽहं वने स्वकर्माण्यनुभोक्ष्ये । किन्तु त्वं विवेकस्य कुलस्य चाऽनुरूपं नाऽकार्षीः । यथा दुर्जनगिरा मामत्याक्षीः, तथा मिथ्यादृशां वाचा जिनधर्मं मा त्याक्षी:' । एवमुक्त्वा मूच्छिता भूमौ पतितोत्थायाऽवोचत्-'हा ! मया विना रामः कथं जीविष्यति ? हा हताऽस्मि, रामाय स्वस्ति लक्ष्मणाय चाऽऽशिषं कथयेः । शिवास्ते पन्थान: सन्तु । वत्स ! राममुपैहि' । सेनानीः कृतान्तवदनश्चैवंविधे विपरीतवृत्तौ प्रियेऽपि यैवंविधा तदियमेव सतीशिरोमणिरिति चिन्तयन् प्रणिपत्य सीतां मुक्त्वा कथञ्चित् परावृत्तवान् ॥ ८ ॥ इति सीतापरित्यागवर्णनात्मकोऽष्टमः सर्गः ॥८॥ नवमः सर्गः अथ भीता सीता वने इतस्ततो भ्राम्यन्ती स्वं निन्दन्ती रुदती पदे पदे स्खलन्ती च गच्छन्ती पुरत आगच्छद् महासैन्यं दृष्ट्वाऽभीतैव नमस्कारपरायणा तस्थौ । सैनिकाश्च प्रत्युत का नाम दिव्यरूपेयं भूस्थितेति वदन्तो बिभयाञ्चक्रुः । सीताया रुदितंश्रुत्वा च स्वरजस्तच्चमूनृप इयं सगर्भा काऽपि महासतीत्यवोचत्। तथा सीतायाः समीपं गतः । सीता चाऽऽशङ्किता स्वं नेपथ्यं समर्पितवती । ततो दयालुः स नृप उवाच-'त्वं मनागपि मा भैषीः, एतानि भूषणानि तवाऽङ्ग एव तिष्ठन्तु । का त्वं कस्त्वामिहाऽत्याक्षीत्, तदाख्याहि, मा स्म शतिष्ठाः, त्वदुःखेन दुःखितोऽस्मि' । तन्मन्त्री सुमतिश्चाऽपि सीतामुवाच-'गजवाहननृपस्य बन्धुदेवीकुक्षिजन्मा तनयो वज्रजयोऽयं पुण्डरीकपुरेशो महार्हतो महासत्त्व: परस्त्रीसहोदरः । गजान् ग्रहीतुमत्रैत्य कृतप्रयोजनश्च व्रजन्नत्राऽगात् । तन्निजदुःखमाख्याहि । ततो विश्वस्य सीताऽशेषतः स्ववृत्तान्तं निवेदितवती । ततो निश्छलो नृपो जगाद-त्वं मे स्वसाऽसि, यत एकं धर्मं प्रपन्ना मिथो बन्धवः स्युः' । तन्मम भामण्डलस्य भ्रातुरिव गृहे समेहि । स्त्रीणां हि पतिगृहादन्यद् भ्रातृगृहमेव स्थानम् । रामोऽपि हि त्वां लोकापवादभयादेवाऽत्याक्षीद् न तु स्वयम् । विरहातुरः स

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129