Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 108
________________ १९२ manamannamanna त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो मया रावणः सर्वाङ्गेन न दृष्टः, किन्तु तच्चरणावेव दृष्टाविति कथं तं लिखामीत्युक्तवती । ततस्तत्पादावप्यालिखेति ताभिः कृताग्रहा रावणपादावालिलेख । तदवसरे च तत्रोपस्थितो रामस्ताभिरूचे 'तव प्रिया सीताऽद्याऽपि रावणस्य स्मरति, सीतया लिखितमेतद् रावणपदद्वयं पश्य, सीता तस्यैव नाथत इति जानीहि । तत्तथा दृष्ट्वाऽपि धीरो रामोऽनुपलक्षितः सीतायां तथैव वर्त्तते स्म । सपल्यश्च निजैर्दासीजनैः सीतायास्तं दोषं जने प्राकाशयन् । अथ वसन्ते रामः सीतामब्रवीत्-'सीते ! गर्भखेदितां त्वां विनोदयितुमिव मधुलक्ष्मीरिहोपस्थिता । ततोऽधुना महेन्द्रोदयोद्यानं रन्तुं व्रजामः । सीताऽप्युद्यानभवैर्नानापुष्पर्मे देवतार्चनरूपो दोहदः पूर्यतामित्यूचे । ततस्तत्क्षणमेव रामो देवानां पूजामकारयत् । सपरिच्छदश्च महेन्द्रोदयोद्यानं जगाम । तत्र चाऽर्हत्पूजोत्सवमयं मधूत्सवं सुखासीना सीता ददर्श । तदवसरे च सा स्फुरितं दक्षिणनेत्रं साशङ्का राघवाय निवेदयामास । नेदं साध्विति रामेण कथिते च सीतोवाच'रक्षोद्वीपवासादद्याऽपि मे दुविधिर्न तुष्टः, त्वद्वियोगदुःखादधिक किमसौ दास्यति, निमित्तं हि नाऽन्यथा भवति' । ततो रामस्तामुवाच-'खेदं मा वह, सुखा-ऽसुखे कर्माधीने अवश्यमेव भोक्तव्ये' । ततो गच्छ, मन्दिरे देवार्चनं कुरु, पात्रेभ्यो दानं प्रयच्छ' । सीताऽपि तच्छ्रुत्वा सदनमेत्य रामेण यथोक्तं सर्वं तथैव चक्रे । ___अथ राजधानीमहत्तरा यथाभूतपुरीवृत्तान्तनिवेदका विजयादय उपेत्य नत्वा कम्पमानास्तस्थुः । न तु किमपि विज्ञापयामासुः । ततो रामस्तानभयं प्रदाय निवेदनायाऽऽदिशत् । ततस्तेषु मुख्यो महत्तरो विजयो विज्ञपयामास-'देव ! देव्यां प्रवादोऽस्ति, जानकी सप्तमं पर्व - अष्टमः सर्गः कामुकेन रावणेन हृत्वैकैव नीता, तद्गृहे चिरमवात्सीच्च । ततश्च सीता रक्ता विरक्ता वा तेनाऽवश्यं दूषिता भवेत् । तदेतं प्रवादं मा सहस्व' । ___ततो रामः कलङ्कितां सीतां निश्चित्य दुःखात् तूष्णीको धैर्यमालम्ब्य तानुवाच-'भवद्भिः साधु व्यज्ञपि, स्त्रीमात्रकृतेऽहमयशो न सहिष्ये' । एवं प्रतिज्ञाय तान् विसृज्य रामो रात्रौ प्रच्छन्नो गृहाद् बहिर्गत्वा पदे पदे सीतापवादं श्रुत्वा गृहमागत्य भूयोऽपि तच्छ्रवणार्थं चरानादिश्य दध्यौ-'मया यत्कृते रक्षःकुलक्षयः कृतः, तस्याः किमिदमागतम् ? सीता महासती, परस्त्रीलम्पटो रावणश्चेति जाने । कुलं च मे निष्कलङ्कम् । हा ! राम: किं करोतु ?' तदा चरा बहिर्गत्वा श्रुत्वा सीतापवादं रामस्य सपरिच्छदस्याऽब्रुवन् । तेन क्रुद्धो लक्ष्मणोऽवोचत्-'ये हेतुभिर्दोषान् कल्पयित्वा सती सीतां निन्दन्ति, तेषामहमन्तकोऽस्मि' । ततो राम उवाच-'पुरा मम महत्तरैरिदं निवेदितं, स्वयं च श्रुतं, चरैरपि समर्थितम् । सीतायाः स्वीकारवत् तत्त्यागेन जनो माऽपवादीत्' । ततो लक्ष्मणः पुनरुवाच-'लोकवचसा सीतां मा त्यज । अनिरुद्धमुखो हि जनो यथा तथाऽपवदिता' । ततो रामः पुनरुवाच-'सत्यमेतत्, लोकः सदाऽपीदृशः। किन्तु सर्वलोकविरुद्धं त्याज्यमेव' । एवमुक्त्वा रामः सेनापति कृतान्तवदनं सगर्भाऽपि सीताऽरण्ये क्वाऽपि त्यज्यतामित्यादिशत् । सीतात्यागो नोचित इति रुदन निवेदयन् लक्ष्मणो रामेण नाऽतः परं त्वया वाच्यमिति निषिद्धो नीरङ्गीच्छन्नमुखः स्वगृहं जगाम । ततो दोहदानुसारेण सम्मेतयात्राव्याजेन सीतां नीत्वाऽरण्ये त्यजेति कृतान्तवदनं रामोऽन्वशात् । सेनापतिरपि सम्मेतयात्रार्थ

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129