Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 107
________________ १९० पुरुष-गद्यात्मकसारोद्धारः पुरीं जग्मुः । ततस्ते प्रावृषि शैलगुहागृहमधिवास्य षष्ठाऽष्टमादितप:परायणा उत्पत्य दूरदेशेषु पारणं कुर्वन्ति स्म । तत्प्रभावाच्च मथुरायां चमरकृता व्याधयः शमं जग्मुः । अन्यदा च ते पारणायाऽयोध्यां प्राप्याऽर्हद्दत्त श्रेष्ठिनो गृहे भिक्षार्थं प्राविशन् । स श्रेष्ठी च तान् सावज्ञं नत्वा दध्यौ - 'इमे नेहत्याः साधवः, वर्षास्वपि विहरमाणाः केऽप्यन्ये साधवः, किममून् पृच्छामि' ? तस्यैवं ध्यायतस्तद्बध्वा ते प्रतिलम्भिताः । ततो द्युतेराचार्यस्य वसतिं गतास्तेनाऽभ्युत्थाय सगौरवं वन्दिताः । किन्त्वकालचारिण इति मत्वा साधुभिर्न वन्दिता: । द्युतिना च दत्तासनास्ते पारणं व्यधुः । मथुरापुर्या आयाताः सम्प्रति तत्र यास्याम इत्याख्याय च ते समुत्पत्य स्वं स्थानं ययुः । द्युति जङ्घाचारणानां तेषां गुणस्तुतिं श्रुत्वा कृतावज्ञाः साधव पश्चात्तापं चक्रुः । तच्छ्रुत्वाऽर्हद्दत्तोऽपि पश्चात्तापं कुर्वन् कार्तिकशुक्लसप्तम्यां मथुरां गत्वा चैत्यानि वन्दित्वा तान् सप्तर्षीनपि वन्दित्वा स्वयं कृतमवज्ञादोषं क्षमयामास । शत्रुघ्नोऽपि च सप्तर्षिप्रभावाच्छान्तव्याधिं देशं ज्ञात्वा कार्तिकपूर्णिमायां मथुरामियाय । तान् नत्वा मद्गृहे भिक्षां गृह्यतामिति प्रार्थयामास । राजपिण्डो न कल्पते इति तैः प्रत्युक्तश्च किञ्चित्कालमत्र स्थीयतामिति पुनः प्रार्थयामास शत्रुघ्नः । ततः प्रावृट्कालोऽयं गतः, तत्तीर्थयात्रया विहरिष्यामः । त्वं गृहिणां गृहे गृहेऽर्हद्विम्बं कारयेः, तेनाऽस्यां पुर्यां जातुचिद् न व्याधिर्भावीत्युक्त्वा समुत्पत्य ते सप्तर्षयोऽन्यत्र ययुः । शत्रुघ्नोऽपि तथाऽकरोत् । लोकोऽपि निरामयो जातः । तथा स तेषां सप्तर्षीणां रत्ननिर्मिताः प्रतिमा मथुरापुर्यां चतसृष्वपि दिक्षु चक्रे । सप्तमं पर्व अष्टमः सर्गः इतश्च वैताढ्ये दक्षिणश्रेण्यां रत्नपुरे पुरे रत्नरथनृपस्य चन्द्रमुखीकुक्षिजा मनोरमाख्या पुत्री प्राप्तयौवना जाता । कस्येयं कन्या दातव्येति चिन्तापरे नृपे नारद आगत्य लक्ष्मणयोग्येयमित्यब्रवीत् । तेन च गोत्रवैरतः कुपिता मनोरमा भ्रूसंज्ञया भृत्यान् नारदकुटनायाऽऽदिशत् । नारदश्च तान् जिघांसून् विज्ञाय पक्षीव समुत्पत्य लक्ष्मणमुपगम्य पटे लिखित्वा तां कन्यां दर्शयामास, स्ववृत्तान्तं च सर्वं शशंस । लक्ष्मणश्च तद्रूपदर्शनात् क्षणाज्जातानुरागो रामेण समं रक्षोविद्याधरैः परिवृतस्तत्राऽऽययौ । लक्ष्मणेन पराजितश्च रत्नरथस्तस्मै मनोरमां रामाय च श्रीदामां नाम कन्यां ददौ । राम-लक्ष्मणौ च सर्वां वैताढ्यदक्षिणश्रेणीं जित्वाऽयोध्यामागत्य महीं पालयन्तौ तस्थतुः । तदा लक्ष्मणस्य षोडशान्तः पुरस्त्रीसहस्रं बभूव । तासु च विशल्या रूपवतीवनमालादयोऽष्टौ महिष्योऽभवन् । पुत्राश्च तस्य सार्धे द्वे शते अभूवन् । तेष्वष्टौ श्रीधरादयो महिषीभवा आसन् । रामस्य च चतस्रः सीताद्या महिष्योऽभवन् । *** १९१ एकदा च सीता ऋतुस्नाता रात्रिशेषे विमानाच्च्युतौ शरभौ मुखे प्रविशन्तौ स्वप्नं ददर्श । तज्ज्ञात्वा च रामोऽवदत्- 'तव वीरौ सुतौ भाविनौ, किन्तु विमानाच्छरभौ च्युताविति न मम मोदाय' । तदा सीता धर्मस्य तव च माहात्म्यात् सर्वं शुभं भावीत्युक्त्वा गर्भं दधार । सा च पूर्वतोऽपि प्रियतमा सगर्भा रामस्याऽधिकं प्रियाऽभूत् । तेनेर्ष्यालवः सपत्न्यश्छलपरायणा ऊचुः - 'रावणः कीदृशोऽभूदिति लिखित्वा दर्शय' ।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129