Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र स द्यूतपरायणो देवकेभ्यो दिने दिने भूरि धनं जित्वा वसन्तसेनया वेश्यया सह भोगान् भुक्त्वाऽन्ते प्रव्रजितो ब्रह्मलोकेऽमरोऽभवत् । ततश्च्युत्वा च पूर्वभवमायादोषाद् वैताढ्ये भुवनालङ्कारो नाम गजो बभूव । प्रियदर्शनजीवोऽपि ब्रह्मलोकात् परिच्युत्य भवतो भ्राताऽयं भरतो बभूव । तदर्शनाच्च जातजातिस्मृतिरसौ गज: सद्यो गतमदो जज्ञे ।
एवं पूर्वभवान् श्रुत्वाऽधिकं विरक्तो भरतो नृपसहस्रेण समं व्रतमादाय मोक्षमियाय । सहस्रं ते राजानश्चाऽपि चिरं व्रतं पालयित्वा नानालब्धिसम्पन्ना अनुरूपं पदं प्राप्तवन्तः । स गजोऽपि वैराग्याद् द्विविधं तपो विधायाऽनशनं प्रपद्य विपद्य ब्रह्मलोके देवोऽभवत् । कैकेय्यपि व्रतं गृहीत्वा चिरं निरतीचारं पालयित्वाऽव्ययं पदं प्राप ।
सप्तमं पर्व - अष्टमः सर्गः
१८७ शत्रुसैन्यं विनाश्य पुनस्तत्करे समभ्येति' । ततः शत्रुघ्न उवाच'अहं तव भ्राताऽस्मि, मया युद्धे तस्य कस्त्राता ? ततो मह्यं मथुरां पुरीं प्रयच्छ । अहं स्वयमेव मधोः प्रतीकारं करिष्यामि' । ततो रामस्तदाग्रहं ज्ञात्वाऽशिषत्-'शूलरहित: प्रमत्तश्च मधुस्त्वया योधनीयः' । तथाऽक्षय्यबाणौ तूणौ दत्वा कृतान्तवदनं नाम सेनापति सहैवाऽदिशत् । लक्ष्मणोऽपि चाऽग्निमुखान् बाणान् अर्णवावर्त धनुश्च तस्य विजयमाशंसन् ददौ । ___ अथ शत्रुघ्नः प्रस्थाय निरन्तरैः प्रयाणैर्मधुमुपेत्य नदीतटेऽवात्सीत् । तत्र प्रथमं प्रेषिताश्चराश्चैत्य शत्रुघ्नमवोचन्-'यद् मथुरापूर्वदिक्स्थे कुबेरोद्याने मधुः पत्न्या जयन्त्या सह क्रीडापरोऽस्ति, तच्छुलं चाऽधुना शस्त्रागारेऽस्ति, तेन युद्धस्य समुचितोऽयं कालः । 'ततश्छलज्ञः शत्रुजो निशि मथुरां प्रविशन् मधुं बलैरुरुधे । तत्र युद्धे च शत्रुघ्नः प्रथमं मधुपुत्रं लवणं जघान । ततः क्रुद्धो मधुर्धावित्वा शत्रुघ्नेन सह युयुधे । तयोः शस्त्राशस्त्रि युद्धे प्रवृत्ते शत्रुघ्नो लक्ष्मणप्रदत्तोऽर्णवावर्त धनुरग्निमुखान् बाणांश्चाऽस्मार्षीत् । तेन च शार्दूलं व्याध इव स मधुं जघान । तद्बाणप्रहारविह्वलो मधुरचिन्तयत्-'शूलं मम पाणौ नाऽगात्, शत्रुघ्नश्च न हतः । तन्मम जन्म मुधा गतं यज्जिनेन्द्रो नाऽचितश्चैत्यानि न कारितानि, पात्रेषु च न दत्तम् । एवं ध्यायन् भावदीक्षितो नमस्कारपरायणः स मधुविपद्य सनत्कुमारे महद्धिको देवोऽभवत् । तच्छूलं च देवतारूपं चमरान्तिकमुपेत्य च शत्रुघ्नाच्छलपूर्वकं मधुहननं शशंस ।
अथ मित्रवधात् क्रुद्धः स्वयं चलित: क्व यासीति गरुडेशेन वेणुदारिणा पृष्टः स्वमित्रहन्तारं मथुरास्थं शत्रुघ्नं हन्तुं यास्यामीति चमरोऽवदत् । ततो वेणुदारी पुनरुवाच-लक्ष्मणेनाऽर्धचक्रिणा
अथ भरते प्रव्रजिते राजानो भक्तितो राम लक्ष्मणोऽयं वासुदेवो भवद्भिरभिषिच्यतामिति प्रार्थयामासुः । रामादिष्टाश्च ते तथैव चक्रुः । रामस्याऽपि च ते बलभद्रत्वाभिषेकं चक्रुः । द्वावपि तावष्टमौ बलभद्र-वासुदेवौ राज्यमपाताम् । ततो रामो विभीषणाय कुलक्रमागतं रक्षोद्वीपं, सुग्रीवाय कपिद्वीपं, हनूमते श्रीपुरं, विराधाय पाताललङ्का, नीलाय ऋक्षपुरं, प्रतिसूर्याय हनुपुरं, रत्नजटिने देवोपगीतपुरं, भामण्डलाय वैताढ्ये रथनूपुरं पुरमन्येभ्योऽप्यन्यद् नगरं च प्रदाय शत्रुजमुवाच-'वत्स ! यद् रोचते तं देशमुररीकुरु' ।
ततो मथुरां मे प्रयच्छेति तेन प्रार्थितो राम उवाच-'वत्स ! सा पुरी दुःसाध्या, तत्र मधोनूपस्य चमरेण पुराऽपितं शूलं दूरादेव

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129