Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 103
________________ १८३ १८२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विशल्यानयनान्तं वृत्तान्तं निवेद्य तदूर्ध्ववृत्ताज्ञानाद् हा वत्सेत्येव सुमित्रामपि रोदयन्ती करुणं रुरोद । ततो नारदस्ते उवाच-'युवां सुस्थिते भवतं, युष्मत्पुत्रमुपगम्य तावानेष्यामि' । तयोरेवं प्रतिज्ञाय किम्वदन्त्या ज्ञातवृत्तो नारदो नभसा लङ्कायां राममुपेयाय । सत्कृत्य किमत्राऽऽगा इति रामेण पृष्टश्च तन्मातृदुःखवृत्तान्तमाख्यातवान् । तेन तत्क्षणं समुत्सुको रामो विभीषणमुवाच 'मातॄणां दुःखं विस्मृत्य त्वद्भक्त्येहाऽधिकमस्थाम् । अद्य तत्र यास्यामस्तदनुमन्यस्व । ततो विभीषणो नत्वोवाच-'षोडशाहान्यत्र तिष्ठ, यावत् स्वैः शिल्पिभी रम्यामयोध्यां करोमि' । रामेणैवमस्त्विति प्रोक्तश्च सोऽयोध्यां स्वर्गपुरीनिभां चक्रे । तदा रामेण सत्कृत्य विसृष्टो नारदो गत्वाऽपराजितादीनां पुत्रागमनवृत्तान्तमकथयत् । रामश्च षोडशेऽह्नि सान्तःपुरः सलक्ष्मणः पुष्पक विमानमारुह्य विभीषणादिभिरनुत्रियमाणोऽयोध्यां प्राप । भरतश्च दूरादपि रामादीन् दृष्ट्वा गजारूढः सानुजोऽभ्याजगाम । भरते आगच्छति च रामाज्ञया पुष्पकं भूमिं प्राप । आदौ च भरतः सानुजो गजादुत्ततार । राम-लक्ष्मणावपि च सोत्कण्ठौ पुष्पकादुत्तरतुः । साश्रुनेत्रं पादयोः प्रणतं भरतं च समुत्थाप्य मूनि मुहुर्मुहुश्चुम्बन् समालिलिङ्ग । शत्रुघ्नमपि च पादयोः पतितमुत्थाप्य स्ववाससा परिमृज्य परिरेभे । लक्ष्मणोऽपि प्रणमन्तौ भरत-शत्रुघ्नौ-भुजौ प्रसार्याऽऽलिलिङ्ग । कृतत्वरो रामश्च त्रिभिरनुजैः सार्द्ध पुष्पकमारुह्याऽयोध्याप्रवेशाय समादिदेश । समहोत्सवं पुरीं प्रविश्य च पुष्पकादुत्तीर्य सलक्ष्मणो रामो मातृसदनं गत्वा सर्वा मातृः प्रणनाम । ताभिश्चाऽऽशीर्वचोभिर सप्तमं पर्व - अष्टमः सर्गः भिनन्द्यत । सीताद्याश्चाऽपराजितामन्याः श्वश्रूश्च प्रणेमुः । ताश्च शुभाशिषं ददुः । अथाऽपराजिता लक्ष्मणं मुहुर्मुहुः पाणिना स्पृशन्ती मूर्ति चुम्बन्ती चैवमुवाच-'वत्स ! दिष्ट्या दृष्टोऽसि अधुना पुनर्जातोऽसि, यद् विदेशं गत्वा विजयं प्राप्येहाऽऽगमः । तवैव परिचर्यया रामः सीता च वनवासभवानि कष्टानि व्यतिनिन्यतुः । ततो लक्ष्मण उवाच-'तातेनेव रामेण त्वयेव सीतया च लालितोऽहं वनेऽपि सुखमस्थाम् । युष्मदाशीभिरेव वैरिसागरं ती| सपरिवारो राम इहाऽऽययौ । अथ भरतोऽयोध्यायां महोत्सवमकारयत् । एकदा च रामं प्रणम्य सोऽवोचत्-'आर्य ! त्वदाज्ञयेयत्कालं राज्यं मया धृतं, पित्रा सह तदैवाऽहं प्राव्रजिष्यं यदि भवदाज्ञाऽर्गला नाऽभविष्यत् । तदिदानीं मां व्रतायाऽनुमन्यस्व, स्वं राज्यं गृहाण, त्वयि प्राप्ते भवोद्विग्नोऽहमतः परं स्थातुं नोत्सहे' । ततो रामः साश्रुस्तमाह'वत्स ! मैवं वोचः, त्वमेव राज्यं कुरु, वयमिह त्वय्युत्सुका एवाऽऽगताः । राज्येन सहाऽस्माकं त्यजन् पुनर्विरहव्यथां किं ददासि? ततस्तिष्ठ, ममाऽऽज्ञां पूर्ववत् पालय' । एवमाग्रहपरं रामं ज्ञात्वा नत्वा चलितो लक्ष्मणेनोत्थाय पाणिना धृतः । तथा सीताद्या अपि व्रताय कृतनिश्चयं यान्तं भरतं ज्ञात्वा ससम्भ्रमं तत्राऽऽजग्मुः । तथा व्रताग्रहं विस्मारयितुकामास्ता भरतं जलक्रीडा) प्रार्थयामासुः । स च विरक्तोऽपि तासामनुरोधेन सान्तःपुरः क्रीडासरसि चिक्रीड । जलाद् निर्गत्य च भरतस्तत्तीरेऽस्थात् । भवनालारो गजश्च स्तम्भमृत्पाट्य तत्राऽऽययौ । भरतदर्शनाद् मदान्धोऽपि सोऽमदोऽभवत् । भरतोऽपि तं दृष्ट्वा परमां प्रीति

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129