Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८१
१८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः देशनान्ते निजान् पूर्वभवान् पप्रच्छतुः । ततः स महामुनिरुवाच-'इह भारते कौशाम्ब्यां नगर्यामुत्पन्नौ दरिद्रौ भ्रातरौ युवां नाम्ना प्रथमपश्चिमौ जातौ । अन्यदा भवदत्तमुनेधर्मं श्रुत्वा व्रतं गृहीत्वा निष्कषायौ विजहूतुस्तौ । ततोऽन्येद्युः कौशाम्ब्यामेव गतौ नन्दिघोषं नृपं वसन्तोत्सवे भार्ययेन्दुमुख्या क्रीडन्तं ददृशतुः । तं दृष्ट्वा च पश्चिमो निदानमकार्षीत्-ईदृक्तपसाऽनयोरहमीदृक्क्रीडापरः पुत्रो भूयासमि'ति । मुनिभिनिषिध्यमानोऽपि च स निदानाद् न न्यवर्त्तत । विपद्य च स पश्चिमस्तयो रतिवर्धनः पुत्रो बभूव । क्रमेण यौवनं प्राप्तः स राज्यमासाद्य रमणीभिः परिवृतः पितेव रेमे ।
प्रथममुनिस्तु निर्निदानो विपद्य पञ्चमे कल्पे परमद्धिको देवो बभूव । स चाऽवधेर्धातरं तत्रोत्पन्नं नृपं ज्ञात्वा तं बोधयितुं मुनिरूपधरः समेत्य रतिवर्धनेनाऽर्पित आसने उपविश्य भ्रातृस्नेहात् तस्य स्वस्य च प्राग्भवं कथयामास । तेन सञ्जातजातिस्मरणो रतिवर्धनः प्रव्रज्य क्रमाद् विपद्य ब्रह्मलोके देवोऽभवत् । ततश्च्युत्वा च विदेहेषु विबुद्धनगरे युवां भ्रातरौ जातौ प्रव्रज्याऽच्युतकल्पं जग्मथुः । ततश्चाऽपि च्युत्वा प्रतिविष्णो रावणस्य पुत्राविन्द्रजिद्मेघवाहनावभूताम् । रतिवर्धनमाता चन्द्रमुखी विपद्य युवयोरियं माता मन्दोदरी जाता । तद् निशम्य च कुम्भकर्णादयस्तदैव व्रतं जगृहु: । रामादयश्च मुनि नत्वा समहोत्सवं लङ्कायां प्रविविशुः ।
__ तत्र च पुष्पगिरिशिखरस्थोद्याने हनूमता यथाख्यातां सीतां दृष्ट्वा द्वितीयं जीवितमिव निजोत्सङ्गे चकार रामः । तदैव चाऽऽकाशे प्रमोदात् सिद्धगन्धर्वादय इयं महासती सीता जयत्विति जुघुषुः । लक्ष्मणश्च साश्रुनेत्रो मैथिली ननाम । सीता चाऽऽशीर्वादपूर्वकं लक्ष्मणं शिरस्याघ्रातवती । नमस्कुर्वन्तं
सप्तमं पर्व - अष्टमः सर्गः भामण्डलं चाऽपि साऽभिननन्द । सुग्रीवादयश्चाऽपि स्वनामाख्यानपूर्वकं सीतां प्रणेमुः । ततो रामः ससीतो भुवनालङ्कारगजमारुह्य सुग्रीवाद्यैः परिवृतो रावणावासं गत्वा तदन्तःस्थं मणिस्तम्भसहस्रमण्डितं श्रीशान्तिजिनचैत्यं प्रविवेश । विभीषणापितैः पुष्पादिभिः शान्तिजिनमर्चयित्वा विभीषणस्य प्रार्थनया तद्गृहमेत्य तत्र देवार्चन-स्नान-भोजनादि चक्रे ।
ततो रत्नसिंहासनासीनं राममुभे वस्त्रे परिधाप्य कृताञ्जलिविभीषण उवाच-'अहं ते पत्तिरस्मि, सर्वमिदं रत्नादिकं राक्षसद्वीपं च गृहाण । त्वदाज्ञया ते राज्याभिषेकं कुर्महे, प्रसीद, मामनुगृहाण' । ततो राम उवाच-'मया पुरा लङ्काराज्यं तुभ्यं दत्तं, तत् किं विस्मरसि ?' एवं निवार्य रामस्तं तदैव लङ्काराज्येऽभिषिच्य सीतादिभिरन्वितो रावणगृहं जगाम । तत्र च विद्याधरा रामस्याऽऽज्ञया तेनोद्वोढुं प्रागङ्गीकृताः सिंहोदरादीनां कन्या आनेषुः । ततः स्वस्वाङ्गीकृताः कुमारीर्यथाविधि समहोत्सवं राम-लक्ष्मणौ परिनिन्यतुः । तथा तत्र भोगानुपभुञ्जानौ सुग्रीवाद्यैः सेव्यमानौ तौ षडब्दी व्यतीयतुः ।
अत्राऽन्तरे च विन्ध्यस्थल्यामिन्द्रजिद्-मेघवाहनौ सिद्धि गच्छतः। तच्च मेघरथाख्यं तीर्थं जज्ञे । नर्मदायां नद्यां च कम्भकर्णः सिद्धि प्राप । तच्च तीर्थं पृष्टरक्षितनाम्ना ख्यातमासीत् ।
इतश्चाऽयोध्यायां राम-लक्ष्मणयोर्वार्तामप्यजानन्त्यौ तन्मातरौ भृशं दुःखिते तस्थतुः । तदा च धातकीखण्डादागतो नारदः कुतो दुःखिते युवामिति ते पप्रच्छ । ततोऽपराजिता वनगमनादि

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129