Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 100
________________ १७६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो हनूमता मुक्ता साऽन्तर्दधे । तथा विशल्या पुनरपि लक्ष्मणं पाणिना पस्पर्श, गोशीर्षचन्दनेन विलिलेप च । ततो रूढव्रणो लक्ष्मणस्तत्क्षणं प्रबुद्धो मुदितेन रामेणाऽऽलिङ्गितः । तथा रामो विशल्यावृत्तान्तं लक्ष्मणाय शसंस । तत्स्नानवारिणा च स्वान् परांश्च सिक्तवान् । रामाज्ञया लक्ष्मणश्च कन्यासहस्रसहितां विशल्यां तदानीमेव परिणीतवान् । तथा विद्याधरेश्वरैः सोत्साहं महोत्सवश्चक्रे। *** अथ लक्ष्मणो जीवित इति चरैविज्ञाय रावणो मन्त्रिभिर्मन्वयाञ्चक्रे-'दैववैपरीत्याल्लक्ष्मणो जीवितो मम मनोरथश्च सर्वो विलुप्तः । तदधुना कुम्भकर्णादयाः कथं मोचयितव्याः' । ततो मन्त्रिण ऊचुः-'सीतार्पणं विना कुम्भकर्णादीनां मोक्षोऽसम्भवः, प्रत्युताऽनिष्टमेव भावि' । रावणश्च तानगणयित्वा सामन्तं दूतमनुशिष्योपरामं प्रेषितवान् । स च गत्वा द्वारस्थो नत्वा सुग्रीवादिपरिवृतं राघवमुवाच-'रावणो निवेदयति यद् मद्वन्धुवर्ग मुञ्च, सीतां त्यज, मम राज्याधं च गृहाण, अन्यानि त्रीणि कन्यासहस्त्राणि च गहाण, तावता तोषमेहि । अन्यथा जीवितेन सह सर्वमेव गमयिष्यसि । __ ततो राघवोऽब्रवीत्- 'अर्थेन परस्त्रीभिश्च न मे प्रयोजनं, यदि रावणः सत्कृत्य वैदेहीं प्रेषयति, तदैव तद्वन्धुवर्ग मोक्ष्यामि, नाऽन्यथा' । ततः सामन्तः पुनरुवाच-'नैतत् तवोचितं, स्त्रीमात्रकृते सर्वविनाशो मूर्खतैव । एकवारं जीवितोऽपि लक्ष्मणोऽन्ये त्वं च कथं जीविष्यसि ? एकोऽपि दशग्रीवो विश्वमपि हन्तुमीश्वरः । तदायति विचार्य रावणवचो मान्यम्' । ततः क्रुद्धो लक्ष्मण उवाच-'युद्धाय रावणं सन्नद्धं कुरु, एको रावणः किं करिष्यति ? तं हन्तुं मम भुजः कृतान्त इवोद्यतोऽस्ति' । लक्ष्मणेनैवं निभित्सितो सप्तमं पर्व - सप्तमः सर्गः १७७ गदितुमनाः स दूतो वानरैर्गलहस्तेन निर्वासितो गत्वा रावणाय सर्व वृत्तान्तं निवेदितवान् । अथ रावणो मन्त्रिणोऽपृच्छत्-'अधुना किं कार्यं तद् ब्रूत'। ततो मन्त्रिण ऊचुः-'सीतार्पणमेवोचितं, तथैव बन्धवो मुक्ताः स्युः । तद्वचसा मर्माहतो दशग्रीवश्चिरं विचार्य बहुरूपाया विद्यायाः साधनं हृदि निधाय शान्तिजिनचैत्यं ययौ । तत्र स उपशान्तकषायः शान्तिस्नात्रं यथाविधि विधाय भक्त्या स्तुत्वा रत्नशिलास्थितोऽक्षमालां धारयंस्तां विद्या साधयितुमारेभे । इतश्च मन्दोदरी यमदण्डं द्वारपालं समादिशत्-'सर्वोऽपि नागरोऽष्टाहानि जिनधर्मरतोऽस्तु । आज्ञाविराधको वध्यः स्यादिति लङ्कायां पटहघोषणां कुरु' । द्वारपालश्च तदादेशं प्रतिपालितवान् । सग्रीवश्च चारैस्तज्ज्ञात्वा 'यावदेष विद्यां न साधयति, तावदेव हन्तव्य' इति राममब्रवीत् । ततो ध्यानपरायणो रावणो निश्छलेन मया कथं निग्रहीतव्य इति रामवचः श्रुत्वाऽङ्गदादयो गुप्तमेव गत्वा विविधानुपसर्गान् व्यधुः । किन्तु रावणो मनागपि ध्यानाद् नाऽचालीत् । ततोऽङ्गदः-'त्वया परोक्षे सीताऽपहता,किन्त्वहं तव पश्यत एव मन्दोदरीं हरामी'त्युक्त्वा रुदतीं मन्दोदरी कचैहीत्वाऽकर्षत् । रावणस्तदपि न गणयामास । तदैव च बहरूपिणी विद्या प्रादुर्भूय-'तव वशेऽस्मि, किं करवाणीति बहि, राघवौ कियन्मात्रौ' इत्यवोचत् । ततो रावण उवाच-'तव सर्वं साध्यं, सम्प्रति स्वं स्थानं गच्छ, स्मृता काले समागच्छेः' । एवं रावणेन विसृष्टा सा तिरोभूता । वानराश्च निजं शिबिरं जग्मुः । अथ रावणो मन्दोदर्यङ्गदवृत्तान्तं विज्ञाय क्रुद्धः स्नात्वा भुक्त्वा च देवरमणं वनं प्राप्य सीतामवोचत्-'मया चिरमनुनयः कृतः । अधुना त्वत्पति-देवरौ हत्वा त्वां बलाद् रमयिष्ये' ।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129