Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 101
________________ १७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तच्छ्रुत्वा च मूच्छिता सीता भूमौ निपपात । कथञ्चित् संज्ञां लब्ध्वा च 'राम-लक्ष्मणयोर्मृत्युश्चेद् ममाऽनशनमस्त्वि'त्यभिग्रहमग्रहीत् । तच्छ्रुत्वा रावणश्चिन्तयामास-'अस्या रामे स्वाभाविकः स्नेहः । तन्मयाऽद्य यावद् न युक्तं कृतम् । अद्य चेदिमां मुञ्चामि तदा रामभीतेन रावणेन सीता मुक्तेत्यपयशो मे भवेत् । ततो राम-लक्ष्मणौ बद्धवेहाऽऽनीयैनामर्पयिष्यामि । तदेतद् धर्म्य यशस्यं च स्यात्' । एवं विचार्य स तां रात्रिमतिवाह्याऽशकुनान्यगणयन् युद्धार्थं चचाल । ततो द्वयोः सैन्ययोरे युद्धे प्रवृत्ते लक्ष्मणो राक्षसान् विधूय बाण रावणं विव्याघ । रावणश्च तत्पराक्रमं दृष्ट्वा साशङ्को बहुरूपां विद्यां स्मृत्वा स्वानि रूपाण्यनेकधा भयङ्कराणि विचक्रे । लक्ष्मणश्च सर्वतो रावणानेव दृष्ट्वा स्मृतिमात्रेणोपस्थितैर्नारायणशरैस्तान् जघान । दशकन्धरश्च तैस्ताडितोऽर्धचक्रित्वलिङ्गं चक्रं स्मृत्वा तद् नभसि भ्रमयित्वा लक्ष्मणाय मुमोच । तच्चक्रं च प्रदक्षिणीकृत्य लक्ष्मणस्य दक्षिणपाणाववतस्थे । ततो विषण्णो दशग्रीवो दध्यौ-'मुनेर्वच: सत्यं जातम् । विभीषणादीनां च निर्णय उचित इति जाने । विभीषणश्च तं तादृशं प्रेक्ष्याऽद्याऽपि सीतां मुञ्चेति बोधयामास । ततः क्रुद्धो रावणोऽवोचत्-'कि रे ! चक्रमेव मेऽस्रम् ? मुष्टिनाऽपि सचक्रमेनं द्विषं हनिष्यामि' । तदैव च लक्ष्मणस्तेनैव चक्रेण कूष्माण्डवद् रावणस्य वक्षो विदारयामास । तदा च ज्येष्ठकृष्णैकादश्यामपराणे मृतो रावणश्चतुर्थं नरकं ययौ । दिवि च देवैर्जयजयारावपूर्वकं पुष्पवृष्टिविदधे । कपयश्च प्रमुदितास्ताण्डवं चक्रुः ॥ ७ ॥ इति रावणवधवर्णनात्मकः सप्तमः सर्गः ॥७॥ अष्टमः सर्गः अथ विभीषणो भयात् पलायितान् राक्षसान् ज्ञातिस्नेहादेवमाश्वासयन्नाह-एतौ राम-लक्ष्मणावष्टमौ बलभद्र-वासुदेवौ शरणं निःशङ्कं भजध्वम्' । ततस्ते तो भेजुः । तौ च तेषु प्रसादं चक्रतुः। विभीषणश्च भ्रातरं हतं दृष्ट्वा शोकसन्तप्तो मरणेच्छया निजां छुरिकां चकर्ष । भ्रातर्घातरिति करुणं क्रन्दन्तं स्वकुक्षिचुम्बितच्छुरिकं तं रामो दधे । तथा मन्दोदर्यादिभिः सह रावणसमीपे रुदन्तं तं सलक्ष्मणो रामो बोधयन्नाह-'रावण ईदृशपराक्रमो न शोच्यः, तेन सह समरे देवा अपि नाऽलम् । वीरमृत्युं गतोऽसौ सुकीर्तिपात्रमेव। तदस्योर्ध्वदेहिकं समाचरत, रुदितैः कृतम्' । एवं तान् प्रबोध्य स रामो बद्धान् कुम्भकर्णादीन् मोचितवान् । ततो विभीषणादयः साश्रुनेत्रा: सम्भूय दशकन्धराङ्गाग्निसंस्कारं व्यधुः । ततो रामः सलक्ष्मणः कुम्भकर्णादीनाह-'वीरा: ! पूर्ववत् स्वस्वराज्यं कुरुध्वं, भवद्राज्येनाऽस्माकं न प्रयोजनम् । व: क्षेममस्तु' तदा कुम्भकर्णाद्या जगुः । 'वयं मोक्षसाम्राज्यप्रदां प्रव्रज्यां ग्रहीष्यामः' । अत्राऽवसर एव कुसुमायुधोद्याने चतुर्ज्ञान्यप्रमेयबलो मुनिः समवससार । तस्य च रात्रौ केवलज्ञाने समुत्पन्ने देवास्तन्महिमानं चक्रुः । प्रातश्च राम-लक्ष्मणौ कुम्भकर्णादयश्चोपेत्य नत्वा देशनां शुश्रुवुः । तच्छ्रुत्वा च परमं वैराग्यमापन्नाविन्द्रजिद्-मेघवाहनौ

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129