Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ययौ । राम-लक्ष्मणौ चोपद्रवकारिणस्तस्य गजस्य बन्धनाय ससामन्तौ तत्राऽऽशूपेयतुः । तथा स करी रामाज्ञया स्तम्भेऽनीयत हस्तिपकैः । तदैव चाऽऽगतावुद्याने समवसृतौ देशभूषणकुलभूषणमुनी वन्दितुं सपरिच्छदा रामादयस्तत्रोपगत्य नेमुः । तथा रामो मम गजो भुवनालङ्कारो भरतदर्शनात् कथममदोऽजनीति पप्रच्छ ।
अथ केवली देशभूषणो मुनिराख्यत्-'पुरा ऋषभप्रभुणा समं चत्वारः सहस्रा राजानः प्राव्रजन् । ते च कृतमौनेऽनाहारे प्रभौ विहरति निविण्णा वनवासिनस्तापसा जाताः । तेषु प्रह्लादनसुप्रभनृपपुत्रौ तापसौ चन्द्रोदय-सूरोदयौ भवं भ्रमतुः । चन्द्रोदयो गजपुरे हरिमतेश्चन्द्रलेखायां भार्यायां कुलङ्करः पुत्रोऽजनि । सूरोदयोऽपि गजपुर एव विश्वभूतिविप्रस्याऽग्निकुण्डायां भार्यायां श्रुतिरतिस्तनयो जातः । कुलङ्करश्च नृपस्तापसाश्रमं गच्छनवधिज्ञानिनाऽभिनन्दनमुनिनोक्त:-'तत्र पञ्चाग्नितपस्तप्यमानेन तपस्विना होतुमानीतस्य काष्ठस्य मध्ये सर्पस्तिष्ठति, स च पूर्वभवे क्षेमङ्करस्तव पितामहः । तत् काष्ठं दारयित्वा तं यत्नादाकृष्य रक्ष' । तच्छ्रुत्वा व्याकुलः स गत्वा तत् काष्ठं दारयित्वा तदन्तःस्थं सर्प दृष्ट्वा विस्मितो यावत् प्रव्रज्यामादित्सते स्म, तावच्छृतिरतिस्तमेवमाह-'अयं न वेदविहितो धर्मः, यदि तवाऽऽग्रहस्तदाऽन्तिमे वयसि दीक्षाऽऽदेया । सम्प्रति खेदेनाऽलम्' ।
स राजाऽपि तद्वचसा भग्नदीक्षोत्साहो मया किमत्र कर्त्तव्यमिति चिन्तयन् स्थितः । तद्राज्ञी श्रीदामा च पुरोधोऽनुरक्ता मामेष ज्ञातवानित्याशङ्कत । तथा यावदेव आवां न हन्ति तावदेवैनं
सप्तमं पर्व - अष्टमः सर्गः
१८५ हन्मीति पुरोधोऽनुमता विषं दत्त्वा कुलङ्करममारयत् । श्रुतिरतिरपि च मृतः । तावुभावपि चिरं भवं भ्रमतुः । ____ अन्यदा च राजगृहे कपिलद्विजस्य सावित्र्यां पत्न्यां तौ युग्मतो विनोद-रमणाख्यौ पुत्रावभूताम् । रमणश्च वेदमध्येतुं देशान्तरं गत्वाऽधीतवेदो रात्रौ राजगृहमागत्याऽकालोऽसाविति बुद्ध्या बहिरेव स्थितो यक्षमन्दिरे सर्वसाधारणोऽस्वाप्सीत् । तदानीं च तत्र विनोदभार्या शाखा दत्तेन द्विजेन समं कृतसङ्केताऽऽगात् । विनोदोऽपि च तामनु तत्राऽऽगतः । सा च दत्तं मत्त्वा रमणमुत्थाप्य तेन रेमे । विनोदश्चाऽसिमाकृष्य तं निर्विशङ्क जघान। तदा शाखया रमणच्छुरिकया विनोदोऽपि हतः । स च विनोदजीवश्चिरं भवं भ्रान्त्वा धनाख्य इभ्यपुत्रोऽभवत् । रमणश्चाऽपि भवं भ्रान्त्वा धनस्यैव लक्ष्मीकुक्षिजन्मा भूषणो नाम पुत्रो बभूव ।
स च धनाज्ञया द्वात्रिंशदिभ्यकन्या: परिणीय ताभिः क्रीडन् स्वसद्मतले स्थितश्चतुर्थे प्रहरे रात्रौ श्रीधरमुनेरुत्पन्ने केवले देवैरारब्धमुत्सवं ददर्श । तेन सजातधर्ममतिः सद्मन उत्तीर्य मुनि वन्दितुं चलितो मार्गे सर्पण दष्टः । ततः स शुभपरिणामाच्छुभगतीर्घान्त्वाऽत्र जम्बूद्वीपे विदेहे रत्नपुरेऽचलचक्रिणो हरिणीकुक्षिजो धर्मरतः प्रियदर्शनाख्यः पुत्रोऽभूत् । प्रविव्रजिषुरपि स पित्रनुरोधात् त्रीणि कन्यासहस्राणि परिणीयाऽपि संविग्नो गृहवासेऽपि वर्षाणां चतुष्षष्टिसहस्राणि परं तपश्चरित्वा ब्रह्मलोके देवोऽभवत् ।
धनोऽपि संसारं भ्रान्त्वा पोतनपुरेऽग्निमुखद्विजस्य शकुनाकुक्षिजो मृदुमतिः पुत्रोऽभवत् । स दुविनीतत्वाच्च पित्रा गृहाद् निर्वासितो धूर्तो भ्रमन् सर्वकलाकुशलो भूत्वा पुनरपि गृहमगात् ।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129