Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
धरणेन्द्राद् रावणेन लब्धा शक्तिर्निर्जिता, रावणोऽपि हतः, शत्रुघ्नश्च लक्ष्मणादेशाद् युद्धे मधुं जघान' । ततश्चमरेन्द्र उवाच'लक्ष्मणेन विशल्याप्रभावेण जिता शक्तिः, तस्याश्चा ब्रह्मचारिण्या विशल्यायाः स प्रभावोऽधुना नष्टः । ततस्तं मित्रघातकं हन्तुं यास्यामी'त्युक्त्वा रोषाच्छ्त्रुघ्नमहीं गत्वा तत्र सर्वं लोकं सुस्थं ददर्श । तत: स प्राक् प्रजोपद्रवेणैतं मधुरिपुमुपद्रवामीति विचार्य तत्प्रजासु विविधान् व्याधीन् व्यधात् । कुलदेवतया व्याधिकारणं ज्ञात्वा च शत्रुघ्नोऽयोध्यायामुपराम-लक्ष्मणं जगाम । तदानीं चाऽऽगतौ देशभूषण - कुलभूषणमुनी राम-लक्ष्मण - शत्रुघ्ना उपेत्य वन्दितवन्तः ।
१८८
तदा केन हेतुना शत्रुघ्नो मथुरां प्रत्याग्रहीति रामेण पृष्टो देशभूषणो मुनिरुवाच- 'मथुरायां शत्रुघ्नजीवोऽनेकश उत्पद्य श्रीध नाम रूपवान् मुनिसेवको विप्रोऽभूत् । स चाऽन्यदा ललिताख्यया राजमहिष्या मार्गे दृष्टो रन्तुं स्वान्तिके आनायितः । तदानीमेव चाऽतर्कितो नृपः समाजगाम । तदा क्षुभितया ललितया चौरोऽसाविति पूच्चक्रे । नृपेण च स विप्रो धृतः । नृपादेशाच्च स वधस्थानं नीतः प्रतिज्ञाव्रतः कल्याणमुनिना मोचितः प्रव्रज्य तपस्तप्त्वा दिवं प्राप । ततश्च्युत्वा मथुरायामेव चन्द्रभद्रनृपस्य काञ्चनप्रभाकुक्षिजोऽचलाख्यो नृपस्याऽतिवल्लभो बभूव । स च भानुप्रभाद्यैः सपत्नभ्रातृभिरष्टभी राजाऽयं मा भूदिति हन्तुमारेभे । ततो मन्त्रिभिर्विचार्य नंष्ट्वाऽन्यतो गत्वा भ्रमन् वने महता कण्टकेन विद्धः पथि क्रन्दन् श्रावस्तिवासिना पितृनिर्वासितेनाऽङ्कनाम्ना काष्ठभारिणा दृष्टोऽपनीतकण्टकः कृतः ।
सप्तमं पर्व अष्टमः सर्गः
१८९
ततः सोऽचलोऽङ्कं कण्टकं प्रदायोवाच- 'त्वया साधु कृतम् । मथुरापुर्यां यदाऽचलं नृपं श्रृणोषि तदा तत्र समागच्छेः, त्वं परमोपकार्यसि' । ततोऽचलः कौशाम्ब्यां गतः सिंहगुरोरिन्द्रदत्तनृपं धन्वाभ्यासपरं ददर्श । ततः सिंहेन्द्रदत्तयोः स्वधानुष्कत्वमदर्शयत् । तत इन्द्रदत्तस्तस्मै दत्तां नाम कन्यां देशं च ददौ । स चाऽचलोऽङ्गादिकान् देशान् साधयित्वा मथुरां प्राप्याऽग्रजान् भानुप्रभादीनष्टौ युद्धे बद्ध्वा गृहीतवान् । चन्द्रभद्रश्च तन्मुक्त्यै मन्त्रिणोऽचलान्तिके प्रैषीत् । ते च मन्त्रिणोऽचलवृत्तान्तं विज्ञाय गत्वा शीघ्रमेव चन्द्रभद्रायाऽऽचख्युः । तेन दृष्टश्चन्द्रभद्रोऽचलं पुरीं प्रवेश्य तं क्रमेण लघीयांसमपि निजराज्ये निवेशितवान् । पित्रा निर्वास्यमानांश्च तान् भानुप्रभादिकान् भ्रातॄन् कथञ्चिदचलो रक्षित्वा गुप्तसेवकांश्चकार ।
एकदा चाऽचलो नटरङ्गस्थोऽङ्कं द्वारपालेन हन्यमानं निजान्तिकं समानीय तज्जन्मभूमिं श्रावस्तीं तस्मै ददौ । ततो द्वावपि तौ सम्भूय मित्रे राज्यं चक्राते । अन्ते समुद्राचार्यसमीपे प्रव्रज्य विपद्य ब्रह्मलोके देवोत्तमौ जातौ । ततश्च्युत्वाऽचलजीवः शत्रुघ्नोऽभूत् । तत्प्राग्जन्ममोहवशादयं मथुराग्रही । अङ्कजीव ततश्च्युत्वाऽयं सेनापतिः कृतान्तवदनो जातः । एवमुक्त्वा तौ मुनी विजहुतुः, रामादयश्च स्वं स्वं स्थानं जग्मुः ।
इतश्च प्रभापुरपुरेशस्य श्रीनन्दनस्य धारिणीकुक्षिजाः सुरनन्दश्रीनन्द-श्रीतिलक-सर्वसुन्दर - जयन्ता ऽमर - जयमित्राः सप्त पुत्राः क्रमादभवन् । श्रीनन्दनश्च मासजातं सुतं राज्ये न्यस्य प्रीतिकरगुरोस्तैः सुतैः सह प्रावाजीत् । तत्र श्रीनन्दनो मोक्षमियाय । सुरनन्दादयश्च तपःप्रभावाज्जङ्घाचारणलब्धयो विहरन्तो मथुरा

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129