Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
me
...१७५
१७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पपात । विद्याधरीभिः कृतशीतोपचारा च लब्धसंज्ञोत्थाय करुणस्वरं मुहुर्मुहुविललाप । तां करुणं रुदती च काऽपि दयावती विद्याधर्याऽऽलोकिन्या विद्ययाऽवलोक्योवाच-'देवि ! तव देवरः प्रभाते स्वस्थो भविष्यति, रामेण सममेत्य च त्वामानन्दयिष्यति' । तद्वचसा स्वस्था च सा सूर्योदयं ध्यायन्ती जाग्रती तस्थौ । इतश्च रावणोऽपि लक्ष्मणो हत इति जहर्ष । भ्रातृ-पुत्रादिबन्धं स्मृत्वा च भृशं रुरोद मुमूर्छ च ।
इतश्च रामसैन्ये प्राग्द्वाररक्षकं भामण्डलमुपेत्य कोऽपि विद्याधरोऽब्रवीत्-'रामं दर्शय', लक्ष्मणजीवनौषधं कथयिष्यामि, युष्माकं हितोऽस्मि' । ततो भामण्डलेन पाणिना बाहौ धृत्वा नीतो रामं नत्वाऽब्रवीत्-अहं सङ्गीतपुरेशस्य शशिमण्डलनृपस्य सुप्रभाकुक्षिजः पुत्रः क्रीडार्थं सकलत्रश्चलितो नभसि सहस्रविजयनाम्ना विद्याधरेण दृष्टः । तेन कामविरोधाद् योधितशक्त्याऽऽहत्य भूतले पातितः साकेतपुर्यां माहेन्द्रोदयोद्याने भुवि लुठन् त्वद्भ्रात्राऽतिकृपालुना भरतेन दृष्टोऽहम् । गन्धाम्बुसेकाच्छक्त्या त्रातः सद्यो रूढव्रणो विस्मितो गन्धाम्बुमाहात्म्यमपृच्छम् । ____ ततो भरत उवाच-'विन्ध्यनामा सार्थवाहो गजपुरादिहाऽऽगात् । तस्य चैको महिषो मार्गे भारत्रुटितोऽपतत् । नागरजनश्च तच्छिरसि पादं न्यस्य गतागतं चकार । तदुपद्रवेण स महिषो विपन्नोऽकामनिर्जरायोगात् श्वेतङ्करपुरेशो नाम्ना पवनपुत्रो वायुकुमारः सुरोऽभूत् । स चाऽवधिना पूर्वं मृत्युं ज्ञात्वा क्रुद्धोऽस्मिन् पुरे जनपदे च नानाविधान् व्याधीन् व्यधत्त । किन्तु मन्मातुलस्य द्रोणमेघनृपस्य गृहे देशे च व्याधिर्नाऽभूत् । तत्कारणं मया पृष्टश्च द्रोणमेघोऽवदत्-'मम भार्या प्रियङ्करा पुराऽतिव्याधिपीडिताऽभूत् ।
सप्तमं पर्व - सप्तमः सर्गः जाते गर्भे च सा तत्प्रभावाद् व्याधिमुक्ता विशल्यां नाम पुत्रीं सुषुवे । विशल्यास्नानजलेन च सिक्तो लोको निर्व्याधिरभूत् ।
एकदा च मया पृष्टः सत्यभूतिशरणो मुनिर्दिशति स्म यद्'विशल्याया: पूर्वजन्मसुकृतफलमेतद् यदस्याः स्नानजलेन जनानां क्षतसंरोपणं शल्योपशमो व्याधिविनाशश्च । तथाऽस्या भर्ती लक्ष्मणो भावी । ततश्च तेन मुनिवचसा सम्यग्ज्ञानादनुभवाच्च विशल्या स्नानजलस्य प्रभावो मया निश्चितः' । एवमुक्त्वा द्रोणमेघो विशल्यास्नानजलं ममाऽऽर्पयद् येन मन्मही निर्व्याधिरभूत्। तत्स्नानजलेन मया सिक्तस्त्वमपि क्षणादेव सर्वपीडारहितोऽभूः । एवं भरतस्य मम विश्वासो जातः । तद् यावद् नोदेति भास्करस्तावदेव तज्जलमानीयताम्' ।
ततो रामो भामण्डलादीन् तज्जलानयनाय भरतं प्रति प्रेषितवान् । ते च विमानेन त्वरितमयोध्यां प्राप्य प्रासादे भरतं सुप्तं ददृशुः । ततो गीतेन तं प्रबोध्य तेन पृष्टाः सर्व वृत्तमाख्यातवन्तस्ते । स च मया तत्र गतेनैतत्कार्य सेत्स्यतीति तद्विमानमेवाऽधिरुह्य कौतुकमङ्गलं पुरं प्राप्य द्रोणघनं विशल्यां याचितवान् । स च विशल्यामुद्वाह्य स्त्रीसहस्रसहितामदत्त । भामण्डलश्च भरतमयोध्यायां मुक्त्वा सपरिवारो विशल्या सहित: समेत्य विशल्यां लक्ष्मणान्तिकं मुमोच । तस्याश्च पाणिस्पर्शमाप्य लक्ष्मणात् सहसा महाशक्तिनिर्गता समुत्पन्ती श्येनेन वर्तिकेव हनूमता गृहीतोचे-'अहं प्रज्ञप्तिभगिनी धरणेन रावणाय प्रदत्ता प्रेष्यत्वमापन्नाऽस्मि, मां मुञ्च, न मे दोषः । विशल्यातपस्तेज: सोढुमशक्ता यास्यामि' ।

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129