Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 97
________________ १७१ सप्तमं पर्व - सप्तमः सर्गः दध्यतुः-'एष पितृव्योऽस्माभिर्युद्धाय स्वयमभ्येति, तातकल्पेन तेन सह युद्धमनुचितमितीतोऽपसरामि । इमौ च शत्रू पाशबद्धौ नूनं मरिष्यत इतीहैवाऽऽसातां, यथा नो तातो नाऽन्वेति', एवं विचिन्त्य नेशतुः। १७० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दलयामास । ततो भूमिष्ठः कुम्भकर्णो हस्तेन मुद्गरमुद्यम्य सुग्रीवायाऽधावत । तस्याऽङ्गवातेन च कतिपये कपयः पेतुः । कपिभिरनिरुद्धः स सुग्रीवरथं मुद्गरेण चूर्णयामास । सुग्रीवश्च नभस्युत्पत्त्य महीयसीमेकां शिलां वज्री वज्रमिव कुम्भकर्णाय मुमोच । कुम्भकर्णश्च मुद्गरेण तां शिलां चूर्णयामास । ततः सुग्रीवो रावणानुजाय दण्डास्त्रं मुमोच । तेन ताडितश्च कुम्भकर्ण उव्या पपात । भ्रातरि मूच्छिते च रावणोऽत्यन्तं क्रुद्धः साक्षादन्तक इव स्वयमचालीत् । तत इन्द्रजिद् रावणं निषिध्य कपीन् निघ्नन् कपिसैन्यं प्रविवेश । तं च रणाय निमन्त्रयन्तं सुग्रीवो मेघवाहनं च भामण्डलः शरभः शरभमिवाऽऽयोधयितुमारेभाते । ते चत्वारश्च दिग्गजा इव गतागतैर्वसुन्धरां कम्पयन्तो बाणान् ववृषुः । तत इन्द्रजिद्-मेघवाहनौ सुग्रीव-भामण्डलयोर्नागपाशं मुमुचतुः । ततो नागपाशबद्धौ तौ नि:श्वसितुमप्यशक्तावभूताम् । इतश्च लब्धसंज्ञेन कुम्भकर्णेन रोषाद् गदया ताडितः पावनिर्मूच्छितो भुवि न्यपतत् । तं च दोष्णाऽऽदाय कुम्भकर्णोऽन्तःकक्षं न्यधत्त । ततो विभीषणो राममुवाच-'तव सैन्ये सारभूतौ भामण्डल-सुग्रीवौ रावणपुत्राभ्यां बद्धौ यावद् न लङ्कां नीयेते, तावत् तावहं मोचयामि । तथा कुम्भकर्णेन दोष्णा बद्धो हनूमान् लङ्कामप्राप्त एव मोचनीयः । तान् विना नः सैन्यमवीरमिवेत्यनुजानीहि' । तस्मिन्नेवं वदत्येवाऽङ्गदो वेगाद् गत्वाऽऽक्षिप्य कुम्भकर्णेन युयुधे । क्रोधादुत्क्षिप्तबाहौ कुम्भकर्णे हनूमान् पञ्जरात् खग इवोत्पत्य ययौ । विभीषणश्च रथस्थो भामण्डलसुग्रीवौ मोचयितुं रावणपुत्राभ्यां युयुधे । ततस्तौ रावणपुत्रौ विभीषणश्च भामण्डल-कपीश्वरौ दृष्ट्वा तत्रैवाऽस्थात् । राम-लक्ष्मणौ च सचिन्तौ तस्थतुः । ततो रामो गरुडेशं पूर्वप्रतिपन्नवरं महालोचनं देवमस्मार्षीत् । स चाऽवधिना ज्ञात्वाऽभ्येत्य रामाय सिंहनिनादाख्यां विद्यां मुसलं हलं रथं लक्ष्मणाय च गारुडी विद्यां रथं विद्युद्वदनां गदां वारुणादीनि दिव्यान्यस्त्राण्युभयोश्छत्रे च ददौ । लक्ष्मणवाहनीभूतं गरुडं दृष्ट्वा च सुग्रीव-भामण्डलयोः पाशनागास्तत्क्षणं प्रणेशुः । रामसैन्ये च सर्वतो जयजयारावो जज्ञे। रविश्चाऽस्तमुपेयाय । प्रातश्च राम-रावणसैन्यानि समराङ्गणं समीयुः । तेषां च शस्त्रास्त्रादिभिर्महारण: प्रावर्त्तत । तत्र च रक्षोबलैर्वानरबलमभञ्जि। तद् दृष्ट्वा च सुग्रीवाद्या राक्षससैन्येषु प्रविविशुः । तैश्चाऽऽक्रान्ता राक्षसा गरुडै गा इव पलायामासुः । तेन क्रुद्धो रावणो रथस्थ: स्वयं दधावे । तस्य च गच्छतोऽग्रे कोऽपि कपिवीरः स्थातुं न शशाक । तद्युद्धे प्रस्थितं रामं विभीषणो निषिध्य क्षणादेवैत्य दशग्रीवं रुरोध । तं दृष्ट्वा रावण उवाच-'त्वय्यद्याऽपि मम स्नेहः, तद् गच्छ, अद्य ससैन्यौ राम-लक्ष्मणावेव हनिष्यामि । मया दत्ताभयस्त्वं समुपेत्य स्वस्थान एव तिष्ठ' । ततो विभीषण उवाच-'त्वां प्रत्यन्तक इव स्वयं चलितो रामो मया छलाद् निषिद्धः, अहं च त्वां बोधयितुकामो

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129