Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 95
________________ सप्तमः सर्गः अथ सलक्ष्मणो रामः सुग्रीवाद्यैः परिवृतो लङ्काविजयाय नभसा प्रचचाल । भामण्डल-विराध-हनूमदादयोऽपि कोटिशो विद्याधरेन्द्राः स्वस्वसैन्यै रामं परिवृत्य चेलुः । ससैन्यो गच्छंश्च रामो वेलन्धरपर्वते वेलन्धरपुरं प्राप । तत्र च समुद्र-सेतू द्वौ नृपौ रामाग्रसैन्येनाऽयुध्येताम् । ततो नलः समुद्रं नीलश्च सेतुं बद्ध्वा रामस्याऽन्तिकमानयेताम् । रामश्च पुनरपि तौ निजे राज्ये स्थापयामास । ततः समुद्रस्तिस्रो निजकन्यका लक्ष्मणाय ददौ । तत्र निशामतिवाह्य रामः सेतु-समुद्रानुसृतः प्रातः सुवेलादि प्राप्य तत्र सुवेलं नाम नृपं जित्वा निशामुवास । प्रात: पुन: प्रस्थाय लङ्कासमीपे हंसद्वीपे हंसरथं नृपं जित्वा तत्रैव कृतनिवासस्तस्थौ । लङ्का च रामे समीपस्थेऽनिष्टशङ्कया विक्षोभं प्राप । हस्तप्रहस्तादयो रावणस्य सहस्रशः सामन्ता युद्धाय संनयन्ति स्म । रावणश्च दारुणानि रणवाद्यानि कोटिशः किङ्करैर्वादयामास । ततो विभीषणो रावणं समुपेत्य नत्वा जगाद-'क्षणं प्रसीद, मम वचो विचारय, पुरा परदारापहारेण लोकद्वयविरोधिना कुलं कलङ्कितम् । तदद्य निजभायाँ मोचयितुं रामः समुपस्थितः । तदातिथ्याय सीतां समर्पय । रामो हि सीतां ग्रहिष्यत्येव । रक्ष:कुलं चाऽशेषं त्वया सह निग्रहीष्यति । तत्पत्तिर्हनूमान् सप्तमं पर्व - सप्तमः सर्गः १६७ दृष्टपराक्रमस्त्वया । सीतानिमित्तं लोकोत्कृष्टां श्रियं मा परिहार्षीः' । तत इन्द्रजिदुवाच-'त्वमाजन्मभीरुः, इन्द्रस्याऽपि विजेतारं तातमेवं सम्भावयन् नूनं मुमूर्षुस्त्वम् । पुराऽपि त्वया दशरथवधं प्रतिज्ञाय तदप्रतिपाल्य तातस्त्वया छलितः । इहाऽऽगतं रामं च भयमुत्पाद्य ताताद् रक्षितुमिच्छसि, तन्मन्ये त्वं रामपक्षेऽसि । ततस्त्वं न मन्वयोग्यः' । तच्छ्रुत्वा विभीषण: पुनरुवाच-'नाऽहं शत्रुपक्षे, त्वमेव पुत्ररूपेण कुलनाशनः शत्रुरुत्पन्नः । पिता तवैश्वर्य-कामान्धः, त्वं च जन्मान्ध इव न किमपि वेत्सि । नृप ! अनेन पुत्रेण निजेन चरित्रेण चाऽचिरादेव विनक्ष्यसि, त्वत्कृते मुधैव शोचामि' । तेन चाऽधिकं क्रुद्धो रावणः खड्गमाकृष्य विभीषणवधायोदस्थात् । विभीषणोऽपि क्रुधा दीर्घ स्तम्भमुत्पाटय योद्धमुत्तस्थौ । कुम्भकर्ण इन्द्रजिच्च मध्ये पतित्वा तौ युद्धाद् निवार्य द्विपौ गजशालामिव स्वं स्थानं नीतवान् । अथ रावणेनाऽग्निवदाश्रयनाश इति मत्पुर्या निर्याहीति निर्भत्सितो विभीषण उपराममगात् । रक्षो-विद्याधराणां त्रिंशदक्षौहिण्यश्चाऽपि लडेशं विहाय विभीषणमनुजग्मुः । ततस्तमागच्छन्तं दृष्ट्वा सुग्रीवाद्याः क्षोभमुपाययुः । विभीषणोऽपि दूतं प्रेष्य रामाय स्वमजिज्ञपत् । रामश्च सुग्रीवमुखं प्रेक्षत । ततः सुग्रीव उवाच-'यद्यप्येते आजन्म च्छलिनः, तथाऽप्यसाविहाऽऽयातु, परैरस्य शुभा-ऽशुभं भावं ज्ञास्यामि' । ततस्तदभिज्ञो विशालो नाम खेचर उवाच-'विभीषणो राक्षसेष्वेको महात्मा धार्मिकश्च । सीतार्पणायोपदिशन्नयं भ्रात्रा

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129