Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कमपि प्राप्तवान् । अस्माभिस्तं ज्ञातुं विद्यासाधनमारब्धम् । अङ्गारकेण च तदसहमानेन विहित उपसर्गस्त्वया शमितः । षड्भिर्मासैः सिद्धियोग्या च विद्या त्वत्साहाय्यात् क्षणात् सिद्धा मनोगामिनी नाम । त्वं निष्कारणबन्धुरसि" । ततः स्वकीयं लङ्काप्रवेशं रामात् साहसगतेर्वधं च हनूमत्कथितं प्रत्याय मुदितास्ता गत्वा पितरं कथयामासुः । सोऽपि ताभिः सह द्रुतमेव सद्यो राममुपाजगाम ।
हनूमांश्च लां प्राप्य शालिका विद्यां दृष्ट्वा भोजनार्थ व्यात्तमुखास्तस्या मुखं गदापाणिः प्रविश्य तां विदार्य निर्ययौ । तया विद्याशक्त्या कृतं प्राकारं कर्परवद् भङ्क्त्वा तत्प्राकाररक्षं क्रुद्धं वज्रमुखं युद्धप्रवृत्तं सोऽवधीत् । ततः कोपाद् विद्याबलमाधाय तत्पुत्रीं लङ्कासुन्दरी प्रहरन्तीमनिरस्त्रां विधाय हनूमांस्तया कामार्त्तया दृष्ट उक्तश्च-'मया पितृवधक्रुधा मुधैव योधितोऽसि, त्वत्पितृघातकस्ते भर्ता भविष्यतीति मुन्युक्त्यनुसारेण वशगां मां स्वीकुरु' । ततस्तां गान्धर्वेण विवाहेन स सानुरागं स्वीकृतवान् । तया रममाणश्च तां रात्रिमतिवाह्य हनुमाल्लङ्कासुन्दरीमापृच्छय लङ्का प्राविशत् । तत्र विभीषणस्य सद्म प्राप्य तेन सत्कृत आगमकारणं पृष्टश्च 'सीतां मुञ्च, रामपत्नीहरणं हि विपत्तये' इत्युक्तवान् हनूमान् । ___पुरेत्थं बोधितोऽपि रावणः पुनरपि बोधयिष्यते मये'ति विभीषणेनोक्तश्च देवरमणोद्याने जगाम सः । रामध्यानपरायणां विरहार्ता सीतां दृष्ट्वा तां प्रशस्य रामविरहं समर्थ्य रावणमाक्रुश्य विद्यातिरोहित: सीताक्रोडेऽङ्गुलीयं पातयामास हनूमान् । तद् दृष्ट्वा च साऽत्यन्तं मुमुदे । त्रिजटा च तदैव विषण्णायाः
सप्तमं पर्व - षष्ठः सर्गः सीतायाः प्रमोदोद्गमं रावणं निवेदितवती । रावणश्च तां वशगामनुमाय मन्दोदरीं तां बोधयितुं प्रेरितवान् । मन्दोदरी च गत्वाऽऽवर्जयितुं सीतामुक्तवती-'रूपेण त्वमैश्वर्य-सौन्दर्याभ्यां च दशग्रीवोऽप्रतिमौ, तद्रावणं भजस्व' । तच्छ्रुत्वा सीताऽप्यवोचत्'पापे ! कस्त्वद्भर्तुर्मुखं वीक्षेत ? रामस्य पार्श्वे मामिहाऽऽगतं लक्ष्मणं च खरादीनिव सकुटुम्बं हतं रावणं च विद्धि । उत्तिष्ठ, अतः परं त्वया न वाच्यम्' । तयैवं तजिता सा मन्दोदरी सकोपा निजस्थानं ययौ ।
अथ हनूमान् प्रकटीभूय नत्वा कृताञ्जलि: सीतामब्रवीत्'देवि ! दिष्ट्या रामः सलक्ष्मणो जयति । त्वत्प्रवृत्त्यर्थं रामेणाऽऽदिष्टोऽहमिहाऽऽगमम् । मयि तत्र गते रामः सपरिच्छद इहाऽऽगमिष्यति । ततः साश्रुनेत्रा सीता तमपृच्छत्-त्वं कोऽसि दुर्लद्ध्यं सागरं कथं लचितवानसि, मम दयितो राम सलक्ष्मणः प्राणिति कच्चित्, स क्वाऽऽस्ते, कथं कालं नयति ?' ततो हनूमानुवाच-'अहं हनूमान् पवना-ऽजनयोः पुत्रो विद्यया विमानेन सागरमुल्लध्येहाऽऽगतोऽस्मि । रामस्त्वद्वियोगातॊ लक्ष्मणोऽपि सौख्यशून्य एवाऽऽस्ते । भामण्डलाद्याश्च विद्याधरास्तावुपास्ते। सुग्रीवदर्शितोऽहं तव प्रवृत्तिमानेतुं रामेण स्वाङ्गुलीयकं समर्प्य प्रेषितोऽस्मि । त्वयाऽर्पितं चूडामण्यभिज्ञानं दृष्ट्वा मामत्राऽऽयातं प्रत्येष्यति प्रभुः' । ततो हनूमदाग्रहेण रामप्रवृत्तिहर्षेण च सैकविंशत्यहोरात्रप्रान्ते भोजनं चकार । तथा चूडामण्यभिज्ञानं गृहीत्वेतः शीघ्रं गच्छ, अन्यथोपद्रवो भावी । अत्र त्वामागतं ज्ञात्वा राक्षसा हन्तुमागमिष्यन्तीति हनुमन्तमवोचच्च ।

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129